← अध्यायः २३ विश्वक्सेनासंहिता
अध्यायः २४
[[लेखकः :|]]
अध्यायः २५ →
विश्वक्सेनासंहिता अध्यायाः


चतुर्विंशोऽध्याय:
विष्वक्सेन:---
अथ वक्ष्ये विशेषेण विष्णोराराधनं मुने।
जलगन्धादिसंस्कारविधिं गुह्यमनुत्तमम् ।। 1 ।।
ब्राह्मणान् वेदसंयुक्तान् वैष्णवान् सुकुलोद्भवान्।
तान् क्रमेणैव संस्कृत्य प्रोक्षयित्वा शिरोपरि ।। 2 ।।
मूलमन्त्रेण मन्त्रज्ञ: पश्चात्तेनैव कारयेत्।
गोपुरस्योत्तरे कुर्याद्दक्षिणे वा जलाशयम् ।। 3 ।।
याम्ये देवगृहस्यैव चोत्तरे वा प्रमाणत:।
अलंकृत्य तु तत्स्थानं प्रणवं सततं जपेत् ।। 4 ।।
गोमयेन् समालिप्य प्रोक्षयेद्गन्धवारिणा।
द्वादशाक्षरमन्त्रेण प्रणवाद्यन्तसंयुतम् ।। 5 ।।
अलंकृत्य च गन्धादि धूपदीपै: समन्तत:।
मुक्तादामसमायुक्तं वितानैरुपशोभितम् ।। 6 ।।
पताकमालासंयुक्तं शालिपिष्टैरलंकृतम्।
तत्स्थानं साधक: पश्चाद्द्वादशाक्षरविद्यया ।। 7 ।।
संप्रोक्ष्य धूपयित्वा च गुग्गुलागरुसंयुतम्।
तस्मिन् मनोरमे देशे जलभाण्डादिकान् मुने ।। 8 ।।
स्थापयेत् प्रणवेनैव प्रत्येकं तं हरिं स्मरन्।
जलभाण्डं तथा कुम्भं वर्धनीं च बहूनि च ।। 9 ।।
स्रग्धूपपात्रसंयुक्तं स्थापयेत्तु समाहित:।
एवमादीनि चान्यानि तद्भूमौ स्थापयेत् क्रमात् ।। 10 ।।
सुगन्धं देवपानीयं स्नानार्थं जलमेव च।
गन्धद्रव्यं तथोशीरं माञ्जं मलयजं तथा ।। 11 ।।
एवमादीनि चान्यानि गन्धद्रव्यादिकान् मुने।
संगृह्य विष्णुगायत्र्या प्रणवाद्यन्तसंयुतम् ।। 12 ।।
जलभाण्डादिकान् सर्वान् विष्णुगायत्रिया मुने।
संक्षाल्यान्यान् सुसंप्रोक्ष्य पूरितान् गालितोदकै: ।। 13 ।।
पूरयेत् प्रणवेनैव तान् पिधाय पृथक् पृथक्।
एलाचम्पकपुष्पाणि केतकोत्पलमेव च ।। 14 ।।
उशीरमल्लिकाजातिपुष्पं वकुलमेव च।
एतान् पुष्पान् समादाय विक्षिपेत्तान् पृ?थक् पृथक् ।। 15 ।।
एतेषामप्यलाभे तु जलेषु मुनिसत्तम।
यथासंभवमाहृत्य निक्षिपेद्गन्धपुष्पकम् ।। 16 ।।
त्रिमात्रात्(?)पुष्पमुद्धृत्य प्रणवेन विसर्जयेत्।
सुसूक्ष्मै: सुदृढैर्वस्त्रैर्वेष्टयेदस्त्रमन्त्रत: ।। 17 ।।
ततश्चन्दनसंयुक्तं कर्पूरं पेषयेद्बुध:।
तथैव गन्धं मालाकां(?)रजनीं प्रणवै: सह ।। 18 ।।
एवं संस्कृत्य मतिमान् सर्वान् देवाननुस्मरन्।
वर्धनीं विष्णुगायत्र्या सलक्ष्म्यास्मिन् पृथक् पृथक् ।। 19 ।।
जलभाण्डाज्जलं गृह्य प्रणवेन तु पूरयेत्।
एवं संपूरयित्वा तु पिधाय च सुवस्त्रकै: ।। 20 ।।
पूजारम्भे मुनिश्रेष्ठ प्रणवाद्यन्तसंयुतम्।
विष्णुगायत्रिमन्त्रेण चोद्धरद्वर्धनीं बहून्(?) ।। 21 ।।
मण्डपस्योत्तरे पार्श्वे स्थापयेत् प्रणवं स्मरन्।
एवं दिने दिने देवपूजार्थं जलमुत्तमम् ।। 22 ।।
तथैव चन्दनादीनि कर्पूरेण विमिश्रितम्।
दूर्वाक्षताञ्जनं चैव मात्रातण्डुलमेव च ।। 23 ।।
तिलगोहेमदध्याज्यं मधुपर्कोपहारकम्।
स्नानार्थं रजनीपिष्टं सतैलामलकं तथा ।। 24 ।।
एवमादीनि चान्यानि पूजाद्रव्याणि सर्वश:।
प्रणवेन तु संस्कृत्य चास्त्रमन्त्रेण चोद्धरेत् ।। 25 ।।
मुखवासं मुनिश्रेष्ठ प्रणवं सततं जपन्।
संस्कृत्यान्ते विधानेन चोद्धरेद्वाग्यत: शुचि: ।। 26 ।।
शङ्खत्रय(-तूर्य?)समायुक्तं प्रणवेन दिने दिने।
देवस्य दक्षिणे पार्श्वे स्थापयेदस्त्रमन्त्रत: ।। 27 ।।
प्रात: सन्ध्यादिषट्कालेऽप्येवमेव समाचरेत्।
नित्ये नैमित्तिकेऽप्येवं संस्कारो मुनिसत्तम ।। 28 ।।
संक्षेपेण मया प्रोक्तो जलगन्धादिक: क्रमात्।
अन्यथा चेन्महादोषो भविष्यति न संशय: ।। 29 ।।
दुर्भिक्षं जायते चैव धनधान्यक्षयो भवेत्।
तस्मात् सर्वप्रयत्नेन कारयेद्विधिचोदितम् ।। 30 ।।
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां [जलगाधादि-
संस्कारविधिर्नाम] चतुर्विंशोऽध्याय:।