← अध्यायः ८ विश्वक्सेनासंहिता
अध्यायः ९
[[लेखकः :|]]
अध्यायः १० →
विश्वक्सेनासंहिता अध्यायाः


नवमोऽध्याय:
विष्वक्सेन:---
अथात: संप्रवक्ष्यामि बालस्यानविधिं परम्।
*प्रथमं च द्वितीयं च*(?)संक्षेपाच्छृणु नारद ।। 1 ।।
महाविमानाभिमुखं नातिदूरसमीपगम्।
प्रासादस्याग्रत: कुर्यात् देवस्य तरुणालयम् ।। 2 ।।
महागेहाभिमुखो (गेहमुखं यद्वा?) पूर्वद्वारे तु कल्पयेत्।
प्रासादाभिमुखाभावे दक्षिणे चैव कल्पयेत् ।। 3 ।।
उत्तरे वा मुनिश्रेष्ठ सोमेशानान्तरेऽथ वा।
ईशाने वाप्यभावे तु कल्पयेत्तरुणालयम् ।। 4 ।।
राष्ट्रवृद्धिकरं पूर्वे धनधान्यसुखप्रदम्।
ग्रामराष्ट्रस्य वृद्धि: स्याद्दक्षिणे मुनिसत्तम ।। 5 ।।
ब्रह्मऋद्धिकरं सोमे पुत्रपौत्रसुखावहम्।
दुर्भिक्षभयनाशार्थं सोमेशानान्तरे मुने ।। 6 ।।
ईशाने तु भवेत्तस्मिन्(त्तच्च?)ग्रामायतनऋद्धिकृत्।
प्रासादे पश्चिमद्वारे बालस्थानं तु पश्चिमे ।। 7 ।।
*दक्षिणादिक्रमं तस्मिन्*(?)सर्वं पूर्ववदाचरेत्।
मूलस्थानस्य देशं च गृहीत्वा तदनन्तरम् ।। 8 ।।
प्रथमं स्यान्मुनिश्रेष्ठ कल्पयेत्तरुणालयम्।
इष्टकाभिर्मृदा वापि कारयेच्छास्त्रचोदितम् ।। 9 ।।
षट्पञ्चसप्तहस्तं वा नवहस्तमथापि वा।
संज्ञात्वा साधकस्तस्मिन् यजमानेच्छया*कुरु*(?) ।। 10 ।।
गर्भमानत्रिभागैकं द्वारमांन प्रशस्यते।
द्वारविस्तारमानस्य द्विगुण्?ां तु तथोच्छ्रितम् ।। 11 ।।
कूटाकारं तु वा कुर्यात् मण्डपाकारमेव वा।
कारयेत् बालगेहं तु आचार्य: शिल्पिभि: सह ।। 12 ।।
आद्येष्टकाविधानादि कारयेदिह पूर्ववत्।
मण्डपं चाग्रत: कृत्वा सप्राकारं सुरक्षितम् ।। 13 ।।
गर्भन्यासं तु कुर्याच्च रत्नन्यासं तु नेष्यते।
पीठं कृत्वा तु तन्मध्ये काष्ठैर्वा चेष्टकै(?)स्तथा ।। 14 ।।
मृदा वा सुदृढं स्निग्धं काष्ठासनसमन्वितम्।
एकहस्तोच्छ्रितां वेदिं साष्टपत्रं सकर्णिकम् ।। 15 ।।
कृत्वैवं बालगेहं तु साधकेच्छानुरूपत:।
एवं कृत्वा विधानेन तरुणालयमुत्तमम् ।। 16 ।।
परमात्मादिमूर्तीनां लक्षणं चाधुना श्रृण।
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां
बालस्थानविधिर्नाम नवमोऽध्याय:।।