विष्णुसंहिता/पटलः १३
← पटलः १२ | विष्णुसंहिता पटलः १३ [[लेखकः :|]] |
पटलः १४ → |
विष्णुसंहितायाः पटलाः |
---|
।। अथ त्रयोदशः पटलः ।।
अथ वक्ष्यामि संक्षेपात् प्रासादविधिमुत्तमम्।
यत्क्रियाव्यवसायोऽपि सद्यः सर्वाघनाशनः।। 13.1 ।।
अष्टेष्टकानिधानेऽपि फलं वक्तुं न शक्यते।
अनुमेयं हि तेनैव फलं प्रासादविस्तरे।। 13.2 ।।
सर्वयज्ञतपोदानतीर्थवेदेषु यत् फलम्।
तत् सर्वं कोटिगुणितं यजमानस्य जायते।। 13.3 ।।
द्रव्यसंस्थानभेदाच्च फलं भूयोऽस्य वर्धते।
हितं नातः परं तस्माच्छक्तैः कार्यं तु सर्वथा।। 13.4 ।।
वृषाभ्यां कपिलाभ्यां तु समाभ्यां प्राङ्मुखो गुरुः।
कृष्ट्वाऽसनमयैरेव यष्टीयुगहलैर्भुवम्।। 13.5 ।।
द्वादशाक्षरमन्त्रेण नववस्त्राद्यलंकृतः।
शम्यासमीकृते गोभिः सस्यमुत्पाद्य खादयेत्।। 13.6 ।।
पुनः कृष्ट्वेष्टकाधानं कुर्याद् द्वारे तु कल्पिते।
द्वारस्य दक्षिणे भागे कर्तव्या प्रथमेष्टका।। 13.7 ।।
उल्लेखाद्याज्यभागान्तं कृत्वोदक्स्थण्डिले क्रमात्।
पक्वं च विष्णुगायत्र्या हुत्वाऽथाज्याहुतीः क्रमात्।। 13.8 ।।
व्यस्तौरष्टाक्षरैरष्टौ व्याहृतीन्द्रादिभिस्ततः।
अग्नये चैव सोमाय ग्रहेभ्योऽपि यथाक्रमम्।। 13.9 ।।
नक्षत्रेभ्यश्च भूतेभ्यो नागेभ्य इति चैव हि।
देवताभ्यश्च सर्वाभ्यो विश्वेभ्यश्चेति देशिकः।। 13.10 ।।
विष्णवे चेति हुत्वाऽन्ते व्याहृतीर्जुहुयात् ततः।
समिदाज्यचरून् हुत्वा गायत्र्याऽष्टोत्तरं शतम्।। 13.11 ।।
ततः स्विष्टकृतं हुत्वा होमशेषं समाप्य च।
इष्टकासु च मूलेन सम्पाताज्यं समर्पयेत्।। 13.12 ।।
अश्वत्थशङ्कुना रेखाः पूर्वाग्राश्चोत्तराग्रकाः।
तारेणाष्टौ समालिख्य प्राङ्मुखः सुसमाहितः।। 13.13 ।।
चतुरश्रे चतुष्कोष्ठे न्यस्याग्न्यनिलकोष्ठयोः।
पूर्वाग्रसूत्रे सौम्याग्रे तथैव निर्ऋतीशयोः।। 13.14 ।।
स्थित्वा कृताञ्जलिः पश्चाद् ध्यात्वा देवमधोक्षजम्।
मूलमष्टशतं जप्त्वा द्वादशाक्षरमेव च।। 13.15 ।।
ततः स्वाक्षरसङ्खयातो जपेदष्टाक्षरं बुधः।
प्रभुं तं प्रणतो ध्यात्वा कोष्ठेष्वष्टभिरक्षरैः।। 13.16 ।।
अग्न्यादीन्द्रान्तमष्टौ ता इष्टका विन्यसेत् क्रमात्।
उपानड्वत् प्रयुञ्जीत वर्जयेन्निम्नमुन्नतम्।। 13.17 ।।
इष्टकास्तु निधायैवं श्वभ्रं सम्पूर्य वारिभिः।
सम्पातरत्नगन्धाढ्यैर्विमलैस्तु सुगन्धिभिः।। 13.18 ।।
कलशैः पूरितैः पूर्वमर्चितैर्मन्त्रसंस्कृतैः।
शुक्लपुष्पाक्षतान् न्यस्य तारेणावर्तमीक्षयेत्।। 13.19 ।।
शुभाशुभाविहावर्तौ ज्ञातव्यौ दक्षिणोत्तरौ।
शाल्यादिक्षेत्रमृत्साभिर्गर्तं प्रच्छादयेत् ततः।। 13.20 ।।
विसृज्य शिल्पिनोऽत्रापि कल्पयेत् स्वप्नदर्शनम्।
शुभे लाभोऽशुभे मोक्षः शान्तिः कार्या त्वदर्शने।। 13.21 ।।
गर्भाधानं ततः कुर्यान्नागर्भे धाम्नि सम्पदः।
मृत्तिका दश सङ्ग्राह्या मूलानि जलजानि च।। 13.22 ।।
धातवो रत्नबीजानि लोहादि च यदिष्यते।
अष्टाङ्गुलं तदर्धोच्चं पादहीनोत्तरच्छदम्।। 13.23 ।।
सान्द्रं ताम्रमयं श्लक्ष्णं गर्भपात्रं च शोभनम्।
सुगुप्तं तद्यथा भित्तौ भित्तिमानेन वा भवेत्।। 13.24 ।।
पादुकोपरि विप्रस्य भुवि राज्ञोऽन्ययोरधः।
द्वारस्य दक्षिणे भागे तृतीयांशे द्विशेषिते।। 13.25 ।।
गोमूत्रेणाप्लुते न्यस्येद् द्वारमूलस्य पार्श्वतः।
क्षालिते पञ्चगव्येन पात्रेऽस्मिन् परिशोधिते।। 13.26 ।।
धारणाभिर्यथान्यायं ध्यात्वा पीठेऽक्षराम्बुजम्।
भूमण्डलमनन्तस्थं सशैलाम्भोधिदिग्गजम्।। 13.27 ।।
प्रादक्षिण्येन कृत्वाऽन्तः पूर्वं सागरमृद्वृतिम्।
दिग्विदिक्षु च मध्ये च गायत्र्या विन्यसेन्मृदः।। 13.28 ।।
गिरितीर्थनदीभ्यश्च ह्रदात् कर्कटकालयात्।
वल्मीकखलदन्त्युक्षशृङ्गेभ्यश्चाहृताः क्रमात्।। 13.29 ।।
पङ्कजोत्पलयोर्मूले कुमुदस्य च देशिकः।
दिक्षु लोहितकस्यापि चत्वार्येवं क्रमान्न्यसेत्।। 13.30 ।।
मनश्शिलां हरीतालमञ्जनं श्यामसीसके।
सौराष्ट्रीं रोचनां चैव गौरिकं पारतं तथा।। 13.31 ।।
वज्रमौक्तिक्तिकवैडूर्यशङ्खस्पटिकपुष्यकान्।
चन्द्रकान्तं महानीलं पद्मरागं तथा पुनः।। 13.32 ।।
शालिनीवारकौ चैव कङ्कुमाषकुलुस्थकान्।
निष्पावतिलमुद्गांश्च पाकपूर्णान् ससर्षपान्।। 13.33 ।।
दिक्षु काञ्चनरूप्यायस्त्रपुण्यथ हिरण्मयम्।
सुपर्णं कूर्मरूपं च शङ्खं चक्रं च कोणतः।। 13.34 ।।
धनुर्गदाम्बुजं मध्ये प्रत्येकं च हिरण्मयम्।
एतत् सर्वं समानीय न्यस्तव्यं गर्भभाजने।। 13.35 ।।
कृत्वैवं पञ्चगव्येन प्रोक्ष्य द्वादशविद्यया।
अग्नेर्दक्षिणतः कृत्वा जुहुयात् पूर्ववत् क्रमात्।। 13.36 ।।
घृतं द्वादशभिर्वर्णैर्दिक्पैर्नारायणेन च।
तारादिना हुतान्तेन वक्ष्यमाणैश्च नामभिः।। 13.37 ।।
बीजानि सर्वधातूनि सर्वलोकाश्च पर्वताः।
समुद्राः सर्वतीर्थानि नद्यश्चाथ ह्रदास्तथा।। 13.38 ।।
पातालाश्चाथ नागाश्च दिग्गजा वृषभास्तथा।
व्याहृत्यन्तं ततो हुत्वा सम्पातविधिनैव तु।। 13.39 ।।
आज्यं समर्प्य तत् पात्रं विधायाग्रकरस्थितम्।
जप्त्वा मन्त्रं भुवं ध्यात्वा प्राङ्मुखो निशि देशिकः।। 13.40 ।।
सुमुहूर्त्ते द्विजानुज्ञां प्राप्य तूर्यादिनिस्वनैः।
शक्तिं ध्यात्वाऽर्चयित्वाऽस्यां गर्भभूतमिदं स्मरन्।। 13.41 ।।
ब्रह्माण्डं पार्थिवं शुभ्रं गृहमूर्त्तिप्रसूतये।
ध्यात्वाऽस्मिन् पूर्ववच्चोर्वी शनैर्मन्त्रमुदीरयेत्।। 13.42 ।।
सर्वभूतधरे! कान्ते! पर्वतस्तनमण्डिते।
समुद्रपरिधाने! त्वं देवि! गर्भं समाश्रय।। 13.43 ।।
एवं न्यस्ते तु गर्भेऽस्मिन् सर्वत्र च सुखं भवेत्।
हिरण्यं दक्षिणां दत्त्वा प्रासादं कारयेत् ततः।। 13.44 ।।
द्वार्स्थापनादधः प्राग्वदिष्ट्वा वास्तुं यथाक्रमम्।
कृत्वा होमं च संस्पृश्य शक्त्या रत्नादि विन्यसेत्।। 13.45 ।।
द्वारमाच्छाद्य वस्त्राभ्यां गव्यादिक्षालितं शुभम्।
गन्धादिभिः समभ्यर्च्य शान्तिहोमादिसंयुतम्।। 13.46 ।।
मुहूर्ते स्थापयेद् विद्वान् मध्यान्मध्यं विमुच्य तु।
आत्मतत्त्वमधो न्यस्य विद्यातत्त्वं च शाखयोः।। 13.47 ।।
परतत्त्वं च मध्ये तत् सुशिरस्संव्यवस्थितम्।
स्थापयेत् प्रणवेनाथ पूजयेच्च पुनः क्रमात्।। 13.48 ।।
स्थिराप्रमेयव्यापित्वबोधनित्याविनाशिताः।
तृप्तिश्च सप्त होतव्याः क्रमादाहुतिसप्तकैः।। 13.49 ।।
प्रतीहारादयो देवा ये तस्मिन् संव्यवस्थिताः।
नामभिस्तेऽत्र होतव्यास्ततो देयश्च तद्बलिः।। 13.50 ।।
भित्तिस्तम्भादिविन्यासे सिरामर्मादिपीडनम्।
सर्वथा परिहर्तव्यं वास्तुकोपोऽन्यथा भवेत्।। 13.51 ।।
किञ्चिदुत्तरतो नीत्वा पूर्वतो वा सिरादिवित्।
स्तम्भादीन् विन्यसेदेवं वेधदोषो न जायते।। 13.52 ।।
प्राग्द्वारमृषभस्थं स्याद् ध्वजस्थं पश्चिमामुखम्।
अन्यथा सर्वनाशः स्यादायदोषान्न संशयः।। 13.53 ।।
प्राग्द्वारं ग्राममध्ये स्यात् पश्चिमे चोत्तरे तथा।
दक्षिणेन्द्राग्निषु प्रायः पश्चिमद्वारमिष्यते।। 13.54 ।।
त्रिंशदन्तं त्रिहस्तादि सप्तान्तैकादिभूमिकम्।
वृत्तं वा चतुरश्रं वा दर्शनीयं तु कारयेत्।। 13.55 ।।
भूवृद्ध्या वायुवह्नीन्द्रवरुणार्केन्दुविष्णवः।
गृहाणां देवता ज्ञेया भूमीनां मूर्तयोऽपराः।। 13.56 ।।
शयानासीनतिष्ठन्तो गच्छन् पूर्वे च योगिनः।
भूमीनां देवता ज्ञेया दिक्कोणस्थास्ततोऽपराः।। 13.57 ।।
वराहो नारसिंहश्च श्रीधरश्व हयाननः।
जामदग्न्यश्च रामश्च वामनः कृष्ण एव च।। 13.58 ।।
तत ऊर्ध्वं चतुर्दिक्षु वैनतेयं प्रकल्पयेत्।
मध्ये ब्रह्मा शिवोऽन्ते स्यात् कलशे तु स्वयं हरिः।। 13.59 ।।
कलशान्ते महाविष्णुः सदाविष्णुस्तदग्रतः।
ज्ञातव्या गृहगर्भार्चाः स्थूलसूक्ष्मपरात्मिकाः।। 13.60 ।।
अनन्तं पादुकं विद्यादात्मतत्त्वेश्वरं प्रभुम्।
विद्यातत्त्वमधिष्ठानमित ऊर्ध्वं परं तथा।। 13.61 ।।
वेद्यामिन्द्रादयो दिक्स्था विष्वक्सेनः प्रणालके।
पादुकाद्यङ्घ्रिदङ्घोरु पट्टिकान्तं प्रतिः कटिः।। 13.62 ।।
मेखला रशना कुक्षिर्गर्भः स्तम्भाश्च बाहवः।
मध्यं नाभिश्च हृत् पीठमपानं जलनिर्गमः।। 13.63 ।।
पादाधारस्त्वहंकारः पिण्डिका बुद्धिरुच्यते।
तदन्ते प्रकृतिः पद्मं प्रतिमा पुरुषः स्मृतः।। 13.64 ।।
घण्टा जिह्वा मनो दीपो दारु स्नायुः शिलाऽस्थि च।
त्वक् सुधा लेपनं मांसं रुधिरं तत्र यो रसः।। 13.65 ।।
चक्षुः शिखरपार्श्वे तु ध्वजाग्रं च शिखा भवेत्।
तलकुम्भो भवेत् पाणिर्द्वारं प्रजननं स्मृतम्।। 13.66 ।।
शुकनासैव नासोक्ता गवाक्षं श्रवणं विदुः।
कपोतालिं तथा स्कन्धं कण्ठं चामलसारकम्।। 13.67 ।।
घटं शिरो घृतं मज्जा वाङ् मन्त्रः सेचन पयः।
नामशैत्यादिवर्णान्नधूपेषु विषयाः स्थिताः।। 13.68 ।।
रन्ध्रे वातायने धाम्नि लेपे स्थैर्य च खादयः।
पर्वाणि सन्धयो ज्ञेया लोहबन्धास्तथा नखाः।। 13.69 ।।
केशरोमाणि चैवास्य विज्ञेया दुग्धकूर्चकाः।
प्रासादपादमात्रोच्चः प्राकारः परितो भवेत्।। 13.70 ।।
गोपुरं पादहीनोच्चं तत्समं मण्डपं विदुः।
पीठद्विगुणविस्तारो गरुडस्यट च मण्डपः।। 13.71 ।।
तावन्तो लोकपालानां विष्वक्सेनस्य चालयाः।
पृष्ठेऽनन्तस्य चाग्नेय्यां हविश्शाला च तावती।। 13.72 ।।
मातॄणामालयाः कार्या दक्षिणे चोत्तरे तथा।
इन्द्राग्नीशगताः कार्याः सर्वे प्रत्यङ्मुखा गृहाः।। 13.73 ।।
रक्षोवरुणवायव्यगताश्च प्राङ्मुखास्तथा।
दक्षिणोत्तरयोः कार्याः प्रासादाभिमुखा यथा।। 13.74 ।।
तुषहीनैरनुत्तानैरष्टभिर्मध्यमैर्यवैः।
उत्तमं सप्तभिर्मध्यमधमं षड्भिरङ्गुलम्।। 13.75 ।।
गायत्र्यक्षरसंख्यातैरङ्गुलैरेव साधितः।
यो हस्तस्तेन मातव्यं सर्वं त्रिविधमिष्यते।। 13.76 ।।
शिलाभिरिष्टकाभिर्वा काष्ठैर्वा मृद्भिरेव वा।
कुर्यात् प्रासादविस्तारं सदोषं तु विवर्जयेत्।। 13.77 ।।
वृद्धां बालां च चण्डालीं गर्भिणीं दुष्टभूमिजाम्।
शिलां त्यक्त्वा शुभामन्यां गृह्णीयाद् वर्णयोगतः।। 13.78 ।।
पुल्लिङ्गे प्रतिमा प्रोक्ता स्रीलिङ्गे पीठिका स्मृता।
रत्नन्यासादधस्तात्तु नपुंसकशिलेष्यते।। 13.79 ।।
कार्या गृहानुरूपाऽर्चा गृहं वाऽर्चानुरूपतः।
न्यायोऽयं पीठिकादीनामपि ज्ञेयो विचक्षणैः।। 13.80 ।।
न जीर्णैरुपयुक्तैर्वा शिलाद्यैर्वैष्णवं गृहम्।
कारयेत् पीठिकां वाऽर्चामाभिचारोऽन्यथा भवेत्।। 13.81 ।।
पुरातन्यो विवर्णाः स्युरपक्वाश्चात्र नेष्टकाः।
गर्भवन्तः स्वयं शुष्काः पतिता वाऽग्निदूषिताः।। 13.82 ।।
असारा दुष्टदेशस्था दूषिताश्चापि न द्रुमाः।
कटुकण्टकिपैशाचक्षुद्रचैत्यादयस्तथा।। 13.83 ।।
शूलसूचिध्वजस्तम्भचक्रयष्टिकृतानि च।
न युञ्ज्याच्छास्त्रविद् गेहे नोत्तमं योजयेदधः।। 13.84 ।।
घटीयन्त्रादिदारूणि न कपित्थाक्षजानि च।
वाहयेन्मूलमग्रेण नोत्तमं सन्धयेन्नवे।। 13.85 ।।
नाधोमुखं नियुञ्जीत न तथा दक्षिणामुखम्।
अनुयागे नावन्येव द्रव्याणि शुभदानि तु।। 13.86 ।।
प्रासादेऽधः शिलादीनि शुभान्यन्यानि वेच्छया।
यदार्चोत्पाटिता स्थाप्या तदा पूर्वैव पीठिका।। 13.87 ।।
।। इति विष्णुसंहितायां त्रयोदशः पटलः ।।