वामनपुराणम्/पञ्चमोऽध्यायः
पुलस्त्य उवाच
जटाधरं हरिर्दृष्ट्वा क्रोधादारक्तलोचनम्।
तस्मात् स्थानादपाक्रम्य कुब्जाम्रेऽन्तर्हितः स्थितः।। ५-१
वसवोऽष्टौ हरं दृष्ट्वा सुस्रुवुर्वेगतो मुने।
सा तु जाता सरिच्छ्रेष्ठा सीता नाम सरस्वती।। ५-२
एकादश तथा रुद्रास्त्रिनेत्रा वृषकेतनाः।
कान्दिशीका लयं जग्मुः समभ्येत्यैव शंकरम्।। ५-३
विश्वेऽश्विनौ च साध्याश्च मरुतोऽनलभास्कराः।
समासाद्य पुरोडाशं भक्षयन्तो महामुने।। ५-४
चन्द्रः सममृक्षगणैर्निशां समुपदर्शयन्।
उत्पत्यारुह्य गगनं स्वमधिष्ठानमास्थितः।। ५-५
कश्यपाद्याश्च ऋषयो जपन्तः शतरुद्रियम्।
पुष्पाञ्जलिपुटा भूत्वा प्रणताः संस्थिता मुने।। ५-६
असकृद् दक्षदयिता दृष्ट्वा रुद्रं बलाधिकम्।
शक्रादीनां सुरेशानां कृपणं विललाप ह।। ५-७
ततः क्रोधाभिभूतेन शंकरेण महात्मना।
तलप्रहारैरमरा बहवो विनिपातिताः।। ५-८
पादप्रहारैरमरा त्रिशुलेनापरे मुने।
दृष्ट्यग्निना तथैवान्ये देवाद्याः प्रलयीकृताः।। ५-९
ततः पूषा हरं वीक्ष्य विनिघ्नन्तं सुरासुरान्।
क्रोधाद् बाहू प्रसार्याथ प्रदुद्राव महेश्वरम्।। ५-१०
तमापतन्तं भगवान् संनिरीक्ष्य त्रिलोचनः।
बाहुभ्यां प्रतिजग्राह करेणैकेन शंकरः।। ५-११
कराभ्यां प्रगृहीतस्य शंभुनांशुमतोऽपि हि।
कराङ्गुलिभ्यो निश्चेरुरसृग्धाराः समन्ततः।। ५-१२
ततो वेगेन महता अंशुमन्तं दिवाकरम्।
भ्रामयामास सततं सिंहो मृगशिशुं यथा।। ५-१३
भ्रामितस्यातिवेगेन नारदांशुमतोऽपि हि।
भुजौ हृस्वत्वमापन्नौ त्रुटितस्नायुबन्धनौ।। ५-१४
रुधिराप्लुतसर्वाङ्गमंशुमन्तं महेश्वरः।
संनिरीक्ष्योत्ससर्जैनमन्यतोऽभिजगाम ह।। ५-१५
ततस्तु पूषा विहसन् दशनानि विदर्शयन्।
प्रोवाचैह्येहि कापालिन् पुनः पुनरथेश्वरम्।। ५-१६
ततः क्रोधाभिभूतेन पूष्णे वेगेन शंभुना।
मुष्टिनाहत्य दशनाः पातिता धरणीतले।। ५-१७
भग्नदन्तस्तथा पूषा शोणिताभिप्लुताननः।
पपात भुवि निःसंज्ञो वज्राहत इवाचलः।। ५-१८
भगोऽभिवीभ्य पूषाणं पतितं रुधिरोक्षितम्।
नेत्राभ्यां घोररूपाभ्यां वृषध्वजमवैक्षत।। ५-१९
त्रिपुरघ्नस्ततः क्रुद्धस्तलेनाहत्य चक्षुषी।
निपातयामास भुवि क्षोभयन्सर्वदेवताः।। ५-२०
ततो दिवाकराः सर्वे पुरस्कृत्य शतक्रतुम्।
मरुद्भिश्च हुताशैश्च भयाज्जग्मुर्दिशो दश ।। ५-२१
प्रतियातेषु देवेषु प्रह्लादाद्या दितीश्वराः।
नमस्कृत्य ततः सर्वे तस्थुः प्राञ्जलयो मुने।। ५-२२
ततस्तं यज्ञवाटं तु शंकरो घोरचक्षुषा।
ददर्श दग्धुं कोपेन सर्वांश्चैव सुरासुरान्।। ५-२३
ततो निलिल्यिरे वीराः प्रणेमुर्दुद्रुवुस्तथा।
भयादन्ये हरं दृष्ट्वा गता वैवस्वतक्षयम्।। ५-२४
त्रयोऽग्नयस्त्रिभिर्नेत्रैर्दुःसहं समवैक्षत।
दृष्टमात्रास्त्रिनेत्रेण भस्मीभूताभवन् क्षणात्।। ५-२५
अग्नौ प्रणष्टे यज्ञोऽपि भूत्वा दिव्यवपुर्मृगः।
दुद्राव विक्लवगतिर्दक्षिणा सहितोऽम्बरे।। ५-२६
तमेवानुससारेशश्चापमानम्य वेगवान्।
शरं पाशुपतं कृत्वा कालरूपी महेश्वरः।। ५-२७
अर्द्धेन यज्ञवाटान्ते जटाधर इति श्रुतः।
अर्द्धेन गगने शर्वः कालरूपी च कथ्यते।। ५-२८
नारद उवाच
कालरूपी त्वयाख्यातः शंभुर्गगनगोचरः।
लक्षणं च स्वरूपं च सर्वं व्याख्यातुमर्हसि।। ५-२९
पुलस्त्य उवाच
स्वरूपं त्रिपुरघ्नस्य वदिष्ये कालपूपिणः।
येनाम्बरं मुनिश्रेष्ठ व्याप्तं लोकहितेप्सुना।। ५-३०
यत्राश्विनी च भरणी कृत्तिकायास्तथांशकः।
मेषो राशिः कुजक्षेत्रं तच्छिरः कालरूपिणः।। ५-३१
आग्नेयांशास्त्रयो ब्रह्मन् प्राजापत्यं कवेर्गृहम्।
सौम्यार्द्धं वृषनामेदं वदनं परिकीर्तितम्।। ५-३२
मृगार्द्धमार्द्रादित्यांशास्त्रयः सौम्यगृहं त्विदम्।
मिथुनं भुजयोस्तस्य गगनस्थस्य शूलिनः।। ५-३३
आदित्यांशश्च पुष्यं च आश्लेषा शशिनो गृहम्।
राशिः कर्कटको नाम पार्श्वे मखविनाशिनः। ५-३४
पित्र्यर्क्षं भगदैवत्यमुत्तरांशश्च केसरी।
सूर्यक्षेत्रं विभोर्ब्रह्मन् हृदयं परिगीयते।। ५-३५
उत्तरांशास्त्रयः पाणिश्चित्रार्धं कन्यका त्वियम्।
सोमपुत्रस्य सद्मैतद् द्वितीयं जठरं विभोः।। ५-३६
चित्रांशद्वितयं स्वातिर्विशाखायां शकत्रयम्।
द्वितीयं शुक्रसदनं तुला नाभिरुदाहृता।। ५-३७
विशाखां शमनूराधा ज्येष्ठा भौमगृहं त्विदम्।
द्वितीयं वृश्चिको राशिर्मेढ्रं कालस्वरूपिणः।। ५-३८
मूलं पूर्वोत्तरांशश्च देवाचार्यगृहं धनुः।
ऊरुयुगलमीशस्य अमरर्षे प्रगीयते।। ५-३९
उत्तरांशास्त्रयो ऋक्षं श्रवणं मकरो मुने।
धनिष्ठार्धं शतभिषा जानुनी परमेष्ठिनः।। ५-४०
धनिष्ठार्धं शतभिषा प्रौष्ठपद्यांशकत्रयम्।
सौरेः सद्मापरमिदं कुम्भो जङ्घे च विश्रुते।। ५-४१
प्रोष्ठपद्यांशमेकं तु उत्तरा रेवती तथा।
द्वितीयं जीवसदनं मीनस्तु चरणावुभौ।। ५-४२
एवं कृत्वा कालरूपं त्रिनेत्रो यज्ञं क्रोधान्मार्गणैराजघान।
विद्धश्चासौ वेदनाबुद्धिमुक्तः खे संतस्थौ तारकाभिश्चिताङ्गः।। ५-४३
नारद उवाच
राशयो गदिता ब्रह्मंस्त्वया द्वादश वै मम।
तेषां विशेषतो ब्रूहि लक्षणानि स्वरूपतः।। ५-४४
पुलस्त्य उवाच
स्वरूपं तव वक्ष्यामि राशीनां श्रृणु नारद।
यादृशा यत्र संचारा यस्मिन् स्थाने वसन्ति च।। ५-४५
मेषः समानमूर्तिश्च अजाविकधनादिषु।
संचारस्थानमेवास्य धान्यरत्नाकरादिषु।। ५-४६
नव शाद्वलसंछन्न वसुधायां च सर्वशः।
नित्यं चरति फुल्लेषु सरसां पुलिनेषु च।। ५-४७
वृषः सदृशरूपो हि चरते गोकुलादिषु।
तस्याधिवासभूमिस्तु कुषीवलधराश्रयः।। ५-४८
स्त्रीपुंसयोः समं रूपं शय्यासनपरिग्रहः।
वीणावाद्यधृङ् मिथुनं गीतनर्तकशिल्पिषु।। ५-४९
स्थितः क्रीडारतिर्नित्यं विहारावनिरस्य तु।
मिथुनं नाम विख्यातं राशिर्द्वेधात्मकः स्थितः।। ५-५०
कर्किः कुलीरेण समः सलिलस्थः प्रकीर्तितः।
केदारवापी पुलिने विविक्तावनिरेव च।। ५-५१
सिंहस्तु पर्वतारण्यदुर्गकन्दरभूमिषु।
वसते व्याधपल्लीषु गह्वरेषु गुहासु च।। ५-५२
व्रीहिप्रदीपिककरा नावारूढा च कन्यका।
चरते स्त्रीरतिस्थाने वसते नड्वलेषु च।। ५-५३
तुलापाणिश्च पुरुषो वीथ्यापणविचारकः।
नगराध्वानशालासु वसते तत्र नारद।। ५-५४
श्वभ्रवल्मीकसंचारी वृश्चिको वृश्चिकाकृतिः।
विषगोमयकीटादि पाषाणादिषु संस्थितः।। ५-५५
धनुस्तु रङ्गजघनो दीप्यमानो धनुर्धरः।
वाजिशूरास्त्रविद्वीरः स्थायी गजरथादिषु।। ५-५६
मृगास्यो मकरो ब्रह्मन् वृषस्कन्धेक्षणाङ्गजः।
मकरोऽसौ नदीचारी वसते च महोदधौ।। ५-५७
रिक्तकुम्भश्च पुरुषः स्कन्धधारी जलाप्लुतः।
द्यूतशालाचरः कुम्भः स्थायी शौण्डिकसद्मसु।। ५-५८
मीनद्वयमथासक्तं मीनस्तीर्थाब्धिसंचरः।
वसते पुण्यदेशेषु देवब्राह्मणसद्मसु।। ५-५९
लक्षणा गदितास्तुभ्यं मेषादीनां महामुने।
न कस्यचित् त्वयाख्येयं गुह्यमेतत्पुरातनम्।। ५-६०
एतन् मया ते कथितं सुरर्षे यथा त्रिनेत्रः प्रममाथ यज्ञम्।
पुण्यं पुराणं परमं पवित्रमाख्यातवान्पापहरं शिवं च।। ५-६१
इति श्रीवामनपुराणे पञ्चमोऽध्यायः ।। ५ ।।