← पटलः १८ विष्णुसंहिता
पटलः १९
[[लेखकः :|]]
पटलः २० →
विष्णुसंहितायाः पटलाः


।। अथैकोनविंशः पटलः ।।

अथ वक्ष्यामि संक्षेपात् प्रतिष्ठानन्तरक्रियाम्।
पूर्ववत् स्थण्डिलान्यष्टौ होमार्थं दिक्षु कल्पयेत्।। 19.1 ।।
उल्लेखनादिकं कृत्वा पूर्वोक्तविधिना क्रमात्।
प्रणीत वैष्णवं वह्निं जुहुयुर्दिक्षु दीक्षिताः।। 19.2 ।।
इन्द्रक्रतुमिति प्राच्यामग्निंदूतं हुताशने।
नोक्तसुपर्णं याम्यायां नैर्ऋत्यां मोषुणः परा।। 19.3 ।।
यरंक्षन्तीति वारुण्यां वायवायाहि पावने।
सोमंराजानमित्येवं सौम्ये शार्वे त्रियम्बकम्।। 19.4 ।।
पञ्च तारान् पुरोऽनूच्य प्रत्येकं पूर्वतः क्रमात्।
अमीभिर्हुहुयुर्मन्त्रैः पक्वं विधिवदृत्विजः।। 19.5 ।।
पलाशखदिराश्वत्थप्लक्षन्यग्रोधबिल्वजाः।
औदुम्बराश्च काश्मर्यः समिधोऽष्यशतं पृथक्।। 19.6 ।।
तावदाज्यान्नलाजादीन् हुत्वा शेषं समापयेत्।
समिदादि यथालाभमिन्द्राद्यस्त्रैश्च होमयेत्।। 19.7 ।।
इन्द्रादीन् होमयित्वैवं स्वमन्त्रैरष्टदिक्षु च।
सम्पाताज्ययुतैस्तोयैर्घटस्थैर्मन्त्रसंस्कृतैः।। 19.8 ।।
संस्नाप्य पीठिकास्वेतान् गन्धाद्यैः पूजयेत् क्रमात्।
स्कन्दमैन्द्यां प्रतिष्ठाप्य षण्मुखायेति विद्यया।। 19.9 ।।
शास्तारमग्नौ भांबीजं भूताधिपतये नमः।
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा।। 19.10 ।।
वाराह्यैन्द्री च चामुण्डी याम्ये वै सप्त मातरः।
वीरभद्रगणेशाभ्यां सह प्राकारपार्श्वतः।। 19.11 ।।
वीरभद्रः स्वराः सर्वे सप्तवर्गास्तु मातरः।
कूटो गणपतिश्चेति क्रमाज्ज्ञेया च मातृका।। 19.12 ।।
प्रणवेन स्वमन्त्रैर्वा नैर्ऋत्यां तु दिवाकरम्।
घषोत्कायेति मन्त्रो वा हुतान्तस्तद्विधौ भवेत्।। 19.13 ।।
पश्चाद् ब्रह्मा स्वषट्केण तथान्यस्तत्सदित्यपि।
ततो भूरिति बीजेन वराहो वायुगोचरे।। 19.14 ।।
दुर्गा ह्रीङ्कारपूर्वेण सा नाम्नोत्तरतस्तथा।
सश्रीधरहयास्या वा वागीश्वर्यादिमातरः।। 19.15 ।।
वागीश्वरी क्रिया कीर्तिर्लक्ष्मीः सृष्टिश्च पञ्चमी।
विद्या कान्तिरिति ज्ञेयाः शङ्खचक्रगदाधराः।। 19.16 ।।
चतुर्थषष्ठौ बिन्द्वन्तौ द्वादशोऽथ त्रयोदशः।
आद्यश्चैकादशो ज्ञेयो द्वितीयश्चैन्द्रगाः स्वराः।। 19.17 ।।
विष्वक्सेनोऽदितौ स्थाप्यः शङ्खचक्रगदाधरः।
तर्जयन् वामतर्जन्या नासाग्रासन्नया जगत्।। 19.18 ।।
गन्धपुष्पैः समभ्यर्च्य शिष्टद्रव्यैस्तु याज्ञिकैः।
देवोपयुक्तं पुष्पादि यत् प्रासादान्तरस्थितम्।। 19.19 ।।
तत् सर्वमस्मै दत्त्वाऽन्ते वस्त्राभ्यां परिवेष्टयेत्।
ईशानं चेशदिग्भागे स्वमन्त्रैः स्थापयेत् ततः।। 19.20 ।।
कुमुदाद्याश्च पीठेषु पूर्वादिध्वजदेवताः।
प्राकारात्तु बहिः स्थाप्याः पूज्याश्च बलिभिः क्रमात्।। 19.21 ।।
बलिपीठे बलश्चाग्रे सगणो भूतनायकः।
स्थापयित्वाऽर्चयित्वा च सर्वान् विज्ञापयेत् ततः।। 19.22 ।।
यावदत्र जगन्नाथो बिम्बमाश्रित्य तिष्ठति।
तावदत्रैव रक्षार्थं यूयं तिष्ठत सर्वदा।। 19.23 ।।
अन्तर्मण्डलदण्डार्धदण्डे स्यादन्तहारका।
मध्यहारा द्विदण्डा च चतुर्मर्यादभित्तिका।। 19.24 ।।
सप्तदण्डायता कार्या मर्यादाभित्तिका ततः।
मुखायामस्त्रिभागेन पादेनार्धेन वा पुनः।। 19.25 ।।
बलिपीठसमुत्सेधो गर्भागारप्रतेः समः।
पूजापीठसमो वाऽपि षडूनो वा प्रकीर्त्तितः।। 19.26 ।।
उत्सेधं दशधा कृत्वा सप्तांशस्तस्य विस्तरः।
सप्तविंशतिधा कृत्वा सममेव तदुच्छ्रयम्।। 19.27 ।।
एकांशं पादुकं विद्यात् चतुर्भिर्जगतीं पुनः।
त्रिभागं कुमुदं चैव तथैकांशेन पट्टिकाम्।। 19.28 ।।
दशांशं कण्ठमित्याहुरंशाभ्यां कम्बुनिद्रवौ।
त्रिभिः कपोतमित्याहुरेकांशेनाग्रपट्टिकाम्।। 19.29 ।।
द्व्यंशकं पद्ममन्ते स्यादेतत् पीठस्य लक्षणम्।
उत्तमाधममध्यत्वं बिम्बयोगात् प्रकल्पयेत्।। 19.30 ।।
उत्तमानां तु बिम्बानां वर्जिते मध्यमाधमे।
वर्जिता पीठिकाश्चाष्टौ मध्यमाधमयोस्तथा।। 19.31 ।।
पीठिकानां विपर्यासे कुलनाशो भवेद् यतः।
स्वानां स्वानां विपर्यासो न कार्योऽतः सुखार्थिभिः।। 19.32 ।।
उत्सेधनिर्गमौ तुल्यौ पादुकस्य प्रकीर्त्तितौ।
जगतीकुम्भयोः सन्धौ तावदन्तर्गतं भवेत्।। 19.33 ।।
भागं कुम्भोत्तरे कृत्वा भागार्धं पट्टिकां ततः।
भागमेकं त्रिभागैकं कुर्याद् वै कण्ठपादुकम्।। 19.34 ।।
भागार्धान्तर्गतं कण्ठं पादमात्रा तु मेखला।
विस्तारादष्टभागैकं पादविस्तार उच्यते।। 19.35 ।।
चत्वारो द्वादशैवं वा कर्तव्याः कण्ठपादुकाः।
कण्ठाग्रपट्टिकां कुर्याद् यथावत् कुम्भपट्टिकाम्।। 19.36 ।।
भागं बाह्यगतं चैव वलभ्यर्धं तु भङ्गुरम्।
अन्तर्भङ्गुरवद् भागं सलिलं सर्वतो भवेत्।। 19.37 ।।
ऊर्ध्वं तु पट्टिका ज्ञेया पद्माकृतिरथान्तरे।
तत्पीठं मध्यतः कृत्वा मण्डपं लक्षणान्वितम्।। 19.38 ।।
बीजाङ्कुरध्वजारोहबलिमङ्गलपूर्वकम्।
उत्सवान्नाद्यपुण्याहस्थानशुद्ध्यादिसंयुतम्।। 19.39 ।।
समन्तात् पीठविस्तारं लिखित्वा भद्रकाष्टकम्।
कलशान् पूरयित्वाऽष्टौ घृतैर्धान्यैस्तु वाऽम्बुभिः।। 19.40 ।।
सर्वरत्नसमायुक्तं वस्त्रयुग्मैस्तु वेष्टयेत्।
लोहजं मृण्मयं वाऽन्यं पीठस्योपरि कल्पयेत्।। 19.41 ।।
भूतनाथस्य चारभ्य भूतानां चप्रदक्षिणम्।
गन्धादिनाऽर्चयित्वा तु फलैः पुष्पैश्च सर्वतः।। 19.42 ।।
भक्ष्यभोज्यादिसंयुक्तं कलशांश्चैव पूर्ववत्।
वस्त्रैः संवेष्टयेत् सर्वान् नवैः केशादिवर्जितैः।। 19.43 ।।
होमार्थं तु द्विजा ग्राह्या अष्टौ चत्वार एव वा।
स्वयं वैकं प्रकुर्वीत पूर्वोक्तविधिना गुरुः।। 19.44 ।।
वेदाध्ययनसंयुक्तं तथा जागरणं निशि।
प्रासादाभ्यन्तरे देवमाराध्य विधिपूर्वकम्।। 19.45 ।।
बलिदानं यथाशक्ति सर्वं कृत्वा तु पूर्ववत्।
सर्वेषां मूर्तिपानां तु होमयेन्मूलविद्यया।। 19.46 ।।
यथा स्वनाममन्त्रेण समिदाज्यहवींषि च।
लाजांशअच सर्षपांश्चैव तथा सक्तून् यवांस्तिलान्।। 19.47 ।।
दधि क्षीरं तथा क्षौद्रं पुष्पाणि तु फलानि च।
सर्वं साज्यं तु होतव्यं सर्वशान्तिकरं शुभम्।। 19.48 ।।
अष्टोत्तरसहस्रं वा शतं वा होमयेत् पृथक्।
दद्यात् पूर्णाहुतिं चात्र प्रतिद्रव्यं विधानतः।। 19.49 ।।
शङ्खतूर्यादिसंयुक्तं दिक्षु भूतबलिं हरेत्।
ओन्नमः प्राच्येभ्यो भूतेभ्यो विश्वभूतेभ्यः।
नमोऽस्तु विश्वरूपेभ्यो विरूपेभ्यश्च वो नमः।। 19.50 ।।
ओम्
नमोऽस्तु दक्षिणेभ्यश्च भूतेभ्यः शार्ङ्गधन्वनः।
नमो हाहाभ्यो भूतेभ्यः सर्वेभ्यो वो नमोनमः।। 19.51 ।।
ओन्नमः पाश्चात्त्येभ्यो भूतेभ्यो भैरवेभ्यो विष्णुपालकेभ्यो वियद्ग्रहोदरवर्तिभ्यो हुं फट् ओं गच्छत ठठ। विष्णुगणानामतो बलिमुपाहरामि भद्रं नो ददत प्रीणयत स्वाहा।
ओन्नमो विष्णुभूतेभ्य उदीच्येभ्यः सकलजन्तुहितकरेभ्यो विश्वपालकेभ्यो वो नमः स्वाहा।

सुस्नातः स्वस्तिवाच्याथ ब्राह्मणानामनुज्ञया।
देवस्य महतीं पूजां कृत्वा भक्त्या समाहितः।। 19.52 ।।
वैनतेयं च सम्पूज्य परिवारं च शक्तितः।
भूतनाथमथाराध्य मूर्तिपान् पूजयेत् क्रमात्।। 19.53 ।।
अपूपसक्तुभिर्धानाफलभक्ष्यसमन्वितैः।
एतत्सर्वं क्रमात् कृत्वा ब्राह्मणानां च तर्पणम्।। 19.54 ।।
दक्षिणा चात्र दातव्या ब्राह्मणेभ्यः स्वशक्तितः।
गन्धपुष्पैरथाभ्यर्च्य बलिपीठं समाहितः।। 19.55 ।।
भूतानाथं प्रतिष्ठाप्य कुम्भतोयेन सेचयेत्।
इतरान् सेचयेद् दिक्षु मूर्त्तिपानां यथाक्रमम्।। 19.56 ।।
आचार्यो यजमानश्च बलिपीठं प्रदक्षिणम्।
अभ्यर्च्य गन्धपुष्पाद्यैः प्रणमेद् भूतनायकम्।। 19.57 ।।
पायसं कृसरं चैव गुलान्नं घृतसंयुतम्।
दध्ना मधुफलैर्युक्तं पूजयेद् भूतनायकम्।। 19.58 ।।
आचार्यो मूर्तिपालेभ्यो दक्षिणां दापयेत् ततः।
पूर्ववत् स्नपनं कुर्याद् देवदेवस्य शक्तितः।। 19.59 ।।
स्नानशेषैस्तु कुम्भस्थैराचार्यो मूर्त्तिपैः सह।
प्रोक्षयेत् परिवारांस्तान् गन्धादिभिरथार्चयेत्।। 19.60 ।।

।। इतिविष्णुसंहितायां एकोनविंशः पटलः ।।