विश्वक्सेनासंहिता /अध्यायः ३७
← अध्यायः ३६ | विश्वक्सेनासंहिता अध्यायः ३७ [[लेखकः :|]] |
अध्यायः ३८ → |
सप्तत्रिंशोऽध्याय:
नारद:---
नमस्तेऽस्तु जगन्नाथ विष्णुपारिषदेश्वर।
विष्वक्सेन नमस्तेऽस्तु नमस्ते विश्वकर्मणे ।। 1 ।।
त्वत्तोऽधीतं मया तन्त्रं पञ्चरात्रार्णवामृतम्।
दीक्षाशकुनविस्तारो न त्वया किञ्चिदीरित: ।। 2 ।।
तत्सर्वं श्रोतुमिच्छामि प्रब्रूहि भगवन् मम।
इति विज्ञापितो देवो विष्वक्सेनो महात्मना ।। 3 ।।
प्रत्युवाच महजेजा: प्रणम्य गरुडध्वजम्।
विष्वक्सेन:---
श्रुणु नारद तत्त्वेन महाविद्यां पुरातनीम् ।। 4 ।।
मया पृष्ट: पुरा प्राह महाविष्णुर्जगन्मय:।
साधकानां हितार्थाय चतु:षष्टिप्रभेदत: ।। 5 ।।
शकुनानि जगन्नाथ: तान् सर्वान् प्रब्रवीमि ते।
विघ्नेश: प्रथम: प्रोक्तो गाङ्गेयो मूषिकाध्वज: ।। 6 ।।
तं पूजयित्वा विधिवत् प्रणम्य प्रार्थयेन् मुने।
तस्मिन् प्रसन्ने विघ्नेशे सर्वदेवनमस्कृते ।। 7 ।।
सर्वार्थसिद्धिर्भवति नात्र कार्या विचारणा।
स एव नायकस्तेषां शकुनानां गणेश्वर: ।। 8 ।।
तस्मात् सर्वप्रयत्नेन पूजयेद्विघ्ननायकम्।
पूजाक्रमं प्रवक्ष्यामि संक्षेपेण महामुने ।। 9 ।।
आवाहयेच्छुचौ देशे सुलिप्ते सुविचित्रिते।
स्वासने दर्भसंकीर्णे कुसुमैरुपशोभिते ।। 10 ।।
गायत्र्या चासनं दद्यात् प्रणम्य गणनायकम्।
अर्घ्यं पाद्यं तथाचामं मधुपर्कं तथैव च ।। 11 ।।
स्नानं वस्त्रोपवीतं च भूषणं गन्धपुष्पकम्।
धूपदीपं (-पौ?) निवेद्यादि स्तोत्रं रजमुखं स्मरन् ।। 12 ।।
कृत्वा पूजां गणेशस्य प्रणम्य प्रार्थयेत् प्रभुम्।
गायत्र्या चैव तत्सर्वं कुर्यात्तन्त्रविचक्षण: ।। 13 ।।
एवं पूज्य तत: पश्चात् गन्धपुष्पादिभि: पुन:।
पुस्तकं पूजजित्वा तु यथावद्विजितेन्द्रिय: ।। 14 ।।
आलिखेत् पुस्तकं सर्वं शकुनानि यथाक्रमम्।
नारद:--
कथं देव निमित्तानि लिख्यते पुस्तके नरै: ।। 15 ।।
एतदाचक्ष्व भगवन् संशयो मे महानसौ।
विष्वक्सेन:---
एवमेव मया पृष्ट: प्रोवाच भगवान् यथा ।। 16 ।।
तथैवात्र प्रवक्ष्यामि श्रृणुष्व मुनिपुङ्गव।
विघ्नराज (-जो?) महाराति: महिष: शुकपीतक: ।। 17 ।।
कबन्धं न नदी चैव बृहज्जाली तथैव च।
पुरुषश्च मृगश्चैव मार्जारो देवगौस्तथा ।। 18 ।।
देवागारो रथश्चैव ज्वर: कल्पद्रुमस्तथा।
व्याघ्रप्रासादरक्षांसित मृगो ग्राहस्तथैव च ।। 19 ।।
मकरो वृश्चिकश्चैव पुष्कला(-रा?)वर्तकस्तथा।
मत्स्ययुग्मं च श्येनं च श्रीवृक्षे च सरस्वती ।। 20 ।।
वानरं च (-रश्च?) महाचक्रं वृकशङ्खकपिञ्जला:।
अङ्कुशं लोकमातङ्ग ऋक्षाश्वं राजहंसकम् ।। 21 ।।
धूमचामरसिंहाश्च पूर्णरिक्तघटौ क्रमात्।
पद्मिनीकाकचन्द्राश्च ध्वजशूलौ च दर्पणम् ।। 22 ।।
नग्नो दीपश्च विधवा मङ्गलापितृभूस्तथा।
कूर्म: कालीमहादुर्गा(-र्गे?)सर्पराजजरद्गवौ ।। 23 ।।
नृपब्रह्महरीशान् वै एते शकुनसूचका:।
एकैकस्य भवेच्छाखा एक एव प्रकीर्तित: ।। 24 ।।
तान् सर्वान् क्रमशो वक्ष्ये यथावत्तान् निबोध मे।
विघ्नेशमादितस्तत्र तत: श्लोकं प्रवक्ष्यते ।। 25 ।।
विघ्नेशो दृश्यते यत्र साधकेन्द्रेण धीमता।
प्रार्थितस्य तु तां सिद्धिं तच्छिष्यायादिशेद्गुरु: ।। 26 ।।
शत्रुनाशं तथैवाग्रं राजपूजा च दृश्यते।
धनलाभोऽर्थलाभश्च अभयं च भविष्यति ।। 27 ।।
कायक्लेशं तथा रोगं सर्वत्र भयमेव च।
दृश्यते यत्र महिषं तत्र व्याधिर्भविष्यति ।। 28 ।।
विद्यासुखं महाज्योतिर्दृश्यते शुकपीतकम्।
आयुश्च लभते यस्मात् बन्धूनां च सुखं भवेत् ।। 29 ।।
लम्बाननं (कबन्धं तु ?) यथादृष्टं वियोगं बन्धुभि: सह।
युज्यते भयमन्युपग्रं पिशायेभ्यस्तथैव च ।। 30 ।।
दृश्यते यत्र कावेरी विपदं च विनश्यति।
सुखं भ्?ावति सर्वत्र बहुव्रीहिर्भविष्यति ।। 31 ।।
वृद्धिर्भवति सस्यानां राजा च विजयी भवेत्।
आयुरारोग्यदं नॄणां रोगनाशो भविष्यति ।। 32 ।।
दृश्यते तु बृहज्जाली मुखरोगं विनिर्दिशेत्।
कृष्णकुष्ठशरीरे(?)तु गृहनाशमथापि वा ।। 33 ।।
पुरुषश्च (-षे च ?) मृगे दृष्टे ब्रह्मवर्चस्तपोयुत:(?)।
अभिप्रेतार्थसिद्धिं च शुभं चैव विनिर्दिशेत् ।। 34 ।।
मार्जारा यत्र दृश्यन्ते बन्धुनाशं वियोगिता।
दधिक्षीरघृतादीनां नाशो भवति नान्यथा ।। 35 ।।
देवगौर्दृश्यते यत्र शत्रुभ्यो भयमादिशेत्।
सहवासं च पुत्राणां मातॄणां च विनाशनम् (?) ।। 36 ।।
देवालयेऽथ दृष्टे वै विद्यावृद्धिस्तथा भवेत्।
पुत्रलाभोऽर्थलाभश्च भविष्यति न संशय: ।। 37 ।।
विमानं दृश्यते यत्र राज्यलाभो नृपस्य तु।
शुद्रब्राह्मणवैश्यानां लाभ: सर्वो भविष्यति ।। 38 ।।
ज्वरे दृष्टे ज्वरं ब्रूयादङ्गहानि: क्षुधार्तता।
हृत्ताप अर्थनाशश्च भविष्यति न संशय: ।। 39 ।।
कल्पद्रुमेऽथ दृष्टे वै राज्येन सदृशं सुखम्।
ब्राह्मणस्य श्रियं ब्रूयादीप्सितार्थं भविष्यति ।। 40 ।।
व्याघ्रे दृष्टे भयं घोरं गवादीनां विनिर्दिशेत्।
राजतो भयमत्युग्रं पुरुषस्य न संशय: ।। 41 ।।
प्रासादो दृश्यते यत्र पुत्रपौत्रै: सुखी भवेत्।
धनधान्यसमृद्धिश्च भवेत्तत्र न संशय: ।। 42 ।।
निशाचरे च वै दृष्टे घोरं नॄणां भयं भवेत्।
ब्राह्मणानां गवां चैव वधं ब्रूयुरसंशय: ।। 43 ।।
कृश्णे मृगेऽथ दृष्टे वै यज्ञकल्याणमादिशेत्।
राष्ट्रशान्ति कुटुम्बस्य कीर्तिं वाथ विनिर्दिशेत् ।। 44 ।।
शिंशुमारेऽथ दृष्टे वै मरणं च भयावहम्।
अजगोमहिषादीनां व्याधिं चार्तिं विनिर्दिशेत् ।। 45 ।।
मकरे दृश्यमाने तु स्त्रीभोगं लभते ध्रुवम्।
आरोगयमन्नलाभश्च लभते नात्र संशय: ।। 46 ।।
वृश्चिको दृश्यते यत्र विषेण मरणं भवेत्।
हृत्तापमात्मपीडा च भार्याकलहमेव च ।। 47 ।।
पुष्कला(-रा?)वर्तके दृष्टे महद्वृद्धिर्भविष्यति।
वृद्धिर्भवति सस्यानां सुभिक्षं क्षेत्रमेव च ।। 48 ।।
कीर्तिं वृद्धिं जयं चैव विन्दते परमं सुखम्।
बलवृद्धिं सुभिक्षं च मत्स्ययुग्मं विनिर्दिशेत् ।। 49 ।।
श्येनस्तु दृश्ते यत्र शस्त्रेण मरणं भवेत्।
पलायनं कुटुम्बस्य शत्रुभिर्भयमादिशेत् ।। 50 ।।
निधनं लभते सस्तु (यस्तु ?) सदा लाभविनिर्गगतम्।
पुष्कलं धनधान्यं च वंशवृद्धिर्भविष्यति ।। 51 ।।
कृकलासो भवेद्यत्र ब्राह्मणैश्च विरुद्ध्यते।
वर्णस्य संकरं ब्रूयात् त्वग्दोषं च विनिर्दिशेत् ।। 52 ।।
श्रुतलाभं च वा वृद्धिं कीर्तिलाभं च शाश्वतम्।
व्यवहारे जयं चैव सरस्वत्यां विनिर्दिशेत् ।। 53 ।।
कुटुम्बस्य च दौर्बल्यं वर्णसंकरमेव च।
वानरो दृश्यते यत्र मृगेभ्यो भयमेव च ।। 54 ।।
चक्रे तु विजयं नित्यं राज्यलाभमवाप्स्यति।
व्याधिदुर्भिक्षनाशं च शत्रुनाशं विनिर्दिशेत् ।। 55 ।।
तस्करेभ्यो भयं नित्यं वृके दृष्टे न संशय:।
क्षुत्पीडां राजपीडां च राष्ट्रस्य च विनिर्दिशेत् ।। 56 ।।
भयनाशं श्रिनयं चैव पुष्कलार्थं तथैव च।
स्त्रीलाभं वस्त्रलाभं च पाञ्चजन्ये विनिर्दिशेत् ।। 57 ।।
पिङ्गला(?) दृश्यते यत्र शत्रुभिर्मरणं भवेत्।
राष्ट्रस्य कलहं ब्रूयात् विषं भवति नान्यथा ।। 58 ।।
हस्तिलाभस्तथा राज्ञो अङ्कुशे तु विनिर्दिशेत्।
समरे विजयं तेषां पुष्कलार्थं विनिर्दिशेत् ।। 59 ।।
वराहो दृश्यते यत्र सस्यनाशं विनिर्दिशेत्।
शस्त्रक्षयं पुन: पश्येत् अर्थनाशं भयं तु वा ।। 60 ।।
पुत्रलाभं श्रियं चैव राज्यलाभं तथैव च।
स्फुटमैरावते दृष्टे राज्यलाभं तु निर्दिशेत् ।। 61 ।।
ऋक्षराजेऽथ वै दृष्टे क्षेत्रनाशो भवेद्ध्रुवम्।
स्थाननाशो भवेत्तत्र शत्रुवृद्धिं च निर्दिशेत् ।। 62 ।।
ग्रामे शान्तिर्मनस्तुष्टिर्मङ्गलायतनं भवेत्।
आयुरारोग्यमैश्वर्यमर्थे(-श्वे?)न तु विनिर्दिशेत् ।। 63 ।।
राजहंसो (-से?) भवेन्नित्यं राज्यलाभो जयाय तु।
आयुरैश्वर्यवृद्धिश्च पुष्कलाकीर्तिरेव च ।। 64 ।।
धूमे बन्धुविनाशश्च विद्युता मरणं भवेत्।
निषादेभ्यो भयं चैव वैधव्यं च भविष्यति ।। 65 ।।
चामरे चैव दृष्टे तु ग्रामनाशो भविष्यति।
अनावृष्टिश्च राज्यस्य अतिवृष्टिरथापि वा ।। 66 ।।
सिंहे दृष्टे भवेच्चैव अर्थलाभं च निर्दिशेत्।
सद्वृद्धिं सर्वजन्तूनां पुत्रपौत्रविवर्धनम् ।। 67 ।।
पुत्रपौत्रविवृद्धिं च पुष्कलां श्रियमाप्नुयात्।
पूर्णकुम्भे तु वै दृष्टे पुरुषाणां न संशय: ।। 68 ।।
शत्रूणां वृद्धिसंयुक्तं धनधान्यविनाशनम्।
रिक्तकुम्भे तु वै दृष्टे भवत्येव न संशय: ।। 69 ।।
धनलाभं तथावाप्ति:(?) पुत्रलाभस्तथैव च।
लभते सर्वलाभं च पुष्करिण्या: प्रदर्शने ।। 70 ।।
चिन्तितार्था विनश्यन्ति आयुरैश्वर्यनाशनम्।
यस्मिन् काले तु संपश्येत् दुष्टकाकं सुदुर्मना: ।। 71 ।।
शत्रुक्षयं धनावाप्तिं समरे विजयं तथा।
आयुरारोग्यसंप्राप्तिं पूर्णचन्द्रस्य दर्शनात् ।। 72 ।।
विजयं शत्रुनाशश्च धनधान्यसुखावहम्।
आयुरारोग्यदं नॄणां उत्तमध्वजदर्शनात् ।। 73 ।।
शत्रुवृद्धिं धनच्छेदं सरोगं सस्यनाशनम्।
संपश्यन् शूलराजानं नात्र कार्या विचारणा ।। 74 ।।
आरोग्श्यं बलमैश्वर्यं कीर्तिं विद्याधनागमम्।
लभते नास्ति सन्देहो दर्पणस्य च दर्शनात् ।। 75 ।।
लाभहानिर्यशो हानिरायुर्हानिस्तथैव च।
सर्वहानिर्भवत्येव नग्नस्यैव च दर्शनात् ।। 76 ।।
चित्तार्थं लभते तत्र शुभं वाप्यशुभं तु वा।
शत्रुक्षयं च भवति प्रदीपं यस्तु पश्यति ।। 77 ।।
अर्थहानिर्मनस्ताप: गृहे दुश्चरितं भवेत्।
विधवादर्शनं यस्य भवत्यत्र न संशय: ।। 78 ।।
अर्थलाभो मनस्तुष्टि: गृहे संपद्भविष्यति।
चिन्तितार्थं लभेत्तत्र सुमङ्गल्या: प्रदर्शने ।। 79 ।।
श्मशानं दृश्यते यत्र ग्रामनाशं धनक्षयम्।
बन्धुदेववियोगं च सर्वते भयमेव वा ।। 80 ।।
अभयं सर्वतत्त्वेषु कूर्मरापजप्रदर्शनात्।
राज्यं श्रियं च संप्राप्य क्षेमारोग्ययुतो भवेत् ।। 81 ।।
शत्रुवृद्धिर्धनच्छेद: व्याधिर्दुर्भिक्षवर्धनम्।
चिन्तितं नश्यते(!) तत्र महाकालीप्रदर्शनात् ।। 82 ।।
विजयं चार्थलाभं च कीर्तिश्रीवर्धनं तथा।
पुत्रपौत्रविवृद्धिश्च दुर्गे दृष्टे न संशय: ।। 83 ।।
व्याधिं प्रवासं मरणं विपत्स्यति न संशय:।
पञ्चास्यपन्नगं पश्येत् पापिभिश्चाभिभूयते ।। 84 ।।
व्याधिनाशो(?) महद्दु:खं कुटुम्बस्य विनाशनम्।
आलोकिते महापापे गर्दभे स्यान्न संशय: ।। 85 ।।
जरद्गवं प्रपश्येता नरा: शोकार्णवं पुन:।
व्रजन्ति व्याधिना पीडा कलहं च गृहे भवेत् ।। 86 ।।
चक्रवर्तिनमायान्तं अवलोक्य जनाधिपम्।
श्रियं प्राप्नोति पुत्रांश्च पुष्टिं च लभते नर: ।। 87 ।।
चतुर्मुखं समालोक्य ब्रह्माणं कमलासनम्।
सर्वाधिपत्यमाप्ने वंशवृद्धिश्च जायते ।। 88 ।।
विष्णुमालोक्य देवेशं शङ्खचक्रगदाधरम्।
सर्वाधिपत्यमास्थाय स्थितिं च लभते नर: ।। 89 ।।
रुद्रमालोक्य भूतेशं शूलपाणिमुमापतिम्।
शत्रुसैन्यं महज्जित्वा मोदते सह बन्धुभि: ।। 90 ।।
एते श्लोका मयोद्दिष्टा: शकुनानां विशेषत:।
एतांस्तु पुस्तके लिख्य विवेकं सुमनोरमम् ।। 91 ।।
एकपत्रे तथैकैकं श्लोकं संलिख्य वाग्यत:।
सूत्रेण सूत्रयित्वा तु पुष्पादिभिरथार्चयेत् ।। 92 ।।
अनुज्ञाप्य ततो देवं विघ्नेशं गणनायकम्।
आनीय तु तत: शिष्यान् बद्धनेत्रान् यथाक्रमम् ।। 93 ।।
तेषां हस्ते तु पुष्पाणि निधाय च समाहित:।
आदाय पुस्तकं पश्चात् प्रणवेन समाहित: ।। 94 ।।
शिष्यहस्ते निधायाथ नमस्कृत्वा प्रसाद्य च।
प्रार्थयेच्च स तेनाथ विघ्नराजाग्निसंभवम् ।। 95 ।।
नमस्तेऽस्तु जगन्नाथ लम्बोदर गजानन।
संशयेऽस्मिन् महाबाहो संत्यं संदर्शयस्व न: ।। 96 ।।
सत्यं हि भवतामाहु: मनुयस्तत्त्वदर्शिन:।
इति विज्ञाप्य देवेशं शिष्यं ब्रूयात्तत: परम् ।। 97 ।।
विस्रंसयित्वा सूत्रं तु पत्रं गृह्णीष्व पुस्तके।
इत्युक्तस्तु तत: शिष्य: स्रसयित्वा तु सूत्रकम् ।। 98 ।।
गृह्णीयात् पत्रमेकं तु हस्तप्राप्तं यदृच्छया।
आचार्यस्तु ततो तेत्रबन्धनं प्रविमुच्य च ।। 99 ।।
देहि पत्रमिति ब्रुयात् शिष्यं प्रति समाहित:।
शिष्यस्तु पत्रं दद्याच्च गुरुहस्ते महामुने ।। 100 ।।
गुरुस्तु वाचयेत् पत्रमसंमूढेन चेतसा।
तदुक्तं विधिवज्ज्ञात्वा शुभं वा यदि वाशुभम् ।। 101 ।।
तत: शिष्यं प्रतिब्रूयाद्यथोक्तं सर्वमेव तु।
प्रतिशिष्यं तथा कृत्वा ज्ञात्वा कर्म शुभाशुभम् ।। 102 ।।
दीक्षयेच्छिष्यमाचार्यस्तत्परं लक्षणान्वितम्
एतत् पुस्तकमादाय सूत्रयित्वा विचक्षण: ।। 103 ।।
अन्येषामपि भक्तानामनेन विधिना पुन:।
पूजयित्वा गणेशं तु पुस्तकं च यथाक्रमम् ।। 104 ।।
शुभाशुभविधिं प्राज्ञ: प्रब्रूयाद्देशिकोत्तम:।
न नास्तिकानां संपश्येत् नाभक्तानां कदाचन ।। 105 ।।
न निन्दकानां सर्वेषां अनाचारजुषामपि।
दुर्वृत्तानां च सर्वेषां बाह्यदीक्षाजुषामपि ।। 106 ।।
असंभाष्येण पश्येच्च न विज्ञाते कदाचन।
शिष्याणां वनितानां तु भक्तानामपि सर्वदा ।। 107 ।।
संशयाविष्टचेतानां कृपणानां गुरौ सदा।
अजिह्मकानां भक्तानां देयमेतद्यथातथम् ।। 108 ।।
अनुक्तगुणयुक्तानां यदि पश्येत्तु (दद्यात्तु?) देशिक:।
देवताश्च प्रकुप्यन्ते(!) न तथ्यं च भविष्यति ।। 109 ।।
इति विज्ञाय सर्वं तु प्रपश्येच्छकुनानि तु।
शकुनान्ते ततो विघ्ननायकं पूजयेत् क्रमात् ।। 110 ।।
पुस्तकं पूजयेत् पश्चात् गन्धपुष्पादिभि: पुन:।
आचार्यं पूजयेत् पश्चात् सर्वस्वं वाधर्मेव वा ।। 111 ।।
यथावित्तानुसारेण(!) पूजयेद्गुरुपूजनम्।
उद्वासयेत्ततो देवमाकाशे गणनायकम् ।। 112 ।।
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां दीक्षाशकुनविस्तारो
नाम सप्तत्रिंशोऽध्याय: