← पटलः १६ विष्णुसंहिता
पटलः १७
[[लेखकः :|]]
पटलः १८ →
विष्णुसंहितायाः पटलाः


।। अथ सप्तदशः पटलः ।।

अथ वक्ष्यामि संक्षेपादधिवासनमुत्तमम्।
यद्योगाज्जायतेऽर्चायां सदा सन्निहितो हरिः।। 17.1 ।।
अस्त्रदग्धो करौ जातावन्यौ तत्त्वमयौ स्मरेत्।
प्रणवाङ्गुष्ठकौ कार्यौ तौ स्वराङ्गुलिपर्वकौ।। 17.2 ।।
सबिन्दुकतलौ सर्गपुष्ठगौ वामदक्षिणौ।
व्यञ्जनानि पृथङ् न्यस्य नादमङ्गुष्ठयोर्न्यसेत्।। 17.3 ।।
रेचयित्वा ततो वायुं प्रविशेत् तत्र पूरके।
विद्याकोशं ततः पश्चादानुपूर्व्येण मन्त्रवित्।। 17.4 ।।
महाभूतमयं देहं धर्माधर्मसमन्वितम्।
शुष्कं दग्धं क्रमाद् ध्यात्वा प्लावितं च स्वबीजकैः।। 17.5 ।।
बिन्दुरूपयुतं ध्यायेदात्मानं व्योम्न्यवस्थितम्।
यथा सिक्ताद् भवेद् बीजादङ्कुरस्तद्वदात्मनः।। 17.6 ।।
प्रभवं चिन्तयेद् दिव्यं प्रणवत्वमुपागतम्।
त्रिगुणामष्टधीयुक्तं प्रकृतिं तां विदुर्बुधाः।। 17.7 ।।
आद्यावकारौ बुद्ध्याख्यौ इकारौ चाप्यहङ्कृतिः।
मनो द्वौ तत्परौ व्योमपञ्चतत्त्वं स्वरान्तिकम्।। 17.8 ।।
आत्मजीवोदरश्रोत्रजिह्वाघ्राक्षित्वचः क्रमात्।
ऊष्मान्तस्थाः शिरःकूटं बाहुजङ्घे च वर्गशः।। 17.9 ।।
कवर्गोऽङ्गुलयः सर्वाः स्थूलदेहोऽयमीदृशः।
सूर्याम्बुजस्थं वागीशं वागीश्वर्या समन्वितम्।। 17.10 ।।
सर्वशक्तियुतं मन्त्रमष्टबाहुं हरिं स्मरेत्।
दिवाकरसहस्राभं दुर्निरीक्ष्यं सुरासुरैः।। 17.11 ।।
ब्रह्मरन्ध्रेण देहान्तः प्रविशन्तं विचिन्तयेत्।
व्यापकं विन्यसेन्मूलमङ्गानि च यथाक्रमम्।। 17.12 ।।
आत्मानं सर्वगं ध्यात्वा सर्वज्ञं विष्णुमव्ययम्।
कुर्याद् भावान्वितो विष्यणोरधिवासनमुत्तमम्।। 17.13 ।।
बिम्बाबिमानिनं जीवं तारकल्पितमाहृतम्।
ध्यानेनात्मैकतां नीत्वा पृथिव्यादीनि संहरेत्।। 17.14 ।।
शुष्कदग्धाप्लुतोर्व्यप्सु ता वह्नौ सोऽनिले स खे।
पञ्चतत्त्वमयं विश्वं विलीनं व्योम्नि भावयेत्।। 17.15 ।।
तन्मनोगर्वधीमायाक्रमात् तारेश्वरं नयेत्।
तां स्वामव्याकृतिं मायामधिष्ठाय सिसृक्षया।। 17.16 ।।
नादात्मा परमेष्ठ्यादिपञ्चकं सकलं सृजेत्।
प्रणवात्मा स्वयं विष्णुर्नकारादिषु मूर्तयः।। 17.17 ।।
वासुदेवादयः कान्ताः खादि क्ष्मान्तं च पञ्चकम्।
स्थूलदेहोऽयमाख्यातस्तस्य विष्णोः षडात्मनः।। 17.18 ।।
सोऽनिरुद्धाब्जसम्भूतः पृथिव्यात्मा प्रजापतिः।
सर्गभिन्नादतो विष्णोर्जात इत्यज उच्यते।। 17.19 ।।
स सृष्ट्वा पूर्वमप्तत्त्वं ससर्जाण्डं च पार्थिवम्।
एवं सृष्ट्वा जाता चतुर्दशजगन्मयी।। 17.20 ।।
तदण्डं पञ्चभूतात्मभूतं शुभ्रं हिरण्मयम्।
बिम्बं ध्यात्वा स्वयं विष्णुर्जीवं संक्रामयेद्धृतम्।। 17.21 ।।
स विष्णुस्तारजीवात्मा नादिभिः पञ्चशक्तिभिः।
लिपिमूलाङ्गविन्यासैः सकलोऽष्टभुजो भवेत्।। 17.22 ।।
शयने स्थापयित्वाऽर्चां ततो हुत्वा घृतं क्रमात्।
कुर्यात् षोडशकं न्यासं नाहुत्वा न्यास इष्यते।। 17.23 ।।
तारव्याहृतिलिप्यृक्षकालवर्णज (ला?) लं श्रुतिः।
वैराजदेवतायज्ञगुणास्त्राणि यथाक्रमम्।। 17.24 ।।
तैः शक्तिमन्त्रजीवान्तैर्न्यासः षोडशदा स्मृतः।
होमयेत् प्रणवं पूर्वं मात्रात्रयविभेदितम्।। 17.25 ।।
ब्रह्माणं केशवं रुद्रं पादहृन्मस्तके न्यसेत्।
आहुत्यष्टशतं चात्र होतव्यं तैरनुक्रमात्।। 17.26 ।।
व्याहृतित्रितयं चैव त्रैलोक्यप्रीणनाय वै।
अकारादिक्षकारान्तं मातृकां होमयेत् ततः।। 17.27 ।।
ताल्वास्यवीक्षणश्रोत्रदन्तोष्ठेषु कजिह्वयोः।
असंवृता नसोर्गण्डद्वितये चैव संवृताः।। 17.28 ।।
नाभिहृच्छ्रोणिजठरश्रोत्रदन्ताग्रनासिकाः।
दृष्टिस्त्वगिति कूटाद्य दोर्जङ्घाङ्गुलयस्तथा।। 17.29 ।।
नक्षत्रग्रहताराश्च हुत्वाऽङ्गेषु निवेशयेत्।
दृशोरुरोधीवाग्रेतोललाटङ्घ्रिकचे ग्रहाः।। 17.30 ।।
रोहिण्यादिक्रमादेवं नक्षत्राणि च होमयेत्।
हृत्ककेशललाटास्यनासिकादशनेष्वथ।। 17.31 ।।
श्रुत्योर्बाह्वोः करद्वन्द्वे स्तनयोः कुक्षिपार्श्वयोः।
कट्यां चक्षुषि लिङ्गेऽण्डे पायावूर्वोश्च जङ्घयोः।। 17.32 ।।
पादयोश्च क्रमादेवं कृत्तिकान्तोडुकल्पना।
ध्रुवो नाभ्यां स्थितस्तस्य कण्ठे सप्तर्षयस्तथा।। 17.33 ।।
कटिदेशे स्थितं तस्य विज्ञेयं मातृमण्डलम्।
पदानि त्रीणि पादेऽस्य वनमाला तु वीथिका।। 17.34 ।।
रोमाणि तारकासंघा अगस्त्यः कौस्तुभो मणिः।
कालरूपं यजेत् पूर्वं संवत्सरतनुं हरिम्।। 17.35 ।।
कास्यहृद्द्विस्तनक्रोडकटिद्व्यूरुनलाङ्घ्रिषु।
चैत्रादयः स्थिता मासा द्वादशैवं सफाल्गुनाः।। 17.36 ।।
उत्पूर्वश्चानुपूर्वश्च परिपूर्वश्च वत्सराः।
सम्पूर्वश्चेति विज्ञेयाः चत्वारस्तस्य बाहवः।। 17.37 ।।
पर्वाण्यस्याङ्गपर्वाणि ऋतवश्चाङ्गसंज्ञकाः।
अहोरात्राणि चास्थीनि रोमण्यल्पाः क्षणादयः।। 17.38 ।।
कृतादि मुखहृच्छ्रोणिपादे युगचतुष्टयम्।
मन्वन्तराणि बाह्वोश्च विभागेन प्रकल्पयेत्।। 17.39 ।।
परार्धद्वितयं जङ्घे महाकल्पं शिरो विदुः।
अयने द्वे पदे चैवमुक्तः संवत्सराकृतिः।। 17.40 ।।
मुखबाहूरूपादस्था वर्णाश्च ब्राह्मणादयः।
पादाङ्गुलीषु विज्ञेया वर्णाः सङ्करजातयः।। 17.41 ।।
सर्वाङ्गसन्धिषु तथा उत्कृष्टाः सङ्करास्तु ये।
गावो मुकेऽस्य विज्ञेयाः स्तनयोश्चाप्यजाविकाः।। 17.42 ।।
पदोरेकशफा ऊर्वोर्ग्राम्यारण्या व्यवस्थिताः।
केशेषु मेघा विज्ञेया रोमाण्यभ्राणि तस्य वै।। 17.43 ।।
सर्वाङ्गावयवा नद्यः समुद्राः कुक्षिसंस्थिताः।
यज्ञास्तस्य शिरो ज्ञेयमृग्वेदो दक्षिणो भुजः।। 17.44 ।।
सामवेदः स्मृतो वामः सर्वोपनिषदो हृदि।
इतिहासपुराणानि जङ्घे यजुरुरः स्मृतम्।। 17.45 ।।
अथर्वाङ्गिरसो नाभिः कल्पसूत्राणि पादयोः।
शीक्षाव्याकरणं वक्त्रं तर्कः कण्ठं समाश्रितः।। 17.46 ।।
मीमांसा हृन्निरुक्तं च छन्दो ज्योतिश्च चक्षुषी।
गारुडं भूततन्त्रं च श्रोत्रयुग्मे व्यवस्थितम्।। 17.47 ।।
हस्तयोश्च धनुर्वेद आयुर्वेदश्च कीर्त्तितः।
योगशास्त्राणि हृद्येव नीतिशास्त्राणि पादयोः।। 17.48 ।।
वाग्गीतं करयोर्नृत्तं कला विद्याश्च रोमसु।
द्यौर्मूर्धेन्द्वर्कनेत्रस्य घ्राणे प्राणात्मकोऽनिलः।। 17.49 ।।
नाभ्यां व्योमाब्धयो बस्तौ पादे भूः सचलाचला।
हिरण्यगर्भं मूर्ध्न्यस्य सर्पान् केशेषु विन्यसेत्।। 17.50 ।।
रुद्रं ललाटे भ्रुकुटावन्तकं श्रवणेऽश्विनौ।
मुखे वैश्वानरं न्यस्य जिह्वायां च सरस्वतीम्।। 17.51 ।।
रुद्रान् दत्सु वसून् कण्ठे दृश्यादित्यान् निवेशयेत्।
बाह्वोरिन्द्रं बलिं चैव प्रह्लादं वामके स्तने।। 17.52 ।।
दक्षिणे विश्वकर्माणं नारदं कुक्षिसंस्थितम्।
अनन्तं वामकुक्षिस्थं वरुणं बस्तिसंस्थितम्।। 17.53 ।।
मित्रं पायौ कटौ तार्क्ष्यं विश्वान् देवान् तथोरगान्।
पितॄन् जानुद्वये यक्षान् नले गुल्फे तु राक्षसान्।। 17.54 ।।
पिशाचान् प्रपदे पार्ष्ण्योर्न्यसेद् विद्याधरांस्तथा।
ग्रहांस्तले नखेष्वेव जम्भकादीन् सपूतनान्।। 17.55 ।।
अङ्गुल्योऽप्सरसः कट्यां कार्त्तिकेयगणेश्वरौ।
गन्धर्वानोष्ठयोर्न्यस्य सर्वभूतानि पृष्ठतः।। 17.56 ।।
मत्स्यं के पादयोः कूर्मं वराहं जङ्घयोर्न्यसेत्।
नरसिंहं ललाटे तु वामनं मुखमध्यतः।। 17.57 ।।
नाभिहृत्कटिगुह्येषु रामान् कृष्णं च विन्यसेत्।
कल्किनं जानुदेशे तु नरनारायणौ पदे।। 17.58 ।।
न्यसेद् बाहुषु चैवास्य तथा बाहुसहस्रिणम्।
अश्वमेधः शिरस्तस्य नरमेधो ललाटकम्।। 17.59 ।।
राजसूयो मुखं चैव गौसवः कण्ठसंस्थितः।
द्वादशाहश्च हृदयमहीनो नाभिसंस्थितः।। 17.60 ।।
विश्वजिद् विश्वमेधं च कटिदेशे व्यवस्थितौ।
अग्निष्टोमोऽस्य लिङ्गस्थो वृषणे चातिरात्रकः।। 17.61 ।।
अप्तोर्यामस्तथोरुस्थः षोडशी जानुगोचरे।
उक्थ्यश्च वाजपेयश्व नले त्वग्निस्तु पादयोः।। 17.62 ।।
चातुर्मास्यानि चैवास्य बाहुष्वेव नियोजयेत्।
सौत्रामणिं तले न्यस्य पश्विष्टिं चाङ्गुलीगताम्।। 17.63 ।।
दर्शश्च पौर्णमासश्च दृशो रोमाणि चेष्टयः।
स्वाहाकारवषट्कारौ स्तनयोः संव्यवस्थितौ।। 17.64 ।।
बाह्वोरङ्गुलयः पञ्चमहायज्ञाः प्रकीर्तिताः।
हृदयं दक्षिणा तस्य दर्भाः केशास्त्वगम्बरम्।। 17.65 ।।
मुखमाहवनीयाग्निर्हृन्नाभी दक्षिणापरौ।
प्रवर्ग्यो भूषणं तस्य सवनानि गतित्रयम्।। 17.66 ।।
पाकयज्ञा हविर्यज्ञाश्चरणाङ्गुलयः स्मृताः।
आज्यभागौ दृशौ ज्ञेयौ वेदी श्रोणी मुखं हविः।। 17.67 ।।
होमेन प्रीणयेत् पूर्वं तनुं तस्य गुणात्मिकाम्।
धर्मं तु विन्यसेन्मूर्ध्नि दशधा संव्यवस्थितम्।। 17.68 ।।
ज्ञानं हृद्यष्टधा गुह्ये वैराग्यं नवधा न्यसेत्।
ऐश्वर्यं चाष्टधा पादे सेयं गुणमयी तनुः।। 17.69 ।।
शङ्खचक्रगदापद्मन्यासः साधारणः स्मृतः।
विशेषा ये च तन्त्रोक्ता मूर्त्तिभेदेन तान्यपि।। 17.70 ।।
हृदि शान्तिर्ललाटे श्रीर्मुखे चास्य सरस्वती।
रतिर्गुह्ये नले प्रीतिः किर्त्तिस्तु परिता भवेत्।। 17.71 ।।
कुक्षौ तुष्टिस्तनौ पुष्टिः शक्तिन्यासोऽयमीरितः।
मन्त्रन्यासोऽक्षराङ्गात्मा पूर्वमेव समीरितः।। 17.72 ।।
श्रीवत्समुरसि न्यस्य कौस्तुभं नाभिमण्डले।
वनमालां गले न्यस्य मुद्रान्यासोऽयमीरितः।। 17.73 ।।
नाभेरधस्तादुत्थाप्य करणैश्च समन्वितम्।
तन्मात्रदेहप्राणैश्च पञ्चभिर्व्याप्य विग्रहम्।। 17.74 ।।
ऐश्वर्यधर्मज्ञानैश्च वैराग्येण च संयुतम्।
स्फुरद्रश्मिप्रतानेन व्याप्ताशेषदिगन्तरम्।। 17.75 ।।
दिवाकरसहस्राभमिडया ब्रह्मरन्ध्रगम्।
स्थित्वा किञ्चित् ललाटेऽन्तः प्रविशन्तं विचिन्तयेत्।। 17.76 ।।
शीर्षण्यांस्तु दश प्राणान् तत्रस्थोऽपि नियोजयेत्।
कर्णिकाद्वारमार्गेण प्रविश्य हृदयाम्बुजम्।। 17.77 ।।
वृत्तिपञ्चकभेदेन प्राणादींस्तत्र योजयेत्।
पादनासान्तरे प्राणमपानं पृष्ठतो न्यसेत्।। 17.78 ।।
व्यानं सर्वगतं चैव उदानमुदरोर्ध्वगम।.
समानं नाभिहृदये नागादीन्यथ पञ्च वै।। 17.79 ।।
पुर्यष्टकं हृदि न्यस्य तन्मध्ये पुरुषोत्तमम्।
अनुग्रहकरं सौम्यं सर्वज्ञं विश्वतोमुखम्।। 17.80 ।।
ध्यायेदेवं कृते साऽर्चा सजीवा जायते क्षणात्।
अधिवासे न सा कार्या न्यासाः पञ्चदशैव तु।। 17.81 ।।
सजीवकरणं कुर्यात् स्थापिते मधुसूदने।
जीवन्यासक्रमं यस्तु न जानात्युपदेशतः।। 17.82 ।।
आचार्यो न स मन्तव्यो निग्राह्यस्तस्करो यथा।
एतस्मिन्नेव काले तु पिण्डिकां चाधिवासयेत्।। 17.83 ।।
न्यासक्रमस्तु तत्रापि कथ्यमानोऽवधार्यताम्।
शोधयित्वा पुरा दर्भमृत्त्वग्गव्याम्बुभिः क्रमात्।। 17.84 ।।
तत्राधिवासयेद् विद्वान् प्रकृतिं पिणिडिकात्मिकाम्।
मातृकां विन्यसेत् तत्र शक्तिरूपां प्रकल्पयेत्।। 17.85 ।।
प्रणवं विन्यसेन्मध्ये तद्बाह्ये षोडश स्वरान्।
व्यञ्जनानि च तद्बाह्यो पर्जन्यादि प्रदक्षिणम्।। 17.86 ।।
तत्रैव विन्यसेत् पद्मं पद्मे स्थाप्याश्च शक्तयः।
अनुग्रहं यया युक्तो नित्यं स कुरुते प्रभुः।। 17.87 ।।
स्थितस्तस्यां सदा पूज्यः परात्मा हरिरव्ययः।
पाद्यगन्धादिभिर्देवीं बलिभिश्च प्रपूजयेत्।। 17.88 ।।
अहतैश्चैव वासोभिर्लक्ष्मीरूपां च कल्पयेत्।
होमं शक्त्यष्टकान्तानां कुर्यादाचार्य एव तु।। 17.89 ।।
अयनस्य च शक्तेश्च प्रासादस्य ततः क्रमात्।
तत्रोक्तस्तत्वविन्यासः पूर्वमेवाधुना स्मृतः।। 17.90 ।।
तथा पुरुषरूपं तं कल्पयित्वा यथाक्रमम्।
प्रासादं पूजयेत् पश्चाद् गन्धपुष्पादिभिः शुभैः।। 17.91 ।।
ततो ब्रह्मशिलां चात्र शोधितामधिवासयेत्।
अनन्तासनविन्यासो नपुंसकशिलोपरि।। 17.92 ।।
नपुंसकं परं ब्रह्म सर्वाधारं तदुच्यते।
आलिखेन्मण्डलं चात्र तण्डुलैः पञ्चरङ्गिकैः।। 17.93 ।।
चतुरश्रं चतुर्द्वारं मध्ये पद्मसमन्वितम्।
पूर्वं तु सकलीकृत्य प्रतिमां देशिकोत्तमः।। 17.94 ।।
अङ्गप्रत्यङ्गभेदेन स्वकल्पोदितवर्त्मना।
साङ्गं प्रपूजयेद्देवं गन्धपुष्पादिभिः क्रमात्।। 17.95 ।।
अलङ्कारैर्निवेद्यैश्च यथाविभवविस्तरम्।
मण्डलेऽभ्यर्चयेद्विद्वान् साङ्गं देवमधोक्षजम्।। 17.96 ।।
अर्चायां या तु विन्यस्ता मूर्तिस्तां तत्र कल्पयेत्।
साङ्गं सपरिवारं च तत्रेष्ट्वा विधिनाऽच्युतम्।। 17.97 ।।
हुत्वाऽग्नि च यथान्यायं पार्षदेभ्यो बलिं हरेत्।
आद्यश्च कर्मजाश्चैव ये भूताः प्रग्दिशि स्थिताः।। 17.98 ।।
प्रसन्नाः परितुष्टास्ते प्रतिगृह्णन्त्विमं बलिमि।
दक्षिणे पश्चिमे चैव उत्तरे च नियोजयेत्।। 17.99 ।।
गन्धपुष्पाणि धूपं दीपमन्नं जलं क्रमात्।
विदिक्षु च यथान्यायं दद्याच्चैव ततो बलिम्।। 17.100 ।।
वृक्षेषु पर्वताग्रेषु ये विदिक्षु च संस्थिताः।
भूमौ व्योम्नि स्थिता ये च तेऽपि गृह्णन्त्विमं बलिम्।। 17.101 ।।
विनायकाः क्षेत्रपाला ये चान्ये बलिकाङ्क्षिणः।
पूर्वाद्याः पार्षदाश्चैव प्रतिगृह्णन्त्विमं बलिम्।। 17.102 ।।
परितोऽनेन वै दद्यात् परिभ्रम्य प्रदक्षिणम्।
आचम्यान्तः प्रविश्याथ कृतन्यासः समाहितः।। 17.103 ।।
शान्तिं व्याहृतिभिर्हुत्वा ततो देवं क्रमात् स्पृशेत्।
घृतं भूरिति हुत्वा द्वौ पादौ देवस्य संस्पृशेत्।। 17.104 ।।
दध्ना च भुव इत्येवं ततो नाभ्यन्तरं स्पशेत्।
क्षीरं स्वरिति हुत्वाऽथ ततोऽस्य हृदयं स्पृशेत्।। 17.105 ।।
भूर्भुवः स्वश्च हुत्वैवं मधुना मूर्ध्नि संस्पृशेत्।
सर्वं मूलेन हुत्वान्ते सर्वगात्रं तु संस्पृशेत्।। 17.106 ।।
अष्टाष्टाहुतयश्चात्र निर्दिष्टाः शान्तिकर्मणि।
स्रुवेण द्रव्ययुक्तेन स्पर्शनं चात्र कीर्तितम्।। 17.107 ।।
द्रव्ये द्रव्ये तथा स्पृष्टे गन्धपुष्पैः समर्चयेत्।
क्षालयित्वा स्रुवं पश्चात् कार्या द्रव्यान्तराहुतिः।। 17.108 ।।
चतस्रो धेनवः स्थाप्या दक्षिणद्वारसन्निधौ।
उत्तराभिमुखाः शान्ता रज्जुबद्धाः सवत्सकाः।। 17.109 ।।
गङ्गा च यमुना चैव तथा गोदा सरस्वती।
नामभिः पूजयित्वा ता गन्धपुष्पैर्यथाक्रमम्।। 17.110 ।।
दुहेत्ता विष्णुगायत्त्र्या तयैव श्रपयेच्चरुम्।
निवेदयेत् तया चैव तयैवान्ते बलिं हरेत्।। 17.111 ।।
भोजयेद् ब्राह्मणांस्तत्र भक्तान् द्वादश पायसम्।
मण्डपस्योत्तरे पार्श्वे हिरण्यं दक्षिणा भवेत्।। 17.112 ।।
सुरभीश्च गुरोर्दद्याद् विष्णुर्मे प्रीयतामिति।
एवं कृत्वा ततः पश्चाद् रात्रौ जागरणं भवेत्।। 17.113 ।।
शङ्खतूर्यादिसंयुक्तं नृत्तगीतादिसंयुतम्।
सेतिहासपुराणाभिः (णैश्च) कताभिश्च नयेन्निशाम्।। 17.114 ।।
प्रभाते सुदिने वारे पुण्यराश्युदये तथा।
मौहूर्त्तिकोपदिष्टेन लग्नेन स्थापयेत् सुधीः।। 17.115 ।।

।। इति विष्णुसंहितायामधिवासपटलः सप्तदशः ।।


"https://sa.wikisource.org/w/index.php?title=विष्णुसंहिता/पटलः_१७&oldid=207333" इत्यस्माद् प्रतिप्राप्तम्