प्रमुखा विकल्पसूचिः उद्घाट्यताम्
  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः
  47. सप्तचत्वारिंशत्तमोऽध्यायः
  48. अष्टचत्वारिंशत्तमोऽध्यायः
  49. नवचत्वारिंशत्तमोऽध्यायः
  50. पञ्चाशत्तमोऽध्यायः
  51. एकपञ्चाषत्तमोऽध्यायः
  52. द्विपञ्चाषत्तमोऽध्यायः
  53. त्रिपञ्चाषत्तमोऽध्यायः
  54. चतुष्पञ्चाषत्तमोऽध्यायः
  55. पञ्चपञ्चाषत्तमोऽध्यायः
  56. षट्पञ्चाषत्तमोऽध्यायः
  57. सप्तपञ्चाषत्तमोऽध्यायः
  58. अष्टपञ्चाषत्तमोऽध्यायः
  59. नवपञ्चाषत्तमोऽध्यायः
  60. षष्टितमोऽध्यायः
  61. एकषष्टितमोऽध्यायः
  62. द्विषष्टितमोऽध्यायः
  63. त्रिषष्टितमोऽध्यायः
  64. चतुष्षष्टितमोऽध्यायः
  65. पञ्चषष्टितमोऽध्यायः
  66. षड्षष्टितमोऽध्यायः
  67. सप्तषष्टितमोऽध्यायः
  68. अष्टषष्टितमोऽध्यायः
  69. नवषष्टितमोऽध्यायः
  70. सप्ततितमोऽध्यायः
  71. एकसप्ततितमोऽध्यायः
  72. द्विसप्ततितमोऽध्यायः
  73. त्रिसप्ततितमोऽध्यायः
  74. चतुस्सप्ततितमोऽध्यायः
  75. पञ्चसप्ततितमोऽध्यायः
  76. षट्सप्ततितमोऽध्यायः
  77. सप्तसप्ततितमोऽध्यायः
  78. अष्टसप्ततितमोऽध्यायः
  79. नवसप्ततितमोऽध्यायः
  80. अशीतितमोशऽध्यायः
  81. एकाशीतितमोऽध्यायः
  82. द्व्यशीतितमोऽध्यायः
  83. त्र्यशीतितमोऽध्यायः
  84. चतुरशीतितमोऽध्यायः
  85. पञ्चाशीतितमोऽध्यायः
  86. षडशीतितमोऽध्यायः
  87. सपाशीतितमोऽध्यायः
  88. अष्टाशीतितमोऽध्यायः
  89. नवाशीतितमोऽध्यायः
  90. नवतितमोऽध्यायः
  91. एकनवतितमोऽध्यायः
  92. द्विनवतितमोऽध्यायः
  93. त्रिनवतितमोऽध्यायः
  94. चतुर्नवतितमोऽध्यायः
  95. पञ्चनवतितमोऽध्यायः
  96. षण्णवतितमोऽध्यायः

नारद उवाच
यदेतद् भवता प्रोक्तं सुकेशिनगरोऽम्बरात्।
पातितो भुवि सूर्येण तत्कदा कुत्र कुत्र च ।। ११.१

सुकेशीति च कश्चासौ केन दत्तः पुरोऽस्य च।
किमर्थं पातितो भूम्यामाकाशाद् भास्करेण हि।। ११.२

पुलस्त्य उवाच
श्रृणुष्वावहितो भूत्वा कथामेतां पुरातनीम्।
यथोक्तवान् स्वयंभूर्मां कथ्यमानां मयाऽनघ।। ११.३

आसीन्निशाचरपतिर्विद्युत्केशीति विश्रुतः।
तस्य पुत्रो गुणज्येष्ठः सुकेशिरभवत्ततः।। ११.४

तस्य तुष्टस्तथेशानः पुरमाकाशचारिणम्।
प्रादादजेयत्वमपि शत्रुभिश्चाप्यवध्यताम्।। ११.५

स चापि शंकरात् प्राप्य वरं गगनगं पुरम्।
रेमे निशाचरैः सार्द्धं सदा धर्मपथि स्थितः।। ११.६

स कदाचिद् गतोऽरण्यं मागधं राक्षसेश्वरः।
तत्राश्रमांस्तु ददृशे ऋषीणां भावितात्मनाम्।। ११.७

महर्षिन् स तदा दृष्ट्वा प्रणिपत्याभिवाद्य च।
प्रत्युवाच ऋषीन् सर्वान् कृतासनपरिग्रहः।। ११.८

सुकेशिरुवाच
प्रष्टुमिच्छामि भवतः संशयोऽयं हृदि स्थितः।
कथयन्तु भवन्तो मे न चैवाज्ञापयाम्यहम्।। ११.९

किंस्विच्छ्रेयः परे लोके किमु चेह द्विजोत्तमाः।
केन पूज्यस्तथा सत्सु केनासौ सुखमेधते।। ११.१०

पुलस्त्य उवाच
इत्थं सुकेशिवचनं निशम्य परमर्षयः।
प्रोचुर्विमृश्य श्रेयोऽर्थमिह लोके परत्र च।। ११.११

ऋषय ऊचुः
श्रूयतां कथयिष्यामस्तव राक्षसपुंगव।
यद्धि श्रेयो भवेद् वीर इह चामुत्र चाव्ययम्।। ११.१२

श्रेयो धर्मः परे लोके इह च क्षणदाचर।
तस्मिन् समाश्रितः सत्सु पूज्यस्तेन सुखी भवेत्।। ११.१३

सुकेशिरुवाच
किं लक्षणो भवेद् धर्मः किमाचरणसत्क्रियः।
यमाश्रित्य न सीदन्ति देवाद्यास्तु तदुच्यताम्।। ११.१४

ऋषय ऊचुः
देवानां परमो धर्मः सदा यज्ञादिकाः क्रियाः।
स्वाध्यायवेदवेत्तृत्वं विष्णुपूजारतिः स्मृता।। ११.१५

दैत्यानां बाहुशलित्वं मात्सर्यं युद्धसत्क्रिया।
वेदनं नीतिशास्त्राणां हरभक्तिरुदाहृता।। ११.१६

सिद्धानामुदितो धर्मो योगयुक्तिरनुत्तमा।
स्वाध्यायं ब्रह्मविज्ञानं भक्तिर्द्वाभ्यामपि स्थिरा।। ११.१७

उत्कृष्टोपासनं ज्ञेयं नृत्यवाद्येषु वेदिता।
सरस्वत्यां स्थिरा भक्तिर्गान्धर्वो धर्म उच्यते।। ११.१८

विद्याधरत्वमतुलं विज्ञानं पौरुषे मतिः।
विद्याधराणां धर्मोऽयं भवान्यां भक्तिरेव च।। ११.१९

गन्धर्वविद्या वेदित्वं भक्तिर्भानौ तथा स्थिरा।
कौशल्यं सर्वशिल्पानां धर्मः किंपुरुषः स्मृतः।। ११.२०

ब्रह्मचर्यममानित्वं योगाभ्यासरतिर्दृढा।
सर्वत्र कामचारित्वं धर्मोऽयं पैतृकः स्मृतः।। ११.२१

ब्रह्मचर्यं यताशित्वं जप्यं ज्ञानं च राक्षस।
नियमाद्धर्मवेदित्वमार्षो धर्मः प्रचक्ष्यते।। ११.२२

स्वाध्यायं ब्रह्मचर्यं च दानं यजनमेव च।
अकार्पण्यमनायासं दयाऽहिंसा क्षमा दमः।। ११.२३

जितेन्द्रियत्वं शौचं च माङ्गल्यं भक्तिरच्युते।
शंकरे भास्करे देव्यां धर्मोऽयं मानवः स्मृतः।। ११.२४

धनाधिपत्यं भोगानि स्वाध्यायं शंकरार्चनम्।
अहंकारमशौण्डीर्यं धर्मोऽयं गुह्यकेष्विति।। ११.२५

परदारावमर्शित्वं पारक्येऽर्थे च लोलुपा।
स्वाध्यायं त्र्यम्बके भक्तिर्धर्मोऽयं राक्षसः स्मृतः।। ११.२६

अविवेकमथाज्ञानं शौचहानिरसत्यता।
पिशाचानामयं धर्मः सदा चामिषगृध्नुता।। ११.२७

योनयो द्वादशैवैतास्तासु धर्माश्च राक्षस।
ब्रह्मणा कथिताः पुण्या द्वादशैव गतिप्रदाः।। ११.२८

सुकेशिरुवाच
भवद्भिरुक्ता ये धर्माः शाश्वता द्वादशाव्ययाः।
तत्र ये मानवा धर्मास्तान् भूयो वक्तुमर्हथ।। ११.२९

ऋषयऊचुः
श्रृणुष्व मनुजादीनां धर्मास्तु क्षणदाचर।
ये वसन्ति महीपृष्ठे नरा द्वीपेषु सप्तसु।। ११.३०

योजनानां प्रमाणेन पञ्चाशत्कोटिरायता।
जलोपरि महीयं हि नौरिवास्ते सरिज्जले।। ११.३१

तस्योपरि च देवेशो ब्रह्म शौलेन्द्रमुत्तमम्।
कर्णिकाकारमत्युच्चं स्थापयामास सत्तम।। ११.३२

तस्येमां निर्ममे पुण्यां प्रजां देवश्चतुर्दिशम्।
स्थानानि द्वीपसंज्ञानि कृतवांश्च प्रजापतिः।। ११.३३

तत्र मध्ये च कृतवाञ्जम्बूद्वीपमिति श्रुतम्।
तल्लक्षं योजनानां च प्रमाणेन निगद्यते।। ११.३४

ततो जलनिधी रौद्रो बाह्यतो द्विगुणः स्थितः।
तस्यापि द्विगुणः प्लक्षो बाह्यतः संप्रतिष्ठितः।। ११.३५

ततस्त्विक्षुरसोदश्च बाह्यतो वलयाकृतिः।
द्विगुणः शाल्मलिद्वीपो द्विगुणोऽस्य महोदधेः।। ११.३६

सुरोदो द्विगुणस्तस्य तस्माच्च द्विगुणः कुशः।
घृतोदो द्विगुणश्चैव कुशद्वीपात् प्रकीर्तितः।। ११.३७

घृतोदाद् द्विगुणः प्रोक्तः क्रौञ्चद्वीपो निशाचर।
ततोऽपि द्विगुणः प्रोक्तः समुद्रो दधिसंज्ञितः।। ११.३८

समुद्राद् द्विगुणः शाकः शाकाद् दुग्धाब्धिरुत्तमः।
द्विगुणः संस्थितो यत्र शेषपर्यङ्कगो हरिः।
एते च द्विगुणाः सर्वे परस्परमपि स्थिताः।। ११.३९

चत्वारिंशदिमाः कोट्यो लक्षाश्च नवतिः स्मृताः।
योजनानां राक्षसेन्द्र पञ्च चाति सुविस्तृताः।
जम्बूद्वीपात् समारभ्य यावत्क्षीराब्धिरन्ततः।। ११.४०

तस्माच्च पुष्करद्वीपः स्वादूदस्तदनन्तरम्।
कोट्यश्चतस्रो लक्षाणां द्विपञ्चाशच्च राक्षस।। ११.४१

पुष्करद्वीपमानोऽयं तावदेव तथोदधिः।
लक्षमण्डकटाहेन समन्तादभिपूरितम्।। ११.४२

एवं द्वीपास्त्विमे सप्त पृथग्धर्माः पृथक्‌क्रियाः।
गदिष्यामस्तव वयं श्रृणुष्व त्वं निशाचर।। ११.४३

प्लक्षादिषु नरा वीर ये वसन्ति सनातनाः।
शाकान्तेषु न तेष्वस्ति युगावस्था कथंचन।। ११.४४

मोदन्ते देववत्तेषां धर्मो दिव्य उदाहृतः।
कल्पान्ते प्रलयस्तेषां निगद्येत महाभुज।। ११.४५

ये जनाः पुष्करद्वीपे वसन्ते रौद्रदर्शने।
पैशाचमाश्रिता धर्मं कर्मान्ते ते विनाशिनः।। ११.४६

सुकेशिरुवाच
किमर्थं पुष्करद्वीपो भवद्भिः समुदाहृतः।
दुर्दर्शः शौचरहितो घोरः कर्मान्तनाशकृत्।। ११.४७

तस्मिन् निशाचर द्वीपे नरकाः सन्ति दारुणाः।
रौरवाद्यास्ततो रौद्रः पुष्करो घोरदर्शनः।। ११.४८

सुकेशिरुवाच
कियन्त्येतानि रौद्राणि नरकाणि तपोधनः।
कियन्मात्राणि मार्गेण का च तेषु स्वरूपता।। ११.४९

ऋषय ऊचुः
श्रृणुष्व राक्षसश्रेष्ठ प्रमाणं लक्षणं तथा।
सर्वेषां रौरवादीनां संख्या या त्वेकविंशतिः।। ११.५०

द्वे सहस्रे योजनानां ज्वलिताङ्गारविस्तृते।
रौरवो नाम नरकः प्रथमः परिकीर्त्तितः।। ११.५१

तप्तताम्रमयी भूमिरधस्ताद्वह्नितापिता।
द्वितीयो द्विगुणस्तस्मान्महारौरव उच्यते।। ११.५२

ततोऽपि द्विःस्थितश्चान्यस्तमिस्रो नरकः स्मृतः।
अन्धतामिस्रको नाम चतुर्थो द्विगुणः परः।। ११.५३

ततस्तु कालचक्रेति पञ्चमः परिगीयते।
अप्रतिष्ठं च नरकं घटीयन्त्रं च सप्तमम्।। ११.५४

असिपत्रवनं चान्यत्सहस्राणि द्विसप्ततिः।
योजनानां परिख्यातमष्टमं नरकोत्तमम्।। ११.५५

नममं तप्तकुम्भं च दशमं कूटशाल्मलिः।
करपत्रस्तथैवोक्तस्तथाऽन्यः श्वानभोजनः।। ११.५६

संदंशो लोहपिण्डश्च करम्भसिकता तथा।
घोरा क्षारनदी चान्या तथान्यः कृमिभोजनः।
तथाऽष्टादशमी प्रोक्ता घोरा वैतरणी नदी।। ११.५७

तथाऽपरः शोणितपूयभोजनः क्षुराग्रधारो निशितश्च चक्रकः।
संशोषणो नाम तथाप्यनन्तः प्रोक्तास्तवैते नरकाः सुकेशिन्।। ११.५८

इति श्रीवामनपुराणे एकादशोऽध्यायः ।। ११ ।।