← पटलः ४ विष्णुसंहिता
पटलः ५
[[लेखकः :|]]
पटलः ६ →
विष्णुसंहितायाः पटलाः


।। अथ पञ्चमः पटलः ।।

अथ वक्ष्यामि संक्षोपान्मन्त्रोद्धारविधिं परम्।
यस्मिन् सम्यक्कृते मन्त्रा वीर्यवन्तः स्युरिष्टदाः।। 5.1 ।।
विविक्ते सुसमे देशे शुचौ स्निग्धे मनोरमे।
पुष्पप्रकरसंकीर्णे मन्त्रोद्धारं समाचरेत्।। 5.2 ।।
स्रात्वाऽऽचान्तः कृतन्यासो गन्धपुष्पाद्यलङ्कृतः।
सानुगः प्रयतो मन्त्री सूत्रपातं प्रकल्पयेत्।। 5.3 ।।
चतुष्षष्टिपदं कृत्वा चन्दनेन सुगन्धिना।
आदिहान्तां समालिख्य मातृकामष्टविर्गिणीम्।। 5.4 ।।
आदिपङ्कौ द्विशो वर्गं वर्गशोऽन्यत्र चान्ततः।
नादात् सर्वगतादष्टवर्गोत्पत्तिमनुस्मरेत्।। 5.5 ।।
नादोऽकारः स्वयं जातो वासुदेवात्मकस्ततः।
संकर्षणाख्ययाऽऽकार इकारश्च शिवाख्यया।। 5.6 ।।
ईकारश्च ततो जातस्तौ च संकर्षणात्मको।
ब्रह्मोकारोऽत ऊकारः प्रद्युमनाख्यौ च तौ स्मृतौ।। 5.7 ।।
हंसाख्योऽस्मादृकारोऽत ऋकारश्चानिरुद्धकः।
लृकारो महदाख्योऽज लॄकारश्च ततोऽजनि।। 5.8 ।।
ततो रुद्राख्य एकार ऐकारश्चाप्यनन्तरः।
प्रजापत्याख्य ओकार औकारश्च तदात्मकः।। 5.9 ।।
बिन्दुस्तस्माद्धरीशात्मा विसर्गोऽस्माच्च ते स्वराः।
तस्माद्धरीशाद् ब्राह्म्यादिमातृभेदेन सप्तधा।। 5.10 ।।
कादिवर्गा यशादी च न्यस्तव्यास्तेऽन्यपङ्क्तिषु।
एवं सरस्वतीं देवीमष्टवर्गात्मिकां सुभाम्।। 5.11 ।।
गन्धपूष्पैर्यजेद् वर्णदेवतानामभिः क्रमात्।
ततो गारुडमश्विभ्यामुद्‌धृतं वर्णहारकम्।। 5.12 ।।
यमाख्यमोद्वयं चेष्ट्वा तेन मन्त्रान् समुद्धरेत्।
प्रणवाष्टाक्षरोद्धारे वासुदेवः स्वयं भवेत्।। 5.13 ।।
षट्के संकर्षणो ब्रह्मा गायत्र्यां चाक्रिके हरः।
प्रद्युम्नस्त्वजितोद्धारे नारसिंहेऽनिरुद्धकः।। 5.14 ।।
वासुदेवादिभिः स्वे स्वे बीजमन्त्राश्च हेतयः।
आदित्येनैव तूद्धार्याः पञ्चोपनिषदादयः।। 5.15 ।।
आद्यादिमुद्धरेत् पूर्वं पुनस्तत्रैव पञ्चमम्।
षष्ठान्तं चादिवर्गोनं त्रयमेकत्र योजयेत्।। 5.16 ।।
एतत् तत् परमं तत्त्वमक्षरं परमं पदम्।
अनेनैवार्चनं विष्णोर्जपो होमश्च मोक्षदः।। 5.17 ।।
त्रिदेवगुणवेदाग्निसन्ध्यालोकदशास्वयम्।
वेदादिरक्षरव्याप्त्या सर्वमन्त्रादितां गतः।। 5.18 ।।
पञ्चमान्तं परं तारात् षष्ठान्तं सत्रयोदशम्।
देवनाम चतुर्थ्यन्तमित्येतन्मन्त्रलक्षणम्।। 5.19 ।।
एवं षडक्षरो मन्त्रो निर्बीजोऽष्टाक्षरस्तथा।
द्विषट्के भगवच्छब्दो नमस्कारात् परो भवेत्।। 5.20 ।।
बीजं तारादिनत्यन्तं सर्वत्राख्या न चेत् परा।
यत्राऽख्या तु चतुर्थ्यन्ता नमस्कारस्तदाऽन्ततः।। 5.21 ।।
चतुर्थमष्टमे बीजमादिषष्ठान्तबिन्दुकम्।
हृदयं तदबीजस्य विष्णुबीजं च यद् विदुः।। 5.22 ।।
द्वितीयाद्यं शिरश्चास्य बिन्द्वन्तमुपकल्पयेत्।
अष्टमाद्यं शिखाबीजं तृतीयस्वरभेदितम्।। 5.23 ।।
चतुर्थं कवचं चान्त्ये पञ्चमस्वरबिन्दुमत्।
तदेवास्त्रं भवेत् तस्य षोडशस्वरसंयुतम्।। 5.24 ।।
एतत् पञ्चाङ्गमुद्दिष्टं निर्बीजस्य षडात्मनः।
यदाख्याजातिभिर्युक्तं सर्वकामप्रदं विदुः।। 5.25 ।।
हृद्बीजं मूलमङ्गानि द्विचतुष्षष्ठयोगतः।
नेत्रान्तानि षडप्याहुर्द्वादशान्त्यचतुर्दशैः।। 5.26 ।।
नमोन्तानि निराख्यानि साख्यानि तु सबीजके।
प्रणवानन्तरं बीजमनन्ते चेन्नमोन्वितम्।। 5.27 ।।
सबीजस्येदमुद्दिष्टं मूलमन्त्रस्य लक्षणम्।
तारात् सबिन्दुकैर्वर्णैः स्वरभेदितबीजकैः।। 5.28 ।।
नमोन्ताख्यैः षडङ्गानि नेत्रान्तं तत् प्रकल्पयेत्।
हृदयं कुन्दसङ्काशं शिरो भिन्नाञ्जनप्रभम्।। 5.29 ।।
शिखा तु पिङ्गला ज्ञेया कवचं हेमसन्निभम्।
विद्युदाकारमस्त्रं स्यान्नेत्रं ज्वलनसन्निभम्।। 5.30 ।।
ज्ञानसन्तोषनित्यत्वस्वातन्त्र्याविघ्नवैभवैः।
हृदयादिगुणैर्युक्तः सकलोऽनुग्रहादिकृत्।। 5.31 ।।
स्वाहाकारवषट्कारौ होमे शान्तिकपौष्टिके।
नमस्कारो जपार्चादावैश्वर्ये प्रणवोऽन्ततः।। 5.32 ।।
आदौ तारनमोमध्ये बिन्द्वन्ताः षोयरावलाः।
पराय भगवत्स्थाने पञ्चोपनिषदादिषु।। 5.33 ।।
प्रथमः परमेष्ठ्यात्मा पुरुषात्मा तथापरः।
विश्वात्माऽथ निवृत्त्यात्मा सर्वात्मा पञ्च ते स्मृताः।। 5.34 ।।
आवाहने विसर्गे च योज्याः पञ्च क्रमोत्क्रमात्।
प्रोक्षणे शान्तिहोमे च द्रव्यशुद्धौ च कीर्तिताः।। 5.35 ।।
पुरुषः प्रकृतिश्चोभौ जीवप्राणसमाह्वयौ।
बुद्ध्यहंकारसङ्कल्पास्तन्मात्राणीन्द्रियाणि च।। 5.36 ।।
भूतानि चेति बिन्द्वन्तैर्मादिकान्तैरनुक्रमात्।
पञ्चविंशतितत्त्वानि विज्ञातव्यानि देशिकैः।। 5.37 ।।
अष्टमान्त्यं स्वरान्त्याभ्यां कालदिङ्मन्त्रयोः क्रमात्।
खकारो वैनतेयस्य विघ्नेशस्य ततः परम्।। 5.38 ।।
कालबीजमनन्तस्य दीर्घैरङ्गानि तस्य षट्।
अक्षबीजं तु वर्णान्त्यं चक्रमण्डलकल्पने।। 5.39 ।।
पद्मस्य प्रणवोऽस्यांशाः पत्रकेसरकर्णिकाः।
ह्रस्वाक्षराणि बीजानि नाभिस्थे सवनत्रये।। 5.40 ।।
असंवृतस्वरैः कालमरमासेषु योजयेत्।
अविसर्गैः स्वरैराद्यैर्वामदक्षिणपार्श्वयोः।। 5.41 ।।
राशीनां तैर्विसर्गाद्यैरप्यूह्यास्तिथयो द्विधा।
अश्वयुक्प्रभृतीन्येषु नक्षत्राणि यथाक्रमम्।। 5.42 ।।
बिन्द्वन्तैरादिकान्तैस्तु हादिमान्तैर्नव ग्रहाः।
अर्कादयः स्वराशिस्था राहुकेतू च यद्गतौ।। 5.43 ।।
सकारश्च षकारश्च नेम्योरन्तर्बहिष्ठयोः।
प्रकृत्यादीनि तत्त्वानि योज्यानीह पृथक् क्रमात्।। 5.44 ।।
द्वादशाक्षरबीजैस्तु योज्या विष्ण्वादयोऽरगाः।
ऋतवो मूलबीजैस्तु वसन्ताद्य यथाक्रमम्।। 5.45 ।।
चक्रमण्डलयागे तु विशेषोऽयमिहोदितः।
भद्रकस्थण्डिलार्चासु न मन्त्राः कालसंश्रयाः।। 5.46 ।।
नामाष्टकद्विषट्कस्थं विद्महेधीमहेन्वितम्।
क्रमेण कल्पयेत् तन्नो विष्णुरन्ते प्रचोदयात्।। 5.47 ।।
गायत्री वैष्णवी ज्ञेया सर्वपापहरा त्वियम्।
यद् दत्तमनया सर्वं प्रतिगृह्णाति देवराट्।। 5.48 ।।
उपचारे च योक्तव्या पक्वे पूर्णाहुतौ च सा।
सहस्रारेति संकीर्त्य हुंकारं फट् च योजयेत्।। 5.49 ।।
षडक्षरमिदं ज्ञेयं सुदर्शनमखण्डितम्।
क्षुद्रभूतपिशाचादिवारणं रोगनाशनम्।। 5.50 ।।
सचतुर्दशबिन्द्वन्त्यं नारसिंहं च तादृशम्।
विलोमाष्टमवर्गार्णैस्तारपूर्वैरबिन्दुभिः।। 5.51 ।।
वासुदेवादयो योज्या नमोन्ता दिक्षु मूर्तयः।
दीर्घैस्तैरेव कोणेषु शान्तिः श्रीश्च सरस्वती।। 5.52 ।।
रतिश्चेति क्रमाद् योज्याश्चतस्रो मूर्तिशक्तयः।
अष्टमस्यादिबीजं तु द्विसप्तान्तेन संयुतम्।। 5.53 ।।
सप्तमस्य द्वितीयं च तृतीयं च तथा भवेत्।
द्वितीयस्य तृतीयं च तृतीयावरणे क्रमात्।। 5.54 ।।
दीर्घोऽन्त्यादिस्तु बिन्द्वन्तो द्वितीयस्य द्वितीयकः।
बिन्द्वेकादशसंयुक्तः सोऽन्त्यादिश्च सबिन्दुकः।। 5.55 ।।
दिक्कोणेषु क्रमादष्टौ बीजानि कथितानि च।
वर्गादिभिः क्रमाद् बीजैरिन्द्राद्याः परितः स्मृताः।। 5.56 ।।
वज्रादयोऽस्त्रमन्त्राश्च तद्वितीयैः सबिन्दुभिः।
विष्वक्सेनोऽन्तवौंकारो नमोन्तः परिकीर्तितः।। 5.57 ।।
सर्वासां देवतानां तु गुणशक्तिसमन्वयात्।
बीजानि कल्पयेद् विद्वान् पञ्चरात्रविशारदः।। 5.58 ।।
अक्षराणि तु वाक् प्रोक्ता न सा प्रक्षीयते किल।
तस्माद् वर्णे गृहीतेऽपि न शून्यं पुटमुच्यते।। 5.59 ।।
व्यञ्जनानि स्वरानत्र गृह्णीयाच्च पृथक् पृथक्।
तद् गृहीतं गृहीतं च सन्धयित्वान्यदुद्धरेत्।। 5.60 ।।
सकलीकरणं नाम मन्त्रसंस्कार उत्तमः।
तस्मादुद्धरणं कार्यमिष्ट्वा कोष्ठेषु मातृकाम्।। 5.61 ।।
अनक्षरेषु कोष्ठेषु पूजयेन्मन्त्रमुद्‌धृतम्।
एवं समुद्‌धृता मन्त्रः प्रणवोद्दीपिताक्षराः।। 5.62 ।।
वीर्यवन्तो भविष्यन्ति भुक्तिमुक्तिफलप्रदाः।
गत्वैकान्ते शुचौ देशे स्राताचान्तो जितेन्द्रियः।। 5.63 ।।
मण्डले देवमाराध्य साङ्गं सावरणं क्रमात्।
जपेत् षड्‌विंशतिं लक्षान् व्रतस्थोऽनन्यमानसः।। 5.64 ।।
तिलानां घृतमिश्राणां सहस्रं चैव होमयेत्।
ततस्तु सिध्यते मन्त्रो वरदश्चापि जायते।। 5.65 ।।
सप्तलोक्यं यदिष्टं स्यादात्मनः सुखसाधनम्।
तद्भोग्यत्वमनेनाशु याति ध्यानप्रयोगतः।। 5.66 ।।
देवशक्तिरमोघैषा न क्वचित् प्रतिहन्यते।
देवदानवयक्षेषु किम्पुनर्मानुषे जने।। 5.67 ।।
यक्षिणी किन्नरी चाथ दिव्ययोषा च मानुषी।
तस्य षट्पञ्चसप्तैकमासतः किंकरी भवेत्।। 5.68 ।।
नाम संकीर्त्य साध्याया बीजान्ते वशमेत्विति।
बीजमन्ते च योक्तव्यं ज्वलद्वह्निस्फुलिङ्गमुक्।। 5.69 ।।
क्रुद्धं प्लुतप्रयोगेण साधयेदचिराद् बलात्।
एवमेवाभिचारेषु फट्कारान्तं प्रयोजयेत्।। 5.70 ।।
नामान्ते नाशमायातु विशेषोऽयं च विद्यते।
नामान्ते नाम इत्युक्त्वा ततो बीजं विचिन्तयेत्।। 5.71 ।।
आकर्षे च वशीकारे विशेषोऽयमिहोदितः।
विसंज्ञं विह्वलं साध्यमायान्तं चिन्तयेदलम्।। 5.72 ।।
कलशो हेमरत्नाढ्यस्तद्धृतोऽविरतां वहन्।
ध्येयः स्वपुरतो धारां धनस्यापरिमाणतः।। 5.73 ।।
भूतिकामस्य योगोऽयं नाम्ना वैश्रवणस्य हि।
प्रयच्छत्विति नामान्ते वसुनाम सनामकम्।। 5.74 ।।
वशीकारे परां कन्यामाप्नोति चिरमभ्यसन्।
लभ्यतामिति नामान्ते तस्याः संपरिकीर्तयेत्।। 5.75 ।।
उच्चाटे गच्छतु ज्ञेयमायात्वानयनेऽभ्यसेत्।
प्रीतावावहतु प्रीतिं विद्वेषे द्वेषमृच्छतु।। 5.76 ।।
यत् सिसाधयिषुर्विद्वानिदं सिद्धं पुनर्जपेत्।
तस्य सिध्यतितत् क्षिप्रं किन्तु श्रद्धाबियोगतः।। 5.77 ।।
हृद्बीजं तु प्लुतं चिन्त्यं ज्वलदष्टतनौ स्थितम्।
अनेनैवात्मनः कृत्वा सकलीकरणं तनौ।। 5.78 ।।
येन येन स्वरेणैतद् युक्तं यत्र नियुज्यते।
तदेतत् साधयत्याशु न मोघमिति दारणा।। 5.79 ।।

।। इति विष्णुसंहितायां पञ्चमः पटलः ।।

"https://sa.wikisource.org/w/index.php?title=विष्णुसंहिता/पटलः_५&oldid=207295" इत्यस्माद् पुनः प्राप्तिः