← पटलः २० विष्णुसंहिता
पटलः २१
[[लेखकः :|]]
पटलः २२ →
विष्णुसंहितायाः पटलाः


।। अथैकविंशः पटलः ।।

अथ वक्ष्यामि संक्षेपाद् यात्रामस्य शुभाशुभाम्।
तीर्थयात्रा शुभा ज्ञेया साऽशुभा या स्वमन्दिरे।। 21.1 ।।
पूर्वेद्युरुत्सवं कृत्वा निशि दद्यान्महाबलिम्।
विष्णुपारिषदेभ्यश्च प्रमथेभ्यो नमो नमः।। 21.2 ।।
मातृभ्यस्तद्गणेभ्यश्च सर्वेभ्यो वै नमोनमः।
इत्येवं सर्वतो दत्त्वा प्रविश्य प्रार्थ्य पूर्ववत्।। 21.3 ।।
पीठे सास्तरणे देवं पुण्याहस्वस्तिवाचनैः।
कृतकौतुकमाराध्य ततः स्तोत्रादि कीर्तयेत्।। 21.4 ।।
स्नातः स्वलङ्कृतः प्रातः कृत्वा यागं पुरोदितम्।
षड्भिः कनिक्रदत्पूर्वैर्हुत्वा स्वस्त्यादिपञ्चकैः।। 21.5 ।।
मूलेनाष्टशतं चैव समिदाज्यचरून् क्रमात्।
शकुनानि परीक्ष्याथ स्नानयात्रां प्रयोजयेत्।। 21.6 ।।
रथं वा कुञ्जरं वाऽस्य यात्रावाहनमानयेत्।
नानावादित्रकुशलान् बहुंश्च परिचारकान्।। 21.7 ।।
छत्रध्वजपताकाश्च भटान् दासांश्च भक्तकान्।
ब्राह्मणांश्च समानीय मुहूर्ते शोभने गुरुः।। 21.8 ।।
पुण्याहं वाचयित्वाऽत्र प्राप्तानुज्ञो द्विजोत्तमैः।
देवं प्रदक्षिणीकृत्य प्रणिपत्य पुरः स्थितः।। 21.9 ।।
पीठे विन्यस्य कर्मार्चां कार्यं विज्ञापयेच्छनैः।
कर्मार्चा तीर्थयात्रार्थं तवेयं कल्पिता हरे!।। 21.10 ।।
तीर्थयात्रां कुरूष्वास्यां संक्रम्यानुग्रहाय नः।
ततः संहृत्य तामर्चामुत्पाद्य विधिपूर्वकम्।। 21.11 ।।
तस्यामावाहयेद् देवं पञ्चोपनिषदैः क्रमात्।
आवाहितमनुस्मृत्य दत्त्वाऽर्ध्यं प्रतिपूज्य च।। 21.12 ।।
सदशेन नवेनैव वस्त्रयुग्मेन वेष्टयेत्।
सोष्णीषः सोत्तरीयश्च कृतन्यासः समाहितः।। 21.13 ।।
दक्षिणेन तमादाय पाणिना वाग्यतः स्वयम्।
शिष्यैः परिवृतौ गच्छेन्मण्डपं समलंकृतम्।। 21.14 ।।
तत्र मङ्गलवादं तु सर्वमङ्गलसंयुतम्।
कुर्यादत्र द्विजाः सर्वे वदेयुश्च तथास्त्विति।। 21.15 ।।
मण्डपद्वारमासाद्य दत्त्वाऽर्ध्वं सह मूर्त्तिपैः।
गेहं प्रदक्षिणीकृत्य ततो गच्छेद् बहिः पुनः।। 21.16 ।।
उदकुम्भं हविश्छत्रं यागोपकरणानि च।
प्ररोहघटिकाश्चान्ये दारयेयुर्द्विजोत्तमाः।। 21.17 ।।
बहिर्निर्गम्य घोषेण महता वाग्यतः स्वयम्।
वाहनं गरुडं ध्यात्वा पूजयित्वाऽदिरुह्य तम्।। 21.18 ।।
गच्छेत् तु योजनादर्वाङ् नदीं वाऽन्यजलाशयम्।
दिङ्मन्त्रेण बहिस्सालं कृत्वा पूर्वं प्रदक्षिणम्।। 21.19 ।।
गच्छेयुर्वाग्यताः सर्वे सोत्तरीयाः स्वलंकृताः।
पथि घोषं जना वाद्यैर्गीतनृत्तरवैस्तथा।। 21.20 ।।
वाहनैर्विविधैश्चापि कुर्वीरन् देवतुष्टये।
तोरणाभ्यन्तरे गत्वा मण्डपं तीर्थपार्श्वतः।। 21.21 ।।
वेदिं परिश्रितां कृत्वा पीठे देवं निवेशयेत्।
दीक्षितैः पाचयित्वाऽत्र पायसं विजने क्वचित्।। 21.22 ।।
दत्त्वा पाद्यादि सर्वेण तमादाय नदीं व्रजेत्।
वारिणा तीर्थमावाह्य वैष्णवं तत्र पावनम्।। 21.23 ।।
तीर्थे त्रिधा निमज्ज्यास्मिन् मन्त्रेण परमेष्ठिना।
निवेस्य पीठे दत्त्वाऽर्ध्यं पाद्यमाचमनं तथा।। 21.24 ।।
आपोहिष्ठादिभिः प्रोक्ष्य पञ्चभिश्च समाहितः।
तमादाय पुनर्‌मज्जेत् तोये कृत्वाऽघमर्षणम्।। 21.25 ।।
तत्र स्नानं महापुण्यं सर्वपापहरं विदुः।
पीठे निवेश्य वस्त्रे द्वे परिधाय नवे स्वयम्।। 21.26 ।।
आचम्य तु कृतन्यासः पूजयेद् विधिना पुनः।
आज्युक्तं निवेद्यं च दत्त्वाऽस्मै विधिपूर्वकम्।। 21.27 ।।
तीर्थेऽस्मिन् वैष्णवे पुण्ये स्नातोऽसि पुरुषोत्तम!।
अतस्त्वमनुगृह्णीष्व स्वस्थानोपाश्रयेण नः।। 21.28 ।।
इति प्रार्थ्य तमादाय पूर्ववद् वाहनं नयेत्।
तमारुह्य यथापूर्वं प्रासादमशनैर्नयेत्।। 21.29 ।।
यात्राह्न्येव गृहं प्राप्य बिम्बे संक्रामयेत् ततः।
दोषोऽन्यथा महानत्र कर्तॄणां भवति ध्रुवम्।। 21.30 ।।
गत्वा गर्भगृहं पीठे निवेश्य सुसमाहितः।
तोयेन गन्धपुष्पैश्च बुद्ध्याऽऽवाह्य समन्त्रकम्।। 21.31 ।।
मूलबिम्बे यथान्यायां सर्वेण प्रतिरोपयेत्।
यात्रादावन्ततश्चैवमावाहनविधिः स्मृतः।। 21.32 ।।
सकलीकृतमाराध्य दत्त्वाऽर्ध्यं प्रणिपत्य च।
निर्गच्छेद् द्वारमावृत्य ब्राह्मणांश्चात्र भोजयेत्।। 21.33 ।।
निशि दद्याद् बलिं चैवं शुभयात्रा मयोदिता।
अशुभा वास्तुसिद्ध्यर्था कथ्यमानाऽवधार्यताम्।। 21.34 ।।
प्रासादे शिथिले जीर्णे मृद्बिम्बे चित्र एव वा।
निष्क्रामयेन्नवे गेहे विधिनाऽनेन देवताम्।। 21.35 ।।
पर्जन्ये वा जयन्ते वा दित्यदित्योश्च सम्भवात्।
प्रागद्वारे पश्चिमद्वारे मृगदौवारिकस्थितम्।। 21.36 ।।
प्रासादाभिमुखद्वारमल्पगेहं नवं शुभम्।
एकभूमिकमग्रीवं मृद्भिः काष्ठैरथापि वा।। 21.37 ।।
पीठं काष्ठमयं रम्यं सश्वभ्रं कारयेत् ततः।
कुर्याल्लोहमयं बिम्बं दारवं वाऽस्त्रमापदि।। 21.38 ।।
कृते कालावधौ सम्यक् संक्रामणमिहेष्यते।
मासादि द्वादशाब्दान्तं कालमत्र प्रचक्षते।। 21.39 ।।
नवं गेहं तु संशोध्य सर्वं कृत्वाऽथ पूर्ववत्।
राक्षोघ्नमादितः कृत्वा सर्वकर्माण्यतश्चरेत्।। 21.40 ।।
स्थापनोक्तविधानेन मण्डपं कारयेत् पुनः।
ध्वजतोरणसंयुक्तं मण्डयेदङ्कुरादिभिः।। 21.41 ।।
गव्यैरस्त्रेण सम्प्रोक्ष्य मध्ये स्वस्तिकमालिखेत्।
व्रीहिभिः स्थण्डिलं कृत्वा तस्मिन् वासोभिरास्तरेत्।। 21.42 ।।
तण्डुलान् निक्षिपेत् तस्मिन् कम्बलादिभिरास्तरेत्।
कुशैर्वस्त्रैश्च पुष्पैश्च गन्धादिभिरथार्चयेत्।। 21.43 ।।
जलेऽदिवास्य कर्मार्चां प्रक्षाल्य सलिलैः शुभैः।
मृत्तोयैः पत्रतोयैश्च कषायैर्गव्यपञ्चकैः।। 21.44 ।।
गन्धपुष्पैरलंकृत्य वस्त्रैराच्छाद्य शाययेत्।
शङ्खभेर्यादिनादेन गन्धपुष्पादिसंयुतम्।। 21.45 ।।
आ सप्तरात्रात् सन्ध्यासु देवताभ्यो बलिं हरेत्।
शृण्वन्तु देवताः सर्वाः प्रासादमिममाश्रिताः।। 21.46 ।।
यदुच्यमानमस्माभिरनुगृह्णन्तु तेन नः।
पूर्वैः पूर्वं कृतमिदं देवालयमसारवत्।। 21.47 ।।
प्राप्तं कालवशाद् भूयो वयं तत् कर्तुमुद्यताः।
कालेनैतावता भूयः प्रासादेऽस्मिन् पुनर्नवे।। 21.48 ।।
प्रापयामो वयं सत्यमित्युक्त्वा घोषयेद् बुधः।
मासादर्वाक् तु कालश्चेत् तत्र संकोच इष्यते।। 21.49 ।।
प्रासाददेहसंस्थानि सर्वतत्त्वान्यनुक्रमात्।
देवताश्च तथा हृत्वा परिवारसमायुतम्।। 21.50 ।।
ध्यात्वा संहारमार्गेण यथावद् देशिकोत्तमः।
तेजोरूपं तु तत् सर्वं मूलबिम्बे नियोजयेत्।। 21.51 ।।
तदूर्ध्वं च तथा कृत्वा संक्रामयितुमारभेत्।
प्रविश्य गर्भगेहं तु मूर्तिपैः सहितो गुरुः।। 21.52 ।।
पुण्याहं वाचयित्वाऽथ ब्राह्मणैः स्वस्ति वाचयेत्।
देवस्य महतीं पूजां कृत्वा भक्त्या यथाविधि।। 21.53 ।।
प्रणिपत्य पुरः स्थित्वा कार्यं विज्ञापयेच्छनैः।
भगवन्! वास्त्वभिनवं बिम्बं च (वा) तव शोभनम्।। 21.54 ।।
कारयिष्यन्ति ते भक्तास्तदनुज्ञातुमर्हसि।
क्लेशवासस्त्वया देव! रोचनीयोऽल्पके गृहे।। 21.55 ।।
यावन्नवं शुभं कृत्वा पुनः संस्थापयामहे।
ततो लोहमयं कुम्भं शोधीतं सूत्रवेष्टितम्।। 21.56 ।।
देवस्य पुरतो न्यस्य सपवित्राक्षतादिकम्।
ततो निर्गम्य तैः सार्धं बिम्बसंस्कारमारभेत्।। 21.57 ।।
संहारसृष्टियोगेन ध्यात्वा तत्त्वान्यनुक्रमात्।
जननादिक्रमाद्धुत्वा तत्त्वान्यग्नौ यथाविधि।। 21.58 ।।
निर्गत्य पृच्छेदाचार्यः कर्तॄन् कालावधिं पुनः।
कियन्तं कालमत्रेशः प्रवासवसतिं वसेत्।। 21.59 ।।
मासादूर्ध्वं द्वादशाब्दार्वाक् कालावधिः स्मृतः।
नार्वाङ् नोर्ध्वं क्लेशवासं वासुदेवोऽनुमन्यते।। 21.60 ।।
इति पृष्टास्तु ते ब्रूयुः कालावधिमसंशयम्।
विश्राव्य कालनियमं देवता नीयते बहिः।। 21.61 ।।
विज्ञापयेत् ततो देवं प्रविश्य सुसमाहितः।
कालं कर्तृभिरुद्दिष्टं ततः कुर्यादिमं विधिम्।। 21.62 ।।
यात्राहोमादिसंयुक्तं मुहुर्ते शोभने गुरुः।
हुत्वा वास्तोष्पतिं सद्यो देवं निष्क्रामयेद् बहिः।। 21.63 ।।
कलशं पूजयित्वाऽग्रे पूरितं वस्त्रवेष्टितम्।
कुम्भे तस्मिन् विधानेन योगपीठं प्रकल्पयेत्।। 21.64 ।।
सहेमरत्नगन्धाम्भोजाम्बूनदमयाम्बुजम्।
आवाह्य विधिना तस्मिन् देवदेवं सनातनम्।। 21.65 ।।
पञ्चोपनिषदैर्मन्त्रैर्मन्त्रमूर्तिसमन्वितम्।
दत्त्वाऽर्व्यं पूजयित्वाऽत्र गन्धपूष्पैः प्रणम्य च।। 21.66 ।।
वस्त्रादिवेष्टितं बिम्बं प्रयत्नात् परिकल्प्य च।
कलशं धारयन् मूर्ध्ना निर्गच्छेद् वाग्यतो गुरूः।। 21.67 ।।
शङ्खदुन्दुभिनिर्घोषैर्जयशब्दैश्च पुष्कलैः।
गेहं प्रदक्षिणीकृत्य ब्रह्मघोषसमन्वितम्।। 21.68 ।।
शनैः शनैर्व्रजेद् यत्नाद् वास्त्रालङ्कारभूषितः।
शाकुनस्वस्तिसूक्ताब्यामतोदेवादिन तथा।। 21.69 ।।
अन्तर्मण्डपमानीय स्थापयेच्छयने हरिम्।
द्वादशाक्षरमन्त्रेण न्यासं मूलेन कल्पयेत्।। 21.70 ।।
सूक्तेन च स्तुतिं कृत्वा पौरुषेण विचक्षणः।
विष्णुसूक्तेन मूलेन द्विषट्केनाष्टकेन च।। 21.71 ।।
नामभिःकेशवाद्यैश्च दद्यात् पुष्पाणि भक्तितः।
शालितण्डुलसम्पूर्णाञ् जलपूर्णानथापि वा।। 21.72 ।।
घटान् प्रागादि विन्यस्य केशवादीन् प्रपूजयेत्।
प्रणवेनैव तान् सर्वान् देवादाहृत्य विन्यसेत्।। 21.73 ।।
मूर्तिदेव्यो बहिः पूज्या मुद्रा दिक्पाश्च तद्बहिः।
स्तुत्वाऽनुज्ञाप्य तं देवं प्रथमां शान्तिमभ्यसेत्।। 21.74 ।।
दिक्कुण्डेष्वग्निमाधाय पूर्ववन्मूर्तिधारकाः।
आधिवासनिकान् होमानारभेरन् यथापुरम्।। 21.75 ।।
हुत्वा देवमनुज्ञाप्य कुर्याच्छान्तिं च देशिकः।
स्पृष्ट्वा मन्त्रैस्ततो जप्त्वा क्षालयेद् गव्यपञ्चकैः।। 21.76 ।।
व्यस्तैश्चैव समस्तैश्च कषायामलाकाम्बुभिः।
हेममिश्रजलैः पश्चात् स्नापयेच्छुद्धवारिभिः।। 21.77 ।।
सूक्तैः स्तुत्वाऽर्चयेद् देवं गन्धपुष्पादिभिः क्रमात्।
कलशान् स्थापयेत् पश्चाद् द्वारदेशेषु सर्वतः।। 21.78 ।।
द्रव्याणि पूजनार्थानि होमार्थानि च संहरेत्।
तूर्यवादित्रहस्तांश्च कल्पयेत् कुशलान् बहून्।। 21.79 ।।
एतत् सर्वमुपानीय निमित्तान्युपलक्ष्य च।
स्थानानि देवतानां च कल्पयित्वा यथाक्रमम्।। 21.80 ।।
दुःस्वप्नादिषु जातेषु प्रायश्चित्तानि कारयेत्।
मूलेन जुहुयादाज्यं सहस्रं शतमेव वा।। 21.81 ।।
पुण्याहजयघोषैश्च मुहूर्ते शोभने गुरुः।
देवं प्रदक्षिणं कृत्वा लब्धानुज्ञः कृताञ्जलिः।। 21.82 ।।
सम्पूज्य विधिना देवं पुण्याहजयमङ्गलैः।
प्रणवेन तमुत्थाप्य शाकुनेन तु देशिकः।। 21.83 ।।
स्वस्तिसूक्तेन चानीय प्रविशेत् सप्रदक्षिणम्।
प्रविश्य तैः समादिष्टं कालं विज्ञाप्य विष्णवे।। 21.84 ।।
स्थापयेत् प्रतिमां तत्र मन्त्रमेतमुदीरयेत्।
भगवन्नल्पगेहेऽस्मिन् वासः क्लेशोऽपि ते हरे!।। 21.85 ।।
वस्तव्यो भगवंस्तावद् यावद् गेहं समाप्यते।
कारकस्य परामृद्धिमनुजानन् महोदयाम्।। 21.86 ।।
भक्तानामनुकम्पार्थमिह त्वं स्थातुमर्हसि।
इत्युक्त्वा किञ्चिदानम्य सिञ्चेत् तद्वारि मूर्धनि।। 21.87 ।।
पञ्चोपनिषदान् मन्त्रान् घ्यात्वा सर्वेण देशिकः।
सृष्टिन्यासं ततः कुर्यात् पौरुषं सूक्तमुच्चरेत्।। 21.88 ।।
ततो मूर्त्या तु संयोज्य पूजयेत् कल्पवर्त्मना।
कल्पयेत् परिवारांश्च दिशाहोमान् प्रकल्पयेत्।। 21.89 ।।
दक्षिणां च ततो दद्यादन्नाद्यं चात्र कारयेत्।
यन्नोक्तं तच्च वै कुर्यात् प्रतिष्ठाविधिना सुधीः।। 21.90 ।।
निष्क्रामादिप्रवेशान्तं कर्ता स्यान्नियतो व

"https://sa.wikisource.org/w/index.php?title=विष्णुसंहिता/पटलः_२१&oldid=207337" इत्यस्माद् प्रतिप्राप्तम्