← सूक्तं ३.४२ ऋग्वेदः - मण्डल ३
सूक्तं ३.४३
गाथिनो विश्वामित्रः
सूक्तं ३.४४ →
दे. इन्द्रः। त्रिष्टुप्।


आ याह्यर्वाङुप वन्धुरेष्ठास्तवेदनु प्रदिवः सोमपेयम् ।
प्रिया सखाया वि मुचोप बर्हिस्त्वामिमे हव्यवाहो हवन्ते ॥१॥
आ याहि पूर्वीरति चर्षणीराँ अर्य आशिष उप नो हरिभ्याम् ।
इमा हि त्वा मतय स्तोमतष्टा इन्द्र हवन्ते सख्यं जुषाणाः ॥२॥
आ नो यज्ञं नमोवृधं सजोषा इन्द्र देव हरिभिर्याहि तूयम् ।
अहं हि त्वा मतिभिर्जोहवीमि घृतप्रयाः सधमादे मधूनाम् ॥३॥
आ च त्वामेता वृषणा वहातो हरी सखाया सुधुरा स्वङ्गा ।
धानावदिन्द्रः सवनं जुषाणः सखा सख्युः शृणवद्वन्दनानि ॥४॥
कुविन्मा गोपां करसे जनस्य कुविद्राजानं मघवन्नृजीषिन् ।
कुविन्म ऋषिं पपिवांसं सुतस्य कुविन्मे वस्वो अमृतस्य शिक्षाः ॥५॥
आ त्वा बृहन्तो हरयो युजाना अर्वागिन्द्र सधमादो वहन्तु ।
प्र ये द्विता दिव ऋञ्जन्त्याताः सुसम्मृष्टासो वृषभस्य मूराः ॥६॥
इन्द्र पिब वृषधूतस्य वृष्ण आ यं ते श्येन उशते जभार ।
यस्य मदे च्यावयसि प्र कृष्टीर्यस्य मदे अप गोत्रा ववर्थ ॥७॥
शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ ।
शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥८॥


सायणभाष्यम्

‘आ याह्यर्वाङ्' इत्यष्टर्चं पञ्चमं सूक्तं वैश्वामित्रं त्रैष्टुभमैन्द्रम् । “ आ याह्यष्टौ ' इत्यनुक्रमणिका । दशरात्रे चतुर्थेऽहनि स्तोमवृद्धौ माध्यंदिने सवनेऽच्छावाकशस्त्रे स्तोमाभिशंसनार्थमिदं सूक्तम् । सूत्रितं च--- आ याह्यर्वाङित्यष्टर्चान्यावपेरन् ' ( आश्व. श्रौ. ७. १२ ) इति । महाव्रतेऽपि आवपनीयम् ।।


आ या॑ह्य॒र्वाङुप॑ वंधुरे॒ष्ठास्तवेदनु॑ प्र॒दिवः॑ सोम॒पेयं॑ ।

प्रि॒या सखा॑या॒ वि मु॒चोप॑ ब॒र्हिस्त्वामि॒मे ह॑व्य॒वाहो॑ हवंते ॥१

आ । या॒हि॒ । अ॒र्वाङ् । उप॑ । व॒न्धु॒रे॒ऽस्थाः । तव॑ । इत् । अनु॑ । प्र॒ऽदिवः॑ । सो॒म॒ऽपेय॑म् ।

प्रि॒या । सखा॑या । वि । मु॒च॒ । उप॑ । ब॒र्हिः । त्वाम् । इ॒मे । ह॒व्य॒ऽवाहः॑ । ह॒व॒न्ते॒ ॥१

आ । याहि । अर्वाङ् । उप । वन्धुरेऽस्थाः । तव । इत् । अनु । प्रऽदिवः । सोमऽपेयम् ।

प्रिया । सखाया । वि । मुच । उप । बर्हिः । त्वाम् । इमे । हव्यऽवाहः । हवन्ते ॥१

हे इन्द्र “वन्धुरेष्ठाः । वन्धुरशब्देन ईषाद्वयसंबन्धस्थानम् अभिधीयते । तेन तद्विशिष्टो रथो लक्ष्यते । तस्मिन् रथे तिष्ठंस्त्वम् “अर्वाङ् अस्मदभिमुखः सन् “आ अभिलक्ष्य “उप “याहि समीप अगच्छ। “प्रदिवः प्रत्नं पूर्वक्रमागतं “तवेत् तवैव संबन्धि “सोमपेयं सोमपानं त्वम् “अनु उद्दिश्य “प्रिया तव प्रियतमौ "सखाया समानख्यानावश्वौ “बर्हिः “उप बर्हिषः समीपे “वि “मुच विमुञ्च । “हव्यवाहः । हव्यं वहन्तीति हव्यवाहः। “इमे ऋत्विजः “त्वां “हवन्ते सोमपानार्थमाह्वयन्ति । तस्मात् आगच्छेति भावः ॥ वन्धुरेष्ठाः । तिष्ठतेर्विच् । तत्पुरुषे कृति वहुलम्' इति सप्तम्या अलुक् । प्रदिवः । सकारान्तमव्ययम् । सोमपेयम् ।' पा पाने ' इत्यस्य भावे ' अचो यत्' इति यत्प्रत्ययः । ‘ ईद्यति' इतीत्वम्। आर्धधातुकलक्षणो गुणः । ‘ यतोऽनावः' इत्याद्युदात्तत्वम् । समासे कृदुत्तरपदस्वरः । मुच । मुञ्चतेर्लोटि आगमानुशानस्यानित्यत्वान्नुमभावः ॥


आ या॑हि पू॒र्वीरति॑ चर्ष॒णीराँ अ॒र्य आ॒शिष॒ उप॑ नो॒ हरि॑भ्यां ।

इ॒मा हि त्वा॑ म॒तयः॒ स्तोम॑तष्टा॒ इंद्र॒ हवं॑ते स॒ख्यं जु॑षा॒णाः ॥२

आ । या॒हि॒ । पू॒र्वीः । अति॑ । च॒र्ष॒णीः । आ । अ॒र्यः । आ॒ऽशिषः॑ । उप॑ । नः॒ । हरि॑ऽभ्याम् ।

इ॒माः । हि । त्वा॒ । म॒तयः॑ । स्तोम॑ऽतष्टाः । इन्द्र॑ । हव॑न्ते । स॒ख्यम् । जु॒षा॒णाः ॥२

आ । याहि । पूर्वीः । अति । चर्षणीः । आ । अर्यः । आऽशिषः । उप । नः । हरिऽभ्याम् ।

इमाः । हि । त्वा । मतयः । स्तोमऽतष्टाः । इन्द्र । हवन्ते । सख्यम् । जुषाणाः ॥२

हे "इन्द्र “पूर्वीः सर्वाः “चर्षणीः प्रजाः “अति “आ "याहि अतिक्रम्यागच्छ । द्वितीय आङ् पूरणः। “अर्यः अस्माकं स्वामी त्वं “नः “आशिषः त्वमत्रागत्य सोमं पिबेत्येवमादिका अस्माकं प्रार्थनाः “हरिभ्याम् अश्वाभ्यां युक्तः सन् “उप आगच्छ । किंच ते तव “सख्यं “जुषाणाः सेवमानाः “स्तोमतष्टाः स्तोमकारिभिः स्तोतृभिः कृताः “इमाः “मतयः स्तुतयः “हवन्ते सोमपानार्थं “त्वा त्वामाह्वयन्ति । “हि प्रसिद्धौ । करणे कर्तृव्यापारः । काष्ठानि पचन्तीतिवत्॥ आ । संहितायाम् आङोऽनुनासिकश्छन्दसि' इत्यनुनासिकः । अर्यः। ‘ऋ गतौ ।' अर्यः स्वामिवैश्ययोः' इति निपातनात् यत्प्रत्ययः । ‘ यतोऽनावः' इत्याद्युदात्तत्वे प्राप्ते अर्यस्य स्वाम्याख्या चेत् ' ( फि. सू. १७ ) इत्यन्तोदात्तत्वम् । आशिषः । क्विपि ' शास इदङ्हलोः' इत्युपधाया इत्वम् । ‘ शासिवसिघसीनां च ' इति षत्वम् । स्तोमतष्टाः। ‘तक्षू त्वक्षू तनूकरणे' इत्यस्मात् कर्मणि क्तः । तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरः॥


आ नो॑ य॒ज्ञं न॑मो॒वृधं॑ स॒जोषा॒ इंद्र॑ देव॒ हरि॑भिर्याहि॒ तूयं॑ ।

अ॒हं हि त्वा॑ म॒तिभि॒र्जोह॑वीमि घृ॒तप्र॑याः सध॒मादे॒ मधू॑नां ॥३

आ । नः॒ । य॒ज्ञम् । न॒मः॒ऽवृध॑म् । स॒ऽजोषाः॑ । इन्द्र॑ । दे॒व॒ । हरि॑ऽभिः । या॒हि॒ । तूय॑म् ।

अ॒हम् । हि । त्वा॒ । म॒तिऽभिः॑ । जोह॑वीमि । घृ॒तऽप्र॑याः । स॒ध॒ऽमादे॑ । मधू॑नाम् ॥३

आ । नः । यज्ञम् । नमःऽवृधम् । सऽजोषाः । इन्द्र । देव । हरिऽभिः । याहि । तूयम् ।

अहम् । हि । त्वा । मतिऽभिः । जोहवीमि । घृतऽप्रयाः । सधऽमादे । मधूनाम् ॥३

“देव द्योतमान हे “इन्द्र “नः अस्माकं “नमोवृधं नमसोऽन्नस्य वर्धकमिमं “यज्ञं “हरिभिः अश्वैः “सजोषाः सहप्रीतिः त्वं “तूयं क्षिप्रम् “आ “याहि । “घृतप्रयाः । घृतसहितानि प्रयांस्यन्नरूपाणि हवींषि यस्य स तथोक्तः । तादृशः “अहं “मधूनां सोमानां “सधमादे । सह माद्यन्ति यत्र सोमे इति सधमादः । तस्मिन् स्थाने “मतिभिः स्तुतिभिः “त्वा त्वां “जोहवीमि “हि भृशमाह्वयामि खलु ॥ जोहवीमि । यङ्लुकि ‘ अभ्यस्तस्य च ' इति संप्रसारणम् । गुणो यङलुकोः इत्यभ्यासस्य गुणः । ‘ यङो वा ' इतीडागमः । हियोगादनिघातः । ‘ अभ्यस्तानामादिः । इत्याद्युदात्तः । घृतप्रयाः । “घृ क्षरणदीप्त्योः' इत्यस्मात् “अञ्जिघृसिभ्यः क्तः' इति क्तप्रत्ययः । बहुव्रीहौ पूर्वपदस्वरः ॥


आ च॒ त्वामे॒ता वृष॑णा॒ वहा॑तो॒ हरी॒ सखा॑या सु॒धुरा॒ स्वंगा॑ ।

धा॒नाव॒दिंद्रः॒ सव॑नं जुषा॒णः सखा॒ सख्युः॑ शृणव॒द्वंद॑नानि ॥४

आ । च॒ । त्वाम् । ए॒ता । वृष॑णा । वहा॑तः । हरी॒ इति॑ । सखा॑या । सु॒ऽधुरा॑ । सु॒ऽअङ्गा॑ ।

धा॒नाऽव॑त् । इन्द्रः॑ । सव॑नम् । जु॒षा॒णः । सखा॑ । सख्युः॑ । शृ॒ण॒व॒त् । वन्द॑नानि ॥४

आ । च । त्वाम् । एता । वृषणा । वहातः । हरी इति । सखाया । सुऽधुरा । सुऽअङ्गा ।

धानाऽवत् । इन्द्रः । सवनम् । जुषाणः । सखा । सख्युः । शृणवत् । वन्दनानि ॥४

हे इन्द्र “वृषणा सेचनसमर्थौ “सुधुरा शोभनया धुरान्वितौ “स्वङ्गा शोभनावयवोपेतौ “सखाया शोभनख्यानौ “एता एतौ “हरी “त्वाम् “आ “वहात: यज्ञं प्रत्यागमनाय रथे त्वामावहतः । अथ “धानावत् भृष्टयवोपेतं “सवनं “जुषाणः सेवमानः “सखा सखिभूतः सः “इन्द्रः “सख्युः स्तोतुर्मम “वन्दनानि स्तोत्राणि “शृणवत् "च शृणुयात् ॥ वहातः । वहेर्लेट्याडागमे रूपम् । ‘ चवायोगे प्रथमा' इति न निघातः । शृणवत् । ‘श्रु श्रवणे' इत्यस्य लेट्यडागमे रूपम् । निघातः॥


कु॒विन्मा॑ गो॒पां कर॑से॒ जन॑स्य कु॒विद्राजा॑नं मघवन्नृजीषिन् ।

कु॒विन्म॒ ऋषिं॑ पपि॒वांसं॑ सु॒तस्य॑ कु॒विन्मे॒ वस्वो॑ अ॒मृत॑स्य॒ शिक्षाः॑ ॥५

कु॒वित् । मा॒ । गो॒पाम् । कर॑से । जन॑स्य । कु॒वित् । राजा॑नम् । म॒घ॒ऽव॒न् । ऋ॒जी॒षि॒न् ।

कु॒वित् । मा॒ । ऋषि॑म् । प॒पि॒ऽवांस॑म् । सु॒तस्य॑ । कु॒वित् । मे॒ । वस्वः॑ । अ॒मृत॑स्य । शिक्षाः॑ ॥५

कुवित् । मा । गोपाम् । करसे । जनस्य । कुवित् । राजानम् । मघऽवन् । ऋजीषिन् ।

कुवित् । मा । ऋषिम् । पपिऽवांसम् । सुतस्य । कुवित् । मे । वस्वः । अमृतस्य । शिक्षाः ॥५

हे इन्द्र “कुवित् अपि च “मा मां "जनस्य “गोपां गोप्तारं "करसे कुरु । तथा हे “मघवन् धनवन् “ऋजीषिन् सोमवन् हे इन्द्र मां “राजानं सर्वस्य स्वामिनं कुरु । “कुवित् च “मा माम् “ऋषिम् अतीन्द्रियार्थस्य द्रष्टारं कुरु । ‘ ऋषिर्दर्शनात् ' ( निरु. २. ११ ) इति यास्कः । तथा “सुतस्य अभिषुतस्य सोमस्य “पपिवांसं पातारं कुरु । अपि च “मे मह्यम् "अमृतस्य क्षयरहितं “वस्वः वसु "शिक्षाः प्रयच्छ ॥ करसे ।' कृञ् करणे'। लेट्यडागमे रूपम् । कुविद्योगादनिघातः । म ऋषिम् इत्यत्र संहितायाम् ‘ ऋत्यकः' इति प्रकृतिभावो ह्रस्वश्च । पपिवांसम् । 'पा पाने ' इत्यस्य क्वसौ ‘वस्वेकाजाद्धसाम्' इतीडागमः । प्रत्ययस्वरः । शिक्षाः । शिक्षतिर्दानकर्मा । अस्मात् लेट्याडागमे रूपम् । कुविद्योगादनिघातः । आगमा अनुदात्ताः' इत्याटोऽनुदात्तत्वे धातुस्वरः ॥


आ त्वा॑ बृ॒हंतो॒ हर॑यो युजा॒ना अ॒र्वागिं॑द्र सध॒मादो॑ वहंतु ।

प्र ये द्वि॒ता दि॒व ऋ॒ञ्जन्त्याताः॒ सुस॑म्मृष्टासो वृष॒भस्य॑ मू॒राः ॥६

आ । त्वा॒ । बृ॒हन्तः॑ । हर॑यः । यु॒जा॒नाः । अ॒र्वाक् । इ॒न्द्र॒ । स॒ध॒ऽमादः॑ । व॒ह॒न्तु॒ ।

प्र । ये । द्वि॒ता । दि॒वः । ऋ॒ञ्जन्ति॑ । आताः॑ । सुऽस॑म्मृष्टासः । वृ॒ष॒भस्य॑ । मू॒राः ॥६

आ । त्वा । बृहन्तः । हरयः । युजानाः । अर्वाक् । इन्द्र । सधऽमादः । वहन्तु ।

प्र । ये । द्विता । दिवः । ऋञ्जन्ति । आताः । सुऽसम्मृष्टासः । वृषभस्य । मूराः ॥६

हे “इन्द्र “त्वा त्वां "बृहन्तः महान्तः "युजानाः रथे युज्यमानाः “हरयः अश्वाः “सधमादः सह मादयन्तः सन्तः “अर्वाक् अस्मदभिमुखम् “आ “वहन्तु । “वृषभस्य कामानां वर्षितुरिन्द्रस्य “मूराः शत्रूणां मारकाः “सुसंमृष्टासः इन्द्रस्य हस्ताभ्यां पृष्ठभागे सुष्ठु संस्पृष्टाः “दिवः नभसः सकाशादागच्छन्तः “ये अश्वाः “आताः । आभिमुख्येन गम्यन्ते प्राणिभिस्तत्तत्कार्यं प्रति इत्याताः दिशः । सर्वा दिशः “द्विता । द्विधा यथा भवति तथा “प्र “ऋञ्जन्ति प्रकर्षेण साधयन्ति ।। युजानाः । ‘युजिर् योगे' । 'युजिबुधिदृशः किच्च' ( उ. सू. २. २४७ ) इत्यानच् । चित्त्वादन्तोदात्तः । सधमादः । मदी हर्षे ' इत्यस्माप्प्यन्तात् क्विप् । कृदुत्तरपदस्वरः । द्विता । द्विशब्दात् “ संख्याया विधार्थे धा' इति धाप्रत्ययः । धकारस्य तकारश्छान्दसः । प्रत्ययस्वरः । दिवः । ‘ ऊडिदम् ' इति विभक्तेरुदात्तत्वम् । आताः । ‘ अत सातत्यगमने' इत्यस्मात् कर्मणि घञ् । व्यत्ययेनाद्युदात्तः ॥


इंद्र॒ पिब॒ वृष॑धूतस्य॒ वृष्ण॒ आ यं ते॑ श्ये॒न उ॑श॒ते ज॒भार॑ ।

यस्य॒ मदे॑ च्या॒वय॑सि॒ प्र कृ॒ष्टीर्यस्य॒ मदे॒ अप॑ गो॒त्रा व॒वर्थ॑ ॥७

इन्द्र॑ । पिब॑ । वृष॑ऽधूतस्य । वृष्णः॑ । आ । यम् । ते॒ । श्ये॒नः । उ॒श॒ते । ज॒भार॑ ।

यस्य॑ । मदे॑ । च्य॒वय॑सि । प्र । कृ॒ष्टीः । यस्य॑ । मदे॑ । अप॑ । गो॒त्रा । व॒वर्थ॑ ॥७

इन्द्र । पिब । वृषऽधूतस्य । वृष्णः । आ । यम् । ते । श्येनः । उशते । जभार ।

यस्य । मदे । च्यवयसि । प्र । कृष्टीः । यस्य । मदे । अप । गोत्रा । ववर्थ ॥७

हे “इन्द्र “वृषधूतस्य ग्रावभिरभिषुतं “वृष्णः अभिमतफलसेचकं सोमं “पिब । “श्येनः शंसनीयगतिः छन्दरूपः सुपर्णः “उशते सोमं कामयमानाय “ते तुभ्यं “यं सोमम् “आ “जभार आजहार । “यस्य सोमस्य “मदे हर्षे संजाते सति “कृष्टीः । आकर्षन्ति वशीकुर्वन्ति कर्मणा सर्वान् इति कृष्टयो मनुष्याः । तान् सपत्नभूतान मनुष्यान् “प्र “च्यावयसि प्रकर्षेण पातयसि । “यस्य सोमस्य “मदे संजाते सति “गोत्रा । गामुदकं रश्मिभिरावृतं वर्षावृतुषु त्रायन्ते पालयन्तीति गोत्रा मेघाः । तान् “अप “ववर्थ अपावृणोषि ॥ वृषधूतस्य । ‘ धूञ् कम्पने ' इत्यस्य निष्ठायां ' यस्य विभाषा 'इतीट्प्रतिषेधः । ‘ तृतीया कर्मणि' इति पूर्वपदस्वरः । श्येनः । ‘ श्यैङ् गतौ ।' शास्त्याहृञविभ्य इनच् ' ( उ. सू. २. २०४ ) इतीनच्प्रत्ययः । श्यायते इति श्येनः । चित्त्वादन्तोदात्तः । जभार । हरतेर्लिटि णलि रूपम् । “ हृग्रहोर्भश्छन्दसि ' इति भकारः । यद्वृत्तयोगादनिघातः । लित्व््रः । मदे। 'मदी हर्षे '। ‘ मदोऽनुपसर्गे 'इत्यप्प्रत्ययः । तस्य पित्त्वादनुदात्तत्वे धातुस्वरः । गोत्रा । ‘ त्रैङ् पालने ' इत्यस्य ‘ आतोऽनुपसर्गे कः' इति कः । सुपो डादेशः । एकादेशस्वरः । ववर्थ । ‘ वृञ् वरणे ' इत्यस्य” लिटि थलि • ऋतो भारद्वाजस्य ' इतीट्प्रतिषेधः । गुणः । लित्स्वरः ॥


शु॒नं हु॑वेम म॒घवा॑न॒मिंद्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।

शृ॒ण्वंत॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नंतं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नां ॥८

शु॒नम् । हु॒वे॒म॒ । म॒घऽवा॑नम् । इन्द्र॑म् । अ॒स्मिन् । भरे॑ । नृऽत॑मम् । वाज॑ऽसातौ ।

शृ॒ण्वन्त॑म् । उ॒ग्रम् । ऊ॒तये॑ । स॒मत्ऽसु॑ । घ्नन्त॑म् । वृ॒त्राणि॑ । स॒म्ऽजित॑म् । धना॑नाम् ॥८

शुनम् । हुवेम । मघऽवानम् । इन्द्रम् । अस्मिन् । भरे । नृऽतमम् । वाजऽसातौ ।

शृण्वन्तम् । उग्रम् । ऊतये । समत्ऽसु । घ्नन्तम् । वृत्राणि । सम्ऽजितम् । धनानाम् ॥८

‘ शुनं हुवेम' इत्येषा व्याख्याता ॥ ॥ ७ ॥

मण्डल ३

सूक्तं ३.१

सूक्तं ३.२

सूक्तं ३.३

सूक्तं ३.४

सूक्तं ३.५

सूक्तं ३.६

सूक्तं ३.७

सूक्तं ३.८

सूक्तं ३.९

सूक्तं ३.१०

सूक्तं ३.११

सूक्तं ३.१२

सूक्तं ३.१३

सूक्तं ३.१४

सूक्तं ३.१५

सूक्तं ३.१६

सूक्तं ३.१७

सूक्तं ३.१८

सूक्तं ३.१९

सूक्तं ३.२०

सूक्तं ३.२१

सूक्तं ३.२२

सूक्तं ३.२३

सूक्तं ३.२४

सूक्तं ३.२५

सूक्तं ३.२६

सूक्तं ३.२७

सूक्तं ३.२८

सूक्तं ३.२९

सूक्तं ३.३०

सूक्तं ३.३१

सूक्तं ३.३२

सूक्तं ३.३३

सूक्तं ३.३४

सूक्तं ३.३५

सूक्तं ३.३६

सूक्तं ३.३७

सूक्तं ३.३८

सूक्तं ३.३९

सूक्तं ३.४०

सूक्तं ३.४१

सूक्तं ३.४२

सूक्तं ३.४३

सूक्तं ३.४४

सूक्तं ३.४५

सूक्तं ३.४६

सूक्तं ३.४७

सूक्तं ३.४८

सूक्तं ३.४९

सूक्तं ३.५०

सूक्तं ३.५१

सूक्तं ३.५२

सूक्तं ३.५३

सूक्तं ३.५४

सूक्तं ३.५५

सूक्तं ३.५६

सूक्तं ३.५७

सूक्तं ३.५८

सूक्तं ३.५९

सूक्तं ३.६०

सूक्तं ३.६१

सूक्तं ३.६२

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.४३&oldid=400343" इत्यस्माद् प्रतिप्राप्तम्