ऋग्वेदः सूक्तं ३.४४
← सूक्तं ३.४३ | ऋग्वेदः - मण्डल ३ सूक्तं ३.४४ गाथिनो विश्वामित्रः |
सूक्तं ३.४५ → |
दे. इन्द्रः । बृहती |
अयं ते अस्तु हर्यतः सोम आ हरिभिः सुतः ।
जुषाण इन्द्र हरिभिर्न आ गह्या तिष्ठ हरितं रथम् ॥१॥
हर्यन्नुषसमर्चयः सूर्यं हर्यन्नरोचयः ।
विद्वाँश्चिकित्वान्हर्यश्व वर्धस इन्द्र विश्वा अभि श्रियः ॥२॥
द्यामिन्द्रो हरिधायसं पृथिवीं हरिवर्पसम् ।
अधारयद्धरितोर्भूरि भोजनं ययोरन्तर्हरिश्चरत् ॥३॥
जज्ञानो हरितो वृषा विश्वमा भाति रोचनम् ।
हर्यश्वो हरितं धत्त आयुधमा वज्रं बाह्वोर्हरिम् ॥४॥
इन्द्रो हर्यन्तमर्जुनं वज्रं शुक्रैरभीवृतम् ।
अपावृणोद्धरिभिरद्रिभिः सुतमुद्गा हरिभिराजत ॥५॥
सायणभाष्यम्
‘ अयं ते अस्तु' इति पञ्चर्चं षष्ठं सूक्तं वैश्वामित्रं बार्हतमैन्द्रम् । अत्रानुक्रमणिका-- ‘ अयं ते पञ्च बार्हतं तु ' इति । महाव्रते बार्हत्यां तृचाशीताविदं सूक्तम् (ऐ. आ. ५. २. ४ )। षोडशिशस्त्रे ‘ अयं ते अस्तु हर्यतः' इत्याद्यस्तृचो विनियुक्तः । सूत्रितं च-- अयं ते अस्तु हर्यत इत्यौष्णिहबार्हतौ तृचौ ' ( आश्व. श्रौ. ६. २ ) इति ।।
अ॒यं ते॑ अस्तु हर्य॒तः सोम॒ आ हरि॑भिः सु॒तः ।
जु॒षा॒ण इं॑द्र॒ हरि॑भिर्न॒ आ ग॒ह्या ति॑ष्ठ॒ हरि॑तं॒ रथं॑ ॥१
अ॒यम् । ते॒ । अ॒स्तु॒ । ह॒र्य॒तः । सोमः॑ । आ । हरि॑ऽभिः । सु॒तः ।
जु॒षा॒णः । इ॒न्द्र॒ । हरि॑ऽभिः । नः॒ । आ । ग॒हि॒ । आ । ति॒ष्ठ॒ । हरि॑तम् । रथ॑म् ॥१
अयम् । ते । अस्तु । हर्यतः । सोमः । आ । हरिऽभिः । सुतः ।
जुषाणः । इन्द्र । हरिऽभिः । नः । आ । गहि । आ । तिष्ठ । हरितम् । रथम् ॥१
हे "इन्द्र "हरिभिः। हरन्ति सोमरसानेभिः इति हरयो ग्रावाणः । तैः “आ “सुतः सर्वतोऽभिषुतः “हर्यतः कमनीयः "जुषाणः प्रीतिविषयः "अयं "सोमः “ते तुभ्यम् "अस्तु । त्वं “हरिभिः अश्वैर्युक्तं “हरितं हरिद्वर्णं "रथम् “आ “तिष्ठ अधितिष्ठ । ततः नः अस्मानभिलक्ष्य “आ “गहि आगच्छ । हर्यतः । ‘ हर्य गतिकान्त्योः' इत्यस्मात् ' भृमृदृशि°' इत्यादिना अतच्प्रत्ययः । चित्त्वादन्तोदात्तः । हरितम् । ‘ हृञ् हरणे'। ‘ हृश्याभ्यामितन् ' ( उ. सू. ३. ३७३ ) इतीतन्प्रत्ययः । नित्त्वादाद्युदात्तः । रथम् । रमु क्रीडायाम् । ‘ हनिकुषिनी ' इत्यादिना क्थन्प्रत्ययः । कित्त्वादनुनासिकलोपः । नित्स्वरः ॥
ह॒र्यन्नु॒षस॑मर्चयः॒ सूर्यं॑ ह॒र्यन्न॑रोचयः ।
वि॒द्वांश्चि॑कि॒त्वान्ह॑र्यश्व वर्धस॒ इंद्र॒ विश्वा॑ अ॒भि श्रियः॑ ॥२
ह॒र्यन् । उ॒षस॑म् । अ॒र्च॒यः॒ । सूर्य॑म् । ह॒र्यन् । अ॒रो॒च॒यः॒ ।
वि॒द्वान् । चि॒कि॒त्वान् । ह॒रि॒ऽअ॒श्व॒ । व॒र्ध॒से॒ । इन्द्र॑ । विश्वा॑ । अ॒भि । श्रियः॑ ॥२
हर्यन् । उषसम् । अर्चयः । सूर्यम् । हर्यन् । अरोचयः ।
विद्वान् । चिकित्वान् । हरिऽअश्व । वर्धसे । इन्द्र । विश्वा । अभि । श्रियः ॥२
हे “इन्द्र "हर्यन् सोमं कामयमानस्त्वम् "उषसम् उषःकालम् "अर्चयः पूजयसि । तथा “हर्यन् उदिते सूर्ये सोमं कामयमानस्त्वं "सूर्यम् "अरोचयः दीपयसि । हे "हर्यश्व इन्द्र “ विद्वान् एतत्सर्वं जानानः "चिकित्वान् अस्मदभिलषितफलविषयज्ञानवांस्त्वं "विश्वाः सर्वाः "श्रियः नः संपदः "अभि “वर्धसे अभिमतफलप्रदानेनाभितो वर्धयसि । चिकित्वान् । ' कित ज्ञाने इत्यस्य क्वसौ रूपम् । प्रत्ययस्वरः । वर्धसे । “वृधु वर्धने' इत्यस्य अन्तर्भावितण्यर्थस्य लटि रूपम् । निघातः ॥
द्यामिंद्रो॒ हरि॑धायसं पृथि॒वीं हरि॑वर्पसं ।
अधा॑रयद्ध॒रितो॒र्भूरि॒ भोज॑नं॒ ययो॑रं॒तर्हरि॒श्चर॑त् ॥३
द्याम् । इन्द्रः॑ । हरि॑ऽधायसम् । पृ॒थि॒वीम् । हरि॑ऽवर्पसम् ।
अधा॑रयत् । ह॒रितोः॑ । भूरि॑ । भोज॑नम् । ययोः॑ । अ॒न्तः । हरिः॑ । चर॑त् ॥३
द्याम् । इन्द्रः । हरिऽधायसम् । पृथिवीम् । हरिऽवर्पसम् ।
अधारयत् । हरितोः । भूरि । भोजनम् । ययोः । अन्तः । हरिः । चरत् ॥३
सोऽयम् "इन्द्रो "हरिधायसम् । हरितो हरितवर्णा धायसो धारका रश्मयो यस्याः सा । तां “द्याम् "अधारयत् । तथा "हरिवर्पसम् ओषधिभिर्हरितवर्णां “पृथिवीम् अधारयत् । "हरितोः हरिद्वर्णयोः “ययोः द्यावापृथिव्योर्मध्ये स्वकीययोरश्वयोः “भूरि प्रभूतं भोजनम् । भुज्यत इति भोजनं यवसादि । लभ्यते । ययोश्च द्यावापृथिव्योः "अन्तः मध्ये “हरिः इन्द्रः चरेत् चरति । ते द्यावापृथिव्याविन्द्रः अधारयत्' इत्यर्थः ॥ हरिधायसम् ।' डुधाञ् धारणपोषणयोः ' इत्यस्मात् ' वहिहाधाञ्भ्यश्छन्दसि ' इत्यसुन् । ' णित् ' इत्यनुवृत्तेः अतो युक् । बहुव्रीहौ पूर्वपदस्वरः । पृथिवीम् । ‘ प्रथेः षिवन् संप्रसारणं च ' इति षिवन्प्रत्ययः । षिद्गौरादिभ्यश्च' इति ङीष् । प्रत्ययस्वरेणान्तोदात्तः । हरिवर्पसम् । ‘वृङ् संभक्तौ ।' वृङ्शीभ्यां रूपस्वाङ्गयोः' इत्यसुन्प्रत्ययः पुगागमश्च । संभज्यते तदिति वर्पो रूपम् । बहुव्रीहौ पूर्वपदस्वरः । हरितोः । ‘ हृञ् हरणे' इत्यस्मात् “ हृसृरुहियुषिभ्य इतिः ' ( उ. सू: १. ९७ ) इति इतिप्रत्ययः । प्रत्ययस्वरः । भोजनम् । ‘ भुज पालनाभ्यवहारयोः' इत्यस्मात् “ कृत्यल्युटो बहुलम् ' इति कर्मणि ल्युट् । लित्स्वरः । अन्तः । स्वरादिष्वन्तोदात्तत्वेन पठितत्वादन्तोदात्तः । चरत् । चरतिर्गत्यर्थः । लेटि रूपम् । यद्वृत्तयोगादनिघातः ॥
ज॒ज्ञा॒नो हरि॑तो॒ वृषा॒ विश्व॒मा भा॑ति रोच॒नं ।
हर्य॑श्वो॒ हरि॑तं धत्त॒ आयु॑ध॒मा वज्रं॑ बा॒ह्वोर्हरिं॑ ॥४
ज॒ज्ञा॒नः । हरि॑तः । वृषा॑ । विश्व॑म् । आ । भा॒ति॒ । रो॒च॒नम् ।
हरि॑ऽअश्वः । हरि॑तम् । ध॒त्ते॒ । आयु॑धम् । आ । वज्र॑म् । बा॒ह्वोः । हरि॑म् ॥४
जज्ञानः । हरितः । वृषा । विश्वम् । आ । भाति । रोचनम् ।
हरिऽअश्वः । हरितम् । धत्ते । आयुधम् । आ । वज्रम् । बाह्वोः । हरिम् ॥४
“वृषा कामानां वर्षकः "हरितः हरिद्वर्णोपेतः "जज्ञानः जात इन्द्रः “विश्वं सर्वं “रोचनं दीप्यमानं लोकम् "आ "भाति सर्वतः प्रकाशयति । तथा "हर्यश्वः इन्द्रः "हरितं हरिद्वर्णोपेतम् “आयुधं “धत्ते बाह्वोर्धत्ते । तथा “हरिं शत्रूणां प्राणापहारकं "वज्रं “बाह्वोः "आ धत्ते ॥ जज्ञानः । ‘ जनी प्रादुर्भावे' इत्यस्य लिटः कानच् । ' गमहन° ' इत्यादिना उपधालोपः । चित्त्वादन्तोदात्तः । भाति । ‘भा दीप्तौ ' इत्यस्य अन्तर्भावितण्यर्थस्य लटि रूपम् । रोचनम् । “ रुच दीप्तौ ' इत्यस्मात् ‘ अनुदात्तेतश्च हलादेः' इति युच् । चित्त्वादन्तोदात्तः । बाह्वोः । ‘ उदात्तयणो हल्पूर्वात्' इति विभक्तेरुदात्तत्वम् ॥
इंद्रो॑ ह॒र्यंत॒मर्जु॑नं॒ वज्रं॑ शु॒क्रैर॒भीवृ॑तं ।
अपा॑वृणो॒द्धरि॑भि॒रद्रि॑भिः सु॒तमुद्गा हरि॑भिराजत ॥५
इन्द्रः॑ । ह॒र्यन्त॑म् । अर्जु॑नम् । वज्र॑म् । शु॒क्रैः । अ॒भिऽवृ॑तम् ।
अप॑ । अ॒वृ॒णो॒त् । हरि॑ऽभिः । अद्रि॑ऽभिः । सु॒तम् । उत् । गाः । हरि॑ऽभिः । आ॒ज॒त॒ ॥५
इन्द्रः । हर्यन्तम् । अर्जुनम् । वज्रम् । शुक्रैः । अभिऽवृतम् ।
अप । अवृणोत् । हरिऽभिः । अद्रिऽभिः । सुतम् । उत् । गाः । हरिऽभिः । आजत ॥५
सोऽयम् "इन्द्रः "हर्यन्तं कमनीयम् "अर्जुनं शुभ्रम् । शुभ्रत्वमुपपादयति । "शुक्रैः शुभ्रैः क्षीरादिभिः "अभिवृतं व्याप्तं "वज्रं वेगवन्तं "हरिभिः । हरन्त्येभिः सोमरसान् इति हरयः । तैः “अद्रिभिः ग्रावभिः "सुतम् अभिषुतं सोमम् “अपावृणोत् आवरणरहितमकरोत् । तथा च मन्त्रवर्णः ---- ‘ पूषा राजानमाघृणिरपगूळ्हं गुहा हितम् । अविन्दत् ' (ऋ. सं. १. २३. १४ ) इति । तथा “गाः पणिभिरपहृता गाः "हरिभिः अश्वैरुपेतः स इन्द्रः “उत् "आजत बिलात् निरगमयत् ॥ अर्जुनम् । ‘ अर्ज षर्ज अर्जने' इत्यस्मात् ' अर्जेर्णिलुक् च ' इत्युनन् । नित्स्वरः । अभिवृतम् ।' गतिरनन्तरः ' इति गतेः प्रकृतिस्वरत्वम् । आजत । ‘ अज गतिक्षेपणयोः ' । लङि व्यत्ययेनात्मनेपदम् । निघातः ॥ ॥ ८ ॥
मण्डल ३ | |||
---|---|---|---|