← सूक्तं ३.८ ऋग्वेदः - मण्डल ३
सूक्तं ३.९
गाथिनो विश्वामित्रः
सूक्तं ३.१० →
दे. अग्निः। बृहती, ९ त्रिष्टुप्


सखायस्त्वा ववृमहे देवं मर्तास ऊतये ।
अपां नपातं सुभगं सुदीदितिं सुप्रतूर्तिमनेहसम् ॥१॥
कायमानो वना त्वं यन्मातॄरजगन्नपः ।
न तत्ते अग्ने प्रमृषे निवर्तनं यद्दूरे सन्निहाभवः ॥२॥
अति तृष्टं ववक्षिथाथैव सुमना असि ।
प्रप्रान्ये यन्ति पर्यन्य आसते येषां सख्ये असि श्रितः ॥३॥
ईयिवांसमति स्रिधः शश्वतीरति सश्चतः ।
अन्वीमविन्दन्निचिरासो अद्रुहोऽप्सु सिंहमिव श्रितम् ॥४॥
ससृवांसमिव त्मनाग्निमित्था तिरोहितम् ।
ऐनं नयन्मातरिश्वा परावतो देवेभ्यो मथितं परि ॥५॥
तं त्वा मर्ता अगृभ्णत देवेभ्यो हव्यवाहन ।
विश्वान्यद्यज्ञाँ अभिपासि मानुष तव क्रत्वा यविष्ठ्य ॥६॥
तद्भद्रं तव दंसना पाकाय चिच्छदयति ।
त्वां यदग्ने पशवः समासते समिद्धमपिशर्वरे ॥७॥
आ जुहोता स्वध्वरं शीरं पावकशोचिषम् ।
आशुं दूतमजिरं प्रत्नमीड्यं श्रुष्टी देवं सपर्यत ॥८॥
त्रीणि शता त्री सहस्राण्यग्निं त्रिंशच्च देवा नव चासपर्यन् ।
औक्षन्घृतैरस्तृणन्बर्हिरस्मा आदिद्धोतारं न्यसादयन्त ॥९॥

सायणभाष्यम्

सखायस्त्वेति नवर्चं नवमं सूक्तं वैश्वामित्रं । अत्रेयमनुक्रमणिका । सखायो नव बार्हतं त्रिष्टुबंतमिति । अंत्या त्रिष्टुप् । शिष्टा अष्टौ बृहत्यः ॥ प्रातरनुवाकाश्विनशस्त्रयोर्बार्हते छंदस्यस्य सूक्तस्य विनियोगः । अथैतस्या इति खंडे सूत्रितं । सखायस्त्वायमग्निरग्न आ याहि । आः ४. १३.। इति ॥


सखा॑यस्त्वा ववृमहे दे॒वं मर्ता॑स ऊ॒तये॑ ।

अ॒पां नपा॑तं सु॒भगं॑ सु॒दीदि॑तिं सु॒प्रतू॑र्तिमने॒हस॑म् ॥१

सखा॑यः । त्वा॒ । व॒वृ॒म॒हे॒ । दे॒वम् । मर्ता॑सः । ऊ॒तये॑ ।

अ॒पाम् । नपा॑तम् । सु॒ऽभग॑म् । सु॒ऽदीदि॑तिम् । सु॒ऽप्रतू॑र्तिम् । अ॒ने॒हस॑म् ॥१

सखायः । त्वा । ववृमहे । देवं । मर्तासः । ऊतये ।

अपां। नपातं । सुऽभगं । सुऽदीदितिं । सुऽप्रतूर्तिं। अनेहसं ॥१॥

विश्वामित्रः स्तौति । हे अग्ने सखायः सोमाज्यादिहविष्प्रदानेनोपकारकत्वान्मित्राणि मर्तासो मनुष्या ऋत्विजो वयमपां नपातमपां नप्तारं सुभगं शोभनधनयुक्तं सुदीदितिं शोभनदीप्तिं सुप्रतूर्तिं शोभनप्रतरणं कर्मानुष्ठातृभिः सुखेन गंतव्यमनेहसमुपद्रवरहितमेतादृशं देवं त्वामूतये रक्षणाय ववृमहे। वृणीमहे ॥ सखायः । ख्या प्रकथने । समाने ख्यश्चोदात्त इति समान उपपदे डिदित्यनुवृत्तौ ख्यातेरिण् । तस्य डित्त्वाट्टिलोपः । तत्संनियोगेन यलोपः । समानस्य छंदस्यमूर्धेति सभावः । उपपदस्योदात्तत्वं । णिदित्यनुवृत्तौ सख्युरसंबुद्धौ । पा० ७.१.९२.। इति णिद्वद्भावः । वृद्ध्यायादेशौ । आद्युदात्तः । ववृमहे । वृङ संभक्तौ। छंदसि लुङ्लङ्लिट इति वर्तमाने लिट् । क्रादित्वादिडभावः । निघातः । ऊतये । अव रक्षण इत्यस्य उदात्त इत्यनुवृत्तावूतियूतीत्यादिना क्तिनंतत्वेन निपातनादंतोदात्तः । अपां । ऊडिदमिति विभक्तेरुदात्तत्वं । सुभगं । आद्युदात्तं द्व्यच् छंदसीत्युत्तरपदाद्युदात्तत्वं । सुप्रतूर्ति । क्रत्वादयश्चेत्युत्तरपदाद्युदात्तत्वं ॥


काय॑मानो व॒ना त्वं यन्मा॒तॄरज॑गन्न॒पः ।

न तत्ते॑ अग्ने प्र॒मृषे॑ नि॒वर्त॑नं॒ यद्दू॒रे सन्नि॒हाभ॑वः ॥२

काय॑मानः । व॒ना । त्वम् । यत् । मा॒तॄः । अज॑गन् । अ॒पः ।

न । तत् । ते॒ । अ॒ग्ने॒ । प्र॒ऽमृषे॑ । नि॒ऽवर्त॑नम् । यत् । दू॒रे । सन् । इ॒ह । अभ॑वः ॥२

कायमानः । वना। त्वं । यत् । मातृः। अजगन् । अपः।

न। तत् । ते । अग्ने। प्रऽमृषे । निऽवर्तनं । यत् । दूरे। सन् । इह । अभवः ॥२॥

हे अग्ने वना काननानि कायमानः कामयमानस्त्वं यद्यस्मात्कारणात्तानि विहाय मातॄरपो मातृभूता अपोऽजगन् । अगमः । गतवानसि । अप्सु प्रविष्टत्वाच्छांतो वर्तसे । तत्तस्मात्ते तव निवर्तनं । नितरां तत्रैव वर्तनं । तेन च विनाशो लक्ष्यते । स विनाशो न प्रमृषे । न प्रमृष्यते । न सह्यते । कुत इत्यत आह । यद्यस्मात्कारणाद्दूरे सन् अदृश्यतया वर्तमानस्त्वमिहास्मत्संबंधिष्वरणिरूपेषु काष्ठेष्वभवः। मंथनात् क्षणमात्रेणास्माकं समीपे भवसि । तस्मात्तव दूरतो वर्तनमस्मभ्यं न रोचते । अस्मिन्नर्थे यास्कः । कायमानश्चायमानः कामयमान इति वा । वनानि त्वं यन्मातॄरपोऽगम उपशाम्यन्। न तत्ते अग्ने प्रमृष्यते निवर्तनं दूरे यत्सन्निह भवसि जायमानः । नि°४. १४.। इति ॥ कायमानः । कमु कांतौ । कमेर्णिङ । लटः शानच् । मकारलोपश्छांदसः ।। अजगन् । गम्लृ गतावित्यस्य लङि बहुलं छंदसीति शपः श्लुः। । हल्ङ्यादिना सिलोपः । मो नो धातोरिति नकारः । यच्छब्दयोगादनिघातः । अडागमस्वरः। प्रमृषे । मृष तितिक्षायां। व्यत्ययेन कर्मणि तप्रत्ययः । लोपस्त आत्मनेपदेष्विति तलोपः । धातुस्वरः । अभवः । छंदसि लुङ्लिङ्लिट इति लडर्थे लङ् । यद्योगादनिघातः ॥ .


अति॑ तृ॒ष्टं व॑वक्षि॒थाथै॒व सु॒मना॑ असि ।

प्रप्रा॒न्ये यन्ति॒ पर्य॒न्य आ॑सते॒ येषां॑ स॒ख्ये असि॑ श्रि॒तः ॥३

अति॑ । तृ॒ष्टम् । व॒व॒क्षि॒थ॒ । अथ॑ । ए॒व । सु॒ऽमनाः॑ । अ॒सि॒ ।

प्रऽप्र॑ । अ॒न्ये । यन्ति॑ । परि॑ । अ॒न्ये । आ॒स॒ते॒ । येषा॑म् । स॒ख्ये । असि॑ । श्रि॒तः ॥३

अति। तृष्टं। ववक्षिथ। अथ। एव । सुऽमनाः। असि।।

प्रऽप्र। अन्ये । यंति । परि। अन्ये। आसते । येषां। सख्ये। असि । श्रितः ॥३॥

हे अग्ने तृष्टं स्तोतुस्तृष्णाभिलाषं तदुचितफलप्रदानेन सफलं कर्तुमतिववक्षिथ । अतिशयेन वोढुमिच्छसि ।। अथैव अथापि त्वं सुमना असि । संतुष्टमनस्को वर्तसे । किंच। त्वं येषां षोडशानामृत्विजां सख्ये मैत्रे श्रितो सि वर्तसे तेषां मध्येऽन्ये ऽध्वर्युप्रभृतयो द्वादशर्विजः प्रयंति । प्रकर्षेण होतुं गच्छंति । अन्य उद्गातृप्रभृतयश्चत्वारः पर्यासते । परित आसीना वर्तंते ॥ ववक्षिथ । वह प्रापण इत्यस्य सनि रूपं । अभ्यासस्य सन्यत इतीत्वाभावश्छांदसः । तदंताद्वर्तमाने लिट् । थल आर्धधातुकस्येड्वलादेरितीट् । कास्प्रत्ययादामित्वाम् न भवति मंत्रत्वात् । निघातः । प्रप्र । प्रसमुपोद इति द्विर्वचनं । यंति । इण् गतावित्यस्य लटि रूपं । एकान्याभ्यां समर्थाभ्यामित्यन्यशब्दयोगात्पूर्वस्य निघाताभावः। आसते । आस उपवेशने । उत्तरत्वान्निघातः । असि । अस भुवि । तासस्त्योर्लोप इति सकारलोपः । यद्वृत्तयोगान्न निहन्यते ॥


ई॒यि॒वांस॒मति॒ स्रिध॒ः शश्व॑ती॒रति॑ स॒श्चतः॑ ।

अन्वी॑मविन्दन्निचि॒रासो॑ अ॒द्रुहो॒ऽप्सु सिं॒हमि॑व श्रि॒तम् ॥४

ई॒यि॒ऽवांस॑म् । अति॑ । स्रिधः॑ । शश्व॑तीः । अति॑ । स॒श्चतः॑ ।

अनु॑ । ई॒म् । अ॒वि॒न्द॒न् । नि॒ऽचि॒रासः॑ । अ॒द्रुहः॑ । अ॒प्ऽसु । सिं॒हम्ऽइ॑व । श्रि॒तम् ॥४

ईयिऽवांसं । अति । स्रिधः । शश्वतीः । अति । सश्चतः ।

अनु। ईं। अविंदन। निऽचिरासः । अद्रुहः। अप्ऽसु। सिंहंऽइव। श्रितं ॥४॥

हे अग्ने अद्रुहोऽद्रोग्धारो निचिरासो नितरां चिरासश्चिरंतना विश्वे देवाः स्रिधः शोषकाञ्छत्रून्बलेनातिक्रम्येयिवांसं गच्छंतं शश्वतीर्बह्वीः सश्चतः संगतिकारिणीः सेनाश्चात्यतिक्रम्य गच्छंतमप्सु श्रितं तिरोहितमत एव सिंहमिव गुहाप्रविष्टं सिंहमिव भीममीमेनं त्वामन्वविंदन् । अनुगम्यालभंत ॥ ईयिवांसं । इण् गतावित्यस्य क्वसावुपेयिवाननाश्वाननूचानश्च । पा० ३.२.१०९.। इति निपातितः । प्रत्ययस्वरः । स्रिधः । स्रिधेः क्षयार्थस्य शोषणार्थस्य वा क्विप् चेति क्विप् । धातुस्वरः । सश्चतः । षस्ज गतौ । जकारस्य व्यत्ययेन चकारः । लटः शत्रादेशः । प्रत्ययस्वरः । अविंदन् । विद्लृ लाभ इत्यस्य लङि रूपं । निचिरासः । नितरां चिराः । आज्जसेरसुगित्यसुक् । समासस्वरः। अद्रुहः । द्रुह जिघांसायां । संपदादित्वाद्भावे क्विप् । बहुव्रीहौ नञ्सुभ्यामित्युत्तरपदांतोदात्तत्वं । श्रितं । श्रिञ् सेवायामित्यस्य श्र्युकः कितीतीट्प्रतिषेधः । प्रत्ययस्वरः ।।


स॒सृ॒वांस॑मिव॒ त्मना॒ग्निमि॒त्था ति॒रोहि॑तम् ।

ऐनं॑ नयन्मात॒रिश्वा॑ परा॒वतो॑ दे॒वेभ्यो॑ मथि॒तं परि॑ ॥५

स॒सृ॒वांस॑म्ऽइव । त्मना॑ । अ॒ग्निम् । इ॒त्था । ति॒रःऽहि॑तम् ।

आ । ए॒न॒म् । न॒य॒त् । मा॒त॒रिश्वा॑ । प॒रा॒ऽवतः॑ । दे॒वेभ्यः॑ । म॒थि॒तम् । परि॑ ॥५

ससृवांसंऽइव । त्मना। अग्निं। इत्था। तिरःऽहितं।

आ। एनं । नयत्। मातरिश्वा पराऽवतः । देवेभ्यः । मथितं । परि ॥५॥

मातरिश्वा वायुरित्थेत्थं त्मना स्वेच्छयाप्सु प्रवेशेन तिरोहितं निलीनं परि परितो मथितं मंथनेन निष्पादितमेनमग्निं देवेभ्यः । तादर्थ्ये चतुर्थी । देवार्थं परावतो दूरदेशादानयत् । आनीतवान्। तत्र दृष्टांतः । ससृवांसमिव । यथा स्वाच्छंद्येन ससृवांसं सरंतं गच्छंतं पुत्रं पिता बलादानयति तद्वत् ॥ ससृवांसमिव । सृ गतावित्यस्माल्लिट्। तस्य क्वसुः । इवेन विभक्त्यलोप इत्युक्तत्वात्प्रत्ययस्वरः । त्मना । आत्मनशब्दस्य मंनेष्वाड्यादेरात्मन इत्याकारलोपः । इत्था । था हेतौ च छंदसीति व्यत्ययेन थाप्रत्ययः । प्रत्ययस्वरः । एनं । अन्वादेशे द्वितीयाटौःष्वेन इत्येनादेशः । अनुदात्तश्च । नयत् । णीञ् प्रापण इत्यस्य लङि रूपं । अडभावश्छांदसः ।। मातरिश्वा । मातर्यंतरिक्ष श्वसितीति श्वनुक्षन्नित्यादिना निपातितः ॥ ॥ ५ ॥


तं त्वा॒ मर्ता॑ अगृभ्णत दे॒वेभ्यो॑ हव्यवाहन ।

विश्वा॒न्यद्य॒ज्ञाँ अ॑भि॒पासि॑ मानुष॒ तव॒ क्रत्वा॑ यविष्ठ्य ॥६

तम् । त्वा॒ । मर्ताः॑ । अ॒गृ॒भ्ण॒त॒ । दे॒वेभ्यः॑ । ह॒व्य॒ऽवा॒ह॒न॒ ।

विश्वा॑न् । यत् । य॒ज्ञान् । अ॒भि॒ऽपासि॑ । मा॒नु॒ष॒ । तव॑ । क्रत्वा॑ । य॒वि॒ष्ठ्य॒ ॥६

तं। त्वा । मर्तः। अगृभ्णत । देवेभ्यः । हव्यऽवाहन।

विश्वान्। यत् । यज्ञान् । अभिऽपासि । मानुष । तव । क्रत्वा । यविष्ठ्य ॥६॥

हे हव्यवाहन हव्यानां वोढर्हे अग्ने मर्ता मनुष्या अध्वर्युप्रभृतयस्तं तादृशमप्सु तिरोहितं त्वा त्वां देवेभ्यो यष्टव्यदेवतार्थमगृभ्णत । अगृह्णत । मानुष मनुष्याणां हितकारिन्यविष्ठ्य युवतम हे अग्ने तव क्रत्वा तव कर्मणा माहात्म्येन विश्वान्सर्वानस्माभिः क्रियमाणान्यज्ञान्यद्यस्मात्कारणादभिपासि सर्वतः पालयसि तस्मात्त्वामगृभ्णतेति पूर्वत्रान्वयः ॥ अगृभ्णत। ग्रह उपादाने । क्र्यादित्वाच्छा। ग्रहिज्यावयीति संप्रसारणं । हृग्रहोर्भश्छंदसीति हकारस्य भकारः। तिङतिङ इति निघातः । हव्यवाहन । वह प्रापण इति धातोर्ञ्युडित्यनुवृत्तौ हव्येऽनंतःपादमिति ञ्युट । उपधावृद्धिः। योरनादेशः । अपादादित्वादाष्टमिकमनुदात्तत्वं । विश्वान् । विश प्रवेशन इत्यस्मादशिप्रुषिमुटिरणिकणिखटिविशिभ्यः क्वन्निति क्वन् । कित्त्वाद्गुणाभावः । नित्वादाद्युदात्तत्वं । अभिपासि । पा रक्षणे । अस्य धातो रक्षणार्थत्वान्न पिबादेशः । यच्छब्दयोगान्न निघातः । धातुस्वरः । क्रत्वा। टा। जसादयश्छंदसि विकल्प्यंत इत्यत्र नादेशाभावः। यणादेशः । प्रत्ययस्वरः । यविष्ठ्य । युवशब्दादतिशायने तमबिष्ठनावितीष्ठन् । स्थूलदूरयुवेति यणादि परं लुप्यते पूर्वस्य च गुणः । वस्वादित्वात्स्वार्थिको यप्रत्ययः ॥


तद्भ॒द्रं तव॑ दं॒सना॒ पाका॑य चिच्छदयति ।

त्वां यद॑ग्ने प॒शवः॑ स॒मास॑ते॒ समि॑द्धमपिशर्व॒रे ॥७

तत् । भ॒द्रम् । तव॑ । दं॒सना॑ । पाका॑य । चि॒त् । छ॒द॒य॒ति॒ ।

त्वाम् । यत् । अ॒ग्ने॒ । प॒शवः॑ । स॒म्ऽआस॑ते । सम्ऽइ॑द्धम् । अ॒पि॒ऽश॒र्व॒रे ॥७

तत्। भद्रं । तव। दंसना । पाकाय । चित् । छदयति ।

त्वां । यत् । अग्ने । पशवः । संऽआसते । संऽइद्धं। अपिऽशर्वरे ॥७॥

हे अग्ने तव संबंधि तदिदं भद्रं शोभनं दंसनाग्निहोत्रादिकं कर्म पाकाय चित् । चिच्छब्दोऽप्यर्थे । पाकायेति कर्मणि चतुर्थी । पाकोऽर्भकः । तद्वदज्ञमपि यजमानं छदयति । स्वफलप्रदानेन पूजयति । पशुपुत्रादिभिः परिवृतं करोतीत्यर्थः । छदयतिशब्दोऽर्चतिकर्मा छंदयति छदयतीति तन्नामसु पाठात् । यद्वा । पाकशब्दः प्रशस्यं वक्ति पाको वाम इति प्रशस्यनामसु पठितत्वात् । तद्भद्रं प्रशस्यं यजमानमभिमतफलप्रदानेन पूजयतीत्यर्थः । यद्यस्मात्कारणादपिशर्वरे शर्वरीमुखेऽग्निविहरणकाल एव समिद्धं दीप्यमानं त्वां पशवो द्विपदाच्चतुष्पदाश्चोभये पशवः समासते । सम्यगासते । पर्युपासत इत्यर्थः। तदिदं पश्वादिलक्षणं फलं यजमानाय प्रयच्छतीत्यर्थः ॥ भद्रं । भदि कल्याण इत्यस्माद्धातोपरि रक्प्रत्ययेन निपातनादंतोदात्तत्वं । पाकाय । पा रक्षण इत्यादिण्भीकापाशलीत्यादिना कन्। पायते रक्ष्यते राजादिनेति पाकः । नित्वादाद्युदात्तः । छदयति । छद अपवरणे । स्वार्थे णिच् । अदंतवाद्वृद्ध्यभावः । निघातः । समासते । आस उपवेशने । अदादित्वाच्छपो लुक् । अनकारांतत्वाज् झस्यादादेशः । यद्योगादनिघातः । तिङि चोदात्तवतीति गतेर्निघातः । धातुस्वरः ।।


आ जु॑होता स्वध्व॒रं शी॒रं पा॑व॒कशो॑चिषम् ।

आ॒शुं दू॒तम॑जि॒रं प्र॒त्नमीड्यं॑ श्रु॒ष्टी दे॒वं स॑पर्यत ॥८

आ । जु॒हो॒त॒ । सु॒ऽअ॒ध्व॒रम् । शी॒रम् । पा॒व॒कऽशो॑चिषम् ।

आ॒शुम् । दू॒तम् । अ॒जि॒रम् । प्र॒त्नम् । ईड्य॑म् । श्रु॒ष्टी । दे॒वम् । स॒प॒र्य॒त॒ ॥८

आ । जुहोत । सुऽअध्वरं । शीरं । पावकऽशोचिषं ।

आशुं । दूतं । अजिरं । प्रत्नं। ईड्यं। श्रुष्टी । देवं । सपर्यंत ॥८॥

ऋत्विजो यजमानः प्रेरयति । हे ऋत्विजः पावकशोचिषं शोधकदीप्तिं शीरं काष्ठेष्वोषधीषु चानुशायिनं स्वध्वरं शोभनयज्ञोपेतमिममग्निमा जुहोत । आहुतिभिरा समंतात्तर्पयत । अपि च । आशुं कर्मणि व्याप्तं दूतमाह्वानकारित्वेन देवानां दूतमजिरं क्षिप्रं गंतारं प्रत्नं पुरातनमीड्यं स्तोतव्यं देवं द्योतमानमिमग्निं श्रुष्टी सपर्यत । श्रुष्टीति क्षिप्रनामेति यास्कः । क्षिप्रं पूजयत ॥ जुहोत । हु दानादानयोः । अस्माद्धातोर्लोट् । जुहोत्यादिभ्यः श्लुरिति शपः श्लुः । श्लाविति द्विर्वचनं । लोटो लङ्वदिति लङ्वद्भावे तस्थस्थमिपामिति थस्य तादेशः । छंदसीत्यनुवृत्तौ तस्य तप्तनप्तनथनाश्चेति तबादेशः । पित्त्वाद्गुणः । निघातः । स्वध्वरं बहुव्रीहौ नञ्सुभ्यामित्युत्तरपदांतोदात्तत्वं । शीरं । शीङ् स्वप्ने । अस्माद्धातोः स्फायितंचिवंचीत्यादिना रक्प्रत्ययः । कित्वाद्गुणाभावः। प्रत्ययस्वरः। पावकशोचिषमित्यत्र पवनं पावः शुद्धिः । तं कायतीति पावकः । आतोऽनुपसर्गे कः । प्रत्ययस्वरः । बहुव्रीहौ प्रकृत्या पूर्वपदमिति पूर्वपदप्रकृतिस्वरत्वं । आशुं । अशू व्याप्तौ । अस्माद्धातोः कृवापाजिमीत्यादिमा उण् । उपधावृद्धिः । प्रत्ययस्वरः । अजिरं । अज गतिक्षेपणयोरित्यस्माद्धातोरजिरशिथिलेति किरच्प्रत्ययांतत्वेन निपातनादंतोदात्तत्वं । प्रत्नं । प्रगस्य छंदसि गलोपश्च । पा°४.३.२३.२.। इति गलोपः । चकारात् त्नप्रत्ययः । प्रत्ययस्वरः । ईड्यं। ईड स्तुतौ । अस्माण्यत् । ईडवंदेत्यादिनाद्युदात्तत्वं । सपर्यत । सपरशब्दात्कंड्वादिभ्यो यक् पूजायां वर्तते । लोण्मध्यमपुरुषबहुवचनं । शप् । अतो गुण इति पूर्वरूपत्वं । निघातः ॥


त्रीणि॑ श॒ता त्री स॒हस्रा॑ण्य॒ग्निं त्रिं॒शच्च॑ दे॒वा नव॑ चासपर्यन् ।

औक्ष॑न्घृ॒तैरस्तृ॑णन्ब॒र्हिर॑स्मा॒ आदिद्धोता॑रं॒ न्य॑सादयन्त ॥९

त्रीणि॑ । श॒ता । त्री । स॒हस्रा॑णि । अ॒ग्निम् । त्रिं॒शत् । च॒ । दे॒वाः । नव॑ । च॒ । अ॒स॒प॒र्य॒न् ।

औक्ष॑न् । घृ॒तैः । अस्तृ॑णन् । ब॒र्हिः । अ॒स्मै॒ । आत् । इत् । होता॑रम् । नि । अ॒सा॒द॒य॒न्त॒ ॥९

त्रीणि। शता। त्री। सहस्राणि । अग्निं । त्रिंशत् । च । देवाः। नव। च। असपर्यन् ।

औक्षन्। घृतैः । अस्तृणन्। बर्हिः। अस्मै। आत्। इत्। होतारं। नि। असादयंत ॥९॥

त्रीणि शता त्रीणि शतानि त्री सहस्राणि त्रीणि सहस्राणि त्रिंशच्च नव चैकोनचत्वारिंशदधिकशतत्रयोपेतत्रिसहस्रसंख्याका देवा इममग्निमसपर्यन् । अपूजयन् । किंच ते देवा घृतैरिममग्निमौक्षन् । असिंचन् । तथास्मा अग्नये तदर्थं बर्हिरस्तृणन् । बर्हिषास्तरणं वेद्याच्छादनमकुर्वन् । आदिदनंतरमेव ते देवास्तस्मिन्बर्हिष्येनमग्निं होतारं कृत्वा न्यसादयंत । उपावेशयन् । देवैः पूज्यमिममग्निं सपर्यतेति पूर्वेणान्वयः । देवसंख्या च बृहदारण्यकेऽभिहिता। महिमान एवैषामेते त्रयस्त्रिंशत्वेव देवा इति । कतमे ते त्रयस्त्रिंशदष्टौ वसव एकादश रुद्रा द्वादशादित्यास्त एकत्रिंशदिंद्रश्चैव प्रजापतिश्च त्रयस्त्रिंशौ । बृ° आ°३. ९.। इति ॥ शता। दशानां दशतांशभावस्तश्च प्रत्ययः । दश दशतः परिमाणमेषां शतानि । सुपां सुलुगित्यादिना सुपो डादेशः । प्रत्ययस्वरः । त्री । सुपां सुलुगिति पूर्वसवर्णदीर्घः । फिट्स्वरः । सहस्राणि । कर्दमादित्वान्मध्योदात्तः । त्रिंशत् । त्रयाणां दशतां त्रिन्भावः शच्च प्रत्ययः । त्रयो दशतः परिमाणमस्य त्रिंशत् । प्रत्ययस्वरः । नव। कनिन्नित्यनुवृत्तौ णु स्तुतावित्यस्माद्धातोर्णुदंशोर्नुदश्चेति कनिन् । गुणश्च । नित्त्वादाद्युदात्तः । असपर्यन् । लङि रूपं । निघातः । औक्षन् । उक्ष सेचने । आडजादीनामित्याडागमः । वृद्धिः । पादादित्वान्न निहन्यते । आगमस्वरः । अस्तृणन् । स्तृञ् आच्छादने । लङ्बहुवचने क्र्यादित्वाच्छ्ना । झेरंतादेशः । नित्यं ङित इतीकारलोपः । संयोगांतलोपः । श्नाभ्यस्तयोरात इत्याकारलोपः । लुङ्लङ्लृङ्क्ष्वडित्यडागमः । स चोदात्तः। आगमस्वरः । वाक्येत्यनुवृत्तौ चादित्वान्निघाताभावः। बर्हिः । इसिरित्यनुवृत्तौ बृंहेर्नलोपश्चेतीसिः । तत्संनियोगेन नलोपः। प्रत्ययस्वरः । असादयंत । षद्लृ विशरणगत्यवसादनेषु । अस्माद्धेतुमति चेति णिच् । उपधावृद्धिः । णिचश्चेत्यात्मनेपदं । लङि बहुवचने रूपं । निघातः ॥ ६॥


मण्डल ३

सूक्तं ३.१

सूक्तं ३.२

सूक्तं ३.३

सूक्तं ३.४

सूक्तं ३.५

सूक्तं ३.६

सूक्तं ३.७

सूक्तं ३.८

सूक्तं ३.९

सूक्तं ३.१०

सूक्तं ३.११

सूक्तं ३.१२

सूक्तं ३.१३

सूक्तं ३.१४

सूक्तं ३.१५

सूक्तं ३.१६

सूक्तं ३.१७

सूक्तं ३.१८

सूक्तं ३.१९

सूक्तं ३.२०

सूक्तं ३.२१

सूक्तं ३.२२

सूक्तं ३.२३

सूक्तं ३.२४

सूक्तं ३.२५

सूक्तं ३.२६

सूक्तं ३.२७

सूक्तं ३.२८

सूक्तं ३.२९

सूक्तं ३.३०

सूक्तं ३.३१

सूक्तं ३.३२

सूक्तं ३.३३

सूक्तं ३.३४

सूक्तं ३.३५

सूक्तं ३.३६

सूक्तं ३.३७

सूक्तं ३.३८

सूक्तं ३.३९

सूक्तं ३.४०

सूक्तं ३.४१

सूक्तं ३.४२

सूक्तं ३.४३

सूक्तं ३.४४

सूक्तं ३.४५

सूक्तं ३.४६

सूक्तं ३.४७

सूक्तं ३.४८

सूक्तं ३.४९

सूक्तं ३.५०

सूक्तं ३.५१

सूक्तं ३.५२

सूक्तं ३.५३

सूक्तं ३.५४

सूक्तं ३.५५

सूक्तं ३.५६

सूक्तं ३.५७

सूक्तं ३.५८

सूक्तं ३.५९

सूक्तं ३.६०

सूक्तं ३.६१

सूक्तं ३.६२

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.९&oldid=209084" इत्यस्माद् प्रतिप्राप्तम्