← अध्यायः २७ विश्वक्सेनासंहिता
अध्यायः २८
[[लेखकः :|]]
अध्यायः २९ →
विश्वक्सेनासंहिता अध्यायाः


अष्टाविंशोऽध्याय:
विष्वक्सेन:---
अमावास्योत्सवं वक्ष्ये मासि मासि मुनीश्वर।
देवजन्मर्क्षके वापि प्रतिष्ठार्क्षमथा (-ऋक्षके?)पिवा ।। 1 ।।
यजमानस्य जन्मर्क्षे राजजन्मर्क्षकेऽपि वा।
अयने विषुकाले वा निश्चयित्वाङ्कुरान् पुरा ।। 2 ।।
नवाहे सप्तपञ्चाहे त्र्यहैकाहमथापि वा।
अङ्कुरार्पणमेतेषु सर्वसम्पत्सुखावहम् ।। 3 ।।
कारयेद्विधिवत् सम्यक् सायाह्ने मुनिसत्तम।
अनङ्कुरार्पणं कार्यमनर्थमशुभावहम् ।। 4 ।।
तस्मात् सर्वप्रयत्नेन कारयेदङ्कुरार्पणम्।
अङ्कुरार्पणकार्येऽस्मिन् वेलादीनि न वीक्षयेत् ।। 5 ।।
पालिकाघटिका चैव शरावश्च त्रिधा मुने।
उक्तमस्मिन् महातन्त्रे चोत्सवे षोडशान् क्रमात् ।। 6 ।।
प्रत्यकं पालिकादीनि लक्षणै: सह नारद।
कश्चिदस्मिन् विशेषोऽस्ति तं विशेषं शृणु क्रमात् ।। 7 ।।
प्रत्येकं द्वादशं वापि केवला: पालिकास्तथा।
पालिकाषोडशं वापि द्वादशं नवकं तु वा(?) ।। 8 ।।
दूर्वाभि: सशिरीषाभि: पालिकादीन् सुवेष्टयेत्।
तिलादिदशबीजानि मुद्गमेकमथापि वा ।। 9 ।।
पयोभि: क्षालयेत् पञ्चमन्त्रैर्वारिभिरेव वा।
एवं बीजानि संक्षाल्य कारयेदङ्कुरार्पणम् ।। 10 ।।
अङ्कुरार्पणकार्येऽस्मिन् सूत्रपातं न कारयेत्।
विशेषमत्र वक्ष्यामि पद्मसूत्रविधिं श्रृणु ।। 11 ।।
त्रिहस्तपरिमाणं तु चैव स्नपने मुनिसत्तम।
अमावास्यादिकार्येऽस्मिन् षोडशं द्वादशं तु(?) वा ।। 13 ।।
कर्णिकादिदलान् लिख्य प्रत्येकं तत्र विन्यसेत्।
प्रतिष्ठोत्सवयोश्चैव पवित्रारोहणे मुने ।। 14 ।।
तथा दीक्षाविधाने तु प्रत्येकं षोडश क्रमात्।
द्वादशं वाथ नि:शेषं पालिकादींश्च कारयेत् ।। 15 ।।
शेषकर्माणि सर्वाणि लिखेदब्जमनुत्तमम्।
पद्मस्य दलसंख्यास्तु शृणु चास्मिन् महामुने ।। 16 ।।
पालिका षोडशं चेत्तु दलं पञ्चदशं लिखेत्।
द्वादशं पालिका चेत्तु तादृशं पद्ममालिख्?ोत् ।। 17 ।।
कर्णिकदिदलेष्वेषु कारयेत् प्रथमाक्षरम्।
अथवा मुनिशार्दूल अष्टपत्राब्जमालिखेत् ।। 18 ।।
पूर्ववद्विलिखेद्बीजं पूर्वादिष्वक्षरान् वसून्।
प्रोक्षयेत्तेन मन्त्रेण शाखामूलेन वा मुने ।। 19 ।।
इन्द्रादीशावसानेषु पालिकान् नवकान् न्यसेत्।
तेन मन्त्रेण मतिमानन् प्रोक्षयेद्गन्धवारिणा।। 20 ।।
पुण्याहं वाचयेत्तस्मिन् ब्राह्मणैस्तन्त्रपारगै:।
तिलादिबीजानभ्यर्च्य तण्डुलोपरि नारद ।। 21 ।।
जितन्त इति मन्त्रेण सर्वबीजानि वापयेत्।
गन्धपुष्पादिनाभ्यर्च्य सुगुप्ते स्थापयेत् क्रमात् ।। 22 ।।
विशेषश्चात्र संप्रोक्त: शेषं साधारणं भवेत्।
सायाह्ने वाथ पूर्वाह्णे बलिमस्मिन् समाचरेत् ।। 23 ।।
हविषा चाक्षतैर्वापि पुष्पैर्वाथ बलिं क्षिपेत्।
अमावास्योत्सवाद्येषु संप्रोक्तं चाङ्कुरार्पणम् ।। 24 ।।
उत्सवप्रतिमां वापि स्नपनार्चामथापि वा।
बलिबिम्बं तु वा चक्रबिम्बमेकमथापि वा ।। 25 ।।
तद्गृहीत्वा तु मन्त्रज्ञ: शुद्धस्नानं तु कारयेत्।
पूर्वरात्रौ तु कर्तव्य: सूत्रबन्धो यथाविधि ।। 26 ।।
वासाधिवासवत् कृत्वा मण्डपालंकृतिर्मुने।
चतुरङ्गुलमुत्सेधं चतुर्हस्तप्रमाणत: ।। 27 ।।
शालिभिर्वेदिकां सम्यक् कृत्वा मण्डपमध्यमे।
तदर्धं तण्डुलैर्वेदिं तन्मध्ये तु समाचरेत् ।। 28 ।।
धान्याभावे यथावेदिर्यथालाभं प्रशस्यते।
यजमानेच्छया वेदिं कुर्यात्तन्त्रविचक्षण: ।। 29 ।।
पूर्ववत् पद्ममालिख्य तन्मध्येऽष्टाक्षरं न्यसेत्।
अष्टाक्षरस्य मध्ये तु चतुष्पादासनं न्यसेत् ।। 30 ।।
प्रोक्षयेन्मूलमन्त्रेण धर्मज्ञानादिकान् न्यसेत्।
गन्धपुष्पादिनाभ्यर्च्य तन्मध्ये हरिमानयेत् ।। 31 ।।
पाद्यादिदीपपर्यन्तमर्चयेत् पुरुषोत्तमम्।
कौतुकं बन्धयेत् पश्चात् पुण्डरीकाक्षविद्यया ।। 32 ।।
आढकत्रयसंपूर्णं शालितण्डुलमुत्तमम्।
सौवर्णादिषु पात्रेषु ह्येकं गृह्य विचक्षण: ।। 33 ।।
पूरयेत्तण्डुलं शुद्धं कुन्देन्दुधवलप्रभम्।
तण्डुलोर्ध्वेऽब्जमालिख्य चाष्टपत्रं सकर्णिकम् ।। 34 ।।
सौवर्णं राजतं वापि क्षौमसूत्रमथापि वा।
कार्पाससूत्रकं वापि त्रिगुणीकृत्य नारद ।। 35 ।।
त्रिगुणं त्रिगुणीकृत्य कर्णिकायां न्यसेत् क्रमात्।
प्राच्यादि ?पश्चिमान्तेन विन्यसेत् सूत्रमुत्तमम् ।। 36 ।।
गन्धादिदीपपर्यन्तमर्चयेत् कौतुकं क्रमात्।
बन्धयेत् कौतुकं पश्चात् दक्षिणे भगवत्करे ।। 37 ।।
अङ्गुष्ठानामिकाभ्यां तु आचार्यो मन्त्रमुच्चरन्।
धूपात् भस्मं(?)समादाय रक्षां कृत्वा समन्त्रत: ।। 38 ।।
ललाटे चाष्टदिग्बन्धं देवस्य परित: क्रमात्।
हविर्निवेदयेत् पश्चात् साधक: परमेष्ठिना ।। 39 ।।
अपूपादीनि सर्वाणि उपहाराणि दापयेत्।
पानीयं च ततो दद्यात् मुखवासं निवेदयेत् ।। 40 ।।
छत्रं चामरमादर्शं देवेशाय निवेदयेत्।
दिग्बन्धं कारयेत्तस्मिन् चक्रमन्त्रेण साधक: ।। 41 ।।
निवेदितं तु तत्सर्वमाचार्याय निवेदयेत्।
तस्मिनन्निवेदितं सर्वं पुरोडाशसमं मुने ।। 42 ।।
तस्मात् सर्वप्रयत्नेन संग्रहेद्देवसंनिधौ।
ग्रामायतनवृद्ध्यर्थं पूर्वादि परितोऽर्चयेत् ।। 43 ।।
कुमुदाद्या: प्रगृह्णन्तु सर्वे बलिमनुत्तमम्।
घण्टाशब्दसमोपेतं धूपदीपसमन्वितम् ।। 44 ।।
स्वस्तिवाचनसंयुक्तं नृततगीतसमन्वितम्।
कारयेद्बलिदानं तु पुष्पाक्षतकुशोदकै: ।। 45 ।।
यदिदं देवदेवस्य तोषणार्थमिहोच्यते।
रात्रिं(रात्रौ?)विसर्जयेत् पश्चात् पूर्वोक्तैर्द्रव्यविस्तरै: ।। 46 ।।
देवेशं चार्चयेत् सम्यक् सूक्तेन पुरुषेण च।
वस्त्राभरणपुष्पाद्यैरलंकृत्य प्रयत्नत: ।। 47 ।।
हविर्निवेदयेत् पश्चात् ताम्बूलं च तथैव च।
आचार्य: समलंकृत्य होमकर्म समारभेत् ।। 48 ।।
नित्याग्नौ चोत्सवाग्नौ वा करयेद्विधिचोदितम्।
समिदाज्यचरून् लाजान् पञ्चविंशतिसंख्यया ।। 49 ।।
कारयेत् स्वस्वजिह्वायां समिदादि यथाक्रमम्।
समिधो मूलमन्त्रेण छन्दोमूलेन वै घृतम् ।। 50 ।।
ततस्तु विष्णुगायत्र्या यरुं हुत्वाक्षमात्रत:।
लाजान् वेदादिमन्त्रेण जुहुयात्तन्त्रवित्तम: ।। 51 ।।
बलिद्रव्यं च जुहुयात् चतुर्थ्यन्तादिना मुने।
प्रायश्चित्ताहुतिं हूयात् पञ्चोपनिषदै: क्रमात् ।। 52 ।।
पूर्णाहुतिं ततो हुत्वा द्वादशाक्षरविद्यया।
नित्ये महोत्सवे चैव अमावास्योत्सवादिषु ।। 53 ।।
ब्रह्मप्रणीतमिध्मौ च नेष्यते मुनिसत्तम।
एतत्ते कथितो होम अमावास्योत्सवादिषु ।। 54 ।।
होमान्ते बलिदानं तु कारयेत्तन्त्रवित्तम:।
पूर्ववद्बलिदानं तु प्रासादे तु यथाक्रमम् ।। 55 ।।
कारयेन्मुनिशार्दूल सर्वदेवप्रियार्थकम्।
ग्रामे वा नगरे वापि पत्तने वालयेऽपि वा ।। 56 ।।
एवमादिषु देशेषु कारयेद्बलिमुत्तमम्।
मार्गशुद्धिं पुरा कृत्वा पूर्वाह्णे बलिमाचरेत् ।। 57 ।।
मध्याह्ने यत्कृतं ब्रह्मन् बलिकर्माधमं भवेत्।
पूर्वाह्णे ग्रामवृद्धि: स्यात् सर्वसंपत्सुखावहम् ।। 58 ।।
मध्याह्ने त्वघनाशं तन्नगरादिषु वृद्धिकृत्।
तस्मात् सर्वप्रयत्नेन पूर्वाह्णे ?बलिमाचरेत् ।। 59 ।।
पूर्ववद्देवदेवेशमलंकृत्य प्रयत्नत:।
वासिताद्यैश्च मात्राभिस्तोषितं सुमनोरमम् ।। 60 ।।
तद्बिम्बं शिबिकाद्येषु समारोप्य समाहित:।
रथं तु शिबिकां वापि गजं वाश्ववरं तु वा ।। 61 ।।
प्रोक्षयेद्गारुडेनैव भूषयेद्गरुडं स्मरन्।
छत्रध्वजवितानादीन् नृत्तगेयसमन्वितम् ।। 62 ।।
शङ्खभेर्यादिनिर्घोषं महाजनसमन्वितम्।
ग्रामादिवीथिकायां तु मध्ये ग्रामं परिभ्रमेत् ।। 63 ।।
ग्रामादिवास्तुदेशेषु कुमुदादीन् समर्चयेत्।
देवागारेषु सर्वेषु महाशास्तालयेषु च ।। 64 ।।
कूपे चैव (कूपेषु च?) तटाकेषु सङ्गमेषु च वीथित:।
तत्तद्देशे मुनिश्रेष्ठ सर्वभूतगणान् न्यसेत् ।। 65 ।।
देवस्य संनिधौ तस्मिन् बलिदानं समाचरेत्।
पायसान्नं गुलोपेतं तुलसीपत्रसंयुतम् ।। 66 ।।
करवीरसमायुक्तं श्वेतरक्ताक्षतैर्युतम्।
तिलोदकसमोपेतं बलिद्रव्यैश्च संयुतम् ।। 67 ।।
कृमिकीटपतङ्गाद्यै: स्पर्शितेऽस्मिन् प्रमादत:।
बलिद्रव्ये मुनिश्रेष्ठ सन्त्याज्यं देवतार्चने ।। 68 ।।
अक्षतैर्वाथ पुष्पैर्वा यथासंभवमर्चयेत्।
कारयेद्वास्तुदेशेषु तत्तन्मन्त्रमनुस्मरन् ।। 69 ।।
उत्तर्यीष्णीषसंयुक्त: आचार्यो बलिमाचरेत्।
बल्यन्ते परमात्मानमर्घ्यपाद्यादिनार्चयेत् ।। 70 ।।
सर्वमङ्गलकार्येऽस्मिन् मङ्गलालापनं कुरु।
तृतीयसवने गत्वा देवागारे मुनीश्वर ।। 71 ।।
पाद्यादिसप्तकं दत्वा तत: स्नपनमारभेत्।
मण्डपं समलंकृत्य शालिना वेदिमाचरेत् ।। 72 ।।
तत्र मध्ये तु मतिमान् कलशान् विनिवेशयेत्।
शाल्मलीकिंशुकापुष्पसंकाशान् सूत्रवेष्टितान् ।। 73 ।।
वेदिकोपरि संस्थाप्य चतुर्वेदादिमन्त्रत:।
तेषां मध्ये मुनिश्रेष्ठ द्रव्याणि विनिवेशयेत् ।। 74 ।।
पाद्यं तु मध्यमे भागे पूर्वभागेऽर्घ्यमेव च।
याम्ये त्वाचमनीयं स्याद्गन्धं वारुणगोचरे ।। 75 ।।
पुष्पतोयं न्यसेत् सोमे कृशानौ तण्डुलोदकम्।
नैरृते दधि विन्यस्य वायव्ये क्षीरमेव च ।। 76 ।।
ऐशान्ये विन्यसेदाज्यं गन्धयुक्तं शुभं मुने।
एवं तु नवकं स्थाप्य कूर्चांस्तेषु विनिक्षिपेत् ।। 77 ।।
चक्रिकां स्थापयेत्तेषु गन्धपुष्पं विनिक्षिपेत्।
ततस्तु रजनीचूर्णं पूर्वे वा चोत्तरेऽथ वा ।। 78 ।।
स्थापयित्वार्चयेत्तस्मिन् गन्धपुष्पाक्षतै: क्रमात्।
कलशान् नववस्त्रैस्तु वेष्टयेत् प्रणवेन तु ।। 79 ।।
पुण्याहं वाचयेत् सम्यग्याथातथ्येन नारद।
गन्धपुषपादिनाभ्यर्च्य तोरणेऽष्टघटान् न्यसेत् ।। 80 ।।
पूर्वादि चोत्तरान्तेषु द्वौ द्वौ तु कलशौ न्यसेत्।
गन्धतोयेन संपूर्य गन्धपुष्पादिनार्चयेत् ।। 81 ।।
स्वनाम्ना चैव सर्वेषां मन्त्रं तु मुनिपुङ्गव।
षडक्षरमनुस्मृत्य साधक: परमार्थवित् ।। 82 ।।
पाद्याद्यै: कलशै: सर्वै: देवेशमभिषेचयेत्।
स्नपनान्ते तु मन्त्रज्ञो रजनीमभिषेचयेत् ।। 83 ।।
शुद्धस्नानं तत: कृत्वा अलंकृत्य जनार्दनम्।
स्नानोदकं तो गृह्य वैष्णवान् प्रोक्षयेद्बुध: ।। 84 ।।
तं गृहीत्वा तु भक्तानां सर्वेषां मूर्ध्नि निक्षिपेत्।
गङ्गास्नानफलं पुण्यं सर्वपापप्रणाशनम् ।। 85 ।।
सर्वसंपत्समृद्धि: स्यादिति शास्त्रस्य निश्चय:।
पूर्ववद्यानमध्ये तु देवमारोप्य मन्त्रवित् ।। 86 ।।
पुराणोक्ततटाके वा नदीतीरेऽथवा मुने।
देवदेवं समानीय मूलमन्त्रेण साधक: ।। 87 ।।
स्नापयेत्तेयमध्ये तु पूर्ववन्मुनिपुङ्गव।
महाजनान् समाहूय दद्यात्तीर्थमनुत्तमम् ।। 88 ।।
स्वस्तिवाचनसंयुक्तं शङ्खदुन्दुभिसंयुतम्।
देवालयं क्रमाद्गत्वा द्वारमाश्रित्य नारद ।। 89 ।।
अर्घ्यपाद्यादिनाभ्यर्च्य रक्षां कुर्वीत मन्त्रवित्।
अन्नेन वाथ पुष्पैर्वा अष्टदिग्बलिमाचरेत् ।। 90 ।।
सुदर्शनेन मन्त्रेण पूर्वादिषु यथाक्रमम्।
देवागारं समाश्रित्य स्वस्तिवाचनपूर्वकम् ।। 91 ।।
पूर्ववद्देवमभ्यर्च्य महान्नं च निवेदयेत्।
आचार्यं पूजयेत् पश्चात् यथाशक्त्यत्र नारद ।। 92 ।।
अपूपादीनि चान्यानि उपहाराणि दापयेत्।
ताम्बूलं दापयेत् पश्चात् विधिवत् परमेष्ठिना ।। 93 ।।
शेषकर्माणि सर्वाणि राजवत् प्रतिकारयेत्।
य: कारयेत्तु मतिमान् इहलाके श्रियं लभेत् ।। 94 ।।
स याति विष्णुसालोक्यं विष्णुसारूप्यमेव च।
अथ वा मुनिशार्दूल तीर्थस्नानविधिं श्रृणु ।। 95 ।।
नदीपुलिनतीरे तु मण्डपं कारयेत् क्रमात्।
अथ वा सुप्रपां कृत्वा चतुर्द्वारसमन्विताम् ।। 96 ।।
वासाधिवासने प्रोक्तं प्रपालक्षणमुत्तमम्।
एवं लक्षणसंयुक्तां प्रपां कृत्वा मुनीश्वर ।। 97 ।।
ऐन्द्रादीशानपर्यन्तं गोमयेनानुलेपयेत्।
पूर्वोक्तशालीनास्तीर्य वितानाद्यैरलंकृतम् ।। 98 ।।
पुष्पमालादिसंयुक्तं तन्मध्ये कलशान् न्यसेत्।
पूर्ववन्नवकं स्थाप्य पूर्ववत् स्नानमाचरेत् ।। 99 ।।
तीर्थस्नानं ततो ब्रह्मन् महाजनसमन्वितम्।
नद्यां ह्रदे तटाके वा देवेशं स्नानमाचरेत् ।। 100 ।।
तीरे देवं समानीय शुद्धस्नानं समाचरेत्।
अर्घ्यादिनार्चयेद्देवमलंकृत्य प्रयत्नत: ।। 101 ।।
शेषकर्माणि सर्वाणि अस्मिन् पूर्ववदाचरेत्।
द्विप्रकारं मया प्रोक्तं तीर्थस्नानं मुनीश्वर ।। 102 ।।
साधकेच्छानुरूपेण यथायोगं समाचरेत्।
तीर्थस्नानविधि: प्रोक्त: पूर्वपूर्वा गरीयसी ।। 103 ।।
एवं संक्षेपत: प्रोक्तममावास्योत्सवं परम्।
अन्यथा निष्फलं याति रोगवृद्धिर्धनक्षय: ।। 104 ।।
तस्मात् सर्वप्रयत्नेन कारयेद्विधिपूर्वकम्।
इति श्रीपञ्चरात्रे विष्वक्सेनसंहितायां
अमावास्योत्सवविधिर्नामाष्टाविंशोऽध्याय:।।