← पटलः ६ विष्णुसंहिता
पटलः ७
[[लेखकः :|]]
पटलः ८ →
विष्णुसंहितायाः पटलाः


।। अथ सप्तमः पटलः ।।

अथ वक्ष्यामि संक्षेपान्मुद्राणां लक्षणं परम्।
न्यासादिषु प्रयुज्यन्ते यता मुद्राः सुगोपिताः।। 7.1 ।।
अञ्जलिः प्रथमा मुद्रा क्षिप्रं देवप्रसादनी।
वन्दनी हृदयासक्ता किञ्चिद् दक्षिणतो नता।। 7.2 ।।
ऊर्ध्वाङ्गुष्ठो वाममुष्टिर्दक्षिणोऽङ्गुष्ठबन्धनः।
वामस्य तस्य चाङ्गुष्ठो भवत्यूर्ध्वमुखः स्थितः।। 7.3 ।।
तिस्रः साधारणा मुद्रा मूर्तीनामिह किर्तिताः।
पद्मासनगतो मूर्ध्नि कुर्यादञ्जलिबन्धनम्।। 7.4 ।।
मुद्रा ब्रह्माञ्जलिर्नाम देवसान्निध्यकारिणी।
अनया बद्धया चैव नित्यं तुष्यन्ति देवताः।। 7.5 ।।
तस्मात् तु सर्वदेवानां मुद्रामेनां प्रदर्शयेत्।
सम्मुखौ प्रसृतौ कृत्वा किञ्चिदाकुञ्चिताङ्गुली।। 7.6 ।।
अङ्गुष्ठाभ्यां लिखेदन्तर्मुंद्रैषाऽऽवाहिनी स्मृता।
कृत्वा नताङ्गुली हस्तावूर्ध्वङ्गुष्ठौ तु चालयेत्।। 7.7 ।।
सान्निद्यमुद्रिका ज्ञेया न्यस्तवत् स्थापनी भवेत्।
उभावन्तर्गताङ्गुष्ठै मुष्टी कुर्यान्निरोधिनी।। 7.8 ।।
संहतौ तु करौ कृत्वा मध्येऽङ्गुष्ठौ निपीडयेत्।
प्रसार्य चाङ्गुलीः सर्वा मुद्रेयं परमेष्ठिनः।। 7.9 ।।
एकैकस्य क्रमादन्या अङ्गलीश्च नियोजयेत्।
पुरुषादिक्रमेणैव सर्वमुद्राः प्रकल्पयेत्।। 7.10 ।।
सप्तजन्मकृतं पापं यच्च पातकपञ्चकम्।
मुद्रापञ्चकविज्ञानान्नश्यत्येव न संशयः।। 7.11 ।।
वामहस्तेन मुष्टिं तु कृत्वाऽङ्गुष्ठं समुच्छ्रितम्।
हृदि संयोजयेदेतां गृहीत्वेतरमुष्टिना।। 7.12 ।।
योनिमुद्रा त्वियं प्रोक्ता वैष्णवी भुक्तिमुक्तिदा।
दर्शयेद् देवदेवस्य बद्‌ध्वा पद्मासनं पुरः।। 7.13 ।।
दृष्ट्वैवं दर्शितां सद्यः प्रणामं यान्ति देवताः।
यक्षविद्याधराद्याश्च भ्रमन्ति भयमोहिताः।। 7.14 ।।
वामहस्तमथोत्तानं कृत्वोत्तानं च दक्षिणम्।
संश्लिष्य भ्रामयेत् पश्चाद् ग्रथित्वा चाङ्गुलीः क्रमात्।। 7.15 ।।
कोटिमुद्रा त्वियं प्रोक्ता देवदेवस्य च प्रिया।
अनामामध्ययोर्मध्ये निवेश्याङ्गुष्ठमायतम्।। 7.16 ।।
दक्षिणस्य तु हस्तस्य मुद्रेयं हृदये स्मृता।
निर्वर्त्य मुष्टिमाहन्यादङ्गुष्ठाग्रेण तर्जनीम्।। 7.17 ।।
स्थापयेत् तु ललाटान्ते मुद्रेयं शिरसि स्मृता।
वर्तयित्वा दृढां मुष्टिं कुर्यादङ्गुष्ठमूर्ध्वगम्।। 7.18 ।।
स्थापयेत् तां शिखादेशे शिखामुद्रा प्रकीर्तिता।
सम्प्रवेश्यान्तरङ्गुष्ठौ वेष्टयित्वा समन्ततः।। 7.19 ।।
संहरेत् तत्प्रदेशिन्यौ मुद्रेयं कवचे स्मृता।
अग्रहस्तं परावृत्य बद्‌ध्वा नाराचमुष्टिवत्।। 7.20 ।।
विसृजेत् तिर्यगायम्य मुद्रास्त्रस्येयमीरिता।
भ्रूमध्ये स्थापयेद् बद्‌ध्वा शिखामुद्रामधोमुखीम्।। 7.21 ।।
नेत्रमुद्रेयमाख्याता षडेतास्त्वङ्गमुद्रिकाः।
आत्मरक्षणमेताभिः कर्तव्यं साधकैः सदा।। 7.22 ।।
कृत्वाऽङ्गुष्ठौ समावूर्ध्वं बध्वा हस्तौ परस्परम्।
योगसम्पुटमुद्रेयं ध्याने सर्वत्र युज्यते।। 7.23 ।।
तथैवाच्छिद्रवत् कृत्वा कुर्यान्मूर्धन्यधोमुखीम्।
अभिषेके प्रयोक्तव्या मुद्रेयं पावनी परा।। 7.24 ।।
मणिबन्धसमौ हस्तावूर्ध्वं शाखाः प्रसारिताः।
अन्तः प्रवेशिताङ्गुष्ठौ पद्ममुद्रासने स्मृता।। 7.25 ।।
मणिबन्धसमौ हस्तौ तिर्यक् सम्भ्राम्य चक्रवत्।
पर्यायेण प्रयोक्तव्या चक्रमुद्रा महोदया।। 7.26 ।।
मुष्टिं कृत्वा तु हस्ताभ्यामङ्गुष्ठौ विनतावुभौ।
युक्त्वा सम्भ्राम्य निर्मुक्तौ गदाख्या विघ्ननाशिनी।। 7.27 ।।
निबध्य दक्षिणाङ्गुष्ठं वामहस्तस्थमुष्टिगम्।
कृत्वा चाङ्गुष्ठतर्जन्यौ संयुक्ते प्रसृते समे।। 7.28 ।।
तिस्रस्तु दक्षिणस्यान्या बध्नीयुर्मुष्टिमूर्ध्वतः।
शङ्खमुद्रेयमुद्दिष्टा द्रव्याणां स्थापने परा।। 7.29 ।।
धनुषस्तु धनुर्मुष्टिः शरमुष्टिः शरस्य च।
खङ्गस्य कोशविश्लेषो मुद्रा खेटस्य मण्डलम्।। 7.30 ।।
उभे कनिष्ठिके बद्‌ध्वा प्रदेशिन्यावुभे तथा।
हस्तावुभौ परावृत्तावङ्गुष्ठौ सहितावधः।। 7.31 ।।
मध्यमानामिके युक्ते चालयेत् पक्षयुग्मवत्।
बद्धा गरुडमुद्रेयं वाहनादौ बलावहा।। 7.32 ।।
विरलोर्ध्वाङ्गुलिं हस्तं कृत्वाऽऽयामेन दर्शयेत्।
मुद्रानन्तस्य विज्ञेया शयनादौ प्रयुज्यते।। 7.33 ।।
कृत्वोत्तानावुभौ हस्तौ सम्पुटाग्रौ प्रसारितौ।
कुर्वीत प्रार्थनामुद्रां सान्निध्यादिषु सर्वदा।। 7.34 ।।
श्रीवत्सकौस्तुभार्थः स्यादुरःस्पर्शो द्विपार्श्वगः।
ऊर्ध्वमुद्रां प्रयुज्यादावुत्तानीकृत्य तां पुनः।। 7.35 ।।
मुञ्चेद् वामकनिष्ठादिक्रमान्मूर्तिचतुष्टये।
किञ्चिदाकुञ्चिताग्रास्तु योजयित्वाऽङ्गुलीः शनैः।। 7.36 ।।
तर्जन्यौ मध्यमापृष्ठे योजयित्वा विचक्षणः।
अङ्गुष्ठाभ्यां लिखेदन्तः शक्तीनां योनिसंज्ञिता।। 7.37 ।।
वामहस्तेन सङ्गृह्य करं तिर्यक्प्रसारितम्।
संहतं चालयेदेषा ध्वजमुद्रा प्रकीर्तिता।। 7.38 ।।
मध्यानामान्तरेऽङ्गुष्ठो निर्गतो मध्यमानता।
दक्षिणस्य तु मुष्टौ स्यान्मुद्रा वैनायकी स्मृता।। 7.39 ।।
ऊर्ध्वाङ्गुष्ठो भवेन्मुष्टिर्लिङ्गमुद्रा शिवे स्मृता।
तर्जयेद् वामतर्जन्या नासाग्रासन्नया जगत्।। 7.40 ।।
विष्वक्सेनस्य सा मुद्रा जीर्णोद्धारादिषु स्मृता।
मानसो रूपसङ्कल्पो मुद्रा मोक्षार्थिनां स्मृता।। 7.41 ।।
इतरेषां तु हस्ताभ्यां प्रयोगः शस्यते बुधैः।
नान्यसन्दर्शने मुद्रा नानिमित्तं च बन्धयेत्।। 7.42 ।।
गुह्यमेतद्धि तन्त्रेषु तस्माद् रहसि योजयेत्।
मुदं कुर्वन्ति देवानां राक्षसान् द्रावयन्ति च।। 7.43 ।।
इत्येवं सर्वमुद्राणां मुद्रात्वं तान्त्रिका विदुः।
पटान्ते बन्धयेन्मुद्रा नचापि कथयेद् बुधः।। 7.44 ।।
कथनाज्जायते स्रंसस्तस्माद् गोप्याः सदा बुधैः।
आनन्त्यादखिला मुद्रा वक्तुं ब्रह्मन्! न शक्यते।। 7.45 ।।
देवतानां बहुत्वाच्च मुद्रोद्देशो मयेरितः।
प्रणामप्रार्थनाद्यास्तु मुद्राः सर्वदिवौकसाम्।। 7.46 ।।
अच्युतस्यापि पूजायामज्ञानां कल्पयेदिमाः।
अलाभे सर्वमुद्राणामञ्जलिर्हिदि मूर्ध्नि वा।। 7.47 ।।
सामान्यमुद्रा विज्ञेया सर्वेषां च दिवौकसाम्।
मन्त्रश्च प्रणवो योज्यः सिद्धिरेवं भविष्यति।। 7.48 ।।
पूर्वं कृत्वा करन्यासं मुद्राबन्धः शुभो भवेत्।
अन्यथा विफलाः सर्वा भविष्यन्ति न संशयः।। 7.49 ।।
वृथाऽन्यदर्शने वाऽपि प्रयुक्ता विफलास्तथा।
कुप्यन्ति देवताश्चास्य सिद्धिमाशु हरन्ति च।। 7.50 ।।
गुप्तं मुद्रागणं यस्तु यथाकालं प्रदर्शयेत्।
कामाः सर्वेऽस्य सिध्यन्ति प्रीयन्ते चास्य देवताः।। 7.51 ।।
सामान्याख्या विशेषाख्यास्तथाङ्गाख्याश्च कीर्तिताः।
तथैव परिवाराख्या मुद्रा ह्येताश्चतुर्विधाः।। 7.52 ।।
मध्यमानामिके विद्वानङ्गुष्ठाभ्यां तु पीडयेत्।
कनिष्ठा तर्जनीयोज्या श्रीवत्सस्य प्रदर्शयेत्।। 7.53 ।।
अनामा पृष्ठसंलग्ना दक्षिणस्य कनिष्ठिका।
कनिष्ठया तु सङ्गृह्य तर्जन्याऽनामिकां तथा।। 7.54 ।।
गृहीत्वाऽनामिकां मध्यामङ्गुष्ठं चोछ्रितं कुरु।
तस्मिन्नङ्गुष्ठके श्लिष्टा वामहस्तस्य तर्जनी।। 7.55 ।।
मध्यमे मध्यमां कृत्वा चाङुष्ठं मणिबन्धने।
कौस्तुभस्य त्वियं मुद्रा दर्शनीया च साधकैः।। 7.56 ।।
सम्मुखावुच्छ्रितौ हस्तौ व्योममध्ये विमोचयेत्।
तर्जन्यङ्गुष्ठकौ श्लिष्य मालामुद्रां प्रदर्शयेत्।। 7.57 ।।
एवं चतुर्विधा मुद्रा गोप्या यत्नेन सर्वदा।
प्रयोज्याश्च यथाकालं साधकैः सिद्धिकाङ्क्षिभिः।। 7.58 ।।

।। इति विष्णुसंहितायां सप्तमः पटलः ।।


"https://sa.wikisource.org/w/index.php?title=विष्णुसंहिता/पटलः_७&oldid=207323" इत्यस्माद् पुनः प्राप्तिः