प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← सूक्तं ३.२९ ऋग्वेदः - मण्डल ३
सूक्तं ३.३०
गाथिनो विश्वामित्रः
सूक्तं ३.३१ →
दे. इन्द्रः। त्रिष्टुप्

इच्छन्ति त्वा सोम्यासः सखायः सुन्वन्ति सोमं दधति प्रयांसि ।
तितिक्षन्ते अभिशस्तिं जनानामिन्द्र त्वदा कश्चन हि प्रकेतः ॥१॥
न ते दूरे परमा चिद्रजांस्या तु प्र याहि हरिवो हरिभ्याम् ।
स्थिराय वृष्णे सवना कृतेमा युक्ता ग्रावाणः समिधाने अग्नौ ॥२॥
इन्द्रः सुशिप्रो मघवा तरुत्रो महाव्रातस्तुविकूर्मिरृघावान् ।
यदुग्रो धा बाधितो मर्त्येषु क्व त्या ते वृषभ वीर्याणि ॥३॥
त्वं हि ष्मा च्यावयन्नच्युतान्येको वृत्रा चरसि जिघ्नमानः ।
तव द्यावापृथिवी पर्वतासोऽनु व्रताय निमितेव तस्थुः ॥४॥
उताभये पुरुहूत श्रवोभिरेको दृळ्हमवदो वृत्रहा सन् ।
इमे चिदिन्द्र रोदसी अपारे यत्संगृभ्णा मघवन्काशिरित्ते ॥५॥
प्र सू त इन्द्र प्रवता हरिभ्यां प्र ते वज्रः प्रमृणन्नेतु शत्रून् ।
जहि प्रतीचो अनूचः पराचो विश्वं सत्यं कृणुहि विष्टमस्तु ॥६॥
यस्मै धायुरदधा मर्त्यायाभक्तं चिद्भजते गेह्यं सः ।
भद्रा त इन्द्र सुमतिर्घृताची सहस्रदाना पुरुहूत रातिः ॥७॥
सहदानुं पुरुहूत क्षियन्तमहस्तमिन्द्र सं पिणक्कुणारुम् ।
अभि वृत्रं वर्धमानं पियारुमपादमिन्द्र तवसा जघन्थ ॥८॥
नि सामनामिषिरामिन्द्र भूमिं महीमपारां सदने ससत्थ ।
अस्तभ्नाद्द्यां वृषभो अन्तरिक्षमर्षन्त्वापस्त्वयेह प्रसूताः ॥९॥
अलातृणो वल इन्द्र व्रजो गोः पुरा हन्तोर्भयमानो व्यार ।
सुगान्पथो अकृणोन्निरजे गाः प्रावन्वाणीः पुरुहूतं धमन्तीः ॥१०॥
एको द्वे वसुमती समीची इन्द्र आ पप्रौ पृथिवीमुत द्याम् ।
उतान्तरिक्षादभि नः समीक इषो रथीः सयुजः शूर वाजान् ॥११॥
दिशः सूर्यो न मिनाति प्रदिष्टा दिवेदिवे हर्यश्वप्रसूताः ।
सं यदानळध्वन आदिदश्वैर्विमोचनं कृणुते तत्त्वस्य ॥१२॥
दिदृक्षन्त उषसो यामन्नक्तोर्विवस्वत्या महि चित्रमनीकम् ।
विश्वे जानन्ति महिना यदागादिन्द्रस्य कर्म सुकृता पुरूणि ॥१३॥
महि ज्योतिर्निहितं वक्षणास्वामा पक्वं चरति बिभ्रती गौः ।
विश्वं स्वाद्म सम्भृतमुस्रियायां यत्सीमिन्द्रो अदधाद्भोजनाय ॥१४॥
इन्द्र दृह्य यामकोशा अभूवन्यज्ञाय शिक्ष गृणते सखिभ्यः ।
दुर्मायवो दुरेवा मर्त्यासो निषङ्गिणो रिपवो हन्त्वासः ॥१५॥
सं घोषः शृण्वेऽवमैरमित्रैर्जही न्येष्वशनिं तपिष्ठाम् ।
वृश्चेमधस्ताद्वि रुजा सहस्व जहि रक्षो मघवन्रन्धयस्व ॥१६॥
उद्वृह रक्षः सहमूलमिन्द्र वृश्चा मध्यं प्रत्यग्रं शृणीहि ।
आ कीवतः सललूकं चकर्थ ब्रह्मद्विषे तपुषिं हेतिमस्य ॥१७॥
स्वस्तये वाजिभिश्च प्रणेतः सं यन्महीरिष आसत्सि पूर्वीः ।
रायो वन्तारो बृहतः स्यामास्मे अस्तु भग इन्द्र प्रजावान् ॥१८॥
आ नो भर भगमिन्द्र द्युमन्तं नि ते देष्णस्य धीमहि प्ररेके ।
ऊर्व इव पप्रथे कामो अस्मे तमा पृण वसुपते वसूनाम् ॥१९॥
इमं कामं मन्दया गोभिरश्वैश्चन्द्रवता राधसा पप्रथश्च ।
स्वर्यवो मतिभिस्तुभ्यं विप्रा इन्द्राय वाहः कुशिकासो अक्रन् ॥२०॥
आ नो गोत्रा दर्दृहि गोपते गाः समस्मभ्यं सनयो यन्तु वाजाः ।
दिवक्षा असि वृषभ सत्यशुष्मोऽस्मभ्यं सु मघवन्बोधि गोदाः ॥२१॥
शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ ।
शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥२२॥


सायणभाष्यम्

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत्।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ।।

तृतीयेऽनुवाके नव सूक्तानि । तत्र ‘इच्छन्ति त्वा' इति द्वाविंशत्यृचं प्रथमं सूक्तम्। तत्रेयमनुक्रमणिका- ‘इच्छन्ति द्व्यधिकैन्द्रम् ' इति । मण्डलद्रष्टा विश्वामित्र ऋषिः । इन्द्रो देवता । अनुक्तत्वात् त्रिष्टुप् छन्दः । आभिप्लविके प्रथमेऽहनि दशरात्रे प्रथमेऽहनि च माध्यंदिने सवनेऽच्छावाकशस्त्रे अहीनसूक्तस्थाने द्वितीयमिदं संपातसूक्तम् । “ अभिप्लवपृष्ठ्याहानि ' इति खण्डे सूत्रितम्-' इमामू ष्विच्छन्ति त्वा शासद्वह्निरिति संपाताः ' (आश्व. श्रौ. ७. ५.) इति । इन्द्रस्य वृत्रघ्नः संबन्धिनि पशौ ‘सहदानुम्' इति वपायाः याज्या।' सहदानुं पुरुहूत क्षियन्तं स्तुत इन्द्रो मघवा यद्ध वृत्रा' ( आश्व. श्रौ. ३. ८.) इति सूत्रितम् । ‘स्वस्तये वाजिभिश्च ' इत्येषैन्द्रे पशौ हदिषो याज्या । सूत्रितं च---’स्वस्तये वाजिभिश्च प्रणेतः शुची वो हव्या मरुतः शुचीनाम् ' ( आश्व. श्रौ. ३, ७.) इति । शुनासीरीये वैकल्पिकस्येन्द्रस्य शुनस्य ' शुनं हुवेम' इत्यनुवाक्या। सूत्रितं च--- शुनं हुवेम मघवानमिन्द्रमश्वायन्तो गव्यन्तो वाजयन्तः ' (आश्व. श्रौ. २. २० ) इति ॥


इ॒च्छन्ति॑ त्वा सो॒म्यास॒ः सखा॑यः सु॒न्वन्ति॒ सोमं॒ दध॑ति॒ प्रयां॑सि ।

तिति॑क्षन्ते अ॒भिश॑स्तिं॒ जना॑ना॒मिन्द्र॒ त्वदा कश्च॒न हि प्र॑के॒तः ॥१

इ॒च्छन्ति॑ । त्वा॒ । सो॒म्यासः॑ । सखा॑यः । सु॒न्वन्ति॑ । सोम॑म् । दध॑ति । प्रयां॑सि ।

तिति॑क्षन्ते । अ॒भिऽश॑स्तिम् । जना॑नाम् । इन्द्र॑ । त्वत् । आ । कः । च॒न । हि । प्र॒ऽके॒तः ॥१

इच्छन्ति । त्वा । सोम्यासः । सखायः । सुन्वन्ति । सोमम् । दधति । प्रयांसि ।

तितिक्षन्ते । अभिऽशस्तिम् । जनानाम् । इन्द्र । त्वत् । आ । कः । चन । हि । प्रऽकेतः ॥१

विश्वामित्रः स्तौति । हे "इन्द्र "सोम्यासः सोमार्हा ब्राह्मणाः “त्वा त्वां शंसितुम् "इच्छन्ति अत एव "सखायः ते ब्राह्मणास्त्वदर्थं "सोमं “सुन्वन्ति अभिषुण्वन्ति । "प्रयांसि इतराण्यपि हवींषि “दधति त्वदर्थं धारयन्ति । त्वया प्रेरिताः सन्तः "जनानां सपत्नानाम् "अभिशस्तिं तत्कृतां हिंसां “तितिक्षन्ते सहन्ते । एवमनुग्राहकः "त्वत् त्वत्तोऽन्यः "कश्चन “हि को नाम पुरुषः खलु “आ “प्रकेतः सर्वतो जगति । प्रकेत्यते ज्ञाप्यत इति प्रकेतः । प्रज्ञापितः विद्यते ॥ सोग्यासः । सोममर्हतीत्यर्थे ' सोममर्हति यः' इति यः । प्रत्ययस्वरः । सुन्वन्ति । षुञ् अभिषवे'। स्वादित्वात् श्नुः। ‘सति शिष्टस्वरो बलीयान् ' इति झिप्रत्ययस्वर: । दधति । दधातेर्लटि रूपम् । ' समानवाक्ये युष्मदस्मदादेशनिघाताः ' ( पा. सू. ८. १. १८. ५. ) इति सोमपदस्य इतरवाक्येन अन्वयान्न निघातः । ‘अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । तितिक्षन्ते । ‘तिज निशाने ' इत्यस्य क्षमायां ‘गुप्तिज्किद्यः्य सन्' इति सन् । अभ्यस्तस्वरः । अभिशस्तिम् । शसु हिंसायाम् ' इत्यस्मात् भावे क्तिन् । ' तादौ च निति कृत्यतौ ' इति गतेः प्रकृतिस्वरत्वम् । प्रकेतः । ‘कित ज्ञाने'। कर्मणि घञ्° ।' थाथघञ्क्त ' इत्यन्तोदात्तत्वम् ।।


न ते॑ दू॒रे प॑र॒मा चि॒द्रजां॒स्या तु प्र या॑हि हरिवो॒ हरि॑भ्याम् ।

स्थि॒राय॒ वृष्णे॒ सव॑ना कृ॒तेमा यु॒क्ता ग्रावा॑णः समिधा॒ने अ॒ग्नौ ॥२

न । ते॒ । दू॒रे । प॒र॒मा । चि॒त् । रजां॑सि । आ । तु । प्र । या॒हि॒ । ह॒रि॒ऽवः॒ । हरि॑ऽभ्याम् ।

स्थि॒राय॑ । वृष्णे॑ । सव॑ना । कृ॒ता । इ॒मा । यु॒क्ताः । ग्रावा॑णः । स॒म्ऽइ॒धा॒ने । अ॒ग्नौ ॥२

न । ते । दूरे । परमा । चित् । रजांसि । आ । तु । प्र । याहि । हरिऽवः । हरिऽभ्याम् ।

स्थिराय । वृष्णे । सवना । कृता । इमा । युक्ताः । ग्रावाणः । सम्ऽइधाने । अग्नौ ॥२

"हरिवः' हरिद्वर्णौ अश्वौ यस्य सोऽयं हरिवानिन्द्रः । हे हरिवः "परमा "चित् परमाणि दूरे वर्तमानान्यपि 'रजांसि स्थानानि “ते तव “दूरे “न भवन्ति । तस्मात् हरिभ्याम् उपेतस्त्वं “तु क्षिप्रम् “आ “प्र “याहि । अस्मदीयं यज्ञमभिलक्ष्यागच्छ । "स्थिराय फलप्रदाने दृढचित्ताय अत एव 'वृष्णे कामानां वर्षित्रे तुभ्यम् “इमा इमानि "सवना सवनानि प्रातरादीनि "कृता कृतानि । किंच । "अग्नौ अहवनीये "समिधाने आहुत्यधिकरणतया सम्यग्दीप्यमाने सति “ग्रावणः उपलाः "युक्ताः सोमाभिषवार्थमुद्युक्ताः । अतस्त्वं क्षिप्रमागच्छेति भावः ।। याहि । ‘या प्रापणे इत्यस्य लोटि रूपम् । हरिवः । हरी अस्य स्त इति मतुप् । 'छन्दसीरः' इति तस्य वत्वम् । आमन्त्रितत्वान्निघातः । स्थिराय । ‘ष्ठा गतिनिवृत्तौ ' इत्यस्मात् ' अजिरशिशिर° ' इत्यादिना किरच्प्रत्ययान्तत्वेन निपातनादाकारलोपः । चित्स्वर: । सवना । ‘षुञ् अभिषवे' इत्यस्मात् अधिकरणे ‘ ल्युट् च ' इति ल्युट् । सूयते सोमो यत्रेति सवनानि प्रातरादीनि । लित्स्वरः । समिधाने । ञिइन्धी दीप्तौ ' इत्यस्य कानचि रूपम् । कित्त्वान्नकालोपः । चित्स्वरः ।।


इन्द्रः॑ सु॒शिप्रो॑ म॒घवा॒ तरु॑त्रो म॒हाव्रा॑तस्तुविकू॒र्मिरृघा॑वान् ।

यदु॒ग्रो धा बा॑धि॒तो मर्त्ये॑षु॒ क्व१॒॑ त्या ते॑ वृषभ वी॒र्या॑णि ॥३

इन्द्रः॑ । सु॒ऽशिप्रः॑ । म॒घऽवा॑ । तरु॑त्रः । म॒हाऽव्रा॑तः । तु॒वि॒ऽकू॒र्मिः । ऋघा॑वान् ।

यत् । उ॒ग्रः । धाः । बा॒धि॒तः । मर्त्ये॑षु । क्व॑ । त्या । ते॒ । वृ॒ष॒भ॒ । वी॒र्या॑णि ॥३

इन्द्रः । सुऽशिप्रः । मघऽवा । तरुत्रः । महाऽव्रातः । तुविऽकूर्मिः । ऋघावान् ।

यत् । उग्रः । धाः । बाधितः । मर्त्येषु । क्व । त्या । ते । वृषभ । वीर्याणि ॥३

"वृषभ कामानां वर्षक हे इन्द्र यस्त्वम् "इन्द्रः परमैश्वर्यसंपन्नः "सुशिप्रः । शिप्रशब्देन शिरस्त्राणमभिधीयते । शोभनशिरस्त्राणोपेतः । यद्वा शोभनहनुमान् । ‘शिप्रे हनू नासिके वा ' ( निरु. ६. १७) इति यास्कः । "मघवा धनवान् "तरुत्रः । तरन्त्यनेन शत्रून्देवा इति तरुत्रः इन्द्रः । "महाव्रातः मरुद्भिर्महान् व्रातः समूहो यस्येति स तथोक्तः ।"तुविकूर्मिः संग्रामे नानाविधकर्मणां कर्ता “ऋघावान् शत्रुविषयहिंसावान् अत एव "उग्रः शत्रूणां भयंकरः स तादृशस्त्वं “बाधितः असुरैः संग्रामे बाधितः सन् “मर्त्येषु मारयितृषु असुरेषु "यत् यानि वीर्याणि “धाः व्यधा इदानीं “ते तव “त्या तानि “वीर्याणि “क्व क्वासते वद ॥ सुशिप्रः । ‘सृप्लृ गतौ ' । औणादिको रन्प्रत्ययः । बाहुलकात् सृ इत्यस्य शि इत्यादेशः । बहुव्रीहौ आद्युदात्तं द्व्यच्छन्दसि ' इत्युत्तरपदाद्युदात्तत्वम् । तरुत्रः । तरतेः अशित्रादिभ्य इत्रोत्रौ' इत्युत्रप्रत्ययः । व्यत्ययेनाद्युदात्तत्वम् । महाव्रातः । 'आन्महतः' इत्याकारादेशो महतस्तकारस्य । तुविकूर्मिः । करोतेरौणादिको मिप्रत्ययः । गुणे कृते करोतेरकारस्योत्वं छान्दसम् । ‘हलि च' इति दीर्घः। ऋघावान् । ऋन् ( नॄन्) हन्तीत्यृघाः । अन्येभ्योऽपि दृश्यन्ते' इति विच् । दृशिग्रहणान्नलोपो हकारस्य घत्वम् । तदस्यास्तीति मतुबर्थे छन्दसीवनिपौ' इति वनिप् । व्यत्ययेनाद्युदात्तः । क्व । किंशब्दस्य सप्तम्यर्थे ‘किमोऽत्' इत्यत्प्रत्ययः । तस्मिन् ‘ क्वाति' इति क्वादेशः । तित्स्वरः ॥


त्वं हि ष्मा॑ च्या॒वय॒न्नच्यु॑ता॒न्येको॑ वृ॒त्रा चर॑सि॒ जिघ्न॑मानः ।

तव॒ द्यावा॑पृथि॒वी पर्व॑ता॒सोऽनु॑ व्र॒ताय॒ निमि॑तेव तस्थुः ॥४

त्वम् । हि । स्म॒ । च्य॒वय॑न् । अच्यु॑तानि । एकः॑ । वृ॒त्रा । चर॑सि । जिघ्न॑मानः ।

तव॑ । द्यावा॑पृथि॒वी इति॑ । पर्व॑तासः । अनु॑ । व्र॒ताय॑ । निमि॑ताऽइव । त॒स्थुः॒ ॥४

त्वम् । हि । स्म । च्यवयन् । अच्युतानि । एकः । वृत्रा । चरसि । जिघ्नमानः ।

तव । द्यावापृथिवी इति । पर्वतासः । अनु । व्रताय । निमिताऽइव । तस्थुः ॥४

हे इन्द्र “त्वम् “एकः असहाय एव “अच्युतानि च्युतिरहितानि दृढमूलान्यपि तव प्रतिपक्षभूतानि रक्षांसि “च्यावयन् स्वस्वस्थानात् पातयन् तथा “वृत्रा वृत्राणि पापानि “जिघ्नमानः हिंसन् “चरसि “हि "स्म वर्तसे खलु। किंच एवंविधसामर्थ्योपेतस्य “तव “व्रताय कर्मणे आज्ञायै द्यावापृथिव्यौ “पर्वतासः पर्वताश्च “निमितेव निखाता निश्चला इव “अनु तस्थुः अनुकूलास्तिष्ठन्ति ।। स्म । चादित्वादनुदात्तः । च्यावयन् । 'च्युङ् गतौ ' इत्यस्य ण्यन्तस्य शतरि रूपम् । णिच्स्वरः । चरसि । चर गतिभक्षणयोः । हियोगादनिघातः । जिघ्नमानः । 'हन हिंसागत्योः' इत्यस्य ‘घञर्थे कविधानम् ' इति कः । तस्य ‘छन्दस्युभयथा' इति सार्वधातुकत्वाच्छप् । तस्य श्लुः । ‘बहुलं छन्दसि' इत्यभ्यासस्येत्वम् । हन्तीति जिघ्नः । आचारार्थे क्विप् । अस्मात्ताच्छील्यार्थे चानश् । शप् । व्यत्ययेनाद्युदात्तत्वम् । द्यावापृथिवी । देवताद्वन्द्वे च ' इत्युभयपदप्रकृतिस्वरत्वम् ।। निमितेव । डुमिञ् प्रक्षेपणे' इत्यस्य कर्मणि निष्ठा । ' गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । ‘सुपां सुलुक्° इति सुपो डादेशः। ‘इवेन विभक्त्यलोपः' इत्युक्तत्वात् पूर्वपदस्वरः । तस्थुः। ‘ष्ठा गतिनिवृत्तौ' इत्यस्य लिटयुसि आतो लोपे कृते तस्य द्विर्वचनेऽत्ति' इति स्थानिवद्भावात् द्विर्वचनम् । निघातः ॥


उ॒ताभ॑ये पुरुहूत॒ श्रवो॑भि॒रेको॑ दृ॒ळ्हम॑वदो वृत्र॒हा सन् ।

इ॒मे चि॑दिन्द्र॒ रोद॑सी अपा॒रे यत्सं॑गृ॒भ्णा म॑घवन्का॒शिरित्ते॑ ॥५

उ॒त । अभ॑ये । पु॒रु॒ऽहू॒त॒ । श्रवः॑ऽभिः । एकः॑ । दृ॒ळ्हम् । अ॒व॒दः॒ । वृ॒त्र॒ऽहा । सन् ।

इ॒मे । चि॒त् । इ॒न्द्र॒ । रोद॑सी॒ इति॑ । अ॒पा॒रे इति॑ । यत् । स॒म्ऽगृ॒भ्णाः । म॒घ॒ऽव॒न् । का॒शिः । इत् । ते॒ ॥५

उत । अभये । पुरुऽहूत । श्रवःऽभिः । एकः । दृळ्हम् । अवदः । वृत्रऽहा । सन् ।

इमे । चित् । इन्द्र । रोदसी इति । अपारे इति । यत् । सम्ऽगृभ्णाः । मघऽवन् । काशिः । इत् । ते ॥५

“उत इत्यामन्त्रणे । हे “इन्द्र “पुरुहूत पुरुभिर्बहुभिर्यज्वभिराहूत । यद्वा देवैरसुरेभ्यो रक्षार्थं बहुवारमाहूत । “श्रवोभिः वीर्यैरुपेतः। “एकः असहायस्त्वं “वृत्रहा वृत्रशत्रोर्हन्ता “सन् “अभये असुरेभ्यः सकाशान्मा बिभीतेति देवान् प्रति यद्वाक्यम् “अवदः अवोचस्तद्वाक्यं “दृढं सत्यमेव । किंच “मघवन् इन्द्र त्वम् “अपारे “चित् दूरपारेऽपि “इमे “रोदसी द्यावापृथिव्यौ “यत् यस्मात् कारणात् “संगृभ्णाः संगृह्णासि परस्परमधरोत्तरभावेन संयोजिते करोषीति यावत् । एषः ते तव महिमा “काशिरित् प्रकाशो लोके प्रसिद्धः एव। यद्वा यत् येन ते रोदसी संगृह्णासि ते तव काशिर्मुष्टिः महान् ।' काशिर्मुष्टिः ' ( निरु. ६. १ ) इति यास्कः ॥ अभये । ञिभी भये' इत्यस्मात् भावे ‘एरच् ' इत्यच्प्रत्ययः । नञा समासे तस्य स्वरः। अवदः । वद व्यक्तायां वाचि । लङि रूपम् । निघातः । अपारे । बहुव्रीहौ ‘नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । संगृभ्णाः । ग्रह उपादाने' । क्रयादित्वात् श्ना ।' ग्रहिज्यावयि ' इत्यादिना संप्रसारणम् । 'हृग्रहोर्भश्छन्दसि । इति हकारस्य भकारः। इतश्च' इति सिप इकारलोपः। बहुलं छन्दसि' इत्यडभावः । समासस्वरः । काशिः । काशृ दीप्तौ' । औणादिक इप्रत्ययः । प्रत्ययस्वरः ॥ ॥१॥


प्र सू त॑ इन्द्र प्र॒वता॒ हरि॑भ्यां॒ प्र ते॒ वज्रः॑ प्रमृ॒णन्ने॑तु॒ शत्रू॑न् ।

ज॒हि प्र॑ती॒चो अ॑नू॒चः परा॑चो॒ विश्वं॑ स॒त्यं कृ॑णुहि वि॒ष्टम॑स्तु ॥६

प्र । सु । ते॒ । इ॒न्द्र॒ । प्र॒ऽवता॑ । हरि॑ऽभ्याम् । प्र । ते॒ । वज्रः॑ । प्र॒ऽमृ॒णन् । ए॒तु॒ । शत्रू॑न् ।

ज॒हि । प्र॒ती॒चः । अ॒नू॒चः । परा॑चः । विश्व॑म् । स॒त्यम् । कृ॒णु॒हि॒ । वि॒ष्टम् । अ॒स्तु॒ ॥६

प्र । सु । ते । इन्द्र । प्रऽवता । हरिऽभ्याम् । प्र । ते । वज्रः । प्रऽमृणन् । एतु । शत्रून् ।

जहि । प्रतीचः । अनूचः । पराचः । विश्वम् । सत्यम् । कृणुहि । विष्टम् । अस्तु ॥६

हे "इन्द्र "ते तव “हरिभ्याम् अश्वाभ्यां युक्तो रथः शत्रूनभिलक्ष्य “प्रवता प्रवणेन मार्गेण "सु सुष्ठु “प्र “एतु शीघ्रं गच्छतु । तथा “ते "वज्रः अशनिः “शत्रून् असुरान् “प्रमृणन् हिंसन् “प्र एतु। त्वं च “प्रतीचः त्वदाभिमुख्येनागच्छतः शत्रून् “जहि मारय । तथा “अनूचः अनुगच्छतः पार्ष्णिग्राहानसुरान् “पराचः पलायनपरांश्च जहि । एवं शत्रुषु बाधितेषु सत्सु “विश्वं जगत् “सत्यं “कृणुहि सत्यभूताग्निहोत्रादिकर्मपरं कुरु । एवंविधं सामर्थ्यं त्वयि “विष्टं निविष्टम् “अस्तु ॥ प्रवता । प्रशब्दात् उपसर्गाच्छन्दसि धात्वर्थे ' इति वतिः । प्रत्ययस्वरः । प्रमृणन् । मृण हिंसायाम् । जहि ।' हन हिंसागत्योः' इत्यस्य लोटि सिपो हिरादेशः । तस्मिन् ‘हन्तेर्जः' इति जादेशः । ‘अतो हेः' इति लुकि प्राप्ते आभाच्छास्त्रस्यासिद्धत्वान्निवृत्तिः । हेर्ङित्त्वादन्तोदात्तः । प्रतीचः । ‘अञ्चु गतिपूजनयोः' । ' अञ्चेश्छन्दस्यसर्वनामस्थानम्' इति विभक्तेरुदात्तत्वम् । पराचः । ‘अनिगन्तोऽञ्जतौ वप्रत्यये ' इति गतेः प्रकृतिस्वरत्वम् । कृणुहि । ‘कृवि हिंसाकरणयोः । अस्तु । ' अस भुवि ' ॥


यस्मै॒ धायु॒रद॑धा॒ मर्त्या॒याभ॑क्तं चिद्भजते गे॒ह्यं१॒॑ सः ।

भ॒द्रा त॑ इन्द्र सुम॒तिर्घृ॒ताची॑ स॒हस्र॑दाना पुरुहूत रा॒तिः ॥७

यस्मै॑ । धायुः॑ । अद॑धाः । मर्त्या॑य । अभ॑क्तम् । चि॒त् । भ॒ज॒ते॒ । गे॒ह्य॑म् । सः ।

भ॒द्रा । ते॒ । इ॒न्द्र॒ । सु॒ऽम॒तिः । घृ॒ताची॑ । स॒हस्र॑ऽदाना । पु॒रु॒ऽहू॒त॒ । रा॒तिः ॥७

यस्मै । धायुः । अदधाः । मर्त्याय । अभक्तम् । चित् । भजते । गेह्यम् । सः ।

भद्रा । ते । इन्द्र । सुऽमतिः । घृताची । सहस्रऽदाना । पुरुऽहूत । रातिः ॥७

हे “इन्द्र “धायुः निरन्तरमैश्वर्यं दधानस्त्वं “यस्मै “मर्त्याय मनुष्याय "अदधाः यद्वीर्यं दधासि “सः मर्त्यः “अभक्तं “चित् पूर्वमप्राप्तमपि “गेह्यं गृहेषु भवं कनकपश्वादिकं “भजते प्राप्नोति । किंच। हे “पुरुहूत बहुभिराहूतेन्द्र “घृताची । घृतशब्दो हविर्मात्रमुपलक्षयति । तथा च सोमाज्यपुरोडाशादिलक्षणं हविरञ्चति प्राप्नोतीति घृताची । “ते तव “सुमतिः शोभना बुद्धिः “भद्रा कल्याणकरी । तथा तव “रातिः दानशक्तिः “सहस्रदाना अपरिमितधनदानसमेता । इन्द्रस्य बहुदातृत्वे मन्त्रवर्णः - ’भूरिदा भूरि देहि नो मा दभ्रं भूर्या भर ' ( ऋ. सं. ४. ३२. २०) इति ॥ धायुः । दधातेरौणादिक उण्प्रत्ययः । अदधाः । दधातेर्लङि रूपम् । यद्वृत्तयोगाद निघातः । मर्त्याय । मर्त एव मर्त्यः । वस्वादिषु पाठात् स्वार्थिको यत् । यतोऽनावः' इत्याद्युदात्तत्वम् । गेह्यम् । गेहशब्दात् तत्र भवः' इत्यर्थे ' भवे छन्दसि' इति यत्। तित्स्वरितः । सुमतिः।' मन्त्रे वृष° । इत्यादिना मतिशब्दोऽन्तोदात्तः । समासे कृदुत्तरपदस्वरः । रातिः । ‘रा दाने '। ' मन्त्रे वृष० ) इत्यादिना क्तिन्नुदात्तः ।।


स॒हदा॑नुं पुरुहूत क्षि॒यन्त॑मह॒स्तमि॑न्द्र॒ सं पि॑ण॒क्कुणा॑रुम् ।

अ॒भि वृ॒त्रं वर्ध॑मानं॒ पिया॑रुम॒पाद॑मिन्द्र त॒वसा॑ जघन्थ ॥८

स॒हऽदा॑नुम् । पु॒रु॒ऽहू॒त॒ । क्षि॒यन्त॑म् । अ॒ह॒स्तम् । इ॒न्द्र॒ । सम् । पि॒ण॒क् । कुणा॑रुम् ।

अ॒भि । वृ॒त्रम् । वर्ध॑मानम् । पिया॑रुम् । अ॒पाद॑म् । इ॒न्द्र॒ । त॒वसा॑ । ज॒घ॒न्थ॒ ॥८

सहऽदानुम् । पुरुऽहूत । क्षियन्तम् । अहस्तम् । इन्द्र । सम् । पिणक् । कुणारुम् ।

अभि । वृत्रम् । वर्धमानम् । पियारुम् । अपादम् । इन्द्र । तवसा । जघन्थ ॥८

हे पुरुहूत “इन्द्र त्वं “सहदानुम् । दानुः दानवी वृत्रमाता तया सह वर्तमानम् । तथा च मन्त्रवर्णः- दानुः शये सहवत्सा' (ऋ. सं. १. ३२. ९) इति । यद्वा सहदानुं दानुभिर्दानवैः सह वर्तत इति सहदानुः । तं “क्षियन्तं बाधमानं "कुणारुं क्वणनशीलं कंचिदसुरम् “अहस्तं हस्तहीनं कृत्वा “सं "पिणक् सम्यक् चूर्णीकुरु । किंच हे “इन्द्र “वर्धमानं सर्वत इषुमात्र वर्धमानम् । स इषुमात्रमिषुमात्रं विष्वङ्ङवर्धत' (तै. सं. २. ४. १२. २) इति श्रुतेः। "पियारुं हिंस्रं “वृत्रं वृत्रासुरम् “अपादं पादहीनं कृत्वा “तवसा बलेन “अभि "जघन्थ हतवानसि । यद्वा सहदानुमुदकदानोपेतं क्षियन्तमाकाशे निवसन्तं कुणारुं गर्जन्तं वृत्रम् । वृणोत्याच्छादयति नभ इति वृत्रो मेघः । तमिमं वर्धमानं मेघं हस्तपादशून्यं कृत्वा संपिणक् संपिण्ढि। तथा च यास्कः -- ’अहस्तमिन्द्र कृत्वा संपिण्ढि परिक्वणनं मेघम् ' ( निरु. ६. १ ) इति ॥ सहदानुम् । 'दो अवखण्डने '। दाभाभ्यां नुः । इति नुप्रत्ययः । द्यतीति दानुर्दानवः । यद्वा दानुर्दानम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः । क्षियन्तम् । ' क्षि निवासगत्योः '। तुदादित्वाच्छः । प्रत्ययस्वरः । पिणक् । ' पिष्लृ संचूर्णने' । रुधादित्वात् श्नम् । हेर्लुक् । षकारस्य ककारश्छान्दसः । कुणारुम् ।' कुण शब्दने'। बाहुलकाद्रूपसिद्धिः । आद्युदात्तः । जघन्थ ।' हन हिंसागत्योः' इत्यस्य लिटि थलि रूपम् । ' अभ्यासाच्च' इति धातुहकाररय घत्वम् । निघातः ।' उपदेशेऽत्वतः' इतीट्प्रतिषेधः ॥


नि सा॑म॒नामि॑षि॒रामि॑न्द्र॒ भूमिं॑ म॒हीम॑पा॒रां सद॑ने ससत्थ ।

अस्त॑भ्ना॒द्द्यां वृ॑ष॒भो अ॒न्तरि॑क्ष॒मर्ष॒न्त्वाप॒स्त्वये॒ह प्रसू॑ताः ॥९

नि । सा॒म॒नाम् । इ॒षि॒राम् । इ॒न्द्र॒ । भूमि॑म् । म॒हीम् । अ॒पा॒राम् । सद॑ने । स॒स॒त्थ॒ ।

अस्त॑भ्नात् । द्याम् । वृ॒ष॒भः । अ॒न्तरि॑क्षम् । अर्ष॑न्तु । आपः॑ । त्वया॑ । इ॒ह । प्रऽसू॑ताः ॥९

नि । सामनाम् । इषिराम् । इन्द्र । भूमिम् । महीम् । अपाराम् । सदने । ससत्थ ।

अस्तभ्नात् । द्याम् । वृषभः । अन्तरिक्षम् । अर्षन्तु । आपः । त्वया । इह । प्रऽसूताः ॥९

हे “इन्द्र “महीं महतीमत एव “अपाराम् “इषिरां स्थानाभावेन चलन्तीम् एवंविधां “भूमिं “सामनां समानाम् । तथा च मन्त्रवर्ण:--' गावौ ते सामनावितः ' ( ऋ. सं. १०. ८५. ११ ) इति । यद्वा सम एव साम । तथा च शतपथे श्रूयते- यदेव समः प्लुषिणा समो मशकेन समो नागेन सम एतैस्त्रिभिर्लोकैस्तस्मादेव साम' (श. ब्रा. १४. ४. १) इति । तदस्यास्तीति सामनः । तां साम्यवतीं कृत्वा “सदने स्वे स्थाने “नि “ससत्थ निवेशयामासिथ । तथा “वृषभः अभिमतफलानां वर्षक इन्द्रः “द्यां द्युलोकम् “अस्तभ्नात् यथा न पतति तथा धारयत् । तथा “अन्तरिक्षम् । एवं द्यावापृथिव्योरवस्थितौ सत्यां “त्वया “प्रसूताः मेघभेदनेन प्रेरिताः “आपः '“इह भूमौ अर्षन्तु आगच्छन्तु । तथा च मन्त्रवर्णः- यः पृथिवीं व्यथमानामदृंहत् ' ( ऋ. सं. २. १२. २ ) इति ॥ सामनाम् । समः एव साम । तदस्यास्ति' इति मतुबर्थे परमादित्वान्नप्रत्ययः । प्रत्ययस्वरः। इषिराम् । इष गतौ ' । इषिमदि° ' ( उ. सू. १. ५१ ) इत्यादिना किरच्प्रत्ययः । कित्त्वादगुणः । चित्स्वरः । ससत्थ । 'षद्लृ विशरणगत्यवसादनेषु' इत्यस्यान्तर्भावितण्यर्थस्य लिटि थलि ‘ उपदेशेऽत्वतः' इतीट्प्रतिषेधः। निघातः । अस्तभ्नात् । 'स्तम्भु स्तम्भने ' इति सौत्रो धातुः। 'स्तम्भुस्तुम्भु°' इत्यादिना आप्रत्ययः । श्नान्नलोपः' इति धातुनकारलोपः। अडागमस्वरः।


अ॒ला॒तृ॒णो व॒ल इ॑न्द्र व्र॒जो गोः पु॒रा हन्तो॒र्भय॑मानो॒ व्या॑र ।

सु॒गान्प॒थो अ॑कृणोन्नि॒रजे॒ गाः प्राव॒न्वाणीः॑ पुरुहू॒तं धम॑न्तीः ॥१०

अ॒ला॒तृ॒णः । व॒लः । इ॒न्द्र॒ । व्र॒जः । गोः । पु॒रा । हन्तोः॑ । भय॑मानः । वि । आ॒र॒ ।

सु॒ऽगान् । प॒थः । अ॒कृ॒णो॒त् । निः॒ऽअजे॑ । गाः । प्र । आ॒व॒न् । वाणीः॑ । पु॒रु॒ऽहू॒तम् । धम॑न्तीः ॥१०

अलातृणः । वलः । इन्द्र । व्रजः । गोः । पुरा । हन्तोः । भयमानः । वि । आर ।

सुऽगान् । पथः । अकृणोत् । निःऽअजे । गाः । प्र । आवन् । वाणीः । पुरुऽहूतम् । धमन्तीः ॥१०

हे “इन्द्र "अलातृणः। बहूदकतया अलमत्यर्थमातृद्यते हिंस्यत इत्यलातृणः। “गोः माध्यमिकायाः वाचः “व्रजः गोष्ठभूतः “वलः । वृणोत्याकाशमिति वलो मेघः। "पुरा “हन्तोः तव वज्रप्रहारत् प्राक् “भयमानः बिभ्यत् “व्यार विलिष्टो बभूव । अनन्तरं स इन्द्रः “गा: अपः “निरजे निर्गमयितुं "सुगान् सुगमान् “पथः मार्गान् “अकृणोत् अकरोत् । अतः “वाणी: वननीयाः “धमन्तीः शब्दायमानास्ता आपः “पुरुहूतं बहुभिराहूतं पार्थिवमुदकं प्रति “प्रावन् अभ्यागच्छन् । एतामृचं यास्क एवं व्याख्यत्--’अलातृणो वल इन्द्र व्रजो गोः । अलातृणोऽलमातर्दनो मेघो वलो वृणोतेर्व्रजो व्रजत्यन्तरिक्षे गोरेतस्या माध्यमिकाया वाचः पुरा हननाद्भयमानो व्यार सुगान्पथो अकृणोन्निरजे गाः । सुगमनान्पथोऽकरोन्निर्गमनाय गवाम् । प्रावन्वाणीः पुरुहूतं धमन्तीः । आपो वा वहनाद्वाचो वा वदनाद्बहुभिराहूतमुदकं भवति । धमतिर्गतिकर्मा' (निरु. ६. २.) ॥ अलातृणः । तृहि हिंसायाम्'। अलंपूर्वात् तृहेः ‘घञर्थे कविधानम् ' इति कर्मणि कप्रत्ययः । अलमो मकारस्याकारः । समासस्वरः । वलः । ‘वल संवरणे । वल्यत आच्छाद्यते नभोऽनेनेति' वलो मेघः । ‘पुंसि संज्ञायाम् ' इति घः । प्रत्ययस्वरः । व्रजः । ‘व्रज गतौ'।' गोचरसंचर० ' (पा० सू. ३.३.११९ ) इत्यादिना घप्रत्ययान्तत्वेन निपातनात् कुत्वाभावः । व्रजत्यन्तरिक्ष इति । प्रत्ययस्वरः। भयमानः । 'ञिभी भये' । व्यत्ययेन शप् । आर । ‘ऋ गतौ ' इत्यस्य लिटि णलि रूपम् । निघातः । सुगान् ।' गम्लृ गतौ ' इत्यस्मादधिकरणे ‘सुदुरोरधिकरणे ' इति डप्रत्ययः । डित्त्वाट्टिलोपः । कृत्स्वरः। निरजे । ‘अज गतिक्षेपणयोः' इत्यस्मात् संपदादिलक्षणो भावे क्विप् । कृदुत्तरस्वरः । आवन् । अव रक्षणगत्यादिषु इत्यस्य लङि रूपम् । पुरुहूतम् । ह्वयतेर्निष्ठायां यजादित्वात् संप्रसारणम् । ‘हलः' इति दीर्घः । थाथादिस्वरः । धमन्तीः । ‘ध्मा शब्दे'। शपि पाघ्रा ' इत्यादिना धमादेशः।' वा छन्दसि' इति जसः सवर्णदीर्घः । शतुर्लसार्वधातुकस्वरे कृते धातुस्वरः ॥ ॥ २ ॥


एको॒ द्वे वसु॑मती समी॒ची इन्द्र॒ आ प॑प्रौ पृथि॒वीमु॒त द्याम् ।

उ॒तान्तरि॑क्षाद॒भि नः॑ समी॒क इ॒षो र॒थीः स॒युजः॑ शूर॒ वाजा॑न् ॥११

एकः॑ । द्वे इति॑ । वसु॑मती॒ इति॒ वसु॑ऽमती । स॒मी॒ची इति॑ स॒म्ऽई॒ची । इन्द्रः॑ । आ । प॒प्रौ॒ । पृ॒थि॒वीम् । उ॒त । द्याम् ।

उ॒त । अ॒न्तरि॑क्षात् । अ॒भि । नः॒ । स॒म्ऽई॒के । इ॒षः । र॒थीः । स॒ऽयुजः॑ । शू॒र॒ । वाजा॑न् ॥११

एकः । द्वे इति । वसुमती इति वसुऽमती । समीची इति सम्ऽईची । इन्द्रः । आ । पप्रौ । पृथिवीम् । उत । द्याम् ।

उत । अन्तरिक्षात् । अभि । नः । सम्ऽईके । इषः । रथीः । सऽयुजः । शूर । वाजान् ॥११

योऽयम् “इन्द्रः “एकः असहाय एव सन् “पृथिवीम् “उत अपि च “द्यां “द्वे एते द्यावापृथिव्यौ “समीची परस्परं संगते “वसुमती धनयुक्ते सत्यौ “आ “पप्रौ समन्तात् पूरयामास । “उत अपि च हे "शूर सामर्थ्योपेत तादृशस्त्वं “रथीः रथवान् सः “नः अस्माकं “समीके समीपे “इषः स्थातुमिच्छन् 'सयुजः संगतान् "वाजान्। वजन्ति गच्छन्तीति वाजा अश्वाः। तानश्वान् “अन्तरिक्षात् अन्तरिक्षसकाशात् “अभि प्रेरय । रथारूढस्त्वम् अस्मत्समीपं शीघ्रमागच्छेति भावः ॥ वसुमती। ' वा छन्दसि ' इति पूर्वसवर्णदीर्घः । पप्रौ।' प्रा पूरणे ' इत्यस्य लिटि णलि ‘आत औ णलः' इत्यौकारः । निघातः । इषः । इषु इच्छायाम् ' । अस्मादिगुपधलक्षणः कः । कित्त्वादगुणः । प्रत्ययस्वरः । रथीः । रथोऽस्यास्तीति मतुबर्थे ' छन्दसीवनिपौ ' इति ईप्रत्ययः । प्रत्ययस्वरः ॥


दिश॒ः सूर्यो॒ न मि॑नाति॒ प्रदि॑ष्टा दि॒वेदि॑वे॒ हर्य॑श्वप्रसूताः ।

सं यदान॒ळध्व॑न॒ आदिदश्वै॑र्वि॒मोच॑नं कृणुते॒ तत्त्व॑स्य ॥१२

दिशः॑ । सूर्यः॑ । न । मि॒ना॒ति॒ । प्रऽदि॑ष्टाः । दि॒वेऽदि॑वे । हर्य॑श्वऽप्रसूताः ।

सम् । यत् । आन॑ट् । अध्व॑नः । आत् । इत् । अश्वैः॑ । वि॒ऽमोच॑नम् । कृ॒णु॒ते॒ । तत् । तु । अ॒स्य॒ ॥१२

दिशः । सूर्यः । न । मिनाति । प्रऽदिष्टाः । दिवेऽदिवे । हर्यश्वऽप्रसूताः ।

सम् । यत् । आनट् । अध्वनः । आत् । इत् । अश्वैः । विऽमोचनम् । कृणुते । तत् । तु । अस्य ॥१२

हर्यश्वप्रसूताः। हरी अश्वौ यस्यासाविति हर्यश्व इन्द्रः । तेन प्रेरिताः “दिशः प्रागादयः “दिवेदिवे प्रतिदिवसं “प्रदिष्टाः सूर्यस्य गमनार्थं दत्ता या दिशो विद्यन्ते ताः “सूर्यो “न “मिनाति न हिनस्ति । किंतु ताभिरेव व्रजति । “यत् यदा सूर्यः "अध्वनः गन्तव्यान् प्रदेशान् “अश्वैः गमनसाधनभूतैः “सम् आनट् सम्यगश्नुते । “आदित् अनन्तरमेव “विमोचनं “कृणुते । अश्वानां विमोचनं कुरुते । “तत् एतत्सर्वं कर्म “अस्य तवैव खलु। "तु प्रसिद्धौ ॥ सूर्यः। ‘षू प्रेरणे' इत्यस्मात् ‘सुसूधागृधिभ्यः क्रन्' इति क्रन्प्रत्ययः । सुवति प्रेरयतीति सूर आदित्यः । सूर एव सूर्यः । वस्वादित्वात् स्वार्थिको यत् ।' यतोऽनावः' इत्याद्युदात्तत्वम् । मिनाति । 'मीञ् हिंसायाम् । ‘मीनातेर्निगमे ' इति ह्रस्वः । हर्यश्वप्रसूताः । तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् । आनट् । ‘अशू व्याप्तौ ' इत्यस्य ‘बहुलं छन्दसि ' इति लङः श्लुः । अश्नोतेश्च ' इति नुडागमः । व्रश्चादिना पत्वम् । यद्योगादनिघातः ॥


दिदृ॑क्षन्त उ॒षसो॒ याम॑न्न॒क्तोर्वि॒वस्व॑त्या॒ महि॑ चि॒त्रमनी॑कम् ।

विश्वे॑ जानन्ति महि॒ना यदागा॒दिन्द्र॑स्य॒ कर्म॒ सुकृ॑ता पु॒रूणि॑ ॥१३

दिदृ॑क्षन्ते । उ॒षसः॑ । याम॑न् । अ॒क्तोः । वि॒वस्व॑त्याः । महि॑ । चि॒त्रम् । अनी॑कम् ।

विश्वे॑ । जा॒न॒न्ति॒ । म॒हि॒ना । यत् । आ । अगा॑त् । इन्द्र॑स्य । कर्म॑ । सुऽकृ॑ता । पु॒रूणि॑ ॥१३

दिदृक्षन्ते । उषसः । यामन् । अक्तोः । विवस्वत्याः । महि । चित्रम् । अनीकम् ।

विश्वे । जानन्ति । महिना । यत् । आ । अगात् । इन्द्रस्य । कर्म । सुऽकृता । पुरूणि ॥१३

“विश्वे सर्वे जनाः “विवस्वत्याः विवासनवत्या निर्गमनपरायाः "अक्तोः रात्रेः संबन्धिनः “उषसो “यामन् यामनि निर्गमने सति “महि महत् “चित्रं चायनीयम् "अनीकं सौरं तेजः “दिदृक्षन्ते द्रष्टुमिच्छन्ति । “यत् यदा "आगात् उषःकालः समन्तादागतः व्यपैति तदा तेजो दिदृक्षमाणाः सर्वे जनाः “महिना महनीयान्यग्निहोत्रादीनि कर्माणि “जानन्ति कर्तव्यतयावबुध्यन्ते । हे इन्द्र “पुरूणि बहूनि “सुकृता सुष्ठु कृतानि "कर्म कर्माणि “इन्द्रस्य तवैव ॥ दिदृक्षन्ते। ' दृशिर् प्रेक्षणे ' इत्यस्य सनि ‘ज्ञाश्रुस्मृदृशां सनः ' ( पा. सू. १. ३. ५७ ) इत्यात्मनेपदम् । अभ्यस्तस्वरः । विवस्वत्याः । विवासतेः संपदादिलक्षणः क्विप्। व्यत्ययेनोपधाह्रस्वत्वम् । तस्मात् तदस्यास्ति' इति मतुप् । मादुपधायाः' इति तस्य वत्वम् । मतुपः पित्त्वादनुदात्तत्वे धातुस्वरः। जानन्ति । ‘ज्ञा अवबोधने '। ‘ज्ञाजनोर्जा ' इति जादेशः । निघातः । अगात् । इण् गतौ ' इत्यस्य लुङि रूपम् । यद्योगादनिघातः । सुकृता । ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् ॥


महि॒ ज्योति॒र्निहि॑तं व॒क्षणा॑स्वा॒मा प॒क्वं च॑रति॒ बिभ्र॑ती॒ गौः ।

विश्वं॒ स्वाद्म॒ सम्भृ॑तमु॒स्रिया॑यां॒ यत्सी॒मिन्द्रो॒ अद॑धा॒द्भोज॑नाय ॥१४

महि॑ । ज्योतिः॑ । निऽहि॑तम् । व॒क्षणा॑सु । आ॒मा । प॒क्वम् । च॒र॒ति॒ । बिभ्र॑ती । गौः ।

विश्व॑म् । स्वाद्म॑ । सम्ऽभृ॑तम् । उ॒स्रिया॑याम् । यत् । सी॒म् । इन्द्रः॑ । अद॑धात् । भोज॑नाय ॥१४

महि । ज्योतिः । निऽहितम् । वक्षणासु । आमा । पक्वम् । चरति । बिभ्रती । गौः ।

विश्वम् । स्वाद्म । सम्ऽभृतम् । उस्रियायाम् । यत् । सीम् । इन्द्रः । अदधात् । भोजनाय ॥१४

“वक्षणासु । वक्ष्यन्ते यासूदकानीति वक्षणा नद्यः । तासु “महि महत् "ज्योतिः ज्योतिष्मदुदकं “निहितम् इन्द्रेण "आमा नवसूतिका “गौः “पक्वं क्षीरादिकं “बिभ्रती दधाना सती “चरति सर्वत्र वर्तते । “यत् यस्मादुदकात् “स्वाद्म स्वादुतरं "संभृतं स्वेन संपादितं दधिघृतक्षीरादिकं “सीम् एतत् “विश्वं सर्वम् “उस्रियायां गवि “भोजनाय “इन्द्रः "अदधात् । तस्मात् क्षीरादिकं बिभ्रती गौश्चरतीति पूर्वेणान्वयः ॥ वक्षणासु ।' वक्ष रोषे '। अस्मात् ‘करणाधिकरणयोश्च । इति करणे ल्युट् । लित्स्वरः । पक्वम् । पचतेर्निष्ठातकारस्य ‘पचो वः' इति वत्वम् । प्रत्ययस्वरः। चरति । चरतिर्गत्यर्थः । बिभ्रती । डुभृञ् धारणपोषणयोः '। जुहोत्यादिः । शतुरुगित्त्वात् ‘उगितश्च ' इति ङीप् ।' अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । उस्रियायाम् । 'वस निवासे ' ।' स्फायितञ्चि° ' इत्यादिनाधिकरणे रक्प्रत्ययः । यजादित्वात् संप्रसारणम् । ‘शासिवसिघसीनां च ' इति षत्वाभावश्छान्दसः । स्वार्थिको घप्रत्ययः । प्रत्ययस्वरः ॥


इन्द्र॒ दृह्य॑ यामको॒शा अ॑भूवन्य॒ज्ञाय॑ शिक्ष गृण॒ते सखि॑भ्यः ।

दु॒र्मा॒यवो॑ दु॒रेवा॒ मर्त्या॑सो निष॒ङ्गिणो॑ रि॒पवो॒ हन्त्वा॑सः ॥१५

इन्द्र॑ । दृह्य॑ । या॒म॒ऽको॒शाः । अ॒भू॒व॒न् । य॒ज्ञाय॑ । शि॒क्ष॒ । गृ॒ण॒ते । सखि॑ऽभ्यः ।

दुः॒ऽमा॒यवः॑ । दुः॒ऽएवाः॑ । मर्त्या॑सः । नि॒ष॒ङ्गिणः॑ । रि॒पवः॑ । हन्त्वा॑सः ॥१५

इन्द्र । दृह्य । यामऽकोशाः । अभूवन् । यज्ञाय । शिक्ष । गृणते । सखिऽभ्यः ।

दुःऽमायवः । दुःऽएवाः । मर्त्यासः । निषङ्गिणः । रिपवः । हन्त्वासः ॥१५

हे “इन्द्र “दृह्य दृढो भव। यतः “यामकोशाः। यान्त्यस्मिन्निति यामो मार्गः । तस्य कोशाः कोशवदाच्छादकाः मार्गप्रतिबन्धका राक्षसाः “अभूवन् । त्वं “यज्ञाय यज्ञकर्त्रे “गृणते स्तोत्रं कुर्वते यजमानाय “सखिभ्यः पुत्रादिभ्यश्च “शिक्ष अपेक्षितं फलं दत्स्व । “दुर्मायवः । दुष्टमायुधानि मिन्वन्ति प्रक्षिपन्तीति दुर्मायवः । “दुरेवाः दुष्टं गच्छन्तः “मर्त्यासः मारयितारः निषङ्गिणः । निषङ्गशब्देन इषुधिरभिधीयते । तद्वन्तः । एवंविधसामर्थ्योपेताः “रिपवः शत्रवो राक्षसाः 'हन्त्वासः त्वया हननीयाः ॥ दृह्य । ‘दृह दृहि वृह वृहि वृद्धौ'। व्यत्ययेन श्यन् । लोटि रूपम् । नित्स्वरः । अभूवन् ।' भू सत्तायाम् । अस्य लुङि रूपम् । ‘गातिस्था' इति सिचो लुक्। ‘भूसुवोस्तिङि' इति गुणे प्रतिषिद्धे ‘भुवो वुग्लुङलिटोः' इति वुगागमः । निघातः । शिक्ष। ' शिक्ष विद्योपादाने'। अयं धातुरत्र दाने वर्तते । व्यत्ययेन परस्मैपदम्। निघातः। दुर्मायवः । मिनोतेः ‘कृवापाजिमि' इत्यादि। उण्प्रत्ययः । कृदुत्तरपदस्वरः । दुरेवाः । ‘इण् गतौ ' । ‘इण्शीङ्भ्यां वन्' इति कर्तरि वन्प्रत्ययः । रिपवः ।' रपेरिच्चोपधायाः' इत्युप्रत्ययः । उपधाया इत्वम् । प्रत्ययस्वरः । हन्त्वासः । ‘हन हिंसागत्योः'। ‘कृत्यार्थे तवैकेन्केन्यत्वनः' इति त्वन् । नित्त्वादाद्युदात्तः ॥ ॥ ३ ॥


सं घोषः॑ शृण्वेऽव॒मैर॒मित्रै॑र्ज॒ही न्ये॑ष्व॒शनिं॒ तपि॑ष्ठाम् ।

वृ॒श्चेम॒धस्ता॒द्वि रु॑जा॒ सह॑स्व ज॒हि रक्षो॑ मघवन्र॒न्धय॑स्व ॥१६

सम् । घोषः॑ । शृ॒ण्वे॒ । अ॒व॒मैः । अ॒मित्रैः॑ । ज॒हि । नि । ए॒षु॒ । अ॒शनि॑म् । तपि॑ष्ठाम् ।

वृ॒श्च । ई॒म् । अ॒धस्ता॑त् । वि । रु॒ज॒ । सह॑स्व । ज॒हि । रक्षः॑ । म॒घ॒ऽव॒न् । र॒न्धय॑स्व ॥१६

सम् । घोषः । शृण्वे । अवमैः । अमित्रैः । जहि । नि । एषु । अशनिम् । तपिष्ठाम् ।

वृश्च । ईम् । अधस्तात् । वि । रुज । सहस्व । जहि । रक्षः । मघऽवन् । रन्धयस्व ॥१६

हे इन्द्र “अवमैः समीपे वर्तमानैः “अमित्रैः शत्रुभिरसुरैरुत्सृष्टो योऽशनिः “घोषः घुष्यमाणः “सं “शृण्वे सम्यगस्माभिः श्रूयते “तपिष्ठाम् अतिशयेन तापिकां ताम् “अशनिम् “एषु शत्रुष्वेव निधाय "जहि मारय । तैः प्रयुक्तामशनिं तानेव प्रापयेति भावः । "ईम् एनान् शत्रून् "अधस्तात् मूलतः “वृश्च छिन्धि । किंच “वि "रुज तान् विशेषेण बाधस्व "सहस्व अभिभव च । हे "मघवन् इन्द्र "रक्षः कर्मविघ्नकारीणि रक्षांसि "जहि मारय । अनन्तरमिमं यज्ञं "रन्धयस्व पारं नय॥ शृण्वे। निघातः । जहि । ‘हन हिंसागत्योः'। अस्य लोटि रूपम् । अशनिम्।' अशू व्याप्तौ ।' अश्यवितॄभ्योऽनिः' इत्यनिप्रत्ययः। प्रत्ययस्वरः । तपिष्ठाम् । तप्तृशब्दादिष्ठन्प्रत्ययः । नित्स्वरः। वृश्च । ‘ओव्रश्चू छेदने' । तुदादिः । ग्रहिज्यादिना संप्रसारणम् । सहस्व। वाक्यभेदादनिघातः । रन्धयस्व। 'रध हिंसासंराद्धयोः' इत्यस्य ण्यन्तस्य लोटि • रधिजभोरचि' इति नुमागमः । वाक्यभेदादनिघातः ॥


उद्वृ॑ह॒ रक्षः॑ स॒हमू॑लमिन्द्र वृ॒श्चा मध्यं॒ प्रत्यग्रं॑ शृणीहि ।

आ कीव॑तः सल॒लूकं॑ चकर्थ ब्रह्म॒द्विषे॒ तपु॑षिं हे॒तिम॑स्य ॥१७

उत् । वृ॒ह॒ । रक्षः॑ । स॒हऽमू॑लम् । इ॒न्द्र॒ । वृ॒श्च । मध्य॑म् । प्रति॑ । अग्र॑म् । शृ॒णी॒हि॒ ।

आ । कीव॑तः । स॒ल॒लूक॑म् । च॒क॒र्थ॒ । ब्र॒ह्म॒ऽद्विषे॑ । तपु॑षिम् । हे॒तिम् । अ॒स्य॒ ॥१७

उत् । वृह । रक्षः । सहऽमूलम् । इन्द्र । वृश्च । मध्यम् । प्रति । अग्रम् । शृणीहि ।

आ । कीवतः । सललूकम् । चकर्थ । ब्रह्मऽद्विषे । तपुषिम् । हेतिम् । अस्य ॥१७

हे “इन्द्र “रक्षः कर्मविघ्नकारि रक्षःकुलं “सहमूलं मूलसहितं यथा भवति तथा “उद्वृह उद्धर । किंच “मध्यं तस्य मध्यभागं “वृश्च छिन्धि । प्रत्यग्रम् अग्रं प्रत्यागतं तत् “शृणीहि जहि । तस्य रक्षःकुलस्य मध्ये “सललूकं सरणशीलं रक्षः “आ “कीवतः । ‘आङ् मर्यादायाम् ' । कियतः अनिर्ज्ञायमानपरिमाणात् अतिदूराद्देशात् 'चकर्थ कुरु । कृत्वा च “ब्रह्मद्विषे ब्राह्मणद्वेषकारिणे तस्मै रक्षसे “तपुषिं तापकं “हेतिं घातकमायुधं “अस्य क्षिप । उक्तमर्थं यास्कोऽब्रवीत्-‘उद्धर रक्षः सहमूलमिन्द्र। मूलं मोचनाद्वा मोषणाद्वा मोहनाद्वा। वृश्च मध्यं प्रति शृणीह्यग्रम् । अग्रमागतं भवति । अ कियतो देशात्सललूकं सल्लुँब्धं भवति पापकमिति नैरुक्ताः सररूकं वा स्यात्सर्तेरभ्यस्तात् । तपुषिस्तपतेर्हेतिर्हन्तेः ' ( निरु. ६. ३ ) इति ॥ वृह । ‘वृहू उद्यमने ' इत्यस्य लोटि रूपम् । शृणीहि । ' शॄ हिंसायाम् । अस्य लोटि हौ ‘ई हल्यघोः' इतीदम्। निघातः । कीवतः । किंशब्दात् किं परिमाणमस्येत्यर्थे ' किमिदंभ्यां वो घः' इति किंशब्दात् वतुबरतीति ज्ञापितत्वात् वतुप् । घादेशाभावश्छान्दसः । इदंकिमोरीदकी ' इति की इत्यादेशः । सल्लूकम् । ‘सृ गतौ' । छान्दसी रूपसिद्धिः । चकर्थ । ' डुकृञ् करणे' इत्यस्य लिटि थलि रूपम् । क्रादित्वादिडभावः । निघातः । तपुषिम् । “तप संतापे ' इत्यस्मात् ‘अर्तिपॄवपियजितनिधनितपिभ्यो नित्' इत्युसिप्रत्ययो निच्च । अकारस्य इकारश्छान्दसः । नित्स्वरः । हेतिम् । ‘हन हिंसागत्योः' । 'उतियूतिजूतिसाति ' इत्यादिना निपातनादन्तोदात्तः । अस्य । असु क्षेपणे ' । लोटि रूपम् ॥


स्व॒स्तये॑ वा॒जिभि॑श्च प्रणेत॒ः सं यन्म॒हीरिष॑ आ॒सत्सि॑ पू॒र्वीः ।

रा॒यो व॒न्तारो॑ बृह॒तः स्या॑मा॒स्मे अ॑स्तु॒ भग॑ इन्द्र प्र॒जावा॑न् ॥१८

स्व॒स्तये॑ । वा॒जिऽभिः॑ । च॒ । प्र॒ने॒त॒रिति॑ प्रऽनेतः । सम् । यत् । म॒हीः । इषः॑ । आ॒ऽसत्सि॑ । पू॒र्वीः ।

रा॒यः । व॒न्तारः॑ । बृ॒ह॒तः । स्या॒म॒ । अ॒स्मे इति॑ । अ॒स्तु॒ । भगः॑ । इ॒न्द्र॒ । प्र॒जाऽवा॑न् ॥१८

स्वस्तये । वाजिऽभिः । च । प्रनेतरिति प्रऽनेतः । सम् । यत् । महीः । इषः । आऽसत्सि । पूर्वीः ।

रायः । वन्तारः । बृहतः । स्याम । अस्मे इति । अस्तु । भगः । इन्द्र । प्रजाऽवान् ॥१८

“प्रणेतः प्रकर्षेण जगतो निर्वाहक हे "इन्द्र अस्मान् “वाजिभिः अश्वैः सहितान् कुरु “स्वस्तये “च अविनाशाय कुरु । “यत् यदा त्वं “सम् "आसत्सि अस्माकं समीपे यज्ञनिर्वाहार्थमासीदसि तदा वयं “महीः महान्ति “इषः अन्नानि “पूर्वीः प्रभूतानि “रायः धनानि “वन्तारः तेषां संभक्तारः सन्तः "बृहतः महान्तः “स्याम भवेम । किंच "प्रजावान् अपत्योपेतं "भगः धनम् “अस्मे अस्मासु “अस्तु भवतु ॥ आसत्सि । षद्लृ विशरणादिषु । ‘बहुलं छन्दसि' इति शपो लुक् । यद्योगादनिघातः । इषो राय इति च द्वे षष्ट्यर्थे द्वितीये । वन्तारः। ‘वन षण संभक्तौ ' इत्यस्य तृचि आगमानुशासनस्य अनित्यत्वादिडभावः । चित्स्वरः । स्याम। ' अस भुवि ' इत्यस्य लिङि रूपम् । अस्मे । अस्मच्छब्दस्य सप्तम्याः ‘सुपां सुलुक् ' इति शे इत्यादेशः ॥


आ नो॑ भर॒ भग॑मिन्द्र द्यु॒मन्तं॒ नि ते॑ दे॒ष्णस्य॑ धीमहि प्ररे॒के ।

ऊ॒र्व इ॑व पप्रथे॒ कामो॑ अ॒स्मे तमा पृ॑ण वसुपते॒ वसू॑नाम् ॥१९

आ । नः॒ । भ॒र॒ । भग॑म् । इ॒न्द्र॒ । द्यु॒ऽमन्त॑म् । नि । ते॒ । दे॒ष्णस्य॑ । धी॒म॒हि॒ । प्र॒ऽरे॒के ।

ऊ॒र्वःऽइ॑व । प॒प्र॒थे॒ । कामः॑ । अ॒स्मे इति॑ । तम् । आ । पृ॒ण॒ । व॒सु॒ऽप॒ते॒ । वसू॑नाम् ॥१९

आ । नः । भर । भगम् । इन्द्र । द्युऽमन्तम् । नि । ते । देष्णस्य । धीमहि । प्रऽरेके ।

ऊर्वःऽइव । पप्रथे । कामः । अस्मे इति । तम् । आ । पृण । वसुऽपते । वसूनाम् ॥१९

हे "इन्द्र “नः अस्मदर्थं “द्युमन्तं दीप्तियुक्तं “भगं धनम् “आ “भर आ समन्तात् संभर । "देष्णस्य दानशीलस्य “ते तव संबन्धिनो धनस्य "प्ररेके प्ररेचने दाने “नि “धीमहि धनदानस्य वयं पात्रभूताः स्म इत्यर्थः । कुत इत्यत आह । "अस्मे अस्माकं “कामः अभिलाषः “ऊर्वइव अनवाप्तकामो वडवानल इव “पप्रथे प्रभूतो वर्तते । “वसूनां “वसुपते धनानां मध्ये उत्तमधनानामधिपते हे इन्द्र "तं महान्तं कामम् "आ "पृण बहुधनप्रदानेनापूरय ॥ भर । 'भृञ् भरणे' इत्यस्य लोटि रूपम् । देष्णस्य । ‘डुदाञ् दाने '। 'गादाभ्यामिष्णुच् ' इतीष्णुच्प्रत्ययः । अत्यर्थं ददातीति देष्णः । चित्स्वरः । धीमहि । दधातेर्लिङि ' बहुलं छन्दसि' इति शपो लुक् ।' छन्दस्युभयथा ' इति महिङः सार्वधातुकत्वात् सीयुटः सलोपः। आर्धधातुकत्वात् आतो लोपः । निघातः । ऊर्व इव । पूर्वपदस्वरः । पप्रथे । ‘प्रथ प्रख्याने' इत्यस्य लिटि रूपम्। पृण। 'पृण प्रीणने' इत्यस्य लोटि सेर्हिः । तुदादिः। अतो हेः' इति हेर्लुक् । वसूनाम् । नित्त्वादाद्युदात्तः ॥


इ॒मं कामं॑ मन्दया॒ गोभि॒रश्वै॑श्च॒न्द्रव॑ता॒ राध॑सा प॒प्रथ॑श्च ।

स्व॒र्यवो॑ म॒तिभि॒स्तुभ्यं॒ विप्रा॒ इन्द्रा॑य॒ वाहः॑ कुशि॒कासो॑ अक्रन् ॥२०

इ॒मम् । काम॑म् । म॒न्द॒य॒ । गोभिः॑ । अश्वैः॑ । च॒न्द्रऽव॑ता । राध॑सा । प॒प्रथः॑ । च॒ ।

स्वः॒ऽयवः॑ । म॒तिऽभिः॑ । तुभ्य॑म् । विप्राः॑ । इन्द्रा॑य । वाहः॑ । कु॒शि॒कासः॑ । अ॒क्र॒न् ॥२०

इमम् । कामम् । मन्दय । गोभिः । अश्वैः । चन्द्रऽवता । राधसा । पप्रथः । च ।

स्वःऽयवः । मतिऽभिः । तुभ्यम् । विप्राः । इन्द्राय । वाहः । कुशिकासः । अक्रन् ॥२०

हे इन्द्र “इमं धनादिविषयं “कामम् अस्मदीयमभिलाषं “गोभिः अग्निहोत्रादिकर्मसाधनभूतैर्गवादिभिर्वाहनसाधनभूतैः “अश्वैः च “चन्द्रवता दीप्तियुक्तेन "राधसा धनेन च “मन्दय । एतानि दत्त्वा इममभिलाषं पूरय । किंच । एतैरस्मान् "पप्रथः प्रथितांश्च कुरु । पश्चात् “स्वर्यवः स्वर्गादिसुखमात्मन इच्छन्तः “विप्राः कर्मकुशलाः “कुशिकासः कुशिकाः "मतिभिः मननीयैर्मन्त्रैः “वाहः स्तोत्रम् “इन्द्राय “तुभ्यम् "अक्रन् अकार्षुः ॥ मन्दय । मदि स्तुत्यादिष्वित्यस्य लोटि रूपम् । गोभिः ।' सावेकाचः' इति विभक्तेरुदात्तत्वे प्राप्ते ‘न गोश्वन्साववर्ण° ' इत्यादिना प्रतिषेधः । प्रकृतिस्वरः । पप्रथः ।' प्रथ प्रख्यानै '। क्विप् । 'छन्दस्युभयथा' इति तस्य सार्वधातुकत्वात् शप् । तस्य ' बहुलं छन्दसि' इति श्लुः । धातुस्वरः । अक्रन् । करोतेर्लुङि ‘मन्त्रे घसह्वर इत्यादिना लुक् । निघातः ॥


आ नो॑ गो॒त्रा द॑र्दृहि गोपते॒ गाः सम॒स्मभ्यं॑ स॒नयो॑ यन्तु॒ वाजाः॑ ।

दि॒वक्षा॑ असि वृषभ स॒त्यशु॑ष्मो॒ऽस्मभ्यं॒ सु म॑घवन्बोधि गो॒दाः ॥२१

आ । नः॒ । गो॒त्रा । द॒र्दृ॒हि॒ । गो॒ऽप॒ते॒ । गाः । सम् । अ॒स्मभ्य॑म् । स॒नयः॑ । य॒न्तु॒ । वाजाः॑ ।

दि॒वक्षाः॑ । अ॒सि॒ । वृ॒ष॒भ॒ । स॒त्यऽशु॑ष्मः । अ॒स्मभ्य॑म् । सु । म॒घ॒ऽव॒न् । बो॒धि॒ । गो॒ऽदाः ॥२१

आ । नः । गोत्रा । दर्दृहि । गोऽपते । गाः । सम् । अस्मभ्यम् । सनयः । यन्तु । वाजाः ।

दिवक्षाः । असि । वृषभ । सत्यऽशुष्मः । अस्मभ्यम् । सु । मघऽवन् । बोधि । गोऽदाः ॥२१

“गोपते स्वर्गाधिपते हे इन्द्र “नः अस्मदर्थं “गोत्रा गोत्राण्यभ्राणि "गाः अपः प्रति “आ “दर्दृहि आद्रियस्व । अभ्राणि विदीर्य जलानि प्रापयेत्यर्थ । ततः “सनयः संभजनीयानि “वाजाः अन्नानि “अस्मभ्यम् अस्मदर्थं "सं "यन्तु समागच्छन्तु । “वृषभ कामानां वर्षितर्हे इन्द्र त्वं “दिवक्षाः “असि दिवं व्याप्य वर्तमानत्वेन महानसि । अत एव “सत्यशुष्मः सत्यसामर्थ्यः “मघवन् धनवन् हे इन्द्र “अस्मभ्यं “गोदाः गवां प्रदाता भवामीति "सु “बोधि सुष्ठु बुध्यस्व ॥ दर्दृहि ।' दृङ् आदरे ' । यङ्लुकि लोटि रूपम् । 'ऋतश्च ' ( पा. सू. ७. ४. ९२ ) इत्यभ्यासस्य रुगागमः । निघातः । गाः । ' औतोऽम्शसोः ' ( पा. सू. ६. १. ९३ ) इत्योकारस्याकारः । एकादेशस्वरः । अस्मभ्यम् । ‘भ्यसो भ्यम्' इति चतुथींबहुवचनस्य भ्यमादेशः । यन्तु ।“ इण गतौ । लोटि रूपम् । दिवक्षाः । ‘अक्षू व्याप्तौ ' । असुन् । दिवं व्याप्नोतीति दिवक्षाः। कृदुत्तरपदस्वरः। गोदाः । ‘डुदाञ् दाने '। अस्मात् विच् । कृदुत्तरपदस्वरः ॥


शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।

शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ॥२२

शु॒नम् । हु॒वे॒म॒ । म॒घऽवा॑नम् । इन्द्र॑म् । अ॒स्मिन् । भरे॑ । नृऽत॑मम् । वाज॑ऽसातौ ।

शृ॒ण्वन्त॑म् । उ॒ग्रम् । ऊ॒तये॑ । स॒मत्ऽसु॑ । घ्नन्त॑म् । वृ॒त्राणि॑ । स॒म्ऽजित॑म् । धना॑नाम् ॥२२

शुनम् । हुवेम । मघऽवानम् । इन्द्रम् । अस्मिन् । भरे । नृऽतमम् । वाजऽसातौ ।

शृण्वन्तम् । उग्रम् । ऊतये । समत्ऽसु । घ्नन्तम् । वृत्राणि । सम्ऽजितम् । धनानाम् ॥२२

हे इन्द्र “वाजसातौ । वाजस्यान्नस्य सातिः लाभः यस्मिन् सोऽयं वाजसातिः तस्मिन् । “भरे। बिभ्रति जयलक्ष्मीमनेन योद्धार इति भरः संग्रामः। तस्मिन् संग्रामे “शुनं शूनम् उत्साहेन प्रवृद्धम् । यद्वा शुनमिति सुखनाम । सुखकरं “मघवानं धनवन्तम् अत एव इन्द्रं निरतिशयैश्वर्यसंपन्नं “नृतमं सर्वस्य जगतोऽतिशयेन नेतारं त्वां “हुवेम कुशिका वयं यज्ञार्थमाह्वयेम । तथा “शृण्वन्तम् अस्माभिः क्रियमाणां स्तुतिं शृण्वन्तम् “उग्रं शत्रूणां भयंकरं “समत्सु संग्रामेषु “वृत्राणि वृत्रोपलक्षितानि सर्वाणि रक्षांसि “घ्नन्तं हिंसन्तं “धनानां शत्रसंबन्धिनां “संजितं सम्यग्जेतारं त्वाम् “ऊतये रक्षणाय वयमाह्वयेम ॥ शुनम् ।‘टओश्वि गतिवृद्धयोः' इत्यस्य निष्ठायां यस्य विभाषा' इतीट्प्रतिषेधः। यजादित्वात् संप्रसारणम् । दीर्घाभावश्छान्दसः । प्रत्ययस्वरः । हुवेम । ह्वयतेः ‘बहुलं छन्दसि ' इति संप्रसारणे कृते शपो लुकि कृते च लिङि रूपम् । निघातः । भरे।' भृञ् भरणे'। करणे घः । वृषादित्वात् आद्युदात्तः । वाजसातौ । ‘षणु दाने'। भावे क्तिन् । 'जनसन' इत्यादिना अनुनासिकस्यात्वम् । बहुव्रीहौ पूर्वपदस्वरः। समत्सु । ‘अद भक्षणे'। संपूर्वात् क्विप् । संभक्षयन्ति योद्धॄणामायूंषीति समदः संग्रामाः। कृदुत्तरपदस्वरः । घ्नन्तम् । 'हन हिंसागत्योः' इत्यस्य शतरि ‘गमहन' इत्यादिना उपधालोपः । 'हो हन्तेः' इति कुत्वम्” । संजितम् ।' जि जये'। क्विप् तुक् ॥ ॥ ४ ॥


सम्पाद्यताम्

टिप्पणी

शुनं हुवेम मघवानमिन्द्रं अस्मिन्भरे नृतमं वाजसातौ।

श्रृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम्।। - ऋ. ३.३०.२२

अस्मिन् संग्रामे(भरे) वयं शुनं रूपी मघवानस्य इन्द्रस्य आह्वानं कुर्मः। कीदृशस्य इन्द्रस्य- अन्नस्य लाभार्थं(वाजसातौ) नृतमं(नेतारं – सायण)। संग्रामेषु(समत्सु) उग्रं शृण्वन्तं, वृत्राणि हिंसन्तं, धनानां सम्यग्जेतारं। पुराणेषु सार्वत्रिक रूपेण विश्वामित्रः कस्मिन्नपि आपत्त्यां शुनःमांसं खादितुमिच्छति। अयं शुनः अथवा शुनं किमस्ति। भौतिक जगतस्य शुनस्य विशेषता परेषां दुर्गुणानां दर्शनमस्ति। लोके कथनमस्ति यत् यं दुर्गुणं न कोपि द्रष्टुं समर्थः अस्ति, तं शुनः द्रष्टुं समर्थः अस्ति। अनेन कारणेन शुनः किंचिदपि विचित्रस्य दर्शनस्योपरि बुक्कति। वैदिक साहित्ये शुनस्य अर्थं शून्यं प्रतीयते। यदा वयं परेषां दोषाणां दर्शनं कुर्मः, तदा स्वचेतनायाः अन्तर्मुखीकरणं अपेक्षणीयं अस्ति। यदा चेतनायाः अन्तर्मुखीकरणं सफलं भविष्यति, तदा वयं उग्राणां स्थितीनां श्रवणे अपि समर्थाः भविष्यामः। सामान्य रूपेण, कस्मिन्नपि घटनामध्ये मम कोपि दोषो नास्ति, अन्यस्यैव दोषः अस्ति। अत्र उग्रं शब्दं स्वस्य दोषस्य दर्शने संकेतं करोति। अशान्तिः स्वस्य उग्रत्वकारणात् अस्ति, न अन्येभ्यः शापदानात्।

वैदिक साहित्ये चातुर्मासयागे त्रिषु मासेषु वैश्वदेव, वरुणप्रघास एवं साकमेध संज्ञकानां यागानां अनुष्ठानं भवति। चतुर्थे मासे शुनासीर यागस्य अनुष्ठानं भवति। अस्मिन् संदर्भे सार्वत्रिकं कथनं अस्ति – या वै देवानां श्रीरासीत् साकमेधैरीजानानां तच्छुनम्, अथ यः संवत्सरस्य प्रजितस्य रस आसीत्तत्सीरम् - शतपथ ब्राह्मणम् २.६.३.२ । अयं संकेतमस्ति यत् संसारे यदा वयं किंचित् कृत्यस्य आरम्भणं कुर्वामः, तदा तत् कृत्यं अति शुष्कं प्रतीयते। अयं शुनं स्थितिरस्ति। यदा साधनातः कृत्यस्य करणीयं रसपूर्णं भविष्यति, तदा अयं शुनासीरीयं भविष्यति।

मण्डल ३

सूक्तं ३.१

सूक्तं ३.२

सूक्तं ३.३

सूक्तं ३.४

सूक्तं ३.५

सूक्तं ३.६

सूक्तं ३.७

सूक्तं ३.८

सूक्तं ३.९

सूक्तं ३.१०

सूक्तं ३.११

सूक्तं ३.१२

सूक्तं ३.१३

सूक्तं ३.१४

सूक्तं ३.१५

सूक्तं ३.१६

सूक्तं ३.१७

सूक्तं ३.१८

सूक्तं ३.१९

सूक्तं ३.२०

सूक्तं ३.२१

सूक्तं ३.२२

सूक्तं ३.२३

सूक्तं ३.२४

सूक्तं ३.२५

सूक्तं ३.२६

सूक्तं ३.२७

सूक्तं ३.२८

सूक्तं ३.२९

सूक्तं ३.३०

सूक्तं ३.३१

सूक्तं ३.३२

सूक्तं ३.३३

सूक्तं ३.३४

सूक्तं ३.३५

सूक्तं ३.३६

सूक्तं ३.३७

सूक्तं ३.३८

सूक्तं ३.३९

सूक्तं ३.४०

सूक्तं ३.४१

सूक्तं ३.४२

सूक्तं ३.४३

सूक्तं ३.४४

सूक्तं ३.४५

सूक्तं ३.४६

सूक्तं ३.४७

सूक्तं ३.४८

सूक्तं ३.४९

सूक्तं ३.५०

सूक्तं ३.५१

सूक्तं ३.५२

सूक्तं ३.५३

सूक्तं ३.५४

सूक्तं ३.५५

सूक्तं ३.५६

सूक्तं ३.५७

सूक्तं ३.५८

सूक्तं ३.५९

सूक्तं ३.६०

सूक्तं ३.६१

सूक्तं ३.६२

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.३०&oldid=209097" इत्यस्माद् पुनः प्राप्तिः