← सूक्तं ३.५७ ऋग्वेदः - मण्डल ३
सूक्तं ३.५८
गाथिनो विश्वामित्रः
सूक्तं ३.५९ →
दे. अश्विनौ । त्रिष्टुप् ।


धेनुः प्रत्नस्य काम्यं दुहानान्तः पुत्रश्चरति दक्षिणायाः ।
आ द्योतनिं वहति शुभ्रयामोषस स्तोमो अश्विनावजीगः ॥१॥
सुयुग्वहन्ति प्रति वामृतेनोर्ध्वा भवन्ति पितरेव मेधाः ।
जरेथामस्मद्वि पणेर्मनीषां युवोरवश्चकृमा यातमर्वाक् ॥२॥
सुयुग्भिरश्वैः सुवृता रथेन दस्राविमं शृणुतं श्लोकमद्रेः ।
किमङ्ग वां प्रत्यवर्तिं गमिष्ठाहुर्विप्रासो अश्विना पुराजाः ॥३॥
आ मन्येथामा गतं कच्चिदेवैर्विश्वे जनासो अश्विना हवन्ते ।
इमा हि वां गोऋजीका मधूनि प्र मित्रासो न ददुरुस्रो अग्रे ॥४॥
तिरः पुरू चिदश्विना रजांस्याङ्गूषो वां मघवाना जनेषु ।
एह यातं पथिभिर्देवयानैर्दस्राविमे वां निधयो मधूनाम् ॥५॥
पुराणमोकः सख्यं शिवं वां युवोर्नरा द्रविणं जह्नाव्याम् ।
पुनः कृण्वानाः सख्या शिवानि मध्वा मदेम सह नू समानाः ॥६॥
अश्विना वायुना युवं सुदक्षा नियुद्भिश्च सजोषसा युवाना ।
नासत्या तिरोअह्न्यं जुषाणा सोमं पिबतमस्रिधा सुदानू ॥७॥
अश्विना परि वामिषः पुरूचीरीयुर्गीर्भिर्यतमाना अमृध्राः ।
रथो ह वामृतजा अद्रिजूतः परि द्यावापृथिवी याति सद्यः ॥८॥
अश्विना मधुषुत्तमो युवाकुः सोमस्तं पातमा गतं दुरोणे ।
रथो ह वां भूरि वर्पः करिक्रत्सुतावतो निष्कृतमागमिष्ठः ॥९॥

सायणभाष्यम्

‘धेनुः प्रत्नस्य ' इति नवर्चं पञ्चमं सूक्तं वैश्वामित्रं त्रैष्टुभमाश्विनम् । तथा चानुक्रान्तं --- ‘ धेनुर्नवाश्विनम्' इति । प्रातरनुवाके आश्विनक्रतौ त्रैष्टुभे छन्दस्याश्विनशस्त्रे चास्य सूक्तस्य विनियोगः । सूत्रितं च - ‘ धेनुः प्रत्नस्य क उ श्रवदिति सूक्ते' ( आश्व. श्रौ. ४. १५) इति । व्यूळ्हे दशरात्रे द्वितीये छन्दोमे प्रउगशस्त्रेऽयमाश्विनश्चतुर्थस्तृचः । द्वितीयस्याग्निं वः' इति खण्डे सूत्रितं ‘ धेनुः प्रत्नस्य काम्यं दुहाना ब्रह्मा ण इन्द्रोप याहि विद्वान् ' ( आश्व. श्रौ. ८.१०) इति ॥


धे॒नुः प्र॒त्नस्य॒ काम्यं॒ दुहा॑ना॒न्तः पु॒त्रश्च॑रति॒ दक्षि॑णायाः ।

आ द्यो॑त॒निं व॑हति शु॒भ्रया॑मो॒षस॒ः स्तोमो॑ अ॒श्विना॑वजीगः ॥१

धे॒नुः । प्र॒त्नस्य॑ । काम्य॑म् । दुहा॑ना । अ॒न्तरिति॑ । पु॒त्रः । च॒र॒ति॒ । दक्षि॑णायाः ।

आ । द्यो॒त॒निम् । व॒ह॒ति॒ । शु॒भ्रऽया॑मा । उ॒षसः॑ । स्तोमः॑ । अ॒श्विनौ॑ । अ॒जी॒ग॒रिति॑ ॥१

धेनुः । प्रत्नस्य । काम्यम् । दुहाना । अन्तरिति । पुत्रः । चरति । दक्षिणायाः ।

आ । द्योतनिम् । वहति । शुभ्रऽयामा । उषसः । स्तोमः । अश्विनौ । अजीगरिति ॥१

“धेनुः प्रीणयित्र्युषाः “प्रत्नस्य पुरातनस्याग्नेः “काम्यं कमनीयं पयः “दुहाना दोग्ध्री भवति । “दक्षिणायाः उषसः “पुत्रः सूर्यस्तस्याः “अन्तः "चरति । उषसोऽनन्तरं “शुभ्रयामा । सूर्यकिरणसंपर्कात् शुभ्रतया गमनं यस्यासौ शुभ्रयामा दिवसः। “द्योतनिं सर्वस्य प्रकाशकं सूर्यम्, “आ "वहति बिभर्ति । अतः “उषसः पुरा “अश्विनौ स्तोतुं “स्तोमः स्तोत्रकारी होत्रादिः "अजीगः जागर्ति उत्तिष्ठति ॥ शुभ्रयामा । ' या प्रापणे ' । आतो मनिन् । बहुव्रीहौ पूर्वपदस्वरः। अजीगः । ‘जागृ निद्राक्षये'। लङि तिपि अदादित्वात् शपो लुक् । आकारस्य ईकारश्छान्दसः । गुणे कृते हल्यङ्यादिना तिपो लोपः ॥


सु॒युग्व॑हन्ति॒ प्रति॑ वामृ॒तेनो॒र्ध्वा भ॑वन्ति पि॒तरे॑व॒ मेधा॑ः ।

जरे॑थाम॒स्मद्वि प॒णेर्म॑नी॒षां यु॒वोरव॑श्चकृ॒मा या॑तम॒र्वाक् ॥२

सु॒ऽयुक् । व॒ह॒न्ति॒ । प्रति॑ । वा॒म् । ऋ॒तेन॑ । ऊ॒र्ध्वाः । भ॒व॒न्ति॒ । पि॒तरा॑ऽइव । मेधाः॑ ।

जरे॑थाम् । अ॒स्मत् । वि । प॒णेः । म॒नी॒षाम् । यु॒वोः । अवः॑ । च॒कृ॒म॒ । आ । या॒त॒म् । अ॒र्वाक् ॥२

सुऽयुक् । वहन्ति । प्रति । वाम् । ऋतेन । ऊर्ध्वाः । भवन्ति । पितराऽइव । मेधाः ।

जरेथाम् । अस्मत् । वि । पणेः । मनीषाम् । युवोः । अवः । चकृम । आ । यातम् । अर्वाक् ॥२

हे अश्विनौ “सुयुक् सुष्ठु रथे योजिता अश्वाः “ऋतेन सत्यभूतेन रथेन “वां युवां “प्रति “वहन्ति । यज्ञं प्रत्यागमनाय धारयन्ति । “मेधाः यज्ञाश्च “ऊर्ध्वाः युष्मदभिमुखम् ऊर्ध्वाः “भवन्ति । तत्र दृष्टान्तः । “पितरेव । यथा पुत्राः पितरौ मातापितरावभिलक्ष्य गच्छन्ति तद्वत् । “अस्मत् अस्मत्तः सकाशात् "पणेर्मनीषां आसुरी बुद्धिं "वि “जरेथां विशेषेण नाशयतम् । वयं तु “युवोः युवयोः “अवः हविर्लक्षणमन्नं “चकृम कुर्मः । युवाम् “अर्वाक् अस्मदाभिमुख्येन “आ “यातम् ॥ सुयुक् । युजेः क्विप् । ‘सुपां सुलुक्' इति सुपो लुक् । पितरेव । पिता मात्रा' इति पितुः शेषः । सुपो डादेशः । जरेथाम् । जॄष् वयोहानौ'। ण्यन्तस्य ‘जनीजॄष्क्नसुरञ्जोऽमन्ताश्च' इति मित्त्वात् वृद्ध्यभावः । ‘ छन्दस्युभयथा' इति आथाम आर्धधातुकत्वात् णिलोपः । शपः पित्त्वादनुदात्तत्वे धातुस्वरः ॥


सु॒युग्भि॒रश्वै॑ः सु॒वृता॒ रथे॑न॒ दस्रा॑वि॒मं शृ॑णुतं॒ श्लोक॒मद्रे॑ः ।

किम॒ङ्ग वां॒ प्रत्यव॑र्तिं॒ गमि॑ष्ठा॒हुर्विप्रा॑सो अश्विना पुरा॒जाः ॥३

सु॒युक्ऽभिः॑ । अश्वैः॑ । सु॒ऽवृता॑ । रथे॑न । दस्रौ॑ । इ॒मम् । शृ॒णु॒त॒म् । श्लोक॑म् । अद्रेः॑ ।

किम् । अ॒ङ्ग । वा॒म् । प्रति॑ । अव॑र्तिम् । गमि॑ष्ठा । आ॒हुः । विप्रा॑सः । अ॒श्वि॒ना॒ । पु॒रा॒ऽजाः ॥३

सुयुक्ऽभिः । अश्वैः । सुऽवृता । रथेन । दस्रौ । इमम् । शृणुतम् । श्लोकम् । अद्रेः ।

किम् । अङ्ग । वाम् । प्रति । अवर्तिम् । गमिष्ठा । आहुः । विप्रासः । अश्विना । पुराऽजाः ॥३

हे अश्विनौ “सुयुग्भिः सुष्ठु योजितैः “अश्वैः “सुवृता । पुनःपुनरावर्तते इति वृच्चक्रम् । शोभनचक्रोपेतेन “रथेन आगत्य “दस्रौ शत्रूणामुपक्षपयितारौ युवाम् “अद्रेः । अद्रियते सर्वैरित्यद्रिः स्तोता । तस्य “इमं “श्लोकं स्तोत्रं “शृणुतम् । “अङ्ग हे अश्विनौ “विप्रासः मेधाविनः “पुराजाः पुरातना ऋषयः “वां युवाम् “अवर्तिम् अस्माकं वृत्तिहानिं "प्रति “गमिष्ठा अतिशयेन गन्ताराविति “किम् “आहुः किं कथयन्ति। न कथयन्तीत्यर्थः । प्रथमाष्टकेऽष्टमेऽध्याये ‘ सुवृता रथेन' (ऋ. सं. १. ११८.३) इत्यादि गतम् ॥ गमिष्ठा । गन्तृशब्दादिष्ठनि रूपम् ॥


आ म॑न्येथा॒मा ग॑तं॒ कच्चि॒देवै॒र्विश्वे॒ जना॑सो अ॒श्विना॑ हवन्ते ।

इ॒मा हि वां॒ गोऋ॑जीका॒ मधू॑नि॒ प्र मि॒त्रासो॒ न द॒दुरु॒स्रो अग्रे॑ ॥४

आ । म॒न्ये॒था॒म् । आ । ग॒त॒म् । कत् । चि॒त् । एवैः॑ । विश्वे॑ । जना॑सः । अ॒श्विना॑ । ह॒व॒न्ते॒ ।

इ॒मा । हि । वा॒म् । गोऽऋ॑जीका । मधू॑नि । प्र । मि॒त्रासः॑ । न । द॒दुः । उ॒स्रः । अग्रे॑ ॥४

आ । मन्येथाम् । आ । गतम् । कत् । चित् । एवैः । विश्वे । जनासः । अश्विना । हवन्ते ।

इमा । हि । वाम् । गोऽऋजीका । मधूनि । प्र । मित्रासः । न । ददुः । उस्रः । अग्रे ॥४

“कच्चित् इति प्रश्ने । हे अश्विनौ “आ “मन्येथाम् इमां मदीयां स्तुतिं जानीतम् । किंच “एवैः गमनसाधनैरश्वैः “आ “गतं यज्ञं प्रत्यागच्छतम् । “विश्वे सर्वे “जनासः स्तोतारः “अश्विना अश्विनौ “वां युवां “हवन्ते स्तुतिलक्षणाभिर्वाग्भिराह्वयन्ति । किंच “गोऋजीका गवां पयसा मिश्रणोपेतानि “मधूनि मदकराणि सोमरसरूपाणि “इमा इमानि हवींषि युवाभ्यां “प्र “ददुः' अध्वर्य्वादयः प्रयच्छन्ति । तत्र दृष्टान्तः । "मित्रासो “न । यथा मित्राणि मित्रेभ्योऽपेक्षितं ददति तद्वत् । “उस्रः । वसति नभसीत्युस्रः सूर्यः । “अग्रे उषसोऽग्र उदेति । तस्मादागच्छतमिति भावः॥ मन्येथाम् । ‘ मन ज्ञाने' । दिवादिः । लोटि रूपम् । इमा। सुपो डादेशः । गोऋजीका । ‘ प्रकृत्यान्तःपादम्' इत्येङः प्रकृतिभावः । ददुः । दाण् दाने ' इत्यस्य लिट्युसि रूपम् । हियोगादनिघातः । उस्रः । ‘ वस निवासे '। 'स्फायितञ्चि' इत्यादिना रक् । कित्त्वात् संप्रसारणम् । शासिवसिघसीनां च ' इति षत्वाभावश्छान्दसः ॥


ति॒रः पु॒रू चि॑दश्विना॒ रजां॑स्याङ्गू॒षो वां॑ मघवाना॒ जने॑षु ।

एह या॑तं प॒थिभि॑र्देव॒यानै॒र्दस्रा॑वि॒मे वां॑ नि॒धयो॒ मधू॑नाम् ॥५

ति॒रः । पु॒रु । चि॒त् । अ॒श्वि॒ना॒ । रजां॑सि । आ॒ङ्गू॒षः । वा॒म् । म॒घ॒ऽवा॒ना॒ । जने॑षु ।

आ । इ॒ह । या॒त॒म् । प॒थिऽभिः॑ । दे॒व॒ऽयानैः॑ । दस्रौ॑ । इ॒मे । वा॒म् । नि॒ऽधयः॑ । मधू॑नाम् ॥५

तिरः । पुरु । चित् । अश्विना । रजांसि । आङ्गूषः । वाम् । मघऽवाना । जनेषु ।

आ । इह । यातम् । पथिऽभिः । देवऽयानैः । दस्रौ । इमे । वाम् । निऽधयः । मधूनाम् ॥५

हे अश्विनौ “पुरू “चित् बहून्यपि "रजांसि स्थानानि “तिरः स्वतेजसा तिरस्कुर्वन्तौ वां युवाम् “इह कर्मणि “देवयानैः “पथिभिः मार्गैः “आ “यातम् आगच्छतम् । “मघवाना धनवन्तौ हे अश्विनौ “जनेषु स्तोतृषु "वां युवयोः आङ्गूषः आ समन्तात् घोषणीयं स्तोत्रं वर्तते । "दस्रौ शत्रूणामुपक्षपयितारौ हे अश्विनौ “वां युवयोः “मधूनां मदकराणां सोमानाम् “इमे “निधयः । निधीयतेऽत्र सोम इति निधयः पात्रविशेषाः । सन्ति । तस्मादागच्छतमिति भावः ॥ आङ्गूषः । आङ्पूर्वात् घुषेः कर्मणि घञ् । आघुष्यत इत्याघोषः। घो इस्यस्य पृषोदरादित्वात् गू इत्यादेशः ।' आङोऽनुनासिकश्छन्दसि ' इति अनच्यप्यनुनासिकश्छान्दसः । यद्वा । अगिर्गत्यर्थः । अस्मात् ‘अङ्गूषः' इति सूत्रेण उषच्प्रत्ययान्तो निपातितः । अङ्गति गच्छति देवानित्यङ्गूषः स्तोत्रम् । अङ्गूषः एव आङ्गूषः। प्रज्ञादित्वात् स्वार्थिकः अण् । प्रत्ययस्वरः । ‘एह यातम् ' इत्यर्धर्चो गतः ॥ ॥ ३ ॥


अप्तोर्यामेऽतिरिक्तोक्थ्ये अच्छावाकशस्त्रे ‘ पुराणमोकः' इति चतस्रो विकल्पेन याज्याः । सूत्रितं च - ‘यदि नाधीयात्पुराणमोकः सख्यं शिवं वामिति चतस्रो याज्याः' (आश्व. श्रौ.९. ११) इति ॥

पु॒रा॒णमोक॑ः स॒ख्यं शि॒वं वां॑ यु॒वोर्न॑रा॒ द्रवि॑णं ज॒ह्नाव्या॑म् ।

पुन॑ः कृण्वा॒नाः स॒ख्या शि॒वानि॒ मध्वा॑ मदेम स॒ह नू स॑मा॒नाः ॥६

पु॒रा॒णम् । ओकः॑ । स॒ख्यम् । शि॒वम् । वा॒म् । यु॒वोः । न॒रा॒ । द्रवि॑णम् । ज॒ह्नाव्या॑म् ।

पुन॒रिति॑ । कृ॒ण्वा॒नाः । स॒ख्या । शि॒वानि॑ । मध्वा॑ । म॒दे॒म॒ । स॒ह । नु । स॒मा॒नाः ॥६

पुराणम् । ओकः । सख्यम् । शिवम् । वाम् । युवोः । नरा । द्रविणम् । जह्नाव्याम् ।

पुनरिति । कृण्वानाः । सख्या । शिवानि । मध्वा । मदेम । सह । नु । समानाः ॥६

हे अश्विनौ “वां युवयोः "पुराणं पुरातनं “सख्यम् "ओकः सेव्यं “शिवं कल्याणकरं भवति । किंच “नरा नरावस्मदीयस्य कर्मणो नेतारौ "युवोः युवयोः “द्रविणं धनं “जह्नाव्यां जह्नुकुलजायां भवति । “शिवानि सुखकराणि युवयोः “सख्या सख्यानि “पुनः “कृण्वानाः कुर्वन्तः “समानाः हविष्प्रदानेन उपकारकत्वान्मित्रभूता एकीभूताः सन्तः वयं “मध्वा मदकरेण सोमेन वां युवां “सह युगपत् “नु क्षिप्रं "मदेम हर्षयेम ॥ सख्यम् । सख्युर्भाव इत्यर्थे ‘सख्युर्यः' इति यप्रत्ययः । जह्नाव्याम् । जह्नोः संबन्धिनीत्यर्थे ' तस्येदम् ' इत्यण । “ओर्गुणः' । ह्रस्वदीर्घयोर्व्यत्ययः । मदेम । ‘ मदी हर्षे ' इत्यस्य आशीर्लिङि लिङ्याशिष्यङ्प्रत्ययः । निघातः॥


अश्वि॑ना वा॒युना॑ यु॒वं सु॑दक्षा नि॒युद्भि॑श्च स॒जोष॑सा युवाना ।

नास॑त्या ति॒रोअ॑ह्न्यं जुषा॒णा सोमं॑ पिबतम॒स्रिधा॑ सुदानू ॥७

अश्वि॑ना । वा॒युना॑ । यु॒वम् । सु॒ऽद॒क्षा॒ । नि॒युत्ऽभिः॑ । च॒ । स॒ऽजोष॑सा । यु॒वा॒ना॒ ।

नास॑त्या । ति॒रःऽअ॑ह्न्यम् । जु॒षा॒णा । सोम॑म् । पि॒ब॒त॒म् । अ॒स्रिधा॑ । सु॒दा॒नू॒ इति॑ सुऽदानू ॥७

अश्विना । वायुना । युवम् । सुऽदक्षा । नियुत्ऽभिः । च । सऽजोषसा । युवाना ।

नासत्या । तिरःऽअह्न्यम् । जुषाणा । सोमम् । पिबतम् । अस्रिधा । सुदानू इति सुऽदानू ॥७

“सुदक्षा शोभनसामर्थ्योपेतौ "युवाना नित्यतरुणौ “नासत्या । न विद्यतेऽसत्यं ययोस्तौ। “सुदानू शोभनफलस्य दातारौ हे अश्विनी “वायुना “नियुद्भिः अश्वैः “च “सजोषसा संगतौ "जुषाणा सोमविषयप्रीतियुक्तौ "अस्रिधा अनुपक्षीणौ "युवं युवां “तिरोअह्नयम् अह्नि तिरोहिते हूयमानमिमं “सोमं “पिबतम् ॥ नियुद्भिः । यौतेः क्विप् । तिरोअह्न्यम् । अह्नि भवमह्न्यम् ।' भवे छन्दसि ' इति यत् । तिरोभूतमह्न्यं यस्मिन् काले स तिरोअह्न्यः । पूर्वपदप्रकृतिस्वरः१॥


अश्वि॑ना॒ परि॑ वा॒मिष॑ः पुरू॒चीरी॒युर्गी॒र्भिर्यत॑माना॒ अमृ॑ध्राः ।

रथो॑ ह वामृत॒जा अद्रि॑जूत॒ः परि॒ द्यावा॑पृथि॒वी या॑ति स॒द्यः ॥८

अश्वि॑ना । परि॑ । वा॒म् । इषः॑ । पु॒रू॒चीः । ई॒युः । गीः॒ऽभिः । यत॑मानाः । अमृ॑ध्राः ।

रथः॑ । ह॒ । वा॒म् । ऋ॒त॒ऽजाः । अद्रि॑ऽजूतः । परि॑ । द्यावा॑पृथि॒वी इति॑ । या॒ति॒ । स॒द्यः ॥८

अश्विना । परि । वाम् । इषः । पुरूचीः । ईयुः । गीःऽभिः । यतमानाः । अमृध्राः ।

रथः । ह । वाम् । ऋतऽजाः । अद्रिऽजूतः । परि । द्यावापृथिवी इति । याति । सद्यः ॥८

हे अश्विनौ “पुरूचीः । पुरु अञ्चन्ति गच्छन्ति इति पुरूचीः। बहूनि “इषः हविर्लक्षणान्यन्नानि “वां युवा “परि “ईयुः परितो गच्छन्ति । तथा "अमृध्राः केनाप्यतिरस्कृताः "यतमानाः कर्मणि प्रवर्तमानाः स्तोतारः "गीर्भिः स्तुतिलक्षणाभिर्वाग्भिर्युवां परिचरन्ति । "ऋतजाः ऋतस्योदकस्य जनयिता । ऋते यज्ञे प्रादुर्भवतीति वा । "अद्रिजूतः स्तोतृभिराकृष्टः “वां युवयोः “रथः “द्यावापृथिवी द्यावापृथिव्यौ “सद्यः तदानीमेव “परि “याति “ह सर्वतः प्राप्नोति खलु । अश्विनो रथस्य वेगवत्त्वे मन्त्रवर्ण: -- ‘ यो वामश्विना मनसो जवीयान्रथः स्वश्वो विश आजिगाति ' ( ऋ. सं. १. ११७.२ ) इति । अतः कारणादस्मदीयं यज्ञं प्रत्यागच्छतमिति भावः ॥ ईयुः । ‘ इण् गतौ ' इत्यस्य लिटि ‘दीर्घ इण: किति' इत्यभ्यासस्य दीर्घः । पादादित्वादनिघातः । यतमानाः । ‘ यती प्रयत्ने ' इत्यस्य शानचि रूपम् । शपः पित्त्वादनुदात्तत्वे शानचो लसार्वधातुकस्वरेणानुदात्तत्वे धातुस्वरः । ऋतजाः । जनेर्विट् । ‘विड्वनोः' इत्यात्वम् । अद्रिजूतः । जू इति सौत्रो धातुः । कर्मणि क्तः । ‘ तृतीया कर्मणि ' इति पूर्वपदस्वरः ॥


अश्वि॑ना मधु॒षुत्त॑मो यु॒वाकु॒ः सोम॒स्तं पा॑त॒मा ग॑तं दुरो॒णे ।

रथो॑ ह वां॒ भूरि॒ वर्प॒ः करि॑क्रत्सु॒ताव॑तो निष्कृ॒तमाग॑मिष्ठः ॥९

अश्वि॑ना । म॒धु॒सुत्ऽत॑मः । यु॒वाकुः॑ । सोमः॑ । तम् । पा॒त॒म् । आ । ग॒त॒म् । दु॒रो॒णे ।

रथः॑ । ह॒ । वा॒म् । भूरि॑ । वर्पः॑ । करि॑क्रत् । सु॒तऽव॑तः । निः॒ऽकृ॒तम् । आऽग॑मिष्ठः ॥९

अश्विना । मधुसुत्ऽतमः । युवाकुः । सोमः । तम् । पातम् । आ । गतम् । दुरोणे ।

रथः । ह । वाम् । भूरि । वर्पः । करिक्रत् । सुतऽवतः । निःऽकृतम् । आऽगमिष्ठः ॥९

हे अश्विनौ यः “सोमः “मधुषुत्तमः मधुरसमत्यन्तं प्रेरयन् “युवाकुः युवां कामयमानो वर्तते । यद्वा । युवाकुर्वसतीवरीप्रभृतिभिर्मिश्रित इत्यर्थः । “तम् इमं सोमं “पातं पिबतम् । “दुरोणे अस्माकं गृहे “आ “गतम् आगच्छतम् । “भूरि प्रभूतं “वर्पः वारकं तेजः रूपं वा सर्वेर्वरणीयं धनं वा “करिक्रत् पुनःपुनः कुर्वन् "वां युवयोः “रथः “सुतवतः सोमम् अभिषुतवतः यजमानस्य “निष्कृतम्। ' निरित्येष समित्येतस्य स्थाने' (निरु. १२.७) इति यास्कः। संस्कारि । यद्वा । संस्कृतं गृहम् "आगमिष्ठः अतिशयेनागच्छन् भवति ॥ युवाकुः । यौतेः ‘ कटिकुषिभ्यां ' काकुः' इति बाहुलकादस्मादपि भवति । प्रत्ययस्वरेण मध्योदात्तः । करिक्रत् । करोतेर्यङ्लुकि शतरि ‘ दाधर्ति दर्धर्ति दर्धर्षि° ' इत्यादिना चुत्वाभावे यणादेशे कृतेऽङ्गस्यानृकारान्तत्वादभ्यासस्य रिगागमो न प्राप्नोतीति सोऽपि निपात्यते । अभ्यस्तस्वरः। निष्कृतम् । करोतेरादिकर्मणि क्तः। संस्कर्तुं प्रवृत्त इत्यर्थः । थथादिस्वरः ॥४॥

मण्डल ३

सूक्तं ३.१

सूक्तं ३.२

सूक्तं ३.३

सूक्तं ३.४

सूक्तं ३.५

सूक्तं ३.६

सूक्तं ३.७

सूक्तं ३.८

सूक्तं ३.९

सूक्तं ३.१०

सूक्तं ३.११

सूक्तं ३.१२

सूक्तं ३.१३

सूक्तं ३.१४

सूक्तं ३.१५

सूक्तं ३.१६

सूक्तं ३.१७

सूक्तं ३.१८

सूक्तं ३.१९

सूक्तं ३.२०

सूक्तं ३.२१

सूक्तं ३.२२

सूक्तं ३.२३

सूक्तं ३.२४

सूक्तं ३.२५

सूक्तं ३.२६

सूक्तं ३.२७

सूक्तं ३.२८

सूक्तं ३.२९

सूक्तं ३.३०

सूक्तं ३.३१

सूक्तं ३.३२

सूक्तं ३.३३

सूक्तं ३.३४

सूक्तं ३.३५

सूक्तं ३.३६

सूक्तं ३.३७

सूक्तं ३.३८

सूक्तं ३.३९

सूक्तं ३.४०

सूक्तं ३.४१

सूक्तं ३.४२

सूक्तं ३.४३

सूक्तं ३.४४

सूक्तं ३.४५

सूक्तं ३.४६

सूक्तं ३.४७

सूक्तं ३.४८

सूक्तं ३.४९

सूक्तं ३.५०

सूक्तं ३.५१

सूक्तं ३.५२

सूक्तं ३.५३

सूक्तं ३.५४

सूक्तं ३.५५

सूक्तं ३.५६

सूक्तं ३.५७

सूक्तं ३.५८

सूक्तं ३.५९

सूक्तं ३.६०

सूक्तं ३.६१

सूक्तं ३.६२

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.५८&oldid=363000" इत्यस्माद् प्रतिप्राप्तम्