ऋग्वेदः सूक्तं ३.५२
← सूक्तं ३.५१ | ऋग्वेदः - मण्डल ३ सूक्तं ३.५२ गाथिनो विश्वामित्रः |
सूक्तं ३.५३ → |
दे. इन्द्रः। त्रिष्टुप्, १-४ गायत्री, ६ जगती |
धानावन्तं करम्भिणमपूपवन्तमुक्थिनम् ।
इन्द्र प्रातर्जुषस्व नः ॥१॥
पुरोळाशं पचत्यं जुषस्वेन्द्रा गुरस्व च ।
तुभ्यं हव्यानि सिस्रते ॥२॥
पुरोळाशं च नो घसो जोषयासे गिरश्च नः ।
वधूयुरिव योषणाम् ॥३॥
पुरोळाशं सनश्रुत प्रातःसावे जुषस्व नः ।
इन्द्र क्रतुर्हि ते बृहन् ॥४॥
माध्यंदिनस्य सवनस्य धानाः पुरोळाशमिन्द्र कृष्वेह चारुम् ।
प्र यत्स्तोता जरिता तूर्ण्यर्थो वृषायमाण उप गीर्भिरीट्टे ॥५॥
तृतीये धानाः सवने पुरुष्टुत पुरोळाशमाहुतं मामहस्व नः ।
ऋभुमन्तं वाजवन्तं त्वा कवे प्रयस्वन्त उप शिक्षेम धीतिभिः ॥६॥
पूषण्वते ते चकृमा करम्भं हरिवते हर्यश्वाय धानाः ।
अपूपमद्धि सगणो मरुद्भिः सोमं पिब वृत्रहा शूर विद्वान् ॥७॥
प्रति धाना भरत तूयमस्मै पुरोळाशं वीरतमाय नृणाम् ।
दिवेदिवे सदृशीरिन्द्र तुभ्यं वर्धन्तु त्वा सोमपेयाय धृष्णो ॥८॥
सायणभाष्यम्
‘ धानावन्तम् ' इत्यष्टर्चं चतुर्दशं सूक्तं वैश्वामित्रमैन्द्रम् । अत्रेयमनुक्रमणिका-’ धानावन्तमष्टौ पूर्वार्धं गायत्रं षष्ठी जगती ' इति । आदितश्चतस्रो गायत्र्यः तृतीये धानाः' इति षष्ठी जगती शिष्टास्त्रिष्टुभः । सूक्तविनियोगो लिङ्गादवगन्तव्यः । प्रातःसवनीयपुरोडाशस्यानुवाक्या ‘ धानावन्तम् इत्याद्या । सूत्रितं च-’ धानावन्तं करम्भिणमिति प्रातःसवनेऽनुवाक्या' (आश्व. श्रौ. ५.४) इति ॥
धा॒नावं॑तं करं॒भिण॑मपू॒पवं॑तमु॒क्थिनं॑ ।
इंद्र॑ प्रा॒तर्जु॑षस्व नः ॥१
धा॒नाऽव॑न्तम् । क॒र॒म्भिण॑म् । अ॒पू॒पऽव॑न्तम् । उ॒क्थिन॑म् ।
इन्द्र॑ । प्रा॒तः । जु॒ष॒स्व॒ । नः॒ ॥१
धानाऽवन्तम् । करम्भिणम् । अपूपऽवन्तम् । उक्थिनम् ।
इन्द्र । प्रातः । जुषस्व । नः ॥१
हे “इन्द्र “धानावन्तम् । धाना भृष्टयवाः । तद्वन्तं "करम्भिणम् । करम्भो दधिमिश्राः सक्तवः। तद्वन्तम् “अपूपवन्तं सवनीयपुरोडाशोपेतम् “उक्थिनं शस्त्रिणं “नः अस्मदीयमिमं सोमं “प्रातः प्रातःसवने "जुषस्व सेवस्व ॥ प्रातः । स्वरादिषु अन्तोदात्तत्वेन पठितत्वादन्तोदात्तः ॥
पु॒रो॒ळाशं॑ पच॒त्यं॑ जु॒षस्वें॒द्रा गु॑रस्व च ।
तुभ्यं॑ ह॒व्यानि॑ सिस्रते ॥२
पु॒रो॒ळाश॑म् । प॒च॒त्य॑म् । जु॒षस्व॑ । इ॒न्द्र॒ । आ । गु॒र॒स्व॒ । च॒ ।
तुभ्य॑म् । ह॒व्यानि॑ । सि॒स्र॒ते॒ ॥२
पुरोळाशम् । पचत्यम् । जुषस्व । इन्द्र । आ । गुरस्व । च ।
तुभ्यम् । हव्यानि । सिस्रते ॥२
हे “इन्द्र “पचत्यं पचने साधुं “पुरोडाशम् । पुरो दाशन्त एनमिति पुरोडाशो हविः। “जुषस्व । किंच “आ “गुरस्व । पुरोडाशभक्षणार्थमुद्यमं कुरु । "हव्यानि हवनयोग्यानि पुरोडाशादीनि हवींषि “तुभ्यं त्वदर्थ “सिस्रते आहवनीयं गच्छन्ति । तानि सेवस्वेति भावः ॥ पचत्यम् । पचतशब्दात् तत्र साधुः' इति यत्प्रत्ययान्तस्य पदस्य द्व्यच्त्वाभावात् अत्र ‘ यतोऽनावः' इत्यस्य प्राप्तिर्नास्ति । तित्स्वरितः । गुरस्व ।' गुरी उद्यमने '। शविकरणी । निघातः । सिस्रते । ‘ सृ गतौ । छन्दसि जुहोत्यादिः । व्यत्ययेनात्मनेपदम् ॥
पु॒रो॒ळाशं॑ च नो॒ घसो॑ जो॒षया॑से॒ गिर॑श्च नः ।
व॒धू॒युरि॑व॒ योष॑णां ॥३
पु॒रो॒ळाश॑म् । च॒ । नः॒ । घसः॑ । जो॒षया॑से । गिरः॑ । च॒ । नः॒ ।
व॒धू॒युःऽइ॑व । योष॑णाम् ॥३
पुरोळाशम् । च । नः । घसः । जोषयासे । गिरः । च । नः ।
वधूयुःऽइव । योषणाम् ॥३
हे इन्द्र “नः अस्मत्संबन्धिनं “पुरोडाशं “घसः भक्षय “च । “नः अस्मदीयाः स्तुतिलक्षणाः “गिरश्च' “जोषयासे सेवस्व' । तत्र दृष्टान्तः । “वधूयुरिव “योषणाम् । यथा वधूयुः स्त्रीकामो योषणां भजनीयां युवतिं सेवते तद्वत् ॥ घसः । ‘ घस्लृ अदने ' इत्यस्य लेट्यडागमे रूपम् । ‘ चवायोगे प्रथमा ' इति न निघातः । जोषयासे । ‘ जुषी प्रीतिसेवनयोः' इत्यस्य ण्यन्तस्य लेट्याडागमे रूपम् । आगमस्यानुदात्तत्वे णिच्स्वरः । पादादित्वादनिघातः । वधूयुरिव । ‘सुप आत्मनः क्यच्'।' क्याच्छन्दसि ' इत्युप्रत्ययः । प्रत्ययस्वरः । योषणाम् । ‘ युष भजने ' इति सौत्रो धातुः । ‘ कृत्यल्युटो बहुलम्' इति ल्युट् । लित्स्वरः ॥
पु॒रो॒ळाशं॑ सनश्रुत प्रातःसा॒वे जु॑षस्व नः ।
इंद्र॒ क्रतु॒र्हि ते॑ बृ॒हन् ॥४
पु॒रो॒ळाश॑म् । स॒न॒ऽश्रु॒त॒ । प्रा॒तः॒ऽसा॒वे । जु॒ष॒स्व॒ । नः॒ ।
इन्द्र॑ । क्रतुः॑ । हि । ते॒ । बृ॒हन् ॥४
पुरोळाशम् । सनऽश्रुत । प्रातःऽसावे । जुषस्व । नः ।
इन्द्र । क्रतुः । हि । ते । बृहन् ॥४
हे “सनश्रुत पुराणतया प्रसिद्ध हे “इन्द्र “नः अस्मत्संबन्धिनमिमं “पुरोडाशं “प्रातःसावे । सूयतेऽत्र सोम इति सावः । तस्मिन् प्रातःसवने "जुषस्व । यतः “ते तव "क्रतुः कर्म “बृहन् महत् “हि ॥ प्रातःसावे ।' षुञ् अभिषवे' । कर्मणि घञ् । प्रादिसमासः । थाथादिस्वरेणान्तोदात्तः ॥
माध्यदिनसवने, सवनीयपुरोडाशस्य माध्यंदिनस्य सवनस्य धानाः' इत्यनुवाक्या। सूत्रितं च -- माध्यंदिनस्य सवनस्य धाना इति माध्यंदिने ' (आश्व. श्रौ. ५. ४ ) इति ॥
माध्यं॑दिनस्य॒ सव॑नस्य धा॒नाः पु॑रो॒ळाश॑मिंद्र कृष्वे॒ह चारुं॑ ।
प्र यत्स्तो॒ता ज॑रि॒ता तूर्ण्य॑र्थो वृषा॒यमा॑ण॒ उप॑ गी॒र्भिरीट्टे॑ ॥५
माध्य॑न्दिनस्य । सव॑नस्य । धा॒नाः । पु॒रो॒ळाश॑म् । इ॒न्द्र॒ । कृ॒ष्व॒ । इ॒ह । चारु॑म् ।
प्र । यत् । स्तो॒ता । ज॒रि॒ता । तूर्णि॑ऽअर्थः । वृ॒ष॒ऽयमा॑णः । उप॑ । गीः॒ऽभिः । ईट्टे॑ ॥५
माध्यन्दिनस्य । सवनस्य । धानाः । पुरोळाशम् । इन्द्र । कृष्व । इह । चारुम् ।
प्र । यत् । स्तोता । जरिता । तूर्णिऽअर्थः । वृषऽयमाणः । उप । गीःऽभिः । ईट्टे ॥५
हे "इन्द्र “माध्यंदिनस्य मध्यंदिने भवस्य "सवनस्य संबन्धिनीः “धानाः भृष्टयवान् “चारुं कमनीयं “पुरोडाशं च “इह कर्मणि आगत्य "कृष्व भक्षणेन संस्कुरु । “यत् यदा "जरिता भवत्परिचरणं कुर्वाणः “तूर्ण्यर्थः त्वां स्तोतुमितस्ततस्त्वरितगमनः अत एव “वृषायमाणः वृषेवाचरन् “स्तोता “गीर्भिः स्तुतिलक्षणाभिर्वाग्भिः “उप समीपे “प्र “ईट्टे प्रकर्षेण स्तौति । तदा पुरोडाशादिहवींषि भक्षयेति भावः ॥ माध्यंदिनस्य । मध्यंदिनशब्दात् तत्र भवार्थे उत्सादित्वादञ् । ञित्वादाद्युदात्तः। चारुम् । ‘चर गतिभक्षणयोः'। ‘दॄसनिजनिचरिचटिरहिभ्यो ञुण्' इति ञुण् । णित्त्वादुपधादिवृद्धिः। ञित्वादाद्युदात्तः । तूर्ण्यर्थः । तूर्णिः । ञित्वरा संभ्रमे ' इत्यस्मात् ' वहिश्रि° ' इत्यादिना निप्रत्ययो निच्च । अर्थः । ‘ऋ गतौ । ‘उषिकुषिगार्तिभ्यस्थन् ' इति थन् । बहुव्रीहौ पूर्वपदस्वरः । वृषायमाणः । वृषेवाचरतीत्यर्थे ' कर्तुः क्यङ् सलोपश्च' इति क्यङ् । ‘अकृत्सार्वधातुकयोर्दीर्घः । ङित्त्वात् ‘अनुदात्तङितः' इत्यात्मनेपदम् । लट् । शानच् । तस्य लसार्वधातुकस्वरे धातुस्वरः । ईट्टे। ‘ईड स्तुतौ ' इत्यस्य लटि रूपम् । यद्योगादनिघातः ॥ ॥ १७ ॥
तृतीयसवने सवनीयपुरोडाशस्य तृतीये धानाः' इत्यनुवाक्या। सूत्रितं च- तृतीये धानाः सवने पुरुष्टुतेति तृतीयसवने ' ( आश्व. श्रौ. ५. ४ ) इति ॥
तृ॒तीये॑ धा॒नाः सव॑ने पुरुष्टुत पुरो॒ळाश॒माहु॑तं मामहस्व नः ।
ऋ॒भु॒मंतं॒ वाज॑वंतं त्वा कवे॒ प्रय॑स्वंत॒ उप॑ शिक्षेम धी॒तिभिः॑ ॥६
तृ॒तीये॑ । धा॒नाः । सव॑ने । पु॒रु॒ऽस्तु॒त॒ । पु॒रो॒ळाश॑म् । आऽहु॑तम् । म॒म॒ह॒स्व॒ । नः॒ ।
ऋ॒भु॒ऽमन्त॑म् । वाज॑ऽवन्तम् । त्वा॒ । क॒वे॒ । प्रय॑स्वन्तः । उप॑ । शि॒क्षे॒म॒ । धी॒तिऽभिः॑ ॥६
तृतीये । धानाः । सवने । पुरुऽस्तुत । पुरोळाशम् । आऽहुतम् । ममहस्व । नः ।
ऋभुऽमन्तम् । वाजऽवन्तम् । त्वा । कवे । प्रयस्वन्तः । उप । शिक्षेम । धीतिऽभिः ॥६
हे "पुरुष्टुत पुरुभिर्बहुभिः स्तोतृभिः स्तुत हे इन्द्र “तृतीये "सवने "नः अस्मदीयान् “धानाः हुतान् भृष्टयवान् “आहुतं “पुरोळाशं च "मामहस्व भक्षणेन महय संभावय । हे "कवे इन्द्र "प्रयस्वन्तः संभृतहविष्का वयम् “ऋभुमन्तम् । ऋभवो ये केचन देवास्तद्वन्तं “वाजवन्तम् । वाजो नाम सुधन्वनः पुत्रस्तद्वन्तं “त्वा त्वां “धीतिभिः स्तुतिभिः “उप “शिक्षेम समीपे परिचरेम ॥ आहुतम् । जुहोतेः कर्मणि क्तः । ‘ गतिरनन्तरः' इति गतेः स्वरः । मामहस्व । मह पूजायाम् ' इत्यस्य यङ्लुगन्तस्य लोटि व्यत्ययेनात्मनेपदम् । शपो लुगभावश्छान्दसः । शिक्षेम । शिक्षतेः आशीर्लिङि • लिङ्याशिष्यङ्' इत्यङ्प्रत्ययः । निघातः । धीतिभिः । ‘ हिष्ठवत्सरतिशत्थान्तानाम् । इत्यन्तोदात्तत्वम् ॥
पू॒ष॒ण्वते॑ ते चकृमा करं॒भं हरि॑वते॒ हर्य॑श्वाय धा॒नाः ।
अ॒पू॒पम॑द्धि॒ सग॑णो म॒रुद्भिः॒ सोमं॑ पिब वृत्र॒हा शू॑र वि॒द्वान् ॥७
पू॒ष॒ण्ऽवते॑ । ते॒ । च॒कृ॒म॒ । क॒र॒म्भम् । हरि॑ऽवते । हरि॑ऽअश्वाय । धा॒नाः ।
अ॒पू॒पम् । अ॒द्धि॒ । सऽग॑णः । म॒रुत्ऽभिः॑ । सोम॑म् । पि॒ब॒ । वृ॒त्र॒ऽहा । शू॒र॒ । वि॒द्वान् ॥७
पूषण्ऽवते । ते । चकृम । करम्भम् । हरिऽवते । हरिऽअश्वाय । धानाः ।
अपूपम् । अद्धि । सऽगणः । मरुत्ऽभिः । सोमम् । पिब । वृत्रऽहा । शूर । विद्वान् ॥७
हे इन्द्र “पूषण्वते । पूषा नाम कश्चिद्देवोऽदन्तकः । तद्वते “ते तुभ्यं “करम्भं दधिमिश्रं सक्तुं “चकृम भक्षणार्थं कुर्मः। तथा च श्रुतिः- पूषा प्रपिष्टभागोऽदन्तको हि' (तै. सं. २.६.८.५) इति । हरिवते । हरिनामकावश्वौ तद्वते "हर्यश्वाय हरितवर्णाश्वयुक्तायेन्द्राय तुभ्यं धानाः चकृम भक्षणार्थं कुर्मः। तथा च मन्त्रवर्णः-‘ग्रसेतामश्वा वि मुचेह शोणा दिवेदिवे सदृशीरद्धि धानाः' (ऋ. सं. ३.३५.३) इति । "मरुद्भिः “सगणः त्वम् “अपूपं पुरोडाशम् “अद्धि भक्षय । हे “शूर असहाय हे इन्द्र “वृत्रहा वृत्रस्य हन्ता “विद्वान् सर्वं जानानस्त्वं “सोमं “पिब ॥ पूषण्वते । पूषशब्दस्य मतुप् ।' अनो नुट्' इति नुडागमः । ‘ रषाभ्याम् ' इति णत्वम् । चकृम । करोतेश्छान्दसे वर्तमाने लिटि क्रादित्वात् इडभावः । निघातः । हरिवते । छन्दसीरः' इति मतुपो वत्वम् ॥
प्रति॑ धा॒ना भ॑रत॒ तूय॑मस्मै पुरो॒ळाशं॑ वी॒रत॑माय नृ॒णां ।
दि॒वेदि॑वे स॒दृशी॑रिंद्र॒ तुभ्यं॒ वर्धं॑तु त्वा सोम॒पेया॑य धृष्णो ॥८
प्रति॑ । धा॒नाः । भ॒र॒त॒ । तूय॑म् । अ॒स्मै॒ । पु॒रो॒ळाश॑म् । वी॒रऽत॑माय । नृ॒णाम् ।
दि॒वेऽदि॑वे । स॒ऽदृशीः॑ । इ॒न्द्र॒ । तुभ्य॑म् । वर्ध॑न्तु । त्वा॒ । सो॒म॒ऽपेया॑य । धृ॒ष्णो॒ इति॑ ॥८
प्रति । धानाः । भरत । तूयम् । अस्मै । पुरोळाशम् । वीरऽतमाय । नृणाम् ।
दिवेऽदिवे । सऽदृशीः । इन्द्र । तुभ्यम् । वर्धन्तु । त्वा । सोमऽपेयाय । धृष्णो इति ॥८
यजमानोऽध्वर्य्वादीन् प्रति ब्रूते । हे अध्वर्य्वादयः “अस्मै इन्द्राय “धानाः “तूयं क्षिप्रं “प्रति “भरत संपादयत । “नृणां “वीरतमाय अस्मै इन्द्राय “पुरोडाशं च संपादयत । अथ प्रत्यक्षकृतः। हे “धृष्णो शत्रूणामभिभवनशील हे “इन्द्र “सदृशीः एकविधाः स्तुतयः “तुभ्यं त्वदर्थं "दिवेदिवे प्रतिदिवसम् अस्माभिः क्रियन्ते । ताः स्तुतयः “सोमपेयाय सोमपानार्थं “त्वा त्वां “वर्धन्तु उत्साहेन प्रवृद्धं कुर्वन्तु ॥ सदृशीः ।' समानान्ययोश्च' इति कञ्प्रत्ययः । ‘टिड्ढाणञ्' इत्यादिना ङीप् ।' दृग्दृशवतुषु ' इति समानस्य सभावः ॥ ॥ १८ ॥
टिप्पणी
३.५२.१ धानावन्तं करम्भिणं इति
द्र. पौषम्
अथातः श्रवणाकर्म। श्रावण्यां पौर्णमास्याम्। स्थालीपाकं श्रपयित्वाऽक्षतधानाश्चैककपालम् पुरोडाशं धानानां भूयसीः पिष्ट्वाऽऽज्यभागाविष्ट्वाऽऽज्याहुती जुहोति ।.....स्थालीपाकस्य जुहोति विष्णवे श्रवणाय श्रावण्यै पौर्णमास्यै वर्षाभ्यश्चेति । धानावन्तमिति धानानाम्। ....पारस्करगृह्यसूत्रम् २.१४.७
मण्डल ३ | |||
---|---|---|---|