प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← सूक्तं ३.३५ ऋग्वेदः - मण्डल ३
सूक्तं ३.३६
गाथिनो विश्वामित्रः, १० घोर आङ्गिरसः।
सूक्तं ३.३७ →
दे. इन्द्रः। त्रिष्टुप्


इमामू षु प्रभृतिं सातये धाः शश्वच्छश्वदूतिभिर्यादमानः ।
सुतेसुते वावृधे वर्धनेभिर्यः कर्मभिर्महद्भिः सुश्रुतो भूत् ॥१॥
इन्द्राय सोमाः प्रदिवो विदाना ऋभुर्येभिर्वृषपर्वा विहायाः ।
प्रयम्यमानान्प्रति षू गृभायेन्द्र पिब वृषधूतस्य वृष्णः ॥२॥
पिबा वर्धस्व तव घा सुतास इन्द्र सोमासः प्रथमा उतेमे ।
यथापिबः पूर्व्याँ इन्द्र सोमाँ एवा पाहि पन्यो अद्या नवीयान् ॥३॥
महाँ अमत्रो वृजने विरप्श्युग्रं शवः पत्यते धृष्ण्वोजः ।
नाह विव्याच पृथिवी चनैनं यत्सोमासो हर्यश्वममन्दन् ॥४॥
महाँ उग्रो वावृधे वीर्याय समाचक्रे वृषभः काव्येन ।
इन्द्रो भगो वाजदा अस्य गावः प्र जायन्ते दक्षिणा अस्य पूर्वीः ॥५॥
प्र यत्सिन्धवः प्रसवं यथायन्नापः समुद्रं रथ्येव जग्मुः ।
अतश्चिदिन्द्रः सदसो वरीयान्यदीं सोमः पृणति दुग्धो अंशुः ॥६॥
समुद्रेण सिन्धवो यादमाना इन्द्राय सोमं सुषुतं भरन्तः ।
अंशुं दुहन्ति हस्तिनो भरित्रैर्मध्वः पुनन्ति धारया पवित्रैः ॥७॥
ह्रदा इव कुक्षयः सोमधानाः समी विव्याच सवना पुरूणि ।
अन्ना यदिन्द्रः प्रथमा व्याश वृत्रं जघन्वाँ अवृणीत सोमम् ॥८॥
आ तू भर माकिरेतत्परि ष्ठाद्विद्मा हि त्वा वसुपतिं वसूनाम् ।
इन्द्र यत्ते माहिनं दत्रमस्त्यस्मभ्यं तद्धर्यश्व प्र यन्धि ॥९॥
अस्मे प्र यन्धि मघवन्नृजीषिन्निन्द्र रायो विश्ववारस्य भूरेः ।
अस्मे शतं शरदो जीवसे धा अस्मे वीराञ्छश्वत इन्द्र शिप्रिन् ॥१०॥
शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ ।
शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥११॥


सायणभाष्यम्

इमामूष्वित्येकादशर्चं सप्तमं सूक्तं त्रैष्टुभमैंद्रं । अत्रानुक्रमणिका । इमामू षूपांत्यां घोरोऽपश्यत् सा निर्दहेच्छस्यमानेति श्रूयत इति । दशम्या आंगिरसो घोर ऋषिः शिष्टानां विश्वामित्रः ॥ अग्निष्टोमे माध्यंदिनसवनेऽच्छावाकशस्त्रे दशमीवर्जितमिमामू ष्विति सूक्तं । सूत्रितं च । इमामू ष्वित्युपोत्तमामुद्धरेत्सर्वत्र।आ०५.१६.। इति॥ पृष्ठ्याभिप्लवषडहयोर्मध्यंदिनसवनेऽच्छावाकशस्त्रे चातुर्विंशिकातिदिष्टस्याहीनसूक्तस्य स्थाने त्रीणि संपातसूक्तानि । तत्रोपोत्तमावर्जमेतत्प्रथमं सूक्तं । सूत्रितं च । इमामू ष्विच्छंति वा । आ° ७.५.। इति ॥


इ॒मामू॒ षु प्रभृ॑तिं सा॒तये॑ धा॒ः शश्व॑च्छश्वदू॒तिभि॒र्याद॑मानः ।

सु॒तेसु॑ते वावृधे॒ वर्ध॑नेभि॒र्यः कर्म॑भिर्म॒हद्भि॒ः सुश्रु॑तो॒ भूत् ॥

इ॒माम् । ऊं॒ इति॑ । सु । प्रऽभृ॑तिम् । सा॒तये॑ । धाः॒ । शश्व॑त्ऽशश्वत् । ऊ॒तिऽभिः॑ । याद॑मानः ।

सु॒तेऽसु॑ते । व॒वृ॒धे॒ । वर्ध॑नेभिः । यः । कर्म॑ऽभिः । म॒हत्ऽभिः॑ । सुऽश्रु॑तः । भूत् ॥

इमां। ऊं इति। सु। प्रऽभृतिं । सातये। धाः। शश्वत्ऽशश्वत्। ऊतिऽभिः। यादमानः।

सुतेऽसुते । ववृधे। वर्धनेभिः । यः । कर्मऽभिः । महत्ऽभिः। सुऽश्रुतः। भूत् ॥१॥

विश्वामित्र इंद्रं स्तौति । हे इंद्र ऊतिभिः । अवंति रक्षंति सर्वमित्यूतयो मरुतः । तैः शश्वच्छश्वत्सर्वदा यादमानः संगतिं याचमानस्त्वं प्रभृतिं । प्रकर्षेण भ्रियते धार्यते यज्ञार्थमिति प्रभृतिः सोमः स्तुतिर्वा । इमामिमं सोममिमां स्तुतिं वा सातयेऽस्माकं धनलाभार्थं सु धाः । सुष्ठु संपादय। तथा स इंद्रः सुते सुते सोमे ऽभिषुते सति वर्धनेभिर्वर्धनकारिभिः सोमाज्यादिभिर्हविर्भिवावृधे । वर्धते । य इंद्रो महद्भिः कर्मभिरसुरवधमेघभेदनादिलक्षणैर्व्यापारैः सुश्रुतो लोके प्रसिद्धो भूत् । स इंद्र इति पूर्वेणान्वयः ॥ प्रभृतिं । तादौ च निति कृत्यताविति गतेः प्रकृतिस्वरत्वं । धाः । दधातेश्छांदसे लुङि रूपं । निघातः । शश्वच्छश्वत् । नित्यवीप्सयोरिति द्विर्वचनं । यादमानः । टुयाचृ याञ्चायां । शानचि रूपं । चकारस्य दकारश्छांदसः । वावृधे । वृधु वर्धन इत्यमाल्लिटि रूपं । तुजादित्वाभ्यासस्य दीर्घः संहितायां । निघातः । वर्धनेभिः । वर्धतेर्ण्यंतस्य नंद्यादिवाल्ल्युट् । लित्स्वरः । सुश्रुतः । श्रु श्रवण इत्यस्मात्कर्मणि क्तः । गतिरनंतर इति गतिस्वरः । भूत् । भवतेर्लुङि रूपं ॥


माध्यंदिने सवनेऽच्छावाकस्य प्रस्थितयाज्येंद्राय सोमाः प्रदिव इत्येषा। सूत्रितं च। इंद्राय सोमाः प्रदिवो विदाना आपूर्णो अस्य । आ°५. ५.। इति ॥

इन्द्रा॑य॒ सोमाः॑ प्र॒दिवो॒ विदा॑ना ऋ॒भुर्येभि॒र्वृष॑पर्वा॒ विहा॑याः ।

प्र॒य॒म्यमा॑ना॒न्प्रति॒ षू गृ॑भा॒येन्द्र॒ पिब॒ वृष॑धूतस्य॒ वृष्णः॑ ॥

इन्द्रा॑य । सोमाः॑ । प्र॒ऽदिवः॑ । विदा॑नाः । ऋ॒भुः । येभिः॑ । वृष॑ऽपर्वा । विऽहा॑याः ।

प्र॒ऽय॒म्यमा॑नान् । प्रति॑ । सु । गृ॒भा॒य॒ । इन्द्र॑ । पिब॑ । वृष॑ऽधूतस्य । वृष्णः॑ ॥

इंद्राय। सोमाः। प्रऽदिवः। विदानाः। ऋभुः । येभिः । वृर्षऽपवा। विऽहायाः ।

प्रऽयम्यमानान् । प्रति । सु । गृभाय । इंद्र। पिब । वृषऽधूतस्य । वृष्णः ॥२॥

हे इंद्र इंद्राय तुभ्यं सोमाः प्रदिवः प्रगतेषु पूर्वेष्वहःसु विदानाः । अस्माभिर्लंभिताः । वृषपर्वा। वृषाणः फलस्य वर्षकाः पर्वाणि कालावयवा वर्षाद्या यस्य स तथोक्तः । कालात्मक इत्यर्थः । अत एव विहायाः ।। विजहात्युत्सृजत्यर्थानर्थिभ्य इति विहाया महान् । तादृश इंद्रो येभिर्यैर्दत्तैः सोमैर्ऋभुर्दीप्तो वर्तते हे इंद्र त्वं प्रयम्यमानान् प्रकर्षेण मंत्रैरुपयम्यमानानिमान्सोमान् सु सुषु प्रति गृभाय। प्रतिगृहाण । गृहीत्वा च वृषधूतस्य वृषभिर्ग्रावभिरभिषुतं वृष्णः स्वर्गादिफलवर्षकमिमं सोमं पिब ॥ प्रदिवः । दिवु क्रीडादौ। क्विप् । कालाध्वनोरत्यंतसंयोग इति द्वितीया। दिव् शब्दो दिवसवाची। कृदुत्तरपदस्वरः । विदानाः। विद्लृ लाभ इत्यस्य व्यत्ययेन शानच् । बहुलं छंदसीति विकरणस्य लुक् । विहायाः। ओहाक् त्यागे । वहिहाधाञ्भ्यश्छंदसीत्यसुन्। णिदित्यनुवृत्तेरातो युक् चिण्कृतोरिति युगागमः । गतिकारकयोरिति पूर्वपदप्रकृतिस्वरत्वं । गृभाय । ग्रह उपादान इत्यस्य लोटि हौ श्नाप्रत्ययस्य छंदसि शायजपीति शायजादेशः । हृग्रहोर्भ इति भत्वं । अतो हेरिति हेर्लुक् । निघातः ॥


माध्यंदिने सवनेऽच्छावाकशस्त्रे याज्या पिबा वर्धस्वेत्येषा। सूचितं च । पिबा वर्धस्व तव घा सुतास इति याज्या । आ° ५.१६.। इति ॥

पिबा॒ वर्ध॑स्व॒ तव॑ घा सु॒तास॒ इन्द्र॒ सोमा॑सः प्रथ॒मा उ॒तेमे ।

यथापि॑बः पू॒र्व्याँ इ॑न्द्र॒ सोमाँ॑ ए॒वा पा॑हि॒ पन्यो॑ अ॒द्या नवी॑यान् ॥

पिब॑ । वर्ध॑स्व । तव॑ । घ॒ । सु॒तासः॑ । इन्द्र॑ । सोमा॑सः । प्र॒थ॒माः । उ॒त । इ॒मे ।

यथा॑ । अपि॑बः । पू॒र्व्यान् । इ॒न्द्र॒ । सोमा॑न् । ए॒व । पा॒हि॒ । पन्यः॑ । अ॒द्य । नवी॑यान् ॥

पिब । वर्धस्व । तव । घ। सुतासः । इंद्र । सोमासः। प्रथमाः । उत । इमे।

यथा। अपिबः। पूर्व्यान्। इंद्र। सोमान। एव। पाहि। पन्यः। अद्य। नवीयान ॥३॥

हे इंद्र इमं सोमं पिब । ततो वर्धस्व । शरीरेण पुष्टो भव । त्वदर्थं प्रथमाः पुरातना उत अपि चेमे ऽभि नवा उभयविधाः सोमाः सुतासो घ। ग्रावभिरभिषुताः खलु । हे इंद्र पूर्व्यान्पुरातनान्सोमान्यथा त्वमपिब एवैवमद्याधुना पन्यः स्तुत्योऽत एव नवीयानतिशयेनाभिनवस्त्वमिमानभिनवान्सोमान्पाहि । पिब ॥ पिब । यातेर्लोटि रूपं । वर्धस्व । तिङ उत्तरत्वान्निघाताभावः । अपिबः । यथायोगादनिघातः । पाहि । पातेर्लोटि बहुलं छंदसीति शपो लुक् । निघातः । पन्यः । पनतेः स्तुत्यर्थस्याघ्न्यादित्वाद्यत् । यतोऽनाव इत्याद्युदात्तत्वं ।। नवीयान् । नवशब्दादीयसुनि रूपं । नित्स्वरः ॥


म॒हाँ अम॑त्रो वृ॒जने॑ विर॒प्श्यु१॒॑ग्रं शवः॑ पत्यते धृ॒ष्ण्वोजः॑ ।

नाह॑ विव्याच पृथि॒वी च॒नैनं॒ यत्सोमा॑सो॒ हर्य॑श्व॒मम॑न्दन् ॥

म॒हान् । अम॑त्रः । वृ॒जने॑ । वि॒ऽर॒प्शी । उ॒ग्रम् । शवः॑ । प॒त्य॒ते॒ । धृ॒ष्णु । ओजः॑ ।

न । अह॑ । वि॒व्या॒च॒ । पृ॒थि॒वी । च॒न । ए॒न॒म् । यत् । सोमा॑सः । हरि॑ऽअश्वम् । अम॑न्दन् ॥

महान्। अमत्रः । वृजने। विरप्शी। उग्रं । शवः । पत्यते । धृष्णु । ओजः ।।

न। अह। विव्याच। पृथिवी। चन। एनं। यत्। सोमासः । हरिऽअश्वं । अमंदन् ॥४॥

योऽयमिंद्रो महानतिशयितसामर्थ्यवान् वृजने बलोपलक्षिते युद्धेऽमत्रः शत्रूणामभिभवितात एव विरप्शी विरपणशीलो भुजास्फालनेन युद्धार्थं शत्रूणामाह्वानकारी । यद्वा विविधं रपणं स्तुतिलक्षणं यस्येति । स सर्वैः स्तुत्य इत्यर्थः । तादृशस्येंद्रस्योग्रमुद्गूर्णं शवो बलं धृष्णु धर्षणशीलमोजः पराक्रमलक्षणं तेजः पत्यते । सर्वत्र प्रसरति । एनमेतादृशमहिमोपतमिंद्रं पृथिवी विस्तीर्णा भूमिर्न विव्याच । न व्याप्नोति । अहशब्द एवार्थे । चनेत्यप्यर्थे । द्यौरपि न व्याप्नोतीत्यर्थः । यद्यदा सोमासः स्वाहाकृताः सोमा हर्यश्वमिंद्रममंदन् । अमादयन् । तदा तमेनं द्यावापृथिव्यौ व्याप्तुं न शक़्नुत इत्यर्थः ॥ अमत्रः। अम गत्यादिषु। अमिनक्षियजीत्यादिनात्रन्प्रत्ययः । नित्स्वरः। विरप्शी। रप लप व्यक्तायां वाचि। औणादिकः शप्रत्ययः । विविधं रपंतीति विरप्शाः स्तोतारः । तेऽस्य संतीत्यत इनिः । यद्वा विविधं रपणं विरप्शं । तदस्यास्तीति । प्रत्ययस्वरः । पत्यते । व्यत्ययेन कर्तरि यक् । निघातः । धृष्णु । ञिधृषा प्रागल्भ्ये । त्रसिगृधिधृषिक्षिपेः क्नुप्रत्ययः । रषाभ्यामिति णत्वं । प्रत्ययस्वरः । विव्याच । व्यचेर्लिटि णलि लिट्यभ्यासस्योभयेषामित्यभ्यासस्य संप्रसारणं । निघातः । चनेति निपातसमुदायश्चार्थे वर्तते । एवमादित्वादंतोदात्तः । अमंदन् । मदि स्तुत्यादिष्वित्यस्य लङि रूपं । यद्योगादनिघातः ॥


म॒हाँ उ॒ग्रो वा॑वृधे वी॒र्या॑य स॒माच॑क्रे वृष॒भः काव्ये॑न ।

इन्द्रो॒ भगो॑ वाज॒दा अ॑स्य॒ गाव॒ः प्र जा॑यन्ते॒ दक्षि॑णा अस्य पू॒र्वीः ॥

म॒हान् । उ॒ग्रः । व॒वृ॒धे॒ । वी॒र्या॑य । स॒म्ऽआच॑क्रे । वृ॒ष॒भः । काव्ये॑न ।

इन्द्रः॑ । भगः॑ । वा॒ज॒ऽदाः । अ॒स्य॒ । गावः॑ । प्र । जा॒य॒न्ते॒ । दक्षि॑णाः । अ॒स्य॒ । पू॒र्वीः ॥

महान् । उग्रः । ववृधे । वीर्याय । संऽआचक्रे । वृषभः । काव्येन ।

इंद्रः। भगः। वाजऽदाः। अस्य । गावः। प्र। जायंते । दक्षिणाः। अस्य । पूर्वीः ॥५॥

महान्युद्धकर्मणि बलवानुग्रः शत्रूणां भयंकर इंद्रो वीर्याय वीर्यकरणाय वावृधे । वर्धते । वृषभः फलस्याभिवर्षको भगः सर्वैर्भजनीयः स इंद्रः काव्येन । कवयः स्तोतारः । तत्कर्म स्तोत्रं । तेन स्तोत्रेण समाचक्रे । संगच्छते । तादृशस्यास्येंद्रस्य गावो वाजदाः क्षीरादिलक्षणान्नप्रदाः प्रजायंते । तथास्य पूर्वीर्बह्व्यस्ता गावो दक्षिणाः प्रजायंते ॥ वावृधे। वर्धतेर्लिटि रूपं । निघातः । वीर्याय । वीरे भवं वीर्यं । भवे छंदसीति यत । वीरवीर्यौ वेत्यत्र यतोऽनाव इत्यस्यानित्यत्वस्य ज्ञापितत्वात्तित्स्वरितः । समाचक्रे । करोतेर्लिटि रूपं । गतिर्गताविति पूर्वस्य गतेर्निघातः । काव्येन । कवेः कर्म काव्यं । ब्राह्मणादित्वात् ष्यञ् । ञित्वादुपधावृद्धिः । ञित्स्वरः । वाजदाः । ददातेरातोऽनुपसर्गे कः । जायंते । जनी प्रादुर्भाव इत्यस्य लटि रूपं । दक्षिणाः । दक्ष वृद्धावित्यस्मात् द्रुदक्षिभ्यामिनन्नितीनन्प्रत्ययः । नित्त्वादाद्युदात्तः ॥ ॥१९॥


प्र यत्सिन्ध॑वः प्रस॒वं यथाय॒न्नापः॑ समु॒द्रं र॒थ्ये॑व जग्मुः ।

अत॑श्चि॒दिन्द्र॒ः सद॑सो॒ वरी॑या॒न्यदीं॒ सोमः॑ पृ॒णति॑ दु॒ग्धो अं॒शुः ॥

प्र । यत् । सिन्ध॑वः । प्र॒ऽस॒वम् । यथा॑ । आय॑न् । आपः॑ । स॒मु॒द्रम् । र॒थ्या॑ऽइव । ज॒ग्मुः॒ ।

अतः॑ । चि॒त् । इन्द्रः॑ । सद॑सः । वरी॑यान् । यत् । ई॒म् । सोमः॑ । पृ॒णति॑ । दु॒ग्धः । अं॒शुः ॥

प्र। यत्। सिंधवः । प्रऽसवं। यथा। आयन्। आपः । समुद्रं । रथ्याऽइव। जग्मुः।

अतः । चित्। इंद्रः। सदसः। वरीयान्। यत्।ईं। सोमः। पृणति। दुग्धः । अंशुः ॥६॥

सिंधवो नद्यो यथा प्रसवं । प्रकर्षेण सूयत इति प्रसवः कामः । तमनुसृत्य यद्यदा प्रायन् प्रकृष्टमतिदूरं समुद्रं गच्छति तदापो महांतं समुद्रं रथ्येव रथिन इव जग्मुः । प्रीणनार्थं गच्छंति । तद्वत् अतश्चित्सदसोऽस्मादप्यंतरिक्षादसाविंद्रो वरीयान् । उरुतरः खलु । यदीं यमेनमिंद्रं दुग्धोऽभिषुतोंऽशुर्लताखंडरूपोऽल्पः सोमः पृणति प्रणयति । यथाल्पा नद्योऽल्पीयांसि च जलानि महांतं समुद्रं प्रीणयंति तद्वदल्पतरोंऽशुभूतः सोमो वरीयांसमिंद्रं प्रणयति ॥ प्रसवं । सवतेः कर्मण्यप् । थाथादिस्वरः । आयन् । अयतेर्लङि रूपं । यद्योगादनिघातः । रथ्येव । रथस्येमे रथ्याः । रथाद्यदिति यत् । सुपां सुलुगिति सुपो डादेशः । तित्वरितः । इवेन विभक्त्य लोपः पूर्वपदप्रकृतिस्वरः । जग्मुः । गमेर्लिटि रूपं । गमहनेत्यादिनोपधालोपः । निघातः । वरीयान् । उरुशब्दादीयसुनि प्रियस्थिरेत्यादिना वरादेशः । नित्त्वादाद्युदात्तः । पृणति । पृण प्रीणने । तुदादिः । यद्योगादनिघातः । दुग्धः । दुहेः क्तः । एकाच इतीट्प्रतिषेधः । दादेर्धातोर्घ इति हकारस्य घत्वं । झषस्तथोर्धोऽधः । प्रत्ययस्वरः ।।


स॒मु॒द्रेण॒ सिन्ध॑वो॒ याद॑माना॒ इन्द्रा॑य॒ सोमं॒ सुषु॑तं॒ भर॑न्तः ।

अं॒शुं दु॑हन्ति ह॒स्तिनो॑ भ॒रित्रै॒र्मध्वः॑ पुनन्ति॒ धार॑या प॒वित्रैः॑ ॥

स॒मु॒द्रेण॑ । सिन्ध॑वः । याद॑मानाः । इन्द्रा॑य । सोम॑म् । सुऽसु॑तम् । भर॑न्तः ।

अं॒शुम् । दु॒ह॒न्ति॒ । ह॒स्तिनः॑ । भ॒रित्रैः॑ । मध्वः॑ । पु॒न॒न्ति॒ । धार॑या । प॒वित्रैः॑ ॥

समुद्रेण । सिंधवः । यादमानाः । इंद्राय । सोमं । सुऽसुतं । भरंतः ।

अंशुं । दुहंति । हस्तिनः । भरित्रैः । मध्वः । पुनंति । धारया । पवित्रैः ॥७॥

समुद्रेण । सहिता नद्यादिरूपेणापोऽभिद्रवंत्येनमिति समुद्रः । तेन यादमानास्तेन सह संगतिं याचमानाः सिंधवो नद्यो यथा तं पूरयंति तद्वद्धस्तिनो हस्तवंतोऽध्वर्य्वादय इंद्राय तुभ्यं सुषुतं सुष्ठ्वभिषुतं सोमं भरंतः संपादयंतोंऽशुं दुहंति । लताखंडमभिषुण्वंति । तथा तेऽध्वर्य्वादयः स्रवतो रसस्य धारया पवित्रैः पावनैर्भरित्रैः । कर्मकरणार्थं पदार्थन्बिभ्रतीति भरित्रा बाहवः । तैर्मध्वो माधुर्योपेतान्सोमान्पुनंति । शोधयंति ॥ समुद्रेण । समुत्पूर्वाद्द्रवतेरन्येभ्यो ऽपि दृश्यत इति डः । डित्त्वाट्टिलोपः । यद्वा । उन्दी क्लेदने । संपूर्वस्य स्फायितंचीत्यादिना रक् । कित्त्वादुपधालोपः । उभयत्र प्रत्ययस्वरः । सुपा सहैकादेशे कृत एकादेश उदात्त एव । यादमानाः । टुयाचृ याञ्चायां । शानच् । व्यत्ययेन चकारस्य दकारः । शानचो लसार्वधातुकस्वरे धातुस्वरः । दुहंति । दुह प्रपूरण इत्यस्य लटि रूपं । भरित्रैः । डुभृञ् धारणपोषणयोरित्यस्मादशित्रादिभ्य इत्रोत्रावितीत्रप्रत्ययः । प्रत्ययस्वरः । पुनंति । पूञ पवन इत्यस्य लटि रूपं ॥


ह्र॒दा इ॑व कु॒क्षयः॑ सोम॒धाना॒ः समी॑ विव्याच॒ सव॑ना पु॒रूणि॑ ।

अन्ना॒ यदिन्द्रः॑ प्रथ॒मा व्याश॑ वृ॒त्रं ज॑घ॒न्वाँ अ॑वृणीत॒ सोम॑म् ॥

ह्र॒दाःऽइ॑व । कु॒क्षयः॑ । सो॒म॒ऽधानाः॑ । सम् । ई॒मिति॑ । वि॒व्या॒च॒ । सव॑ना । पु॒रूणि॑ ।

अन्ना॑ । यत् । इन्द्रः॑ । प्र॒थ॒मा । वि । आश॑ । वृ॒त्रम् । ज॒घ॒न्वान् । अ॒वृ॒णी॒त॒ । सोम॑म् ॥

हृदाःऽइव। कुक्षयः । सोमऽधानाः । सं। ईमिति । विव्याच । सवना। पुरूणि।

अन्ना । यत् । इंद्रः। प्रथमा । वि। आश । वृत्रं । जघन्वान्। अवृणीत । सोमं ॥८॥

इंद्रस्थ कुक्षय उदराणि सोमधानाः । सोमो निधीयते येष्विति सोमधानाः । तत्र दृष्टांतः । ह्रदा हव । यथा ह्रदा जलाधारा भवंति तद्वत् । ईं सोऽयमिंद्रः पुरूणि सवना त्रीणि सवनानि सं विव्याच । सम्यक् व्याप्नोति । इंद्रः प्रथमा प्रथमान्यन्ना भक्षणीयानि सोमादीन्यन्नानि यद्यस्माद्व्याश विशेषेण जघास ततो वृत्र जघन्वान्वृत्रस्य हंतेंद्रः सोमं माध्यंदिने सवने देवेभ्यो ऽवृणीत । समभजत ॥ कुक्षयः । कुष निष्कर्षे । प्लुषिकुषिशुषिभ्यः क्सिः । उ० ३.१५५.। कुष्यते इति कुक्षिः । प्रत्ययस्वरः। सोमधानाः । दधातेरधिकरणे ल्युट्। लित्स्वरः । विव्याच । व्यचेर्लिटि रूपं । अन्ना। अद भक्षणे । अद्यत इत्यन्नं । आश। अश भोजन इत्यस्य लिटि णलि रूपं ।। अत आदेरित्यभ्यासस्य दीर्घः । यद्योगादनिघातः । लित्स्वरः । वृत्रं । न लोकाव्ययेति षष्ठीप्रतिषेधः। जघन्वान्। हंतेः क्वसाविडभावे रूपं । प्रत्ययस्वरः। अवृणीत । वृङ् संभक्तावित्यस्य लङि रूपं ॥


आ तू भ॑र॒ माकि॑रे॒तत्परि॑ ष्ठाद्वि॒द्मा हि त्वा॒ वसु॑पतिं॒ वसू॑नाम् ।

इन्द्र॒ यत्ते॒ माहि॑नं॒ दत्र॒मस्त्य॒स्मभ्यं॒ तद्ध॑र्यश्व॒ प्र य॑न्धि ॥

आ । तु । भ॒र॒ । माकिः॑ । ए॒तत् । परि॑ । स्था॒त् । वि॒द्म । हि । त्वा॒ । वसु॑ऽपतिम् । वसू॑नाम् ।

इन्द्र॑ । यत् । ते॒ । माहि॑नम् । दत्र॑म् । अस्ति॑ । अ॒स्मभ्य॑म् । तत् । ह॒रि॒ऽअ॒श्व॒ । प्र । य॒न्धि॒ ॥

आ। तु। भर। माकिः। एतत् । परि। स्थात् । विद्म। हि। त्वा। वसुऽपतिं । वसूनां ।

इंद्र। यत् । ते । माहिनं। दत्रं। अस्ति । अस्मभ्यं । तत्। हरिऽअश्व । प्र। यंधि ॥९॥

हे इंद्र तु क्षिप्रं धनमा भर। एतत्त्वया दीयमानं धनं माकिः को वा परि ष्ठात् । प्रतिबध्य तिष्ठेत् । त्वा त्वां वसूनां धनानां वसुपतिमुत्तमस्य धनस्य स्वामिनं विद्म हि । जानीमः खलु । ते तव माहिनं मंहनीयं यद्दत्रं धनमस्ति हे हर्यश्व तद्धनमस्मभ्यं प्र यंधि। प्रयच्छ ॥ तु । ऋचि तुनुघेत्यादिना संहितायां दीर्घः । भर । भरतेर्लोटि रूपं । माकिः । निपातः । स्थात् । तिष्ठतेश्छांदसे लुङि रूपं । उपसर्गात्सुनोतीत्यादिना संहितायां षत्वं । निघातः । विद्म । वेत्तेर्लटि विदो लटो वेति मसो मादेशः । प्रत्ययस्वरः । संहितायां द्व्यचोऽतस्तिङ इति दीर्घः । वसुपतिं । पत्यावैश्वर्य इति पूर्वपदप्रकृतिस्वरः । माहिनं। महेरिनण् चेतीनण् प्रत्ययः । णित्त्वादुपधावृद्धिः । ग्रामादित्वादाद्युदात्तः । यंधि। यमु उपरमे। लोटि बहुलं छंदसीति शपो लुक् । सेर्हिः । तस्य वा छंदसीति पित्त्वस्य विकल्पितत्वादत्राङित्त्वादङितश्चेति हेर्ध्यादेशः । निघातः ॥


जातकर्मण्यंसाभिमर्शनेऽस्मे प्रयंधीत्येषा । आ° गृ॰ १. १५.। यद्यपि सा निर्दहेदिति वचनेन शंसने निषिद्धा तथाप्यभिमर्शनस्य शंसने चोदितत्वान्नोक्तदोषः ॥

अ॒स्मे प्र य॑न्धि मघवन्नृजीषि॒न्निन्द्र॑ रा॒यो वि॒श्ववा॑रस्य॒ भूरेः॑ ।

अ॒स्मे श॒तं श॒रदो॑ जी॒वसे॑ धा अ॒स्मे वी॒राञ्छश्व॑त इन्द्र शिप्रिन् ॥

अ॒स्मे इति॑ । प्र । य॒न्धि॒ । म॒घ॒ऽव॒न् । ऋ॒जी॒षि॒न् । इन्द्र॑ । रा॒यः । वि॒श्वऽवा॑रस्य । भूरेः॑ ।

अ॒स्मे इति॑ । श॒तम् । श॒रदः॑ । जी॒वसे॑ । धाः॒ । अ॒स्मे इति॑ । वी॒रान् । शश्व॑तः । इ॒न्द्र॒ । शि॒प्रि॒न् ॥

अस्मे इति । प्र। यंधि। मघऽवन्। ऋजीषिन्। इंद्र। रायः। विश्वऽवारस्य। भूरेः ।

अस्मे इति।शतं। शरदः।जीवसे।धाः।अस्मे इति।वीरान्। शश्वतः। इंद्र।शिप्रिन्॥१०॥

मघवन्धनवन्नृजीषिन् गतसारसोमवन् हे इंद्र विश्ववारस्य । विश्वैः सर्वैः संभजनीयतया वरणं यस्य तत्। भूरेर्भूरि बहु रायो धनं । द्वितीयार्थे षष्ठी । अस्मे अस्मभ्यं प्र यंधि। प्रयच्छ । किंच अस्मे अस्माकं जीवसे जीवनाय शतं शरदः संवत्सरान्धाः । देहि । शिप्रिन् शोभनहनो हे इंद्र अस्मे अस्माकं शश्वतः । शश्वदिति बहुनाम । बह्न्वीरान्पुत्रान्देहि ॥ जीवसे । जीव प्राणधारण इत्यस्य तुमर्थेऽसेप्रत्ययः । प्रत्ययस्वरः । शश्वतः ।। टुओश्वि गतिवृद्ध्योः । अस्मात्संश्चद्वेहदित्यादिना अतिप्रत्ययांतत्वेन निपातनादिष्टरूपसिद्धिः ॥


शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।

शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ॥

शुनं । हुवेम । मघऽवानं । इंद्रं । अस्मिन् । भरे। नृऽतमं । वाजऽसातौ।

शृण्वंतं। उग्रं । ऊतये । समत्सु। घ्नंतं। वृत्राणि । संऽजितं । धनानां ॥११॥ ॥२०॥

शु॒नम् । हु॒वे॒म॒ । म॒घऽवा॑नम् । इन्द्र॑म् । अ॒स्मिन् । भरे॑ । नृऽत॑मम् । वाज॑ऽसातौ ।

शृ॒ण्वन्त॑म् । उ॒ग्रम् । ऊ॒तये॑ । स॒मत्ऽसु॑ । घ्नन्त॑म् । वृ॒त्राणि॑ । स॒म्ऽजित॑म् । धना॑नाम् ॥


मण्डल ३

सूक्तं ३.१

सूक्तं ३.२

सूक्तं ३.३

सूक्तं ३.४

सूक्तं ३.५

सूक्तं ३.६

सूक्तं ३.७

सूक्तं ३.८

सूक्तं ३.९

सूक्तं ३.१०

सूक्तं ३.११

सूक्तं ३.१२

सूक्तं ३.१३

सूक्तं ३.१४

सूक्तं ३.१५

सूक्तं ३.१६

सूक्तं ३.१७

सूक्तं ३.१८

सूक्तं ३.१९

सूक्तं ३.२०

सूक्तं ३.२१

सूक्तं ३.२२

सूक्तं ३.२३

सूक्तं ३.२४

सूक्तं ३.२५

सूक्तं ३.२६

सूक्तं ३.२७

सूक्तं ३.२८

सूक्तं ३.२९

सूक्तं ३.३०

सूक्तं ३.३१

सूक्तं ३.३२

सूक्तं ३.३३

सूक्तं ३.३४

सूक्तं ३.३५

सूक्तं ३.३६

सूक्तं ३.३७

सूक्तं ३.३८

सूक्तं ३.३९

सूक्तं ३.४०

सूक्तं ३.४१

सूक्तं ३.४२

सूक्तं ३.४३

सूक्तं ३.४४

सूक्तं ३.४५

सूक्तं ३.४६

सूक्तं ३.४७

सूक्तं ३.४८

सूक्तं ३.४९

सूक्तं ३.५०

सूक्तं ३.५१

सूक्तं ३.५२

सूक्तं ३.५३

सूक्तं ३.५४

सूक्तं ३.५५

सूक्तं ३.५६

सूक्तं ३.५७

सूक्तं ३.५८

सूक्तं ३.५९

सूक्तं ३.६०

सूक्तं ३.६१

सूक्तं ३.६२

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.३६&oldid=209113" इत्यस्माद् पुनः प्राप्तिः