← अध्यायः २० विश्वक्सेनासंहिता
अध्यायः २१
[[लेखकः :|]]
अध्यायः २२ →
विश्वक्सेनासंहिता अध्यायाः


एकविंशोऽध्याय:
नारद:---
भगवन्ननयार्चनया सदृशं
परमाप्तिकरं न हि पुंस इति।
अतिचापलगद्गदापि (-दयापि?) गिरा
*स्तुतिरस्ति किमभियत् स्वपराम्(?)* ।। 1 ।।
विष्वक्सेन:---
श्रृणु नारद मूर्तिनुतिं परमां
परमेण ममाभिहितां गुरुणा।
तव भक्तिमत: कथयिष्यामि (-याम्यधुना?)
इह (त्विह?) तृप्यति को हि शुभेषु नर: ।। 2 ।।
विनतासुतवाहनमादरत-
स्त्रिदशं कनकाङ्गदमष्टभुजम्।
धवलाद्रिनिभं द्विपदं सुमुखं
परमात्मगुरुं प्रणतोऽस्मि सदा ।। 3 ।।
जलजारिगदाम्बुजहस्तधरं
सकलाभरणं तुहिनाद्रिमुषम्।
चतुराननसेवितपादयुगं
परनामधरं प्रणतोऽस्मि सदा ।। 4 ।।
तरुणार्कनिभं त्रिदशेध्य (-ड्य?) पदं
सुकुमारदृशं मुसलप्रहरम्।
अरुणाम्बरमप्रतिमं हलिनं
शशिवक्त्रसमं प्रणतोऽस्मि सदा ।। 5 ।।
चतुरङ्ग(?)सुपीवरदीर्घभुजं
*हरिवर्णकृताञ्जलिनोपकृतम्*(?)।
*गरुडेन च दक्षिणतोऽम्बुज-
योत्तरत: प्रहरं प्रणतोऽस्मि सदा*(?) ।। 6 ।।
अत्र कश्चिद्विशेषोऽस्ति मू?र्तीनामर्चनाविधौ।
मत्स्यादिदशमूर्तीनामिह लोके फलं लभेत् ।। 7 ।।
तत्फलं ते प्रवक्ष्यामि अधुना श्रृणु नारद।
आयुरारोग्यदं(-कं?) चैव सायुज्यं लभते ध्रुवम् ।। 8 ।।
उक्तक्रमेण(?)यो मत्स्यं भक्तिपूर्वं समर्चयेत्।
सर्वान् कामानवाप्नोति विष्णुलोकं स गच्छति ।। 9 ।।
कूर्मं भक्त्या समाराध्य नरो निर्धूतकल्मष:।
सर्वान् कामाननुप्राप्य विष्णुसायुज्यमाप्नुयात् ।। 10 ।।
भक्त्या वराहमभ्यर्च्य क्रमेणानेन बुद्धिमान्।
पापरोगविनिर्मुक्त: स याति परमां गतिम् ।। 11 ।।
नारसिंहं समाराध्य भक्त्या परमया युत:।
समस्तकामसंसिद्धो जयलक्ष्मीं समृच्छति ।। 12 ।।
भक्त्यार्च्य वामनं ज्ञानी विष्णुसालोक्यमश्नुते।
भार्गवं राममाराध्य विष्णुसारूप्यमाप्नुयात् ।। 13 ।।
अर्च्य दाशरथिं राममायु: कीर्तिं सुखं यश:।
अवाप्य काममखिलं विष्णुलोके महीयते ।। 14 ।।
बलरामं समाराध्य बलारोग्यधनं लभेत्।
कृष्णमभ्यर्च्य सकलं इष्टमिष्टफलं लभेत् ।। 15 ।।
ज्ञानमूर्तिं च कल्किं तु(?) लक्ष्म्यायु: कीर्तिमेव च।
अवाप्य विष्णुसालोक्यं मोदते विष्णुपार्षदै: ।। 16 ।।
दशमूर्त्यर्चनं पुण्यं गुह्याद्गुह्यतरं मुने।
साधकानां हितार्थाय तव भक्तस्य धीमत: ।। 17 ।।
फलश्रुतिर्मया प्रोक्ता मत्स्यादीनां विशेषत:।
तन्त्राणां परमं गुह्यं विनियोगमत: श्रृणु ।। 18 ।।
उक्तं च नोपदेष्टव्यमभक्ताय कदाचन।
न मानिने डंभिने च नास्तिकाय शठाय च ।। 19 ।।
न चाशुश्रूषवे दद्यात् शुचये च कृपालवे।
देवतागुरुभक्ताय न हि चेद्गुरुदोषभाक् ।। 20 ।।
जानकीं रुक्मिणीं लक्ष्म्या पुष्ट्या भामां तु विद्यया।
लक्ष्मणं भरतं वापि शत्रुघ्नं च महामुने ।। 21 ।।
प्रणवादिस्वनाम्नैव चतुर्थ्यन्तं नमोऽयुजा।
अर्चयेत मुनिच्छन्दो दैवं राघवमन्त्रवित् ।। 22 ।।
सर्वेषां परिवाराणां मन्त्रमेवं प्रयोजयेत्।
आभिर्होम: प्रयोक्तव्य: स्वाहान्तं सकलं मुने ।। 23 ।।
अभ्?यन्तरोपचारेण(-षु?) आगच्छान्तं मुखीकृतौ।
क्षमस्वान्तं विसर्गे तु नमोऽन्तं चान्मकर्मणि ।। 24 ।।
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां [मत्स्याद्यर्चनफलकथनं नाम]
एकविंशोऽध्याय:।।