प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← सूक्तं ३.१८ ऋग्वेदः - मण्डल ३
सूक्तं ३.१९
गाथी कौशिकः
सूक्तं ३.२० →
दे. अग्निः। त्रिष्टुप्


अग्निं होतारं प्र वृणे मियेधे गृत्सं कविं विश्वविदममूरम् ।
स नो यक्षद्देवताता यजीयान्राये वाजाय वनते मघानि ॥१॥
प्र ते अग्ने हविष्मतीमियर्म्यच्छा सुद्युम्नां रातिनीं घृताचीम् ।
प्रदक्षिणिद्देवतातिमुराणः सं रातिभिर्वसुभिर्यज्ञमश्रेत् ॥२॥
स तेजीयसा मनसा त्वोत उत शिक्ष स्वपत्यस्य शिक्षोः ।
अग्ने रायो नृतमस्य प्रभूतौ भूयाम ते सुष्टुतयश्च वस्वः ॥३॥
भूरीणि हि त्वे दधिरे अनीकाग्ने देवस्य यज्यवो जनासः ।
स आ वह देवतातिं यविष्ठ शर्धो यदद्य दिव्यं यजासि ॥४॥
यत्त्वा होतारमनजन्मियेधे निषादयन्तो यजथाय देवाः ।
स त्वं नो अग्नेऽवितेह बोध्यधि श्रवांसि धेहि नस्तनूषु ॥५॥


सायणभाष्यम्

‘अग्निं होतारम्' इति पञ्चर्चं सप्तमं सूक्तं त्रैष्टुभमाग्नेयं गाथिन आर्षम् । तथा चानुक्रान्तम्’ अग्निं होतारं गाथी ह' इति । प्रातरनुवाकाश्विनशस्त्रयोरुक्तो विनियोगः ॥


अ॒ग्निं होता॑रं॒ प्र वृ॑णे मि॒येधे॒ गृत्सं॑ क॒विं वि॑श्व॒विद॒ममू॑रं ।

स नो॑ यक्षद्दे॒वता॑ता॒ यजी॑यान्रा॒ये वाजा॑य वनते म॒घानि॑ ॥१

अ॒ग्निम् । होता॑रम् । प्र । वृ॒णे॒ । मि॒येधे॑ । गृत्स॑म् । क॒विम् । वि॒श्व॒ऽविद॑म् । अमू॑रम् ।

सः । नः॒ । य॒क्ष॒त् । दे॒वऽता॑ता । यजी॑यान् । रा॒ये । वाजा॑य । व॒न॒ते॒ । म॒घानि॑ ॥१

अग्निम् । होतारम् । प्र । वृणे । मियेधे । गृत्सम् । कविम् । विश्वऽविदम् । अमूरम् ।

सः । नः । यक्षत् । देवऽताता । यजीयान् । राये । वाजाय । वनते । मघानि ॥१

गाथी स्तौति । हे अग्ने “गृत्सं गृणन्तं देवानां स्तुतिं कुर्वन्तं “कविं मेधाविनं “विश्वविदं सर्वविषयज्ञानोपेतम् “अमूरम् अमूढम् “अग्निम् अङ्गनादिगुणोपेतं त्वां “मियेधे अस्माभिः क्रियमाणेऽस्मिन् यज्ञे “होतारं होमनिष्पादकं देवानामाह्वातारं वा अहं “प्र “वृणे प्रकर्षेण संभजे । “सः तथाविधोऽग्निः “यजीयान् यष्टृतमः सन् “नः अस्माकं “देवताता यष्टव्यतया संबन्धिनो देवान् "यक्षत् यजतु । किंच सोऽग्निः “राये धनाय “वाजाय अन्नाय च “मघानि मंहनीयान्यस्माभिर्दीयमानानि हवींषि “वनते संभजताम् । वृणे । “वृङ् संभक्तौ' । निघातः । मियेधे । मकारैकारयोर्मध्ये इयागमः छान्दसः । गृत्सम् । ‘गृधु अभिकाङ्क्षायाम्' ।' गृधिपण्योदर्कौ च ' ( उ. सू. २. ३४९ ) इति सप्रत्ययः । अन्त्यस्य दकारः । व्यत्ययेनाद्युदात्तत्वम् । अमूरम् । ‘मुह वैचित्ये' इत्यस्य निष्ठायां रूपम् । रेफश्छान्दसः । नञा समासे नञ्स्वरः। यक्षत् । यजेर्लेटि • सिब्बहुलं लेटि' इति सिप् । ‘ लेटोऽडाटौ ' इत्यडागमः । ‘ इतश्च लोपः० ' इतीकारलोपः । देवताता । देवशब्दात्स्वार्थे ‘ सर्वदेवात्तातिल' इति तातिल् ।' सुपां सुलुक्० ' इति सुपो डादेशः । लित्स्वरः । वनते । वन षण संभक्तौ ' इत्यस्य लटि व्यत्ययेनात्मनेपदम् । निघातः ॥


प्र ते॑ अग्ने ह॒विष्म॑तीमिय॒र्म्यच्छा॑ सुद्यु॒म्नां रा॒तिनीं॑ घृ॒ताचीं॑ ।

प्र॒द॒क्षि॒णिद्दे॒वता॑तिमुरा॒णः सं रा॒तिभि॒र्वसु॑भिर्य॒ज्ञम॑श्रेत् ॥२

प्र । ते॒ । अ॒ग्ने॒ । ह॒विष्म॑तीम् । इ॒य॒र्मि॒ । अच्छ॑ । सु॒ऽद्यु॒म्नाम् । रा॒तिनी॑म् । घृ॒ताची॑म् ।

प्र॒ऽद॒क्षि॒णित् । दे॒वऽता॑तिम् । उ॒रा॒णः । सम् । रा॒तिऽभिः॑ । वसु॑ऽभिः । य॒ज्ञम् । अ॒श्रे॒त् ॥२

प्र । ते । अग्ने । हविष्मतीम् । इयर्मि । अच्छ । सुऽद्युम्नाम् । रातिनीम् । घृताचीम् ।

प्रऽदक्षिणित् । देवऽतातिम् । उराणः । सम् । रातिऽभिः । वसुऽभिः । यज्ञम् । अश्रेत् ॥२

हे “अग्ने “सुद्युम्नां सुतेजसं “हविष्मतीं पुरोडाशादिहविर्युक्तां “रातिनीं हविर्दात्रीं “घृताचीं घृतान्वितां जुहूम् उपभृतं वा “ते तव “अच्छ त्वदाभिमुख्येन “प्र “इयर्मि प्रेरयामि । “देवतातिं देवान् “उराणः उरु बहु कुर्वाणः। ‘ उराण उरु कुर्वाणः ' (निरु.६.१७) इति यास्कः । तादृशो भवान् “रातिभिः “वसुभिः अस्मभ्यं देयतया प्राप्तैः धनैः “प्रदक्षिणित् प्रादक्षिण्येन "सम् “अश्रेत् तमिमं यज्ञं सम्यक् सेवताम् ॥ हविष्मतीम् । हविरस्यास्तीति मतुप् । 'तसौ मत्वर्थे ' इति भसंज्ञायां सकारस्य रुर्न भवति ।' उगितश्च ' इति ङीप् । ‘ स्वरविधौ व्यञ्जनमविद्यमानवत्' इति परिभाषानाश्रयणान्मतुप उदात्तताभावः । इयर्मि । ‘ऋ गतौ । जुहोत्यादिः । ‘ अर्तिपिपर्त्योश्च ' इत्यभ्यासस्येत्वम् । ‘ अभ्यासस्यासवर्णे ' इतीयङादेशः । मिपः पित्त्वाद्गुणः । निघातः । अच्छ । ' निपातस्य ' इति संहितायां दीर्घः। रातिनीम् । “ रा दाने ' इत्यस्य नपुंसके भावे क्तः । रातमस्यास्तीति ‘ अत इनिठनौ ' इतीनिः । प्रत्ययस्वरः । घृताचीम् । घृतपूर्वादञ्चतेः ‘ ऋत्विग्दधृक्' इत्यादिना क्विन् । ‘ अञ्चतेश्चौपसंख्यानम् ' इति ङीप् । भसंज्ञायाम् ‘अचः' इत्यकारलोपः । ‘ चौ' इति दीर्घः । उदात्तनिवृत्तिस्वरेण ङीप उदात्तत्वे प्राप्ते ‘ चौ' इति पूर्वपदान्तोदात्तः । प्रदक्षिणित् । प्रदक्षिणं करोतीति ‘ तत्करोति । इति णिजुत्पद्यमानो दक्षिणशब्दात् भवति । संग्रामयतेरेव सोपसर्गात् णिजुत्पत्तिर्नान्यस्मात् इति तदन्तात् क्विप् । ‘ ह्रस्वस्य पिति° ' (पा. सू. ६.१.७१) इति तुक् । णिचो लोपाभावश्छान्दसः । णिच्स्वरः । देवतातिम् । देवशब्दात् ‘ सर्वदेवात्तातिल् ' इति तातिल् । ‘लिति' इति प्रत्यात्पूर्वस्योदात्तत्वम् । उराणः । उरु करोतीति ' तत्करोति° ' इति णिच् । तदन्ताच्छन्दसि लिट् । मन्त्रत्वादाम् न भवति । तस्य कानच् । ' णेरनिटि ' इति णिलोपः । वरादेशाभावश्छान्दसः । चित्त्वादन्तोदात्तः । अश्रेत् । श्रिञ् सेवायाम् ' इत्यस्य छान्दसे लङि ‘ बहुलं छन्दसि ' इति शपो लुक् । निघातः ॥


स तेजी॑यसा॒ मन॑सा॒ त्वोत॑ उ॒त शि॑क्ष स्वप॒त्यस्य॑ शि॒क्षोः ।

अग्ने॑ रा॒यो नृत॑मस्य॒ प्रभू॑तौ भू॒याम॑ ते सुष्टु॒तय॑श्च॒ वस्वः॑ ॥३

सः । तेजी॑यसा । मन॑सा । त्वाऽऊ॑तः । उ॒त । शि॒क्ष॒ । सु॒ऽअ॒प॒त्यस्य॑ । शि॒क्षोः ।

अग्ने॑ । रा॒यः । नृऽत॑मस्य । प्रऽभू॑तौ । भू॒याम॑ । ते॒ । सु॒ऽस्तु॒तयः॑ । च॒ । वस्वः॑ ॥३

सः । तेजीयसा । मनसा । त्वाऽऊतः । उत । शिक्ष । सुऽअपत्यस्य । शिक्षोः ।

अग्ने । रायः । नृऽतमस्य । प्रऽभूतौ । भूयाम । ते । सुऽस्तुतयः । च । वस्वः ॥३

हे अग्ने “त्वोतः यः त्वया रक्ष्यमाणः “स “तेजीयसा अतिशयेन तीक्ष्णेन सत्कर्मविषयतीक्ष्णबुद्धियुक्तेन “मनसा अन्तःकरणेन युक्तो भवति । "उत अपि च तस्मै “स्वपत्यस्य । द्वितीयार्थे षष्ठी । शोभनापत्योपेतं धनं “शिक्ष प्रयच्छ । शिक्षतिर्दानकर्मा दात्यादिषु दानकर्मसु पठितत्वात् । हे “अग्ने “शिक्षोः अभिमतफलप्रदाने शकितुमिच्छोः "रायो नृतमस्य धनस्यातिशयेन नेतुर्दातुः “ते तव “प्रभूतौ प्रभावे महिम्नि वयं स्याम । किंच “सुष्टुतयः त्वद्विषयशोभनस्तुतिमन्तो वयं “वस्वः वसुनो भाजनं “भूयाम भूयास्म ॥ तेजीयसा । तेजितृशब्दादतिशायने ईयसुन् । ' तुरिष्ठेमेयःसु ' इति तृचो लोपः । नित्स्वरः । त्वोतः । अव रक्षणादिषु । निष्ठायां ‘ ज्वरत्वरस्रिव्यविमवामुपधायाः । इत्यूठ्' । पूर्वलोपः । त्वया ऊतः । ‘ तृतीया' इति योगविभागात्समासः । टेर्लोपश्छान्दसः । ‘ तृतीया कर्मणि ' इति पूर्वपदप्रकृतिस्वरः । शिक्ष । ‘ शिक्ष विद्योपादाने ' इत्ययमत्र दानार्थः । अस्माल्लोटि व्यत्ययेन परस्मैपदम् । शिक्षोः । ‘ शक्लृ शक्तौ ' इत्यस्य सनि “ एकाच उपदेशे ' इति इट्प्रतिषेधः । ‘ सनि मीमाघुरभलभशकपतपदामच इस्' इति धातोरच इसादेशः । ‘ अत्र लोपोऽभ्यासस्य ' इत्यभ्यासलोपः । ‘ सनाशंसभिक्ष उः' इत्युप्रत्ययः । प्रत्ययस्वरः । प्रभूतौ । ‘ भू सत्तायाम्' इत्यस्य भावे क्तिन् । ‘तादौ च निति कृत्यतौ' इति गतेः प्रकृतिस्वरत्वम् । भूयाम । ‘भू सत्तायाम्' इत्यस्याशीर्लिङि किदाशिषि ' इति यासुट् । छन्दस्युभयथा ' इति तस्य सार्वधातुकत्वात्सलोपः। आगमस्वरः । यद्वा तस्मात्प्रार्थनायां लिङि यासुट् । ‘बहुलं छन्दसि ' इति शपो लुक् । अनदन्तत्वादियादेशो न भवति । सुष्टुतयः । नञ्सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । वस्वः । आगमानुशासनस्यानित्यत्वात् नुमभावः । संज्ञापूर्वकस्य विधेरनित्यत्वाद्गुणाभावः । यणादेशः ॥


भूरी॑णि॒ हि त्वे द॑धि॒रे अनी॒काग्ने॑ दे॒वस्य॒ यज्य॑वो॒ जना॑सः ।

स आ व॑ह दे॒वता॑तिं यविष्ठ॒ शर्धो॒ यद॒द्य दि॒व्यं यजा॑सि ॥४

भूरी॑णि । हि । त्वे इति॑ । द॒धि॒रे । अनी॑का । अग्ने॑ । दे॒वस्य॑ । यज्य॑वः । जना॑सः ।

सः । आ । व॒ह॒ । दे॒वऽता॑तिम् । य॒वि॒ष्ठ॒ । शर्धः॑ । यत् । अ॒द्य । दि॒व्यम् । यजा॑सि ॥४

भूरीणि । हि । त्वे इति । दधिरे । अनीका । अग्ने । देवस्य । यज्यवः । जनासः ।

सः । आ । वह । देवऽतातिम् । यविष्ठ । शर्धः । यत् । अद्य । दिव्यम् । यजासि ॥४

हे "अग्ने "देवस्य द्योतमानस्य तव संबन्धिनः "यज्यवः यष्टारोऽध्वर्युप्रभृतयः "जनासः जनाः "भूरीणि बहूनि "अनीका अनीकानि सेनारूपतया सर्वत्र प्रसृतानि ज्वालारूपाणि तेजांस्याहुतिप्रक्षेपेण “त्वे त्वयि "दधिरे "हि विदधिरे खलु । चक्रुरिति यावत्। "सः तादृशस्त्वं "देवतातिं यष्टव्यदेवान् इह कर्मणि “आ “वह आह्वय। हे "यविष्ठ युवतम "यत् यस्मात्कारणात् "अद्य अस्मिन्कर्मणि “दिव्यं दिवि भवं देवसंबन्धि “शर्धः तेजः त्वं "यजासि यजसि तस्माद्देवानाह्वयेति शेषः ।। दधिरे । दुधातेर्लिटि रूपम् । हियोगादनिघातः । चित्त्वादन्तोदात्तः । यज्यवः। यज देवपूजादिषु । ‘ यजिमनिशुन्धिदसिजनिभ्यो युच् ' इति युच् । व्यत्ययेनाद्युदात्तत्वम् । देवतातिम् । देवशब्दात् स्वार्थे ‘ सर्वदेवात्तातिल्' इति तातिल् । 'लिति' इति प्रत्ययात्पूर्वस्योदात्तत्वम् । यजासि । यजेर्लेट्याडागमः । यद्योगादनिघातः ॥


यत्त्वा॒ होता॑रम॒नज॑न्मि॒येधे॑ निषा॒दयं॑तो य॒जथा॑य दे॒वाः ।

स त्वं नो॑ अग्नेऽवि॒तेह बो॒ध्यधि॒ श्रवां॑सि धेहि नस्त॒नूषु॑ ॥५

यत् । त्वा॒ । होता॑रम् । अ॒नज॑न् । मि॒येधे॑ । नि॒ऽसा॒दय॑न्तः । य॒जथा॑य । दे॒वाः ।

सः । त्वम् । नः॒ । अ॒ग्ने॒ । अ॒वि॒ता । इ॒ह । बो॒धि॒ । अधि॑ । श्रवां॑सि । धे॒हि॒ । नः॒ । त॒नूषु॑ ॥५

यत् । त्वा । होतारम् । अनजन् । मियेधे । निऽसादयन्तः । यजथाय । देवाः ।

सः । त्वम् । नः । अग्ने । अविता । इह । बोधि । अधि । श्रवांसि । धेहि । नः । तनूषु ॥५

हे "अग्ने "यजथाय यजनार्थं "निषादयन्तः निवसन्तः “देवाः दीप्यमाना ऋत्विजः “मियेधे मेधे यज्ञे "होतारं देवानामाह्वातारं “त्वा त्वां "यत् यस्मात् "अनजन् घृताहुतिभिरौक्षन् । यद्वा निषादयन्तो होतारं होमनिष्पादकं त्वां बर्हिष्युपवेशयन्त ऋत्विजो घृतैरसिञ्चन् तस्मात् "सः तथाविधः “त्वम् "इह अस्मिन् कर्मणि "नः अस्माकम् "अविता पालयिता भवामीति “बोधि बुध्यस्व । किंच "नस्तनूषु अस्माकं तनुजेष्वपत्येषु “श्रवांसि अन्नानि "अधि “धेहि अधिकं निधेहि ॥ अनजन् । ‘ अञ्जू व्यक्तिगतिम्रक्षणेषु'। अस्माल्लङि रुधादित्वात् श्नम् । छान्दसत्वादल्लोपाभावः । अनिदिताम् । इत्युपधालोपः । निषादयन्तः ॥ ‘षद्लृ विशरणगत्यवसादनेषु' । चुरादिः । ‘ सदिरप्रतेः ' इति षत्वम् । यद्वा । हेतुमति णिच् । शतुर्लसार्वधातुकस्वरेणानुदात्तत्वे कृते णिच्स्वरः । बोधि । ‘बुध अवगमने' । लोटि ‘बहुलं छन्दसि ' इति शपो लुक् । ‘सेर्ह्यपिच्च' इति सिपो हिरादेशः । ‘वा छन्दसि ' इति विकल्पेन पित्त्वाद्गुणः । ‘हुझल्भ्यो हेर्धिः' इति हेर्धिरादेशः । धकारलोपश्छान्दसः । निघातः । धेहि । दधातेर्लोटि रूपम् ॥ ॥ १९ ॥

मण्डल ३

सूक्तं ३.१

सूक्तं ३.२

सूक्तं ३.३

सूक्तं ३.४

सूक्तं ३.५

सूक्तं ३.६

सूक्तं ३.७

सूक्तं ३.८

सूक्तं ३.९

सूक्तं ३.१०

सूक्तं ३.११

सूक्तं ३.१२

सूक्तं ३.१३

सूक्तं ३.१४

सूक्तं ३.१५

सूक्तं ३.१६

सूक्तं ३.१७

सूक्तं ३.१८

सूक्तं ३.१९

सूक्तं ३.२०

सूक्तं ३.२१

सूक्तं ३.२२

सूक्तं ३.२३

सूक्तं ३.२४

सूक्तं ३.२५

सूक्तं ३.२६

सूक्तं ३.२७

सूक्तं ३.२८

सूक्तं ३.२९

सूक्तं ३.३०

सूक्तं ३.३१

सूक्तं ३.३२

सूक्तं ३.३३

सूक्तं ३.३४

सूक्तं ३.३५

सूक्तं ३.३६

सूक्तं ३.३७

सूक्तं ३.३८

सूक्तं ३.३९

सूक्तं ३.४०

सूक्तं ३.४१

सूक्तं ३.४२

सूक्तं ३.४३

सूक्तं ३.४४

सूक्तं ३.४५

सूक्तं ३.४६

सूक्तं ३.४७

सूक्तं ३.४८

सूक्तं ३.४९

सूक्तं ३.५०

सूक्तं ३.५१

सूक्तं ३.५२

सूक्तं ३.५३

सूक्तं ३.५४

सूक्तं ३.५५

सूक्तं ३.५६

सूक्तं ३.५७

सूक्तं ३.५८

सूक्तं ३.५९

सूक्तं ३.६०

सूक्तं ३.६१

सूक्तं ३.६२

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.१९&oldid=209093" इत्यस्माद् पुनः प्राप्तिः