← अध्यायः २ विश्वक्सेनासंहिता
अध्यायः ३
[[लेखकः :|]]
अध्यायः ४ →
विश्वक्सेनासंहिता अध्यायाः


तृतीयोऽध्याय:
विष्वक्सेन:---
अथात: संप्रवक्ष्यामि दारुसंग्रहणं परम्।
ब्राह्मणान् भोजयित्वा तु आचार्य:शुद्धमानस: ।। 1 ।।
आचार्य:समलंकृत्य नववस्त्राङ्गुलीयकै:।
यजमान: शचीनाथ शुद्धान्त:करण:शुचि: ।। 2 ।।
शिल्पिनं पूजयित्वा तु गन्धपुष्पाम्बरादिभि:।
वैष्णवान् समलंकृत्य भोजनाच्छादनादिभि: ।। 3 ।।
कुठारादीनि संगृह्य वैष्णवै:सह मन्त्रवित्।
शुचिर्नवाम्बरधर: सोत्तर्यो(?)ष्णीषवान् क्रमात् ।। 4 ।।
निर्गच्छेद्वृक्षमासाद्य शिल्पिभि:सह साधक:।
अष्टाक्षरं महामन्त्रं जप्त्वा चाष्टोत्तरं शतम् ।। 5 ।।
कुशहस्त: प्रणम्याथ दारुं पश्येत् समाहित:।
शुचौ तले विविक्ते तु केशाङ्गारविवर्जिते ।। 6 ।।
स्थापितं वृक्षमुद्वीक्ष्य तं प्रणम्य हरिं स्मरन्।
तद्वृक्षं मनसा गृह्य कण्टकं परिवर्जयेत् ।। 7 ।।
कार्तिक्याद्यष्टमासेषु दारुसंग्रहमुत्तमम्।
उक्तकाले महाप्राज्ञो निरीक्ष्य शुभवृक्षकम् ।। 8 ।।
कण्टकात् खदिरं ग्राह्यमसारं परिवर्जयेत्।
वृक्षानुक्रमणं वक्ष्ये संक्षेपात् सारमुत्तमम् ।। 9 ।।
खदिरो देवदारुश्च बदरी चन्दनद्वयम्।
शिंशुपा राजवृक्षश्च बिल्वयूपवनस्तथा ।। 10 ।।
मधुको लोहितश्चैव स्वन्दनस्वन्दकस्तथा।
तुम्बकं चैव शामल्यं शालवृक्षस्तथैव च ।। 11 ।।
असनो वकुलश्चैव शिरीषामलकस्तथा।
सर्वे च याज्ञिका वृक्षा: प्रतिमार्थमुदाहृता: ।। 12 ।।
सारवन्तश्च ये चान्ये कृमिकीटविवर्जिता:।
दग्धोऽग्निना स्वयं शुष्क: पतितश्च स्वयं तथा ।। 13 ।।
तथा चाशनिना र्दध: स्फुटितो भिन्न एव च।
दक्षिणप्रवणश्चैव वर्जिता अन्यदेशजा: ।। 14 ।।
संकल्प्य प्रतिमामेकां शिलायां वृक्ष एव वा।
क्रमेण परिगृह्णीयात् कर्तव्यैकैवमत्र तु ।। 15 ।।
नान्यत्र प्रतिमां कुर्यात् क्रिया भवति निष्फला।
शिलादार्वोस्तु वक्ष्यामि अधिवासबलिक्रमम् ।। 16 ।।
तस्याधस्ताद्धरां पश्चादाशायां मण्डलं कुरु।
संप्रोक्ष्य गन्धतोयेन विष्णुगायत्रिया बुध: ।। 17 ।।
तद्वृक्षमूले मन्त्रज्ञो परिगृह्य नवाम्बरम्।
आचार्यश्च चतुर्दिक्षु पताकास्तत्र लम्बयेत् ।। 18 ।।
तत्र विष्णुं समावाह्य रविमध्यगतं हरिम्।
सूक्तेन पुरुषेणैव पूजयेत् पुरुषोत्तमम् ।। 19 ।।
शिलाग्रहणदेशेऽपि गोमयेनानुलेपयेत्।
पूर्ववत् समलंकृत्य छादयेन्नववस्त्रकै: ।। 20 ।।
अत्र पूर्वोक्तमार्गेण पूजयेद्धरिमव्ययम्।
तत्पूर्वभागे तन्त्रज्ञ: सायाह्ने चाधिवासयेत् ।। 21 ।।
चतुर्दिक्षु महादीपं प्रज्वाल्याक्षतधूपकै:।
अलंकृत्य जनान् सर्वानूर्ध्वपुण्ड्रधरोन्मुखान् ।। 22 ।।
आचार्य: कुम्भमादाय निर्दोषं सूत्रवेष्टितम्।
अश्वत्थपल्लवैर्युक्तं सरत्नं तोयसंयुतम् ।। 23 ।।
वस्त्रयुग्मेन संवेष्ट्य धान्यराशौ विनिक्षिपेत्।
तस्मिन् ब्रह्माणमभ्यर्च्य परितोऽष्टघटान् न्यसेत् ।। 24 ।।
सापिधानान् सवस्त्रांश्च धान्यराशौ पृथङ्न्यसेत्।
इन्द्रादीशानपर्यन्तं दिक्पतीनर्चयेत् क्रमात् ।। 25 ।।
पूर्वादिसोमपर्यन्तं होमकर्म समाचरेत्।
वासुदेवादिमूर्तीनां स्वनाम्ना च पृथक्पृथम् ।। 26 ।।
समिदाज्यचरूंश्चैव अष्?टात्तरशतं क्रमात्।
जुहुयाद्वह्निजिह्वायां वासुदेवादिविद्यया ।। 27 ।।
पूर्णाहुतिं ततो हुत्वा शेषमस्मिन्न विद्यते।
उत्तरेऽस्मिन्महामन्त्रे(तन्त्रे?)वैष्णवीकरणं क्रमात् ।। 28 ।।
संप्रोक्तं नारदस्यैव तद्वदुत्पादयेदिह।
उत्पाद्य वैष्णवाग्निं तु तदग्नौ होममाचरेत् ।। 29 ।।
अथवा पूर्वभागे तु चतुर्मूर्तिमनुस्मरन्।
कारयेद्धोमकर्माणि पूर्वाग्नौ पूर्ववत् क्रमात् ।। 30 ।।
परितो बलिदानं तु भूतक्रूरबलिं क्षिपेत्।
पायसान्नं गुडोपेतं सघण्टास्वरसूक्ष्मयुक् ।। 31 ।।
पुण्याहं वाचयित्वा तु आदावन्ते तु च क्रमात्।
कुठारं नववस्त्राद्यैरलंकृत्याधिवासयेत् ।। 32 ।।
द्रोणतण्डुलमध्ये तु पद्मष्टदलं लिखेत्।
तन्मध्ये शाययेदस्त्रमन्त्रेणाष्टाक्षरेण वा ।। 33 ।।
नववस्त्रेण संछाद्य साध्?ाको मन्त्रवित्तम:।
गन्धपुष्पादिनाभ्यर्च्य मन्त्रेणास्त्रेण मन्त्रवित् ।। 34 ।।
आचार्य: सुस्थितो भूत्वा इमं मन्त्रमुदीरयेत्।
ओं नम: सर्वलोकाय विष्णवे प्रभविष्णवे ।। 35 ।।
विश्वाय विश्वरूपाय स्वप्नाधिपतये नम:।
रक्ष: पिशाचा नागाश्च येऽत्र तिष्ठन्ति नित्यश: ।। 36 ।।
व्यपगच्छन्तु ते सर्वे सन्निधत्तां सदा हरि:।
हत्युक्त्वा स्वप्नमाकाङ्क्षन् पश्चिमे शाययेन्निशि ।। 37 ।।
शुभाशुभं निरीक्ष्यात्र स्वप्नाध्याये प्रकीर्तितम्।
अदर्शनेऽपि गृह्णीयात् विपरीते निवर्तयेत् ।। 38 ।।
आचार्य: प्रातरुत्थाय विधिवत् स्नानमाचरेत्।
वृक्षमूले ?शिलायां वा कुम्भमादाय मन्त्रवित् ।। 39 ।।
अभिषिच्यास्त्रमन्त्रेण सुदर्शनमनुत्तमम्।
सहस्रारेति संकीर्त्य हुंकारं तदनन्तरम् ।। 40 ।।
फट्कारान्तं महाहेतिं सुदर्शनमखण्डितम्।
अस्त्रराजस्य मन्त्रोऽयं श्रीकीर्तिजयदं परम् ।। 41 ।।
अभिषिच्य त्रिराचम्य परिधाय(प्य?) नवाम्बरै:।
अर्चयेद्गन्धपुष्पाद्यै: सान्त्वनं तु समाचरेत् ।। 42 ।।
वृक्ष लोकस्य शान्त्यर्थं गच्छ देवालयं शुभम्।
देवत्वं यास्यते तत्र दाहच्छेदविवर्जित: ।। 43 ।।
जलपुष्पप्रदानेन सुधूपैर्बलिभिस्तथा।
लोकास्त्वां पूजयिष्यन्ति ततो यास्यसि निर्वृतिम् ।। 44 ।।
एवं तु सान्त्वनं कृत्वा वृक्षमूलस्थितो मुख:(?)।
शिलायामपि कर्तव्यं सान्त्वनं तु शचीपते ।। 45 ।।
शिलानाम समुच्चार्य सान्त्वनं तु *शिला भवेत्*(?)।
कुठारं तु नमस्कृत्य मन्त्रेणास्त्रेण साधक: ।। 46 ।।
तं समादाय हस्ताभ्यां वृक्षं छिद्य(त्वा?)पुन: पुन:।
एवं दारुमयं गृह्य वने वनचरै: सह ।। 47 ।।
शङ्खतूर्यादिनादैस्तु पटहैस्तालनिस्वनै:।
गेयनृत्तसमायुक्तमालयं तु व्रजेत् क्रमात् ।। 48 ।।
यदा दारुमयं गृह्य तदा प्रभृति नित्यश:।
प्रतिमां कारयेत्तत्र तत्कर्मान्तं हविष्यभुक् ।। 49 ।।
कर्मान्तरं न कुर्वीत यजमान:समाहित:।
शिल्पाचार्यस्य वंश्यश्च शास्त्रप्रामाण्यकोविद: ।। 50 ।।
सारासारं परीक्ष्यात्र शिल्पिना कुशलेन तु।
तस्याभावे शचीनाथ दारुसंग्रहणं श्रृणु ।। 51 ।।
ब्राह्मण: क्षत्रियो वापि वैश्यो वा शूद्र एव वा।
तान् समानीय मन्त्रज्ञो मूलविद्या: प्रदापयेत् ।। 52 ।।
तं गृहीत्वा रचीनाथ वृक्षार्थं तु व्रजेद्वने।
वैष्णवान् भगवद्भक्तान् बलिन: कर्मतत्परान् ।। 53 ।।
निर्गच्छेद्वनमासाद्य छित्वा वृक्षं हरिं स्मरन्।
तद्वृक्षं शिरसि स्थाप्य स्मरन्नारायणं प्रभुम् ।। 54 ।।
ततो यागगृहं गच्छेच्छङ्खतूर्यादिभि: सह।
मूलालयस्य पूर्वे तु पूर्णकुम्भं निधापयेत् ।। 55 ।।
अश्वत्थपल्लवैर्युक्तं सापिधानं सवस्त्रकम्।
सतोयं रत्नसंयुक्तं स्थापयेद्धान्यराशिषु ।। 56 ।।
तत्कुम्भे चानयेन्मन्त्रान् मूलमन्त्रादिकान् क्रमात्।
नारायणोपनिषदं सृष्ट्यादिप्रतिपादिकाम् ।। 57 ।।
तथा पुरषसूक्तं तु जपेद्वै वैष्णवै: सह।
कुम्भान्तरगतांभ:सु विष्णुं सकलमव्ययम् ।। 58 ।।
ध्यात्वा गन्धादिनाभ्यर्च्य सूक्तेन पुरुषेण च।
कुम्भस्य पूर्वभागे तु गोमयेनानुलेपयेत् ।। 59 ।।
द्रोणद्वयं तदर्धं वा विकिरेत्तण्डुलान् क्रमात्।
तन्मध्येऽष्टदलं पद्मं लिख्यानामिकयापि च ।। 60 ।।
अष्टाक्षरं महामन्त्रं कर्णिकादिषु योजयेत्।
तत्र मध्ये तु कुंभस्य संप्रोक्ष्यास्त्रेण मन्त्रत: ।। 61 ।।
प्रोक्षयेन्मूलमन्त्रेण कम्बूदरजलै: पुन:।
पुन: पुनस्त्रिधा प्रोक्ष्य विष्णुरूपमनुस्मरन् ।। 62 ।।
पञ्चोपनिषदैर्मन्त्रै: पुन: प्रोक्ष्य समाहित:।
संप्रोक्ष्य मूलमन्त्राभ्यां कुम्भातोयेन साधक: ।। 63 ।।
पूर्वाधिवासितैर्मन्त्रै: स्नापयेद्दारुमुत्तमम्।
सुधूपगन्धपुष्पाद्यैरर्चयेत् पूर्ववत् क्रमात् ।। 64 ।।
नववस्त्रेण संछाद्य परितो बलिमाचरेत्।
सुदर्शनेन मन्त्रेण पूर्वादिक्रमयोगत: ।। 65 ।।
हविषा बलिदानं तु सर्वशान्त्यर्थमेव च।
तद्बलिं शुभदं ऋद्धिं(विद्धि?)सर्वविघ्ननिवारणम्‌ ।। 66 ।।
तस्मात्सर्वप्रयत्नेन बलिमस्मिन् समाचरेत्।
प्रभातायां तु शर्वर्यामालयं तु परिभ्रमेत् ।। 67 ।।
शङ्खतूर्यादिसंयुक्तं गृहीत्वा वृक्षमुत्तमम्।
वैष्णवै:सह शिष्यैस्तु आचार्यो मन्त्रवित्तम: ।। 68 ।।
गर्भगेहे तु संस्थाप्य कवाटं बन्धयेत् पुन:।
त्रिरात्रं पञ्चरात्रं वा सप्तरात्रमथापि वा ।। 69 ।।
नवरात्रं तु वा चास्मिन् कवाटं न विमोचयेत्।
अङ्कुरार्पणमारभ्य तद्रात्रौ तु शचीपते ।। 70 ।।
आलयेशानभागे तु दक्षिणे चोत्तरेऽथ वा।
मण्डपं वाऽथ कूटं वा प्रपां वाकल्प्य साधक: ।। 71 ।।
वितानवस्त्रसंछन्नमलंकारैरलंकृतम्।
मुक्तादामसमायुक्तं पुष्पमाल्यैरलंकृतम् ।। 72 ।।
पालिका चाङ्कुरो(ङ्कुरको?)पेतमष्टदिग्दीपसंयुतम्।
नालिकेरुलैर्युक्तं चामरैरुपशोभितम् ।। 73 ।।
एवं लक्षणसंयुक्तं मण्डपं चानयेत्तरुम्।
अपराह्णे शचीनाथ वैष्णवै:सह मन्त्रवित् ।। 74 ।।
शङ्खतूर्यादिसंयुक्तं नृत्तगेयसमन्वितम्।
गर्भगेहं समासाद्य कवाटं प्रविमोचयेत् ।। 75 ।।
दारुमभ्यर्च्य गन्धाद्यै: मूलमन्त्रमनुस्मरन्।
संप्रोक्ष्य गन्धतोयेन पुण्याहं कारयेत् सुधी: ।। 76 ।।
मण्डपे मध्यभागे तु खानयेवदवटं क्रमात्।
द्विहस्तं वा तदर्धं वा तस्यार्धं वा शचीपते ।। 77 ।।
प्रधानतरुमादाय मन्त्रेणास्त्रेण साधक:।
स्थापयेन्मूलमन्त्रेण दक्षिणे तु श्रियं न्यसेत् ।। 78 ।।
उत्तरे तु न्यसेत् पुष्टिं तत्तन्मूलं यथाक्रमम्।
संवत्सरसहस्रायुर्गतं स्मृत्य तरुं परम् ।। 79 ।।
तन्मूले सलिलं न्?यस्य पुण्डरीकाक्षविद्यया।
तत्तन्मूलेन वा पश्चाज्जलदानं यथारुचि ।। 80 ।।
सितपुष्पै: समाराध्य तस्मात्सकलमव्ययम्।
मन्त्रहीनं क्रियाहीनं सर्वं वै क्षन्तुमर्हसि ।। 81 ।।
एवमुक्त्?वा नमस्कृत्य दारुमूलं तु मन्त्रवित्।
एवं कृत्वा ततो दारुसंग्रहं पुनरारभेत् ।। 82 ।।
अधिवासादिसर्वाणि चास्मिन् पूर्ववदाचरेत्।
शिल्पिनं पूजयित्वा तु दारुं छिद्य (त्वा?) पनु: पुन: ।। 83 ।।
तेनैव (तैरेव?) वैष्णवैर्युक्तो मूलमूर्तिमनुस्मरन्।
अन्यथा फलमाप्नोति ग्रामनाशो धनक्षय: ।। 84 ।।
स्थाननाशो भवेत्तत्र संभवेन्नात्र संशय:।
एवं दारुमयं गृह्य पुन:संस्कारवत् क्रमात् ।। 85 ।।
शिल्पशास्त्रानुसारेण कारयेन्मूलमुत्तमम्।
आचार्यं पूजयेत् पश्चात् हेमवस्त्राङ्गुलीयकै: ।। 86 ।।
तथैव शिल्पिनं पूज्य शिलाग्रहणमारभेत्।
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां
दारुसंग्रहणविधिर्नाम तृतीयोऽध्याय:।