← सूक्तं ३.९ ऋग्वेदः - मण्डल ३
सूक्तं ३.१०
गाथिनो विश्वामित्रः
सूक्तं ३.११ →
दे. अग्निः। उष्णिक्


त्वामग्ने मनीषिणः सम्राजं चर्षणीनाम् ।
देवं मर्तास इन्धते समध्वरे ॥१॥
त्वां यज्ञेष्वृत्विजमग्ने होतारमीळते ।
गोपा ऋतस्य दीदिहि स्वे दमे ॥२॥
स घा यस्ते ददाशति समिधा जातवेदसे ।
सो अग्ने धत्ते सुवीर्यं स पुष्यति ॥३॥
स केतुरध्वराणामग्निर्देवेभिरा गमत् ।
अञ्जानः सप्त होतृभिर्हविष्मते ॥४॥
प्र होत्रे पूर्व्यं वचोऽग्नये भरता बृहत् ।
विपां ज्योतींषि बिभ्रते न वेधसे ॥५॥
अग्निं वर्धन्तु नो गिरो यतो जायत उक्थ्यः ।
महे वाजाय द्रविणाय दर्शतः ॥६॥
अग्ने यजिष्ठो अध्वरे देवान्देवयते यज ।
होता मन्द्रो वि राजस्यति स्रिधः ॥७॥
स नः पावक दीदिहि द्युमदस्मे सुवीर्यम् ।
भवा स्तोतृभ्यो अन्तमः स्वस्तये ॥८॥
तं त्वा विप्रा विपन्यवो जागृवांसः समिन्धते ।
हव्यवाहममर्त्यं सहोवृधम् ॥९॥


सायणभाष्यम्

त्वामग्न इति नवर्चं दशमं सूक्तं वैश्वामित्रमौष्णिहमाग्नेयं । त्वामग्न औष्णिहमित्यनुक्रांतत्वात् ॥ प्रातरनुवाकाश्विनशस्त्रयोरौष्णिहे छंदस्यस्य सूक्तस्य विनियोगः । अथैतस्या इति खंडे सूचितं । पुरु त्वा त्वामग्ने । आ° ४. १३.। इति ॥


त्वाम॑ग्ने मनी॒षिणः॑ स॒म्राजं॑ चर्षणी॒नाम् ।

दे॒वं मर्ता॑स इन्धते॒ सम॑ध्व॒रे ॥१

त्वाम् । अ॒ग्ने॒ । म॒नी॒षिणः॑ । स॒म्ऽराज॑म् । च॒र्ष॒णी॒नाम् ।

दे॒वम् । मर्ता॑सः । इ॒न्ध॒ते॒ । सम् । अ॒ध्व॒रे ॥१

त्वां। अग्ने। मनीषिणः। संऽराजं। चर्षणीनां ।

देवं। मर्तासः । इंधते। सं। अध्वरे॥१॥

हे अग्ने मनीषिणो धीमंतोऽध्वर्युप्रभृतयो मर्तासो मनुष्याश्चर्षणीनां प्रजानां सम्राजमधिपतिं देवं द्योतमानं त्वामध्वरे यज्ञे समिंधते । सोमाज्यपयःप्रभृतिभिराहुतिभिः सम्यग्दीपयंति ॥ मनीषिणः । मनीषैषामस्तीति व्रीह्यादिभ्यश्चेति इनिः । यस्येति चेत्यवर्णलोपः । प्रत्ययस्वरः। सम्राजं । राजृ दीप्तौ। संपूर्वादस्माद्धातोः सत्सूद्विषेति क्विप् । क्विलोपः । समो मकारस्य मोऽनुस्वार इत्यनुस्वारे प्राप्ते मो राजि समः क्वाविति समो मकारः । कृदुत्तरपदप्रकृतिस्वरत्वं । चर्षणीनां। नामन्यतरस्यामिति विभक्तेरुदात्तत्वं । इंधते । ञिइंधी दीप्तौ। अस्माद्धातोर्हेतुमति चेति णिच् । लटि झस्यात्मनेपदेष्वनत इत्यदादेशः । छंदस्युभयथेति झस्यार्धधातुकत्वात् णेरनिटीति णिलोपः । निघातः ॥


त्वां य॒ज्ञेष्वृ॒त्विज॒मग्ने॒ होता॑रमीळते ।

गो॒पा ऋ॒तस्य॑ दीदिहि॒ स्वे दमे॑ ॥२

त्वाम् । य॒ज्ञेषु॑ । ऋ॒त्विज॑म् । अग्ने॑ । होता॑रम् । ई॒ळ॒ते॒ ।

गो॒पाः । ऋ॒तस्य॑ । दी॒दि॒हि॒ । स्वे । दमे॑ ॥२

त्वां। यज्ञेषु । ऋत्विजं। अग्ने। होतारं। ईळते।

गोपाः। ऋतस्य। दीदिहि। स्वे ।दमे॥२॥

हे अग्नेऽध्वर्ध्वादयो यज्ञेष्वग्निष्टोमादिषु त्वां होतारमृत्विजं होतृनामकमृत्विजमीळते । स्तुवंति। तादृशस्त्वमृतस्य सत्यस्य यज्ञस्य गोपा गोपायिता सन् स्वे दमे स्वकीये गृहे यज्ञशालायां दीदिहि । दीप्यस्व ॥ दीदिहि । दिवु क्रीडादौ। यङलुक । लोट् । तुजादित्वादभ्यासदीर्घत्वं । संज्ञापूर्वको विधिरनित्य इत्यभ्यासस्य गुणाभावे लोपो व्योर्वलीति वलोपः ॥


स घा॒ यस्ते॒ ददा॑शति स॒मिधा॑ जा॒तवे॑दसे ।

सो अ॑ग्ने धत्ते सु॒वीर्यं॒ स पु॑ष्यति ॥३

सः । घ॒ । यः । ते॒ । ददा॑शति । स॒म्ऽइधा॑ । जा॒तऽवे॑दसे ।

सः । अ॒ग्ने॒ । ध॒त्ते॒ । सु॒ऽवीर्य॑म् । सः । पु॒ष्य॒ति॒ ॥३

सः। घ। यः । ते । ददाशति । संऽइधा। जातऽवेदसे।

सः। अग्ने। धत्ते । सुऽवीर्यं। सः । पुष्यति ॥३॥

हे अग्ने यो यजमानो जातवेदसे जातप्रज्ञाय ते तुभ्यं समिधा समिंधनकारीण्याज्यपुरोडाशादिहवींषि ददाशति ददाति स घ स खलु सुवीर्यं शोभनसामर्थ्योपेतं पुत्रं धत्ते । धारयति । अपि च सः स एव पुष्यति । पशुपुत्रादिभिः समृद्धो भवति ॥ घ । चादयोऽनुदात्ता इत्यनुदात्तः । ददाशति । दाशृ दान इत्यस्माद्धातोः कर्तरि शप् । तिप् । द्विवचनं छांदसं । यद्वृत्तयोगादनिघातः । अभ्यस्तानामादिरित्युदात्तः । समिधा। ञिइंधी दीप्तौ । अस्मात् क्विप चेति क्विप् । उपधालोपः । सुपां सुलुगिति शसो डादेशः । कृदुत्तरपदं प्रकृतिस्वरत्वं । जातवेदसे । बहुव्रीहौ प्रकृत्या पूर्वपदमिति प्रकृतिस्वरत्वं । सुवीर्यं । वीरवीर्यौ चेत्युत्तरपदाद्युदात्तत्वं । पुष्यति । पुष पुष्टौ । अस्मात् श्यन् । ङित्त्वाद्गुणाभावः । निघातः ॥


स के॒तुर॑ध्व॒राणा॑म॒ग्निर्दे॒वेभि॒रा ग॑मत् ।

अ॒ञ्जा॒नः स॒प्त होतृ॑भिर्ह॒विष्म॑ते ॥४

सः । के॒तुः । अ॒ध्व॒राणा॑म् । अ॒ग्निः । दे॒वेभिः॑ । आ । ग॒म॒त् ।

अ॒ञ्जा॒नः । स॒प्त । होतृ॑ऽभिः । ह॒विष्म॑ते ॥४

सः । केतुः। अध्वराणां। अग्निः । देवेभिः । आ। गमत् ।

अंजानः । सप्त। होतृऽभिः । हविष्मते ॥४॥

अध्वराणां यज्ञानां केतुः प्रज्ञापकः सोऽग्निः सप्त सप्तभिर्होतृभिर्वषट्कर्तृभिरंजानः सोमाज्याहुतिभिरज्यमानः सन् हविष्मते यजमानार्थं देवेभिर्यष्टव्यदेवैः सहागमत् । आगच्छतु ॥ गमत् । लोडर्थे छंदसि लुङ्लिङ्लिट इति लुङ् । लृदित्त्वादङ्। बहुलं छंदस्यमाङ्योग इत्यडभावः । निघातः । अंजानः । अंजू व्यक्तिम्रक्षणगतिषु । व्यत्ययेन कर्मणि शानच्। चित्त्वादंतोदात्तत्वं । हविष्मते । जुहोतेरर्चिशुचीत्यादिना इसिप्रत्ययांतो हविःशब्दोंऽतोदात्तः । स्वरविधौ व्यंजनमविद्यमानवदिति परिभाषानाश्रयणान्मतुप उदात्तत्वाभावः । इसिप्रत्ययस्वरः ॥


प्र होत्रे॑ पू॒र्व्यं वचो॒ऽग्नये॑ भरता बृ॒हत् ।

वि॒पां ज्योतीं॑षि॒ बिभ्र॑ते॒ न वे॒धसे॑ ॥५

प्र । होत्रे॑ । पू॒र्व्यम् । वचः॑ । अ॒ग्नये॑ । भ॒र॒त॒ । बृ॒हत् ।

वि॒पाम् । ज्योतीं॑षि । बिभ्र॑ते । न । वे॒धसे॑ ॥५

प्र। होत्रे। पूर्व्यं। वचः। अग्नये। भरत।बृहत्।

विपां। ज्योतींषि। बिभ्रते।न।वेधसे॥५॥

यजमानो होत्रादीन्प्रति ब्रूते । हे होत्रादयो विपां विप्राणां मेधाविनामध्वर्य्वादीनां ज्योतींषि सत्कर्मानुष्ठानसंपाद्यानि तेजांसि बिभ्रते निमित्ततया कुर्वाणाय वेधसे जगतो विधात्रे होत्रे देवानामाह्वात्रेऽग्नये बृहन्महत्पूर्व्यं पूर्वः कृतं पुरातनं वचः स्तोत्रशस्त्रादिकं वाक्यं प्रभरत । संपादयत । नेत्ययं पादपूरणोऽन्वयाभावात् । यद्वा वेधसे न। यथा वेधा जगद्विधाता परमेश्वर आदित्यादीनि ज्योतींषि करोति तद्वदिति ॥ प्रशब्दस्य छंदसि व्यवहिताश्चेति भरतेत्यनेन संबंधः । पूर्व्यं पूर्वैः कृतमित्यर्थः । पूर्वैः कृतमिनियौ चेति य प्रत्ययः ।। मसंज्ञकत्वादवर्णलोपः । प्रत्ययस्वरः । भरत । भृञ् भरणे भौवादिकः । निघातः । बृहत् । वर्तमाने पृषद्बृहदिति निपातनादंतोदात्तः । बिभ्रते । भृञ् भरणे । जुहोत्यादिभ्यः श्लुः । भृञामिदितीत्वं । अभ्यस्तानामादिरित्याद्युदात्तत्वं ॥ ॥ ७॥


अ॒ग्निं व॑र्धन्तु नो॒ गिरो॒ यतो॒ जाय॑त उ॒क्थ्यः॑ ।

म॒हे वाजा॑य॒ द्रवि॑णाय दर्श॒तः ॥६

अ॒ग्निम् । व॒र्ध॒न्तु॒ । नः॒ । गिरः॑ । यतः॑ । जाय॑ते । उ॒क्थ्यः॑ ।

म॒हे । वाजा॑य । द्रवि॑णाय । द॒र्श॒तः ॥६

अग्निं। वर्धंतु।नः। गिरः। यतः। जायते।उक्थ्यः ।

महे। वाजाय। द्रविणाय। दर्शतः॥६॥

योऽयमग्निर्यतो याभिः स्तुतिरूपाभिर्गीर्भिरुक्थ्यो जायते । उक्थ्यशब्दः प्रशस्यवाची । अनभिशस्त्य उक्थ्य इति तन्नामसु पाठात् । अतिशयेन स्तुत्यो भवतीत्यर्थः । यश्चायमग्निर्महे महते वाजायान्नाय द्रविणाय धनाय च दर्शतो दर्शनीयो भवति तमिमग्निं नो गिरोऽस्माकं स्तुतिरूपास्ता वाचो वर्धंतु। वर्धयंतु । पूजयंत्वित्यर्थः ॥ वर्धंतु । वृधु वर्धने । अस्माण्णिच् । लघूपधगुणः । छंदस्युभयथेत्यार्धधातुकत्वाण्णिलोपः । झेरंतादेशः । एरुः । पा°३. ४.८६.। इत्युकारः । निघातः । उक्थ्यः । वच परिभाषणे । अस्मात्पातॄतुदिवचिरिचीत्यादिना थक् । कित्वाद्वचिस्वपीत्यादिना संप्रसारणं । उक्थं शस्त्रं । तेन स्तुत्यत्वेन तत्र भव उक्थ्यः । भवे छंदसीति यत् । यस्येति लोपः । तित्स्वरितमिति स्वरितः । दर्शतः । भृमृदृशियजीत्यतच्प्रत्ययः । चित्त्वादंतोदात्तः ॥


अग्ने॒ यजि॑ष्ठो अध्व॒रे दे॒वान्दे॑वय॒ते य॑ज ।

होता॑ म॒न्द्रो वि रा॑ज॒स्यति॒ स्रिधः॑ ॥७

अग्ने॑ । यजि॑ष्ठः । अ॒ध्व॒रे । दे॒वान् । दे॒व॒ऽय॒ते । य॒ज॒ ।

होता॑ । म॒न्द्रः । वि । रा॒ज॒सि॒ । अति॑ । स्रिधः॑ ॥७

अग्ने । यजिष्ठः । अध्वरे । देवान्। देवऽयते । यज ।

होता। मंद्रः । वि। राजसि। अति । स्रिधः ॥७॥

हे अग्ने यजिष्ठो यष्टृतमस्त्वमध्वरे यज्ञे देवयते देवानात्मन इच्छते यजमानाय देवान्यज । तदर्थं यष्टव्याग्न्यादीन्देवान्पूजय। किंच। होता देवानामाह्वाता मंद्रो यजमानस्य मादयिता स त्वं स्रिधः क्षपयितॄञ्छत्रूनति अतिक्रम्य वि राजसि । विशेषेण शोभसे ॥ यजिष्ठः । तुश्छंदसीतीष्ठन् । तुरिष्ठेमेयःस्विति तृचो लोपः ।। नित्त्वादावुदात्तः । देवयते । क्यचश्चित्वादंतोदात्तत्वं । शपः पित्त्वादनुदात्तत्वं । शतुश्च लसार्वधातुकस्वरेण तयोः क्यचा सहैकादेश एकादेश उदात्तेनोदात्त इत्यंतोदात्तो देवयच्छब्दः । ततः शतुरनुम इति विभक्तेः दात्तत्वं । यज । यज देवपूजासंगतिकरणदानेषु । अस्मालोट् । सिप् । सिपो हिरादेशः । अतो हेरिति हेर्लुक् । निघातः । राजसि । राजृ दीप्तौ । निघातः ॥


स नः॑ पावक दीदिहि द्यु॒मद॒स्मे सु॒वीर्य॑म् ।

भवा॑ स्तो॒तृभ्यो॒ अन्त॑मः स्व॒स्तये॑ ॥८

सः । नः॒ । पा॒व॒क॒ । दी॒दि॒हि॒ । द्यु॒ऽमत् । अ॒स्मे इति॑ । सु॒ऽवीर्य॑म् ।

भव॑ । स्तो॒तृऽभ्यः॑ । अन्त॑मः । स्व॒स्तये॑ ॥८

सः । नः । पावक । दीदिहि। द्युऽमत् । अस्मे इति । सुऽवीर्यं ।

भव । स्तोतृऽभ्यः । अंतमः । स्वस्तये ॥८॥

नः पावकास्मत्संबंधिनः पापस्य शोधक हे अग्ने स पूर्वमंत्रे प्रतिपादितस्त्वं द्युमत्कांतियुक्तं सुवीर्यं शोभन सामर्थ्योपेतं दानभोगार्हं धनमस्मे अस्मभ्यं दीदिहि । यद्वा द्युमत्तेजोयुक्तं सुवीर्यं शोभनवीयपेतं च यथा भवति तथास्मे अस्मदर्थं त्वं दीदिहि । दीप्यस्व । किंच स्तोतृभ्यः । षष्ट्यर्थे चतुर्थी । त्वद्विषयस्तुतिकारिणां होत्रादीनां स्वस्तयेऽविनाशनाय क्षेमायांतमोंऽतिकतमस्तेषामतिशयेन समीपवर्ती भव ॥ पावक । पूञ् पवने। अस्माद्धातोर्ण्वुच् । णित्त्वाद्वृद्धिः । वोरकादेशः । आमंत्रितत्वादाष्टमिकमनुदात्तत्वं । दीदिहि। दिवु क्रीडादौ। अस्माद्यङ् । तुजादीनामित्यभ्यासस्य दीर्घत्वं । संज्ञापूर्वको विधिरनित्य इत्यभ्यासस्य गुणाभावः । बहुलं छंदसीति यङो लुक् । लोटि सिप् । चर्करीतं परस्मैपदमदादिवच्चेति वचनाच्छपो लुक् । सिपो हिरादेशः । लोपो व्योर्वलीति वलोपः । हेरपित्त्वादगुणः । निघातः । द्युमत् । दिव उदित्युकारः । ह्रस्वनुड्भ्यामिति मतुप उदात्तत्वं । सुवीर्यं । वीरवीर्यौ चेत्युत्तरपदाद्युदात्तत्वं । अंतमः । अंतोऽस्यास्तीत्यंतिकः । अत इनिठनाविति ठन्। अतिशयेनांतिक इत्यतिशायने तमबिति तमप्। तमे तादेश्चेति तादिलोपः। नित्त्वादाद्युदात्तः । स्वस्तये। प्रातिपदिकस्वरः ॥


तं त्वा॒ विप्रा॑ विप॒न्यवो॑ जागृ॒वांस॒ः समि॑न्धते ।

ह॒व्य॒वाह॒मम॑र्त्यं सहो॒वृध॑म् ॥९

तम् । त्वा॒ । विप्राः॑ । वि॒प॒न्यवः॑ । जा॒गृ॒ऽवांसः॑ । सम् । इ॒न्ध॒ते॒ ।

ह॒व्य॒ऽवाह॑म् । अम॑र्त्यम् । स॒हः॒ऽवृध॑म् ॥९

तं। त्वा । विप्राः । विपन्यवः । जागृऽवांसः । सं। इंधते ।

हव्यवाहं। अमर्त्यं।सहःऽवृधं ॥ ९॥

हे अग्ने विप्राः स्तुतीनां प्रेरका जागृवांसोऽग्निहोत्रादिकर्मण्यप्रमत्ततया प्रबुद्धा विपन्यवः । विपन्युशब्दो मेधाविनमाचष्टे । विपश्चिद्विपन्युरिति तन्नामसु पाठात् । विपन्यवो मेधाविनः स्तोतारो हव्यवाहं हव्यानां वोढारममर्त्यं मरणधर्मरहितं सहोवृधं सहसा मथनरूपेण बलेन वर्धमानं तादृशं त्वा त्वां समिंधते । सोमाद्याहुतिभिः सम्यग्दीपयंति ॥ विप्राः । टुवप बीजसंताने । अस्माद्धातोर्ऋज्रेंद्राग्रवज्रविप्रेति रन्प्रत्ययेत्वयोर्निपातनादाद्युदात्तत्वं । विपन्यवः । विविधं पनं पननं स्तुतिं यातीति विपन्युः । मृगय्वादयश्चेति कः । अकारलोप श्छांदसः । प्रत्ययस्वरः । जागृवांसः । जागृ निद्राक्षये। अस्माल्लिट् । तस्य क्वसुः । उगिदचामिति नुम् । द्विचनाभावश्छांदसः । वस्वेकाजाद्धसामिति नियमादिडभावः । जाग्रोऽविचिणल्ङित्सु । पा० ७. ३. ८५.। इति गुणो न भवति तत्र विरित्यत्र क्वसोरपि गृहीतत्वात् । प्रत्ययस्वरः । इंधते । ञिइंधी दीप्तौ । अंतर्भावितण्यर्थोऽयं । निघातः । हव्यवाहं । वह प्रापणे । वहश्चेति ण्विः । उपधावृद्धिः । कृदुत्तरपदप्रकृतिस्वरत्वं । सहोवृधं । वृधु वर्धने । क्विप् चेति क्विप् ॥ ॥ ८॥


मण्डल ३

सूक्तं ३.१

सूक्तं ३.२

सूक्तं ३.३

सूक्तं ३.४

सूक्तं ३.५

सूक्तं ३.६

सूक्तं ३.७

सूक्तं ३.८

सूक्तं ३.९

सूक्तं ३.१०

सूक्तं ३.११

सूक्तं ३.१२

सूक्तं ३.१३

सूक्तं ३.१४

सूक्तं ३.१५

सूक्तं ३.१६

सूक्तं ३.१७

सूक्तं ३.१८

सूक्तं ३.१९

सूक्तं ३.२०

सूक्तं ३.२१

सूक्तं ३.२२

सूक्तं ३.२३

सूक्तं ३.२४

सूक्तं ३.२५

सूक्तं ३.२६

सूक्तं ३.२७

सूक्तं ३.२८

सूक्तं ३.२९

सूक्तं ३.३०

सूक्तं ३.३१

सूक्तं ३.३२

सूक्तं ३.३३

सूक्तं ३.३४

सूक्तं ३.३५

सूक्तं ३.३६

सूक्तं ३.३७

सूक्तं ३.३८

सूक्तं ३.३९

सूक्तं ३.४०

सूक्तं ३.४१

सूक्तं ३.४२

सूक्तं ३.४३

सूक्तं ३.४४

सूक्तं ३.४५

सूक्तं ३.४६

सूक्तं ३.४७

सूक्तं ३.४८

सूक्तं ३.४९

सूक्तं ३.५०

सूक्तं ३.५१

सूक्तं ३.५२

सूक्तं ३.५३

सूक्तं ३.५४

सूक्तं ३.५५

सूक्तं ३.५६

सूक्तं ३.५७

सूक्तं ३.५८

सूक्तं ३.५९

सूक्तं ३.६०

सूक्तं ३.६१

सूक्तं ३.६२

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.१०&oldid=209085" इत्यस्माद् प्रतिप्राप्तम्