← अध्यायः ३२ विश्वक्सेनासंहिता
अध्यायः ३३
[[लेखकः :|]]
अध्यायः ३४ →
विश्वक्सेनासंहिता अध्यायाः


त्रयस्त्रिंशोऽध्याय:
विष्वक्सेन:---
अथात: संप्रवक्ष्यामि द्रव्यशुद्धिविधिं परम्।
रत्नानि हेमवस्ताणि भूषणादींश्च ताम्रजान् ।। 1 ।।
अन्नं तोयं दधिक्षीरे घृतं मधुगुलादय:।
मधुपर्कश्च पुष्पाणि मुखवासोपहारकम् ।। 2 ।।
एवमादीनि चान्यानि देवेशोय निवेदयेत्।
निवेदितानि वस्तूनि शुद्धाशुद्धानि वै शृणु ।। 3 ।।
अन्नादीनुपहारांस्तान् वर्जयेन्मुनिसत्तम।
रत्?नादिलोहजान्ताश्च शुद्धा एव न संशय: ।। 4 ।।
रत्नानि हेमवस्त्राणि भूषणानि च (-दींश्च?) लोहजान्।
निवेदितानि शुद्ध्यन्ते क्षालयेन्मन्त्रपूर्वकम् ।। 5 ।।
अस्तराजेन मन्त्रेण क्षालयेत्तान् पुनस्त्रिधा।
तथैव ताम्रकलशान् वस्त्रेण परिवेष्टयेत् ।। 6 ।।
मन्त्रमाहात्म्यमात्रेण शुद्ध्यन्ते नात्र संशय:।
अन्नं तोयं दधिक्षीरं घृतं मधु गुलं तथा ।। 7 ।।
मधुपर्कोऽथ पुष्पं च मुखवासोपहारकम्।
निर्माल्यमिति विज्ञेयं मम प्रीतिकरं शुभम् ।। 8 ।।
ताम्बूलं मधुपर्कं च नैवेद्यान्नं तथैव च।
यद्भुक्तं तद्विना ब्रह्मन् आचार्याय प्रदापयेत् ।। 9 ।।
तुर्यभाग्र हि संगृह्य ममाग्रे स्?थापयेत् क्रमात्।
गन्धपुष्पादिनाभ्यर्च्य मामुद्दिश्य निवेदयेत् ।। 10 ।।
तन्निर्माल्यं च तद्भुक्तं वैष्णवानां तु दापयेत्।
एवं संक्षेपत: प्रोक्त: द्रव्यशुद्धिर्मया मुने ।। 11 ।।
अथात: संप्रवक्ष्यामि स्रुक्स्रुवाद्यधिदैवतम्।
स्रुक्स्रुवं (-वौ?) चैव दर्वी च पृथिवीदेवता स्मृता ।। 12 ।।
उदकुम्भश्चन्द्रदैवत्य:(?) प्रणीता वरुणदेवता।
जिह्वश्च स्वर्गदैवत्य:(?) अन्तरिक्षं चरुस्तथा ।। 13 ।।
गन्धर्वो गन्धदैवत्य:(?) पुष्पं शुक्राधिदैवतम्।
अक्षता लक्ष्मीदैवत्या(?) धूपं चार्घ्याधिदैवतम् ।। 14 ।।
दीपस्य भास्करं विद्यान्मूलं सश्चन्द्रदेवता(?)।
विहरी वासुदेवत्या(?) समिधो ब्रह्मदेवता ।। 15 ।।
आज्यं तु रुद्रदैवत्यं(?) अन्नं रुद्राधिदैवतम्।
इध्मप्रव्रश्चनं (-ने?) [चैव ?] पितृवर्गा यथाक्रमम् ।। 16 ।।
गव्यवस्तूनि सर्वाणि गणेशस्तत्र देवता।
स्वरे सरस्वती देवी प्रणवे सर्वशक्तय: ।। 17 ।।
सर्वेषामेव वस्तूनां रसरूपं तु वैष्णवम्।
स्मृतं चेदस्मृतं चेत्तु सर्वं नारायणात्मकम् ।। 18 ।।
कलशे देवता वक्ष्ये श्रृणु नारद तत्त्वत:।
वक्त्रं वागीश्वरी देवी कर्णं लक्ष्मीस्तथैव च ।। 19 ।।
पार्श्वयोश्च तथा शान्ती पृष्ठे च पृथिवी स्मृता।
तथैव पूर्णकुम्भं तु संस्मरेदधिदैवतम् ।। 20 ।।
एव संक्षेपत: प्रोक्तं स्रुक्स्रुवाद्यविदैवतम्।
नित्ये नैमित्तिके चास्मिन् विष्णुयागेषु सर्वश: ।। 21 ।।
ज्ञात्वा तत्राधिदैवं तु साधक: संप्रयोजयेत्।
कारयेद्विष्णुयागेषु मन्त्राणामधिदैवतम् ।। 22 ।।
अज्ञानात् कुरुते मोहात् सा कृताप्यकृता भवेत्।
तस्मात् सर्वप्रयत्नेन साधक: परमार्थवित् ।। 23 ।।
संज्ञात्वा तेषु कार्येषु कारयेन्मन्त्रवित्तम:।
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां [द्रव्यशुद्ध्यादिविधिर्नाम]
त्रयस्त्रिंशोऽध्याय: