← पटलः २८ विष्णुसंहिता
पटलः २९
[[लेखकः :|]]
पटलः ३० →
विष्णुसंहितायाः पटलाः


।। अथैकोनत्रिंशः पटलः ।।

अथ वक्ष्यामि संक्षेपात् समयाचारलक्षणम्।
दीक्षितानां तु सर्वेषां यद्योगात् सर्वसिद्धयः।। 29.1 ।।
ब्राह्मणाद्याश्चतुर्वर्णास्त्रयस्त्वेषां च दीक्षिताः।
भक्ता जितेन्द्रियाः शान्ताः सर्वे समयिनः स्मृताः।। 29.2 ।।
समयी दीक्षितः पश्चाच्चक्रवर्त्यभिषेकवान्।
गुरुश्चैव तथाचार्यो भगवान् सप्तमः स्मृतः।। 29.3 ।।
यागः स्तोमो महायागश्चाध्वरोऽथ सवः क्रतुः।
हरिस्तोम इति ज्ञेयाः सप्त यागाः समासतः।। 29.4 ।।
वसन्ते च तथा ग्रीष्मे शरद्वर्षासु च क्रमात्।
वर्णिनां विहिता दीक्षा सर्वेषां वोत्तरायणे।। 29.5 ।।
सकृद् द्विस्त्रिश्चतुर्दीक्षा सप्तकृत्वश्च वर्णिनाम्।
तथा द्वादशकृत्वश्च कार्या वा प्रतिवत्सरम्।। 29.6 ।।
पुष्पातवशान्नाम पूर्वमेव तु गृह्यते।
तच्छर्मवर्मगुप्तान्तं दासान्तं चेह वर्णिनाम्।। 29.7 ।।
केवलं समयीत्यादि द्रष्टव्यं केशावादिवत्।
स्त्रीणां तु केशवाद्याख्या देव्यन्तास्त्रिषु कीर्तिताः।। 29.8 ।।
शूद्राणां दासदास्यन्ताः सर्वेषां यागभेदतः।
सर्वेऽपि दीक्षिताः सम्यक् सदा गुरुपरायणाः।। 29.9 ।।
वर्णाश्रमगतान् धर्मान् रक्षेयुः समयांस्तथा।
गुरुदेवद्विजाग्नीनां सर्वदा परिचर्यया।। 29.10 ।।
व्रतोपवासनियमैर्भक्त्या चेच्छेयुरुन्नतिम्।
नानिष्ट्वा देवमश्नीयान्नचादीक्षितवेश्मनि।। 29.11 ।।
निर्माल्यं न श्पृशेद् दद्याल्लङ्घयेत् वाऽशनं कुतः।
सर्वेषामेव देवानां निर्माल्यमशुचि स्मृतम्।। 29.12 ।।
विष्णुभुक्तं तु पुष्पादि शुचीत्याददते परे।
कांस्यपात्रे न भोक्तव्यं न वन्द्या चान्यदेवता।। 29.13 ।।
अदीक्षिताद्ययोग्येषु सिद्धान्तं न प्रकाशयेत्।
नोदक्ययाऽभिभाषेत न चण्डालैर्नचान्त्यजैः।। 29.14 ।।
न कुदेशे वसेन्नित्यं न च पाषण्डिभिः सह।
तिर्यक् पुण्ड्रं न कुर्वीत नो द्विट्कारं न सङ्करम्।। 29.15 ।।
शर्ङ्गाष्ठं लशुनं शिग्रु धान्याम्लं चाविकं पयः।
पिण्याकं कोरदूषं च छत्राकं वर्जयेत् सदा।। 29.16 ।।
आसनं शयनं यानं नातिष्ठेच्चक्ररूपकम्।
प्रतिमासन्निधौ नान्यप्रतिमास्तुतिमाचरेत्।। 29.17 ।।
शृणुयान्न परीवादं नच कालं वृथा नयेत्।
चक्राङ्को विष्णुनामाङ्कपुत्रभृत्यपशुर्भवेत्।। 29.18 ।।
चत्रैव तु शिरः कृत्वा स्वपेद् यत्र रविर्गतः।
नाग्निगोगुरुविप्रार्चाधान्येष्वङ्घ्री प्रसारयेत्।। 29.19 ।।
मत्स्यकूर्मवराहाणां नच मांसानि भक्षयेत्।
विप्राग्निवैष्णवाश्वत्थान् गाश्च कुर्यात् प्रदक्षिणम्।। 29.20 ।।
विष्णोर्गृहाणि सर्वाणि दृष्ट्वा भक्त्याऽभिवादयेत्।
न बाहुभ्यां तरेत् सिन्धुं न गवा नान्यवाससा।। 29.21 ।।
न नग्नो वा विशेत् तोयं न धावेद् वर्षसंभवे।
ऊर्ध्वपुण्ड्रास्तु ये मर्त्यास्तान् सर्वाच्छक्तिऽर्चयेत्।। 29.22 ।।
अग्रभिक्षां सदा दद्याद् ग्रासमुष्टिं गवां तथा।
नाद्यात् पर्युषितं चान्नं नागतं परगेहतः।। 29.23 ।।
शिरस्पृष्टेन तैलेन नाङ्गं किञ्चिदुपस्पृशेत्।
नानन्तर्धाय चासीत नान्यभक्तं प्रपूजयेत्।। 29.24 ।।
प्रत्यक्षलवणं नाद्यान्निर्यासामेध्यजानि वा।
वैष्णवैर्दीक्षितैर्विप्रैर्विवादं न समाचरेत्।। 29.25 ।।
अन्त्यजं वा श्वपाकं वा नावमन्येत वैष्णवम्।
विष्ण्वर्थान्येव कर्माणि सर्वाणि मनसा स्मरेत्।। 29.26 ।।
अपि प्राणपरित्यागं कुर्याद् विष्णुनिमित्ततः।
कृतेन कर्मणा येन भगवान् भुवनेश्वरः।। 29.27 ।।
प्रसीदति हि तत् कार्यं कर्मेदं वैष्णवैः सदा।
सत्पथे मनसि न्यस्ते वाणी तिष्ठति सत्पथे।। 29.28 ।।
इन्द्रियाणि च सर्वाणि तस्मात् तच्छिक्ष्यमादितः।
उपकारः परो धर्मः सर्वेषामिति निश्चयः।। 29.29 ।।
तस्मात् सर्वप्रयत्नेन सर्वेषां हितमाचरेत्।
दानानि कीर्तिभूयांसि मध्यमानि फलेष्वतः।। 29.30 ।।
रहस्यदानं कर्तव्यं पात्रकालादियोगतः।
पात्रे सर्वाणि देयानि दातव्यानि मनस्विना।। 29.31 ।।
देवमेव समुद्दिश्य यशस्तत्रानुषङ्गिकम्।
जितेन्द्रियस्य भक्तस्य मानसो धर्म उत्तमः।। 29.32 ।।
कायिकः प्राकृतस्योक्ते मध्यमस्य तु वाचिकः।
क्रियारूपः स्मृतो धर्मो ज्ञानरूपं तु तत्परम्।। 29.33 ।।
ज्ञानेन मोक्षमाप्नोति ज्ञानार्था चेष्यते क्रिया।
केवलं त्विह विज्ञानं धर्मस्यानुग्रहादृते।। 29.34 ।।
नालं चेतो भवाविष्टं प्रसादयितुमञ्जसा।
तदिष्ट्वाऽनन्तरायार्थं प्राप्य ज्ञानमनुग्रहात्।। 29.35 ।।
ततः साध्यो भवेन्मोक्षस्तद्भक्तैरेव नापरैः।
प्रासादे स्थापितं देवं सर्वदा न प्रकाशयेत्।। 29.36 ।।
अन्यत्रार्चनवेलायां पूजनान्ते प्रकाशयेत्।
अशिचिद्रव्यसंसर्गं जनसम्मर्दमेव च।। 29.37 ।।
प्रासादे वर्जयेन्नित्यं लोकोपकरणानि च।
वैदिका वैष्णवा मन्त्राः शान्तिकाः पौष्टिकास्तथा।। 29.38 ।।
यथायोगं प्रयोक्तव्यास्तन्त्रमन्त्रास्तदन्तरे।
ऋक्षु ये पावना मन्त्रा यजुष्वपि च सामसु।। 29.39 ।।
अथर्वणेषु चादेया देवपूजादिकर्मसु।
ये मन्त्राः परमं देवं साक्षाल्लक्षेण(क्ष्येण) वाऽऽश्रिताः।। 29.40 ।।
साङ्गाः पृथगुपादेयास्तान् विचार्यात्र योजयेत्।
नहि तेभ्यः परं किञ्चिद् वाङ्मयं भुवि विद्यते।। 29.41 ।।
कामदं च पवित्रं च ये मन्त्रा वैदिकाः स्मृताः।
तैरेव कृतसंस्कारे वंशे जातः स्वयं पुनः।। 29.42 ।।
तानुपेक्ष्यापरान् मन्त्रान् नानुवर्तितुमर्हति।
कर्मकाण्डप्रधानास्तु वैदिका विधयः स्थिताः।। 29.43 ।।
कामकामैर्वियोक्तव्यास्तां तामाश्रित्य देवताम्।
मन्त्रास्ते वैदिकाः सिद्धाः संभूय पृथगेव वा।। 29.44 ।।
कर्मसिद्धौ प्रवर्तन्ते प्रायो नानाफलाश्रयाः।
तेऽन्वीक्ष्यान्वीक्ष्य संग्राह्या वैष्णवैर्वदवादिभिः।। 29.45 ।।
तत्पूजायामिदं तन्त्रं भवत्येव निबन्धनम्।
तज्‌ज्ञात्वा वैदिकान् मन्त्रान्यानुद्‌धृत्य च स्वयम्।। 29.46 ।।
इदं च तन्त्रमालम्ब्य पूजयेत् पुरुषोत्तमम्।
यो जपस्तुत्युपस्थानं तैः कृत्वाऽनुस्मरन् हरिम्।। 29.47 ।।
पठेन्मन्त्रान् यथान्यायं स मुख्यो विष्णुयाजकः।
जपयज्ञं विशेषेण ये तु कुर्वन्ति वैदिकैः।। 29.48 ।।
काले पूजां च कुर्वन्ति तेषु संप्रीयते हरिः।
ध्यात्वाऽर्कमण्डले विष्णुं वेदमन्त्रैरभिष्टुतम्।। 29.49 ।।
धार्यमाणे ततैवाग्नौ जुहुयात् कार्यसिद्धये।
तत्र यत् केवलं ध्यानं वेदान्तोक्तमनाश्रयम्।। 29.50 ।।
न तत्रेन्द्रियदौर्बल्यात् कर्मस्थस्याधिकारिता।
यथा गिरितटाग्रस्थवनस्पतिफलेच्छया।। 29.51 ।।
उपाये वर्ततेऽश्रान्तस्तथाऽसौ यत्नमाचरेत्।
सर्वत्र क्रमवान् यत्नः कार्यो नेच्छैव केवला।। 29.52 ।।
तत् कायवाङ्मनोयोगैः क्रमादिच्छेत् परां गतिम्।
निराकारे तु या भक्त्या पूजेष्टा ध्यानमेव वा।। 29.53 ।।
रमणीयमिवाभाति तदनर्थस्य कारणम्।
स्थूलभावप्रसङ्गीनि जन्मनाऽस्येन्द्रियाणि हि।। 29.54 ।।
सूक्ष्मार्थं न प्रपद्यन्ते चिराच्च किमुताचिरात्।
नच रूपं विना देवो ध्यातुं केनापि शक्यते।। 29.55 ।।
सर्वरूपनिवृत्ता हि बुद्धिः कुत्रास्य तिष्ठति।
निवृत्ता ग्लायते बुद्धिर्निद्रया वा परीयते।। 29.56 ।।
तस्माद् विद्वानुपासीत बुद्ध्या साकारमेव तम्।
अस्ति तस्य परोक्षं तदिति किञ्चिदनुस्मरेत्।। 29.57 ।।
सर्वथाऽऽकारमुद्दिष्टं न परित्यज्य पण्डितः।
परं देवमुपासीत मुक्तये वा फलाय वा।। 29.58 ।।
मन्त्रैरावर्त्यमानैस्तु विष्णुपादसमाश्रयैः।
स्वरूपं लक्ष्यते बुद्धौ तत्प्रसादेन नान्यथा।। 29.59 ।।
भक्त्यर्थाः सर्वमन्त्राः स्युः स्तोत्राणि ध्यानमर्चनम्।
सा यस्य हृदये तीव्रा स भक्तो नान्य इष्यते।। 29.60 ।।
प्रियाणि देवदत्तानि कर्मजान्यप्रियाणि च।
यः पश्येत् सततं बुद्ध्या स भक्तो नेतरो जनः।। 29.61 ।।
तस्य योगमयं विद्यादाकारं सार्ववस्तुकम्।
नित्यं भक्तानुकम्पार्थं ध्येयो मन्त्रमयस्तु सः।। 29.62 ।।
यदा निवृत्तकर्मासौ निर्वाणे रमते बुधः।
तदा सूक्ष्मशरीरं तं पूजयेत् पुरुषोत्तमम्।। 29.63 ।।
शक्तयोऽस्यायुधाकारा विज्ञेया बाहवो दिशः।
द्यौर्मूर्धा पृथिवी पादौ दृष्टिरर्को मनः शशी।। 29.64 ।।
अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च।
नित्यः सर्वगतः स्थाणुः पूज्यो नित्यं मनीषिभिः।। 29.65 ।।
यदा यदा प्रसन्ना धीर्ध्यायेत् सूक्ष्मं तदा तदा।
सीदन्ति संशयेनैव यतयोऽप्यत्र विक्लवाः।। 29.66 ।।
आगमार्थं दृढं कुर्यात् सर्वविद्याभिरात्मवान्।
विवेकेन च शुद्धेन नागमस्यैव संप्लवम्।। 29.67 ।।
स्वगृह्ये धर्मशास्त्रे च यदुक्तं तत् सदाचरेत्।
तन्त्रोक्तमविरुद्धे च कुलवर्णाश्रमानुगम्।। 29.68 ।।
स्रीशूद्राणां तु सर्वेषां नौपनायनिकक्रिया।
दीक्षोपनयनं तेषां तान्त्रिकश्च मनाग्विधिः।। 29.69 ।।
तान्त्रिकास्तन्त्रमन्त्राः स्युर्विधयश्च तदाश्रयाः।
मूलमन्त्रैश्च गायत्र्या वैदिकैश्च त्रिधा क्रिया।। 29.70 ।।
विट्छूद्रयोर्नृपे विप्रे सर्वं वा विप्र इत्यते।
होमादिषु स्वमन्त्राः स्युरनुलोमास्तु वा सदा।। 29.71 ।।
चतुर्वर्णोद्भवाः सर्वे प्रतिलोमानुलोमजाः।
तत्रानुलोमजाः श्रेष्ठा वर्ज्यास्तु प्रतिलोमजाः।। 29.72 ।।
प्रतिलोमेषु सर्वेषु सूत एकस्तु गृह्यते।
नार्हन्त्येवेतरे दीक्षां वर्णाश्रमबहिष्कृताः।। 29.73 ।।
ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा।
चतुर्धाऽऽश्रमिणो भिन्नाः पुनश्चारभेदतः।। 29.74 ।।
तत्राद्यो ब्रह्मचारी च लिङ्गी शिष्य उपासकः।
अक्षारलवणाशी यो भैक्षाहारो मिताशनः।। 29.75 ।।
स्थण्डिलाजिनशायी च ब्रह्मचारी स उच्यते।
एवं कर्माणि यः कुर्याच्चक्रादिकृतलक्षणः।। 29.76 ।।
देवताराधने सक्तः स लिङ्गीति प्रकीर्तितः।
भैक्षमात्रेण जीवन् यः पठेच्छुश्रूषुरर्चकः।। 29.77 ।।
नान्यकार्यपरो नित्यं स शिष्यः परिकीर्तितः।
त्रिसन्ध्यं पूजयन् देवं नान्यकार्यपरश्च यः।। 29.78 ।।
त्रिः स्नात्वाऽनुचरेन्नित्यं गुरुं स स्यादुपासकः।
व्रती गृहस्थ एवाढ्य आचार्यो गृहिणस्त्विमे।। 29.79 ।।
चत्वार इह सम्प्रोक्तास्तथैवाचारभेदतः।
व्रतोपवासी नक्ताशी नियतार्चो जितेन्द्रियः।। 29.80 ।।
ऋतुगामी मिताहारो व्रती मूलपरः सदा।
यज्ञाध्ययनदेवार्चाशिष्यादिभरणोद्यतः।। 29.81 ।।
गृहस्य इति विज्ञेयः स्वदारव्रतिको नरः।
सर्वातिथ्यपरो नित्यं कामभोजी सुखान्वितः।। 29.82 ।।
देवोत्सवपरो भक्तः पर्वयाज्याढ्य उच्यते।
याजनाध्यापने युक्तो यागे वैदिकतान्त्रिके।। 29.83 ।।
नित्ययाजी जितकोध आचार्योऽनुग्रहोन्मुखः।
तथा वैखानसस्तन्त्री गुरुर्निष्कल एव च।। 29.84 ।।
वानप्रस्थश्चतुर्धैव तन्त्रेऽस्मिन् परिकीर्तितः।
अक्षारलवणाशी यो व्याख्याता पुत्रदारवान्।। 29.85 ।।
स्थण्डिलाजिनशायी च ध्यायन् वैखानसः सदा।
वन्यवृत्तिस्रिसन्ध्यार्ची जपहोमपरायणः।। 29.86 ।।
वल्कलाजिनवस्तन्त्री दर्भशायी जपन् सदा।
त्रिः स्नायी नियतावासश्चीरी मूलफलाशनः।। 29.87 ।।
तीर्थस्नातोऽर्चयन् ध्यायन् द्विषट्कजपवान् गुरुः।
यदृच्छालाभसन्तुष्टो नक्तभोजी दृढव्रतः।। 29.88 ।।
चीरी विमत्सरो मौनी निष्कलोऽह्नस्त्रिरर्चयन्।
हंसः परमहंसश्च भगवान् प्रभुरित्यपि।। 29.89 ।।
चतुर्विधः समाख्यातस्तन्त्रेऽस्मिन् दीक्षितो यतिः।
शङ्खचक्रधरो नित्यमेकदण्ड्येकभैक्षभुक्।। 29.90 ।।
सदार्ची कर्मविद् ध्यानी हंसो जपपरः सदा।
अद्वैतनिरतो दण्डी ज्ञानध्यानपरायणः।। 29.91 ।।
शान्तोऽशिखोपवीतश्च भैक्षाहारो व्रतस्थितः।
यतिः परमहंसः स्यात् तन्त्रकर्मणि निष्ठितः।। 29.92 ।।
शङ्खचक्रबृसीशिक्यकमण्डलुपवित्रवान्।
त्रिदण्डी पात्रवान् भिक्षुर्भगवान् योगपट्टभृत्।। 29.93 ।।
एतान्येव वहन् नित्यं छत्रं प्रतिकृतिं तथा।
चक्रयागेन देवेशमर्चयन् नियतात्मवान्।। 29.94 ।।
त्रिसन्ध्याराधने युक्तः सत्त्वस्थो जपवान् प्रभुः।
विषुवायनयोर्जन्मद्वादशीश्रवणेषु च।। 29.95 ।।
अष्टम्यां च नवम्यां च पञ्चम्यां न स्त्रियं व्रजेत्।
मूलेन परिषिच्यान्नं स्पृष्ट्वा पीत्वा जलं तथा।। 29.96 ।।
ध्यात्वाऽन्तः पुरुषं मौनी दीप्तवैश्वानरं तथा।
प्रणवेनाहुतीः पञ्च कुर्यात् पञ्चात्मने ततः।। 29.97 ।।
वक्त्रमात्रं ग्रसेत् पिण्डं न हसेन्नोद्विजेत वा।
त्यजेत् सर्वत्र चापल्यं भोक्तव्यं शब्दवर्जितम्।। 29.98 ।।
श्वोदक्यान्त्यजपाषण्डिकाकदेवलुकुक्कुटान्।
कारुकान् वा तदा पश्यन् स्नायात् त्यक्त्वाऽन्नमज्जसा।। 29.99 ।।
पञ्चोपनिषदो जप्त्वा प्रोक्षयेत् प्रणवेन च।
विष्णुश्चाथ महाविष्णुः सदाविष्णुरिमे त्रयः।। 29.100 ।।
सवनेषु क्रमात् पूज्या जपध्यानादिभिः सदा।
प्रातस्तु विष्णुगायत्री मध्याह्ने द्वादशाक्षरम्।। 29.101 ।।
सायमष्टाक्षरं नित्यं मूलं वा सर्वदा जपेत्।
उत्थायानु गरुं स्नात्वा ध्यात्वा देवं प्रपूजयेत्।। 29.102 ।।
निर्गच्छेत् सव्यपादेन प्रविशेच्चालयं पुनः।
गुरोरनुज्ञया भैक्षं चरेत् पात्रेण शं वदन्।। 29.103 ।।
गुरवे दर्शयित्वा तु विन्यसेत् तदनुज्ञया।
आचम्य मूलमन्त्रेण हुत्वाऽग्नौ समिधः शुचिः।। 29.104 ।।
आसने सुखमासीनः पादौ विन्यस्य भूतले।
पात्रं च वामहस्तेन स्पृशन् प्राणाहुतीश्चरेत्।। 29.105 ।।
यद्युत्तिष्ठेदनाचान्तो भुक्तवानासनाद् द्विजः।
स्नानं सद्यस्तु कर्तव्यं तस्मात् तत्रैव चाचमेत्।। 29.106 ।।
सन्ध्यामुपास्य भूयोऽपि हुत्वा च समिधस्तथा।
अर्चयित्वा हरिं भिक्षां चरेत् पूर्ववदेव च।। 29.107 ।।
एवं प्रातश्च सायं च गुरोर्वचनमास्थितः।
गुरोरनुज्ञया पश्चाद् गृहस्थाश्रममाश्रितः।। 29.108 ।।
स्नात्वा तमर्चयेन्नित्यं ततः कर्माणि चाचरेत्।। 29.109 ।।

।। इति विष्णुसंहितायामेकोनत्रिंशः पटलः ।।