प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← सूक्तं ३.१ ऋग्वेदः - मण्डल ३
सूक्तं ३.२
गाथिनो विश्वामित्रः
सूक्तं ३.३ →
दे. वैश्वानरोऽग्निः। जगती

पृष्ठ्याभिप्लविकयोस्तृतीयेऽहन्याग्निमारुते वैश्वानराय धिषणाम् इति वैश्वानरनिविद्धानीयं सूक्तम्(आ.श्रौ. ७.७)


वैश्वानराय धिषणामृतावृधे घृतं न पूतमग्नये जनामसि ।
द्विता होतारं मनुषश्च वाघतो धिया रथं न कुलिशः समृण्वति ॥१॥
स रोचयज्जनुषा रोदसी उभे स मात्रोरभवत्पुत्र ईड्यः ।
हव्यवाळग्निरजरश्चनोहितो दूळभो विशामतिथिर्विभावसुः ॥२॥
क्रत्वा दक्षस्य तरुषो विधर्मणि देवासो अग्निं जनयन्त चित्तिभिः ।
रुरुचानं भानुना ज्योतिषा महामत्यं न वाजं सनिष्यन्नुप ब्रुवे ॥३॥
आ मन्द्रस्य सनिष्यन्तो वरेण्यं वृणीमहे अह्रयं वाजमृग्मियम् ।
रातिं भृगूणामुशिजं कविक्रतुमग्निं राजन्तं दिव्येन शोचिषा ॥४॥
अग्निं सुम्नाय दधिरे पुरो जना वाजश्रवसमिह वृक्तबर्हिषः ।
यतस्रुचः सुरुचं विश्वदेव्यं रुद्रं यज्ञानां साधदिष्टिमपसाम् ॥५॥
पावकशोचे तव हि क्षयं परि होतर्यज्ञेषु वृक्तबर्हिषो नरः ।
अग्ने दुव इच्छमानास आप्यमुपासते द्रविणं धेहि तेभ्यः ॥६॥
आ रोदसी अपृणदा स्वर्महज्जातं यदेनमपसो अधारयन् ।
सो अध्वराय परि णीयते कविरत्यो न वाजसातये चनोहितः ॥७॥
नमस्यत हव्यदातिं स्वध्वरं दुवस्यत दम्यं जातवेदसम् ।
रथीरृतस्य बृहतो विचर्षणिरग्निर्देवानामभवत्पुरोहितः ॥८॥
तिस्रो यह्वस्य समिधः परिज्मनोऽग्नेरपुनन्नुशिजो अमृत्यवः ।
तासामेकामदधुर्मर्त्ये भुजमु लोकमु द्वे उप जामिमीयतुः ॥९॥
विशां कविं विश्पतिं मानुषीरिषः सं सीमकृण्वन्स्वधितिं न तेजसे ।
स उद्वतो निवतो याति वेविषत्स गर्भमेषु भुवनेषु दीधरत् ॥१०॥
स जिन्वते जठरेषु प्रजज्ञिवान्वृषा चित्रेषु नानदन्न सिंहः ।
वैश्वानरः पृथुपाजा अमर्त्यो वसु रत्ना दयमानो वि दाशुषे ॥११॥
वैश्वानरः प्रत्नथा नाकमारुहद्दिवस्पृष्ठं भन्दमानः सुमन्मभिः ।
स पूर्ववज्जनयञ्जन्तवे धनं समानमज्मं पर्येति जागृविः ॥१२॥
ऋतावानं यज्ञियं विप्रमुक्थ्यमा यं दधे मातरिश्वा दिवि क्षयम् ।
तं चित्रयामं हरिकेशमीमहे सुदीतिमग्निं सुविताय नव्यसे ॥१३॥
शुचिं न यामन्निषिरं स्वर्दृशं केतुं दिवो रोचनस्थामुषर्बुधम् ।
अग्निं मूर्धानं दिवो अप्रतिष्कुतं तमीमहे नमसा वाजिनं बृहत् ॥१४॥
मन्द्रं होतारं शुचिमद्वयाविनं दमूनसमुक्थ्यं विश्वचर्षणिम् ।
रथं न चित्रं वपुषाय दर्शतं मनुर्हितं सदमिद्राय ईमहे ॥१५॥

सायणभाष्यम्

' वैश्वानराय ' इति पञ्चदशर्चं द्वितीयं सूक्तम् । तथा चानुक्रान्तं- वैश्वानराय पञ्चोना वैश्वानरीयं तु जागतं तु ' इति । विश्वामित्र ऋषिः । जगती छन्दः । वैश्वानरोऽग्निर्देवता ।। पृष्ठयाभिप्लविकयोस्तृतीयेऽहन्याग्निमारुते ' वैश्वानराय धिषणाम् ' इति वैश्वानरनिविद्धानीयं सूक्तम् । ' तृतीयस्य ' इति खण्डे सूत्रितं-' वैश्वानराय धिषणां धारावरा मरुतः ' ( आश्व. श्रौ. ७. ७) इति ।।


वै॒श्वा॒न॒राय॑ धि॒षणा॑मृता॒वृधे॑ घृ॒तं न पू॒तम॒ग्नये॑ जनामसि ।

द्वि॒ता होता॑रं॒ मनु॑षश्च वा॒घतो॑ धि॒या रथं॒ न कुलि॑श॒ः समृ॑ण्वति ॥१

वै॒श्वा॒न॒राय॑ । धि॒षणा॑म् । ऋ॒त॒ऽवृधे॑ । घृ॒तम् । न । पू॒तम् । अ॒ग्नये॑ । ज॒ना॒म॒सि॒ ।

द्वि॒ता । होता॑रम् । मनु॑षः । च॒ । वा॒घतः॑ । धि॒या । रथ॑म् । न । कुलि॑शः । सम् । ऋ॒ण्व॒ति॒ ॥१

वैश्वानराय । धिषणां। ऋतऽवृधे । घृतं । न। पूतं । अग्नये । जनामसि ।

द्विता। होतारं। मनुषः। च । वाघतः। धिया। रथं।न। कुलिशः। सं। ऋण्वति ॥१॥

ऋतावृधे ऋतस्योदकस्य यज्ञस्य वा वर्धयित्रे वैश्वानराय। वैश्वानरशब्दो यास्केन व्याख्यातः । वैश्वानरः कस्माद्विश्वानरान्नयति विश्व एनं नरा नयंतीति वा । अपि वा विश्वानर एव स्यात् प्रत्यृतः सर्वाणि भूतानि तस्य वैश्वानरस्तस्यैषा भवति । नि० ७. २१.। इति । तस्मै पूतं घृतं न घृतमिव धिषणां स्तुतिं जनामसि । जनयामः । यथा घृतं प्रीतिं जनयति तथा प्रीतिं करोमीत्यर्थः । द्विता द्विधा गार्हपत्याहवनीयरूपाभ्यां युक्तं होतारं देवानामाह्वातारमग्निं मनुषो मनुष्या वाघतश्च ऋत्विजश्च धिया कर्मणा कुलिशो वास्यादी रथं न रथमिव समृण्वति । संस्कुर्वंति ।।


स रो॑चयज्ज॒नुषा॒ रोद॑सी उ॒भे स मा॒त्रोर॑भवत्पु॒त्र ईड्यः॑ ।

ह॒व्य॒वाळ॒ग्निर॒जर॒श्चनो॑हितो दू॒ळभो॑ वि॒शामति॑थिर्वि॒भाव॑सुः ॥२

सः । रो॒च॒य॒त् । ज॒नुषा॑ । रोद॑सी॒ इति॑ । उ॒भे इति॑ । सः । मा॒त्रोः । अ॒भ॒व॒त् । पु॒त्रः । ईड्यः॑ ।

ह॒व्य॒ऽवाट् । अ॒ग्निः । अ॒जरः॑ । चनः॑ऽहितः । दुः॒ऽदभः॑ । वि॒शाम् । अति॑थिः । वि॒भाऽव॑सुः ॥२

सः। रोचयत् । जनुष। रोदसी इति। उभे इति । सः। मात्रोः। अभवत् । पुत्रः। ईड्यः।

हव्यवाट्। अग्निः। अजरः।चनःऽहितः। दुःऽदभः।विशां। अतिथिः। विभाऽवसुः॥२॥

सोऽग्निर्जनुषा जन्मनोभे रोदसी द्यावापृथिव्यौ रोचयत् । अरोचयत् । प्रकाशयति । स मात्रोर्द्यावापृथिव्योरीड्यः स्तुत्यः पुत्रोऽभवत् । हव्यवाड् हव्यानां वोढाग्निरंगनादिगुणयुक्तोऽजरो जरारहितः । चनो ऽन्नं हितं यजमाने निहितं येनासौ चनोहितः । दूळभो हिंसितुमशक्यः सोऽयं विभावसुः प्रभाधनो विशां मनुष्याणामतिथिरिव पूज्यो भवति ॥


क्रत्वा॒ दक्ष॑स्य॒ तरु॑षो॒ विध॑र्मणि दे॒वासो॑ अ॒ग्निं ज॑नयन्त॒ चित्ति॑भिः ।

रु॒रु॒चा॒नं भा॒नुना॒ ज्योति॑षा म॒हामत्यं॒ न वाजं॑ सनि॒ष्यन्नुप॑ ब्रुवे ॥३

क्रत्वा॑ । दक्ष॑स्य । तरु॑षः । विऽध॑र्मणि । दे॒वासः॑ । अ॒ग्निम् । ज॒न॒य॒न्त॒ । चित्ति॑ऽभिः ।

रु॒रु॒चा॒नम् । भा॒नुना॑ । ज्योति॑षा । म॒हाम् । अत्य॑म् । न । वाज॑म् । स॒नि॒ष्यन् । उप॑ । ब्रु॒वे॒ ॥३

क्रत्वा । दक्षस्य । तरुषः । विऽधर्मणि । देवासः । अग्निं । जनयंत । चित्तिऽभिः ।।

रुरुचानं। भानुना। ज्योतिषा। महां। अत्यं । न। वाजं। सनिष्यन्। उप। ब्रुवे ॥३॥

चित्तिभिर्ज्ञानैरुपलक्षिता देवासो देवास्तरुषो व्यसनेभ्यस्तारकस्य दक्षस्य बलस्य क्रत्वा कर्मणा विधर्मणि विधारके यज्ञेऽग्निं जनयंत । अजनयन्। भानुना भासमानेन ज्योतिषा रुरुचानं रोचमानं महां महांतमग्निमत्यं न भारसहमश्वमिव वाजमन्नं सनिष्यन् लिप्समानोऽहमुप ब्रुवे । स्तौमि ॥ ।


आ म॒न्द्रस्य॑ सनि॒ष्यन्तो॒ वरे॑ण्यं वृणी॒महे॒ अह्र॑यं॒ वाज॑मृ॒ग्मिय॑म् ।

रा॒तिं भृगू॑णामु॒शिजं॑ क॒विक्र॑तुम॒ग्निं राज॑न्तं दि॒व्येन॑ शो॒चिषा॑ ॥४

आ । म॒न्द्रस्य॑ । स॒नि॒ष्यन्तः॑ । वरे॑ण्यम् । वृ॒णी॒महे॑ । अह्र॑यम् । वाज॑म् । ऋ॒ग्मिय॑म् ।

रा॒तिम् । भृगू॑णाम् । उ॒शिज॑म् । क॒विऽक्र॑तुम् । अ॒ग्निम् । राज॑न्तम् । दि॒व्येन॑ । शो॒चिषा॑ ॥४

आ। मंद्रस्य । सनिष्यंतः । वरेण्यं । वृणीमहे । अह्रयं । वाजं । ऋग्मियं ।

रातिं । भृगूणां । उशिजं । कविऽक्रतुं । अग्निं । राजंतं । दिव्येन । शोचिषा ॥४॥

मंद्रस्य स्तुत्यस्य वैश्वानरस्य संबंधिनं वरेण्यं वरणीयमह्रयमलज्जावहं ऋग्मियं प्रशस्यं वाजमन्नं सनिष्यंतो लिप्समाना वयं भृगूणामृषीणां रातिमभिलषितार्थप्रदातारमुशिजमभिलष्यंतं कविक्रतुं क्रांतप्रज्ञं दिव्येन दिविभवेन शोचिषा रोचिषा राजंतं भ्राजमानमग्निमावृणीमहे । संभजामहे


अ॒ग्निं सु॒म्नाय॑ दधिरे पु॒रो जना॒ वाज॑श्रवसमि॒ह वृ॒क्तब॑र्हिषः ।

य॒तस्रु॑चः सु॒रुचं॑ वि॒श्वदे॑व्यं रु॒द्रं य॒ज्ञानां॒ साध॑दिष्टिम॒पसा॑म् ॥५

अ॒ग्निम् । सु॒म्नाय॑ । द॒धि॒रे॒ । पु॒रः । जनाः॑ । वाज॑ऽश्रवसम् । इ॒ह । वृ॒क्तऽब॑र्हिषः ।

य॒तऽस्रु॑चः । सु॒ऽरुच॑म् । वि॒श्वऽदे॑व्यम् । रु॒द्रम् । य॒ज्ञाना॑म् । साध॑त्ऽइष्टिम् । अ॒पसा॑म् ॥५

अग्निं । सुम्नाय । दधिरे। पुरः । जनः । वाजऽश्रवसं । इह। वृक्तऽबर्हिषः ।

यतऽस्रुचः । सुऽरुचं । विश्वऽदेव्यं । रुद्रं । यज्ञानां। साधत् ऽइष्टिं। अपसां ॥५॥

वृक्तबर्हिषः स्तीर्णबर्हिषो यतस्रुचः प्राप्तस्रुच ऋत्विजः सुम्नाय सुखार्थं वाजश्रवसं मनुष्येभ्यः प्रेरितान्नं सुरुचं प्रशस्तदीप्तिमंतं विश्वदेव्यं विश्वेभ्यो देवेभ्यो हितं रुद्रं दुःखानां द्रावकमपसां कर्मवतां यज्ञानां । यजंतीति यज्ञा यजमानाः । तेषां साधदिष्टिं साधितयज्ञमग्निमिह यज्ञे पुरो दधिरे। स्तुवंति ॥ ॥१७॥


पाव॑कशोचे॒ तव॒ हि क्षयं॒ परि॒ होत॑र्य॒ज्ञेषु॑ वृ॒क्तब॑र्हिषो॒ नरः॑ ।

अग्ने॒ दुव॑ इ॒च्छमा॑नास॒ आप्य॒मुपा॑सते॒ द्रवि॑णं धेहि॒ तेभ्यः॑ ॥६

पाव॑कऽशोचे । तव॑ । हि । क्षय॑म् । परि॑ । होतः॑ । य॒ज्ञेषु॑ । वृ॒क्तऽब॑र्हिषः । नरः॑ ।

अग्ने॑ । दुवः॑ । इ॒च्छमा॑नासः । आप्य॑म् । उप॑ । आ॒स॒ते॒ । द्रवि॑णम् । धे॒हि॒ । तेभ्यः॑ ॥६

पावकऽशोचे। तव । हि। क्षयं। परि। होतः । यज्ञेषु । वृक्तऽबर्हिषः । नरः ।

अग्ने । दुवः । इच्छमानासः । आप्यं । उप। आसते । द्रविणं । धेहि । तेभ्यः ॥६॥

हे पावकशोचे शोधकदीप्ते हे होतर्देवानामाह्वातः यज्ञेषु परि परितो वृक्तबर्हिषः स्तीर्णबर्हिषो दुवः परिचरणमिच्छमानास इच्छंतो नरो नेतारो यजमाना आप्यमाप्तुं योग्यं तव त्वत्संबंधिनं वयं निवासं यागगृहमुपासते । सेवंते । तेभ्यो द्रविणं धनं धेहि । विधेहि ।।


आ रोद॑सी अपृण॒दा स्व॑र्म॒हज्जा॒तं यदे॑नम॒पसो॒ अधा॑रयन् ।

सो अ॑ध्व॒राय॒ परि॑ णीयते क॒विरत्यो॒ न वाज॑सातये॒ चनो॑हितः ॥७

आ । रोद॑सी॒ इति॑ । अ॒पृ॒ण॒त् । आ । स्वः॑ । म॒हत् । जा॒तम् । यत् । ए॒न॒म् । अ॒पसः॑ । अधा॑रयन् ।

सः । अ॒ध्व॒राय॑ । परि॑ । नी॒य॒ते॒ । क॒विः । अत्यः॑ । न । वाज॑ऽसातये । चनः॑ऽहितः ॥७

आ। रोदसी इति । अपृणत्। आ। स्वः। महत्। जातं । यत्। एनं। अपसः।अधारयन्।

सः। अध्वराय । परि। नीयते । कविः। अत्यः। न। वाजऽसातये। चनःऽहितः ॥७॥

रोदसी द्यावापृथिव्यावापृणत् । आपूरयत् । तथा महत्प्रभूतं स्वरंतरिक्षमापृणच्च । अपसः कर्मवतो यजमाना जातं यद्यमेनमग्निमधारयन् अत्यो न अश्व इव कविः क्रांतः सर्वत्र व्याप्तश्चनोहितो निहितान्नः सोऽयमग्निर्वाजसातये वाजस्यान्नस्य कीर्तेर्वा सातये लाभाय परिणीयते । यज्ञार्थं नीयते ॥


न॒म॒स्यत॑ ह॒व्यदा॑तिं स्वध्व॒रं दु॑व॒स्यत॒ दम्यं॑ जा॒तवे॑दसम् ।

र॒थीरृ॒तस्य॑ बृह॒तो विच॑र्षणिर॒ग्निर्दे॒वाना॑मभवत्पु॒रोहि॑तः ॥८

न॒म॒स्यत॑ । ह॒व्यऽदा॑तिम् । सु॒ऽअ॒ध्व॒रम् । दु॒व॒स्यत॑ । दभ्य॑म् । जा॒तऽवे॑दसम् ।

र॒थीः । ऋ॒तस्य॑ । बृ॒ह॒तः । विऽच॑र्षणिः । अ॒ग्निः । दे॒वाना॑म् । अ॒भ॒व॒त् । पु॒रःऽहि॑तः ॥८

नमस्यत । हव्यऽदातिं । सुऽअध्वरं । दुवस्यत । दम्यं । जातऽवेदसं ।

रथीः। ऋतस्य । बृहतः। विचर्षणिः । अग्निः । देवानां। अभवत्। पुरःऽहितः ॥८॥

रथीर्नेता बृहतो महत ऋतस्य यज्ञस्य विचर्षणिर्द्रष्टा योऽग्निर्देवानां पुरोहितः पुरस्ताद्दृष्टव्यतया स्थापितोऽभवत् हव्यदातिं देवेभ्यो हविषां दातारं स्वध्वरं शोभनयज्ञं दम्यं दमेभ्यो गृहेभ्यो हितं जातवेदसं जातप्रज्ञं तमग्निं नमस्यत । पूजयत । दुवस्यत । परिचरत ।।


ति॒स्रो य॒ह्वस्य॑ स॒मिध॒ः परि॑ज्मनो॒ऽग्नेर॑पुनन्नु॒शिजो॒ अमृ॑त्यवः ।

तासा॒मेका॒मद॑धु॒र्मर्त्ये॒ भुज॑मु लो॒कमु॒ द्वे उप॑ जा॒मिमी॑यतुः ॥९

ति॒स्रः । य॒ह्वस्य॑ । स॒म्ऽइधः॑ । परि॑ऽज्मनः । अ॒ग्नेः । अ॒पु॒न॒न् । उ॒शिजः॑ । अमृ॑त्यवः ।

तासा॑म् । एका॑म् । अद॑धुः । मर्त्ये॑ । भुज॑म् । ऊं॒ इति॑ । लो॒कम् । ऊं॒ इति॑ । द्वे इति॑ । उप॑ । जा॒मिम् । ई॒य॒तुः॒ ॥९

तिस्रः । यह्वस्य। संऽइधः। परिऽज्मनः । अग्नेः । अपुनन्। उशिजः । अमृत्यवः।

तासां । एकां । अदधुः । मर्त्ये । भुजं । ऊं इति । लोकं । ऊं इति । द्वे इति । उप। जामिं । ईयतुः ॥९॥

उशिजः कामयमाना अमृत्यवो मृत्युरहिता देवा यह्वस्य महतः परिज्मनः परितो गंतुः समिधः समिंधिकाः प्रकाशिकास्तिस्रः पार्थिववैद्युतसूर्यरूपास्तिस्रस्तनूरपुनन्। अशोधयन् । ते देवा भुजं सर्वेषां पालयित्री तासां तनूनां मध्य एकां पार्थिवीं तनुं मर्त्ये मर्त्यलोकेऽदधुः । न्यदधुः । उ इति पादपूरणः । इतरे द्वे तनू जामिं लोकमासन्नमंतरिक्षमुपेयतुः । गच्छतः । अथवा तिस्रः समिध आघारसमिधौ द्वे अनूयाजसमिच्चैकेति। तासां समिधामेकामनूयाजसमिधं मर्त्य इह लोके भोगहेतुमनूयाजपर्यंतमदधुः। धारयंति । प्रजा वा अनूयाजा इति प्रजात्वेनानूयाजानां संस्तवात् तदाश्रयत्वाच्चानूयाजसमिधः । इतरे द्वे समिधावंतरिक्षे दिव्यभोगहेतू उपेयतुः । उपगच्छतः । त्रीन्परिधीस्तिस्रः समिध इति हि निगमः ॥


वि॒शां क॒विं वि॒श्पतिं॒ मानु॑षी॒रिष॒ः सं सी॑मकृण्व॒न्स्वधि॑तिं॒ न तेज॑से ।

स उ॒द्वतो॑ नि॒वतो॑ याति॒ वेवि॑ष॒त्स गर्भ॑मे॒षु भुव॑नेषु दीधरत् ॥१०

वि॒शाम् । क॒विम् । वि॒श्पति॑म् । मानु॑षीः । इषः॑ । सम् । सी॒म् । अ॒कृ॒ण्व॒न् । स्वऽधि॑तिम् । न । तेज॑से ।

सः । उ॒त्ऽवतः॑ । नि॒ऽवतः॑ । या॒ति॒ । वेवि॑षत् । सः । गर्भ॑म् । ए॒षु । भुव॑नेषु । दी॒ध॒र॒त् ॥१०

विशां। कविं। विश्पतिं । मानुषीः। इषः।सं। सीं। अकृण्वन्। स्वऽधिंतिं । न। तेजसे।

सः। उत्ऽवतः। निवतः। याति। वेविषत्। सः। गर्भं। एषु। भुवनेषु। दीधरत्॥१०॥

इषः पश्वादिलक्षणं धनमिच्छंत्यो मानुषीर्मनुष्यप्रजा विशां प्रजानां विश्पतिं प्रभु कविं मेधाविनं सीमेनं स्वधितिं न असिमिव तेजसे तैक्ष्ण्यार्थं समकृण्वन् । समस्कुर्वन् । सोऽग्निरुद्वत उच्छ्रायवतो निवतो नीचैर्भावयतश्च प्रदेशान्वेविषत् व्याप्नुवन् याति । गच्छति । स एषु भुवनेषु गर्भमरण्या दीधरत् । अधारयत् ॥ ॥१८॥


स जि॑न्वते ज॒ठरे॑षु प्रजज्ञि॒वान्वृषा॑ चि॒त्रेषु॒ नान॑द॒न्न सिं॒हः ।

वै॒श्वा॒न॒रः पृ॑थु॒पाजा॒ अम॑र्त्यो॒ वसु॒ रत्ना॒ दय॑मानो॒ वि दा॒शुषे॑ ॥११

सः । जि॒न्व॒ते॒ । ज॒ठरे॑षु । प्र॒ज॒ज्ञि॒ऽवान् । वृषा॑ । चि॒त्रेषु॑ । नान॑दत् । न । सिं॒हः ।

वै॒श्वा॒न॒रः । पृ॒थु॒ऽपाजाः॑ । अम॑र्त्यः । वसु॑ । रत्ना॑ । दय॑मानः । वि । दा॒शुषे॑ ॥११

सः । जिन्वते । जठरेषु । प्रजज्ञिऽवान्। वृषा । चित्रेषु । नानदत् । न। सिंहः।।

वैश्वानरः । पृथुऽपाजाः । अर्मर्त्यः । वसुं। रत्ना। दयमानः। वि। दाशुषे ॥११॥

प्रजज्ञिवान् जातो वृषा वर्षकः स वैश्वानरश्चित्रेषु नानाप्रकारेषु जठरेषु । प्राणिनां भेदाज्जठराणां भेदः । तेषु जिन्वते । वर्धते । चित्रेषु नानाविधेष्वरण्येषु नानदत् अत्यर्थं शब्दं कुर्वन् सिंहो न । सिंह इव । किंविधो वैश्वानरः । पृथुपाजाः पृथुतेजाः । अथवा पृथुवेगः । अमर्त्यो मरणधर्मरहितो दाशुषे हविषां प्रदात्रे यजमानायं रत्ना रमणीयानि वसु वसूनि धनानि वि विशेषेण दयमानः प्रयच्छन् ।


वै॒श्वा॒न॒रः प्र॒त्नथा॒ नाक॒मारु॑हद्दि॒वस्पृ॒ष्ठं भन्द॑मानः सु॒मन्म॑भिः ।

स पू॑र्व॒वज्ज॒नय॑ञ्ज॒न्तवे॒ धनं॑ समा॒नमज्मं॒ पर्ये॑ति॒ जागृ॑विः ॥१२

वै॒श्वा॒न॒रः । प्र॒त्नऽथा॑ । नाक॑म् । आ । अ॒रु॒ह॒त् । दि॒वः । पृ॒ष्ठम् । भन्द॑मानः । सु॒मन्म॑ऽभिः ।

सः । पू॒र्व॒ऽवत् । ज॒नय॑न् । ज॒न्तवे॑ । धन॑म् । स॒मा॒नम् । अज्म॑म् । परि॑ । ए॒ति॒ । जागृ॑विः ॥१२

वैश्वानरः। प्रत्नऽथा। नाकं । आ। अरुहत्। दिवः । पृष्ठं । भंदमानः । सुमन्मऽभिः।

सः। पूर्वऽवत्। जनयन। जंतवे। धनं । समानं। अज्मं। परि। एति। जागृविः ॥१२॥

सुमन्मभिः स्तोतृभिर्भंदमानः स्तूयमानो वैश्वानरो जातमात्र एव प्रत्नथा प्रत्न इव चिरंतन इव नाकं । कं सुखं । अकं दुःखं । न विद्यते ऽकं यस्मिन् तन्नाकं । दिवोंऽतरिक्षस्य पृष्ठमुपरितनप्रदेशं स्वरोहिद्भिरारुहत् ।। आरोहति । स वैश्वानरः पूर्ववत् पूर्वेभ्य ऋषिभ्य इव जंतवे स्तोत्रे यजमानाय धनं पश्वादिलक्षणं जनयन् संपादयन् जागृविः सदा प्रबुद्धः समानं सर्वेषां देवानां साधारणमज्ममाकाशमार्गं पर्येति । सूर्यरूपेण गच्छति ॥


ऋ॒तावा॑नं य॒ज्ञियं॒ विप्र॑मु॒क्थ्य१॒॑मा यं द॒धे मा॑त॒रिश्वा॑ दि॒वि क्षय॑म् ।

तं चि॒त्रया॑मं॒ हरि॑केशमीमहे सुदी॒तिम॒ग्निं सु॑वि॒ताय॒ नव्य॑से ॥१३

ऋ॒तऽवा॑नम् । य॒ज्ञिय॑म् । विप्र॑म् । उ॒क्थ्य॑म् । आ । यम् । द॒धे । मा॒त॒रिश्वा॑ । दि॒वि । क्षय॑म् ।

तम् । चि॒त्रऽया॑मम् । हरि॑ऽकेशम् । ई॒म॒हे॒ । सु॒ऽदी॒तिम् । अ॒ग्निम् । सु॒वि॒ताय॑ । नव्य॑से ॥१३

ऋतऽवानं। यज्ञियं । विप्रं । उक्थ्यं । आ। यं । दधे। मातरिश्वा। दिवि । क्षयं ।

तं । चित्रऽयामं । हरिऽकेशं। ईमहे । सुऽदीतिं । अग्निं। सुविताय। नव्यसे ॥१३॥

ऋतावानं बलवंतं यज्ञियं यज्ञार्हं विप्रं मेधाविनमुक्थ्यं स्तुत्यं दिवि द्युलोके क्षयं निवसंतं यमग्निं मातरिश्वा वायुर्द्युलोकादाहृत्य पृथिव्यामादधे । आहितवान् । चित्रयामं नानाविधगमनं हरिकेशं पिंगलार्चिषं सुदीतिं शोभनदीप्तिं तमग्निं नव्यसे नवतराय सुविताय सुष्टु प्राप्तव्याय धनाय तदर्थमीमहे । याचामहे ॥


शुचिं॒ न याम॑न्निषि॒रं स्व॒र्दृशं॑ के॒तुं दि॒वो रो॑चन॒स्थामु॑ष॒र्बुध॑म् ।

अ॒ग्निं मू॒र्धानं॑ दि॒वो अप्र॑तिष्कुतं॒ तमी॑महे॒ नम॑सा वा॒जिनं॑ बृ॒हत् ॥१४

शुचि॑म् । न । याम॑न् । इ॒षि॒रम् । स्वः॒ऽदृश॑म् । के॒तुम् । दि॒वः । रो॒च॒न॒ऽस्थाम् । उ॒षः॒ऽबुध॑म् ।

अ॒ग्निम् । मू॒र्धान॑म् । दि॒वः । अप्र॑तिऽस्कुतम् । तम् । ई॒म॒हे॒ । नम॑सा । वा॒जिन॑म् । बृ॒हत् ॥१४

शुचिं । न। याम॑न् । इषिरं। स्वःऽदृशं । केतुं । दिवः । रोचनऽस्थां । उषःऽबुधं।

अग्निं। मूर्धानं। दिवः। अप्रतिऽस्कुतं । तं। ईमहे । नमसा। वाजिनं। बृहत् ॥१४॥

नति संप्रत्यर्थे । शुचिं दीप्तं यामन यामनि यज्ञ इषिरमेषणीयं स्वर्दृशं सर्वदृशं सर्वपदार्थविज्ञानयुक्तं दिवो द्युलोकस्य केतुं प्रज्ञापकं रोचनस्थां रोचनस्थं । रोचनः सूर्यः । तस्मिन् तिष्ठंतं । उषर्बुधमग्निहोत्रिकरूपेणोषसि प्रबुध्यमानं दिवः स्वर्गस्य मूर्धानं प्रधानमप्रतिष्कुतमप्रतिहतशब्दं वाजिनमन्नवंतं बृहत् महांतं तमग्निं नमसा स्तोत्रेणेमहे । याचामहे ।।


म॒न्द्रं होता॑रं॒ शुचि॒मद्व॑याविनं॒ दमू॑नसमु॒क्थ्यं॑ वि॒श्वच॑र्षणिम् ।

रथं॒ न चि॒त्रं वपु॑षाय दर्श॒तं मनु॑र्हितं॒ सद॒मिद्रा॒य ई॑महे ॥१५

म॒न्द्रम् । होता॑रम् । शुचि॑म् । अद्व॑याविनम् । दमू॑नसम् । उ॒क्थ्य॑म् । वि॒श्वऽच॑र्षणिम् ।

रथ॑म् । न । चि॒त्रम् । वपु॑षाय । द॒र्श॒तम् । मनुः॑ऽहितम् । सद॑म् । इत् । रा॒यः । ई॒म॒हे॒ ॥१५

मंद्रं । होतारं । शुचिं । अद्वयाविनं। दमूनसं। उक्थ्यं। विश्वऽचर्षणिं ।।

रथं । न। चित्रं । वपुषाय। दर्शतं । मनुःऽहितं । सदं । इत् । रायः । ईमहे ॥१५॥

मंद्रं स्तुत्यं होतारं देवानामाह्वातारं शुचिं सर्वदा शुद्धमद्वयाविनमकुटिलं दमूनसं दानमनसमुक्थ्यं श्रेष्ठं विश्वचर्षणिं विश्वस्य द्रष्टारं चित्रं नानाविधवर्णं रथं न रथमिव वपुषाय रूपार्थं दर्शतं दर्शनीयं सदमित् सदैव मनुर्हितं सर्वेभ्यो मनुष्येभ्यो हितं तमग्निं रायो धनानीमहे । याचामहे । अत्र याञ्चार्थत्वादस्य द्विकर्मकत्वं ॥ ॥१९॥



सम्पाद्यताम्

मण्डल ३

सूक्तं ३.१

सूक्तं ३.२

सूक्तं ३.३

सूक्तं ३.४

सूक्तं ३.५

सूक्तं ३.६

सूक्तं ३.७

सूक्तं ३.८

सूक्तं ३.९

सूक्तं ३.१०

सूक्तं ३.११

सूक्तं ३.१२

सूक्तं ३.१३

सूक्तं ३.१४

सूक्तं ३.१५

सूक्तं ३.१६

सूक्तं ३.१७

सूक्तं ३.१८

सूक्तं ३.१९

सूक्तं ३.२०

सूक्तं ३.२१

सूक्तं ३.२२

सूक्तं ३.२३

सूक्तं ३.२४

सूक्तं ३.२५

सूक्तं ३.२६

सूक्तं ३.२७

सूक्तं ३.२८

सूक्तं ३.२९

सूक्तं ३.३०

सूक्तं ३.३१

सूक्तं ३.३२

सूक्तं ३.३३

सूक्तं ३.३४

सूक्तं ३.३५

सूक्तं ३.३६

सूक्तं ३.३७

सूक्तं ३.३८

सूक्तं ३.३९

सूक्तं ३.४०

सूक्तं ३.४१

सूक्तं ३.४२

सूक्तं ३.४३

सूक्तं ३.४४

सूक्तं ३.४५

सूक्तं ३.४६

सूक्तं ३.४७

सूक्तं ३.४८

सूक्तं ३.४९

सूक्तं ३.५०

सूक्तं ३.५१

सूक्तं ३.५२

सूक्तं ३.५३

सूक्तं ३.५४

सूक्तं ३.५५

सूक्तं ३.५६

सूक्तं ३.५७

सूक्तं ३.५८

सूक्तं ३.५९

सूक्तं ३.६०

सूक्तं ३.६१

सूक्तं ३.६२

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.२&oldid=209071" इत्यस्माद् पुनः प्राप्तिः