← पटलः २२ विष्णुसंहिता
पटलः २३
[[लेखकः :|]]
पटलः २४ →
विष्णुसंहितायाः पटलाः


।। अथ त्रयोविंशः पटलः ।।


अथ वक्ष्यामि संक्षेपाद् विश्वार्चां सर्वभूतिदाम्।
दिग्विभागसमायुक्तां सर्वलोकहिताय वै।। 23.1 ।।
विधिवत् स्थापिते देवे यथान्यायं प्रपूजयेत्।
कर्तव्या विश्वदेवार्चा वृद्ध्यर्थं सर्वदाऽपि वा।। 23.2 ।।
मध्ये साङ्गं यजेद् विष्णुं दिग्विदिक्षु ततः सुरान्।
पूर्वादौ पुरुषं सत्यमच्युतं चानिरूद्धकम्।। 23.3 ।।
विश्वरूपं च वैकुण्ठं सर्वं भावनमेव च।
विद्याधिपतयश्चैते शङ्खचक्रगदाधराः।। 23.4 ।।
विष्णुरूपाः सदा पूज्याः सगणास्तु पृथक् पृथक्।
शक्तयोऽष्टौ भृशादिस्थाः सुरूपाः सर्वकामदाः।। 23.5 ।।
प्रज्ञा बुद्धिः स्मृतिः कीर्त्तिः श्रुतिर्मेधा धृतिः क्षमा।
शङ्खः सुदर्शनहलौ गदामुसलखड्गकाः।। 23.6 ।।
धनुः स्रगुत्तमा चाष्टौ दिग्विदिक्षु च तद्बहिः।
वज्रदण्डत्रिशूलानि पाशोऽस्त्राणि तथैव च।। 23.7 ।।
ततः शक्तिश्च शस्त्राणि वैष्णवास्त्रं भृशदिषु।
अस्त्रावरणमेवं तु शूलं सपरशुं यजेत्।। 23.8 ।।
इन्द्रो यमश्च वरुणः सोमोऽग्निर्निर्ऋतिस्तथा।
वायुरीशान इत्यष्टौ लोकपालास्तु तद्बहिः।। 23.9 ।।
आदित्या विश्वदेवाश्च मरुतो विघ्ननायकाः।
स्कन्दो रुद्राश्च वसवश्चाश्विनौ च भृशादिषु।। 23.10 ।।
बहिर्ग्रहगणाः पूज्याः पितृयक्षगणास्तथा।
गन्धर्वाः सर्वभूतानि चाम्बिका राक्षसास्तथा।। 23.11 ।।
विद्याधराश्च सिद्धाश्च पूज्याः सर्वे स्वनामभिः।
ततोऽप्सरोलोकमातृकूष्माण्डाश्च पिशाचकाः।। 23.12 ।।
नागाश्च किन्नराः सर्पा व्याधयश्च भृशादिषु।
नन्दनः कुमुदश्चाथ द्वाःस्थौ दक्षिणवामयोः।। 23.13 ।।
गृहगोपुरमध्येऽर्च्यो ध्वजोऽश्वस्तद्भृशान्तरे।
रथो गृहेन्द्रमध्ये स्यात् पर्जन्येन्द्रे खगेश्वरः।। 23.14 ।।
पुंशङ्खमध्यगः पूज्यः सुवर्चाः कलशाधिपः।
पुरप्रासादमध्येऽर्च्यो बलाख्यो मण्डपाधिपः।। 23.15 ।।
भाण्डागारेऽक्षयः पूज्यो जलस्थाने तथा नरः।
सभास्थानेऽद्भुतो वृद्धिकरश्चाथ महानसे।। 23.16 ।।
उन्मादः पचनागारे तर्पणो भोजनालये।
कुन्दरः कुसुमागारे निर्गमे विक्षरस्तथा।। 23.17 ।।
बलश्चातिबलश्चोभौ पीठेऽर्च्यौ बलिरक्षकौ।
विकटश्च विरूपाक्षः पूर्वगोपुरपालकौ।। 23.18 ।।
द्वाःस्थौ दक्षिणवामस्थौ भीमरूपौ गदाधरौ।
सनातनश्च सनको दक्षिणद्वारपालकौ।। 23.19 ।।
पूजनीयौ प्रयत्नेन खङ्गमुद्गरधारिणौ।
दण्डपाशधरौ शान्तप्रमोदौ चैव पश्चिमे।। 23.20 ।।
उत्तरे सर्वदः सर्वदमनश्चापतूणिनौ।
चरको बहिरीशाने विदारोऽग्नौ तु पूतनः।। 23.21 ।।
नैर्ऋते वायुबाह्ये तु राक्षसः पापचारकः।
बलिपीठाधिपः प्राच्यां देवो नन्दिकरो यमे।। 23.22 ।।
पश्चाद् विभीषणः सौम्ये सुलभस्थानपालकाः।
येऽनुक्ता मातरोऽनन्तो विष्वक्सेनो ध्वजाधिपाः।। 23.23 ।।
रेवन्तः क्षेत्रपालाश्च ते पूज्यास्तत्र तत्र वै।
स्थितासीने चतुष्षष्टिः सुप्ते तेऽशीतिरेकिनी।। 23.24 ।।
सामान्यं तु शतं त्रेधा प्राकारान्तर्विभाजनम्।
अन्तश्चतुष्कं प्रासादं द्विगुणं च प्रकल्पयेत्।। 23.25 ।।
दक्षिणे नन्दनं द्वाःस्थं चतुर्बाहुं गदाधरम्।
तथैव कुमुदं कुर्याद् वामे पट्टसपाशिनम्।। 23.26 ।।
अङ्गुल्यर्धार्धयुग् वामे कुर्यादालयमासने।
शते पादप्रविष्टाः स्युः परिवारालयाः पृथक्।। 23.27 ।।
यथैव तु चतुष्षष्टौ संगमस्थाः सुराः पृथक्।
तथा शतपदे प्रोक्ता गर्भादिपरिकल्पना।। 23.28 ।।
चतुर्थे सङ्गमेऽर्यम्णो विवस्वन्मित्रभूभृताम्।
पुरुषाद्यालयं कुर्यात् सावित्राद्याद्यसङ्गमे।। 23.29 ।।
विश्वादीनां क्रमादेवं स्थानानि परिकल्पयेत्।
तृतीये सङ्गमेऽर्यम्णः पञ्चमे तु विवस्वतः।। 23.30 ।।
तृतीये तस्य मित्रस्य पञ्चमेऽस्य तृतीयके।
भूभृतः पञ्चमे तस्य तृतीयेऽर्यमपञ्मे।। 23.31 ।।
प्रज्ञादीनां क्रमादेवमालयाः परिकीर्तिताः।
शङ्खादयोऽर्यमादीनां चतुर्णामाद्यसङ्गमे।। 23.32 ।।
मुसलाद्यालयाश्चैवं सावित्राद्याद्यसङ्गमे।
सङ्गेऽर्यमसवित्रादिद्वादशानां द्वयोर्द्वयोः।। 23.33 ।।
किञ्चित्सूत्रं विमुच्याथ वज्राद्यस्त्राणि कल्पयेत्।
वज्रदण्डादयोऽस्त्रैः स्वैः स्थाप्या भूतगणैः सह।। 23.34 ।।
भान्विन्द्रसङ्गमाद्यष्टस्थानेष्विन्द्रादिलोकपाः।
सङ्गे भृशखयोर्गेहक्षतवैतथयोस्तथा।। 23.35 ।।
गन्धर्वभृङ्गयोश्चैव द्वाः स्थसुग्रीवयोस्तथा।
श्वासशोषणयोर्नागमुख्ययोर्दित्यृकाख्ययोः।। 23.36 ।।
जयपर्जन्ययोश्चान्ये सम्पूज्या देवतागणाः।
बाह्येऽर्कयमवारीशसोमानां तु ग्रहादयः।। 23.37 ।।
अग्नेः पितॄणां रोगेशो(शाद्)र्बहिः स्युश्चण्डिकादयः।
खबाह्येऽप्सरसः पूष्णि पितृभद्रविनायकाः।। 23.38 ।।
कूष्माण्डास्तु मृगे द्वार्स्थे पिशाचाः शोषणेऽहयः।
मुख्ये तु किन्नराः सर्पा व्याधयस्त्वर्गळे शिवे।। 23.39 ।।
सत्ये रङ्गं जलस्थानं पर्जन्ये कारयेद् बुधः।
चरकस्य विदारस्य पूतनस्य च रक्षसः।। 23.40 ।।
ईशाग्निपितृरोगाणां बाह्ये कोणे स्मृता गृहाः।
तद्वाह्यतस्तु मर्यादाभित्तिरुच्छ्रितगोपुरा।। 23.41 ।।
बलिपीठं तु कर्तव्यं शास्त्रतो गोपुराद् बहिः।
शक्रगोपुरमध्ये तु ध्वजस्थानं विधीयते।। 23.42 ।।
तत्राश्वरथतार्क्ष्याणामालयाः परितः क्रमात्।
शङ्खगोपुरमध्यस्थः कर्तव्यः कलशाधिपः।। 23.43 ।।
तथा पुरप्रसादान्तः स्थितः स्यान्मण्डपाधिपः।
भल्लाटसङ्गमे चैव भाण्डागारं प्रकल्पयेत्।। 23.44 ।।
महेन्द्र तु सभास्थानं सत्ये स्याद् भोजनालयः।
पूष्णि पाको मृगे पुष्पं पुष्पदन्तेऽम्बुनिर्गमः।। 23.45 ।।
सत्ये वा स भवेत् कूपः कर्तव्योऽदितिगोचरे।
असुरे तु बलिस्थानं गन्धो रोगे प्रकीर्तितः।। 23.46 ।।
ईशोऽग्निः पितरो रोग इति देवास्तु कोणगाः।
अर्गले क्षेत्रपालस्य भृङ्गे वै शास्तुरालयः।। 23.47 ।।
एष पूर्वमुखस्योक्तो विधिर्विश्वार्चने हरेः।
ध्वजादि विपरीतं स्यात् पश्चिमाभिमुखस्य तु।। 23.48 ।।
असुरे स्यात् तदा रङ्गं सत्ये च बलिमण्डपः।
महेन्द्रे जलमार्गः स्यादयं शतपदे विधिः।। 23.49 ।।
सङ्गमस्थास्तु चत्वार इतरे सङ्गमेश्वराः।
एतावांस्तु चतुष्षष्टौ विशेषोऽत्र प्रकीर्तितः।। 23.50 ।।
कुमुदः करवीरश्च द्वारपालौ चतुर्भुजौ।
पुरतः सङ्गमेऽर्यम्णश्चतुर्थे गरुडालयः।। 23.51 ।।
सुभद्रस्य सुबाहोश्च विजयस्य बलस्य च।
कुमुदस्य मुनेश्चैव विष्वक्सेनस्य चालयाः।। 23.52 ।।
आग्नेयादिषु कर्तव्या गणेशानां प्रकीर्तिताः।
सर्वे चतुर्भुजाः कार्या गदाचक्रासिधारिणः।। 23.53 ।।
सुवर्णशङ्खनीलाभ्रकृष्णपिञ्जरगौरकाः।
श्यामश्च तेऽर्यमादिस्था लोकपालाश्च कीर्तिताः।। 23.54 ।।
प्राकारस्थास्तु कर्तव्याः क्षेत्रपर्यन्तदेवताः।
भानोस्तु पुरतश्चक्रं ततो गोपुरपीठके।। 23.55 ।।
ततश्चतुर्षु कोणेषु रक्षसां स्थानमुच्यते।
एकाशीतौ च परितः पदं त्रित्रिकसंख्यया।। 23.56 ।।
गणेश्वरा दिवगीशाश्च कर्तव्याः स्वपदस्थिताः।
शेषं कुर्याद् यथोद्दिष्टं विष्णोरावरणक्रमम्।। 23.57 ।।
बहिः प्राकारकोणस्थाः कर्तव्या रक्षसां गृहाः।
गोपुरादि च कर्तव्यं बलिपीठान्वितं तथा।। 23.58 ।।
एवमेव विधानेन कृत्वा विष्णोरिहालयम्।
सर्वकामानवाप्नोति गच्छेद् विष्णुपदं पुनः।। 23.59 ।।
शङ्खचक्रगदाखड्गमुसलं हलमेव च।
चापोऽङ्कुशं स्रगेतेषामालयाश्चात्र कीर्तिताः।। 23.60 ।।
पयोहेमखनीलासृक्‌पद्माभ्राग्नितडित्प्रभाः।
मूर्ध्नि स्वाङ्कसमायुक्ताः कर्तव्या हरिहेतयः।। 23.61 ।।
पूर्वास्त्वप्रतिचाल्याः स्युरितराश्चास्थिराः शुभाः।
अन्योन्याभिमुखाः कार्यास्तथान्ये दक्षिणोत्तराः।। 23.62 ।।
स्थानेश्वरस्य देवस्य यत् पूर्वकृतमास्पदम्।
तस्य प्रतिमुखे कार्यं नान्यास्पदमशत्रुभिः।। 23.63 ।।
अज्ञानादिह यः कुर्यान्नश्येत् स्थानं श्रिया सह।
अन्योन्याभिमुखे चोभे न कार्ये देवतागृहे।। 23.64 ।।
अन्योन्यपृष्ठसंस्थे च राजराष्ट्रादिनाशने।
नानुपृष्ठं तथा कुर्यात् कृते चान्यो निषिच्यते।। 23.65 ।।
व्यत्यस्तमेकसूत्रस्थं न कुर्यादेव सर्वथा।
यतोमुखः प्रधानः स्याद् देवाश्चान्ये ततोमुखाः।। 23.66 ।।
कर्तव्याः परिवारास्तु प्रधानाभिमुखाः सदा।
एकसूत्रं तथाक्रम्य विपरीतं न कारयेत्।। 23.67 ।।
अन्योन्यं दक्षिणाक्षिभ्यां प्रशस्तं दर्शनं द्वयोः।
अप्रशस्तं च विज्ञेयं तथा वामाक्षिदर्शनम्।। 23.68 ।।
परिवारविधौ चापि सूत्रमाक्रम्य नाचरेत्।
अङ्गुलं गोलकं वाऽपि परिहृत्यैव कारयेत्।। 23.69 ।।
आसनं ग्राममध्ये तु पूर्वतोमुखमिष्यते।
ग्रामस्याभिमुखं त्वेवं स्थानं पूर्वे च पश्चिमे।। 23.70 ।।
शयनं दक्षिणस्यां तु कर्तव्यं पश्चिमामुखम्।
उत्तरस्यां तु शयनं पूर्वतोमुखमेव च।। 23.71 ।।
क्षेत्रभागवशादेव कर्तव्यं त्वन्यथामुखम्।
देवाग्रे दक्षिणेनाथ सर्वतो वा जलाशयाः।। 23.72 ।।
न रुद्राभिमुखं कुर्याद् ग्रामं नगरमेव वा।
नोच्चस्थानगतं चैव दुर्गादिस्थानमिष्यते।। 23.73 ।।
यत्र नीचे स्थितो विष्णुरुच्चैरन्याश्च देवताः।
विनश्येदचिरादेव तत् स्थानं राष्ट्रमेव वा।। 23.74 ।।
अरण्ये पर्वते तीर्थे नदीतीरे च सङ्गमे।
क्षेत्रे च श्रद्धया कुर्याद् युक्त्या भूम्यादिसङ्ग्रहम्।। 23.75 ।।
देवभागस्थितं देवं स्वयं तद्भागसंस्थितः।
अर्चयीत प्रयत्नेन पैशाचासुरवर्जितम्।। 23.76 ।।
ब्रह्मस्थानगतं वाऽपि देवदेवं समर्चयेत्।
देवभागस्थितस्त्वेव द्रव्यैस्तद्भागसंस्थितैः।। 23.77 ।।
विदिक्सूत्रं परित्यज्य दक्षिणं पार्श्वमाश्रितः।
अर्चयेत् तं प्रयत्नेन यस्तु सिद्धिमभीप्सति।। 23.78 ।।
जपं सम्पुटविन्यस्तं देवपार्श्वे निधापयेत्।
अथवा जप्तमात्रं तु दद्याद् भगवते सदा।। 23.79 ।।
ब्रह्मसूत्रं परिहरेत् पूजनाजपकालयोः।
अविघ्नो भवति ह्येष जपार्चनविधिः सदा।। 23.80 ।।
एवं क्रमेण यो विष्णुमर्चयेद् भक्तिसंयुतः।
स भोगानीप्सितान् भुक्त्वा विष्णोर्याति सलोकताम्।। 23.81 ।।
एवमिष्टवा यथान्यायं सर्वदेवगणान्वितम्।
ततः स्वशक्तियोगेन विष्णोः स्नानं समाचरेत्।। 23.82 ।।
सर्वदेवार्चना होमः कर्तव्यश्च स्वनामभिः।
सर्वेषां समिदाज्यान्नैर्हविषाऽऽज्येन वा पृथक्।। 23.83 ।।
भूतेभ्यश्च बलिं द्याच्छक्त्या विप्रांश्च भोजयेत्।। 23.84 ।।

।। इति विष्णुसंहितायां विश्वार्चनं नाम त्रयोविंशः पटलः ।।