प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← सूक्तं ३.१३ ऋग्वेदः - मण्डल ३
सूक्तं ३.१४
ऋषभो वैश्वामित्रः
सूक्तं ३.१५ →
दे. अग्निः ।। त्रिष्टुप्


आ होता मन्द्रो विदथान्यस्थात्सत्यो यज्वा कवितमः स वेधाः ।
विद्युद्रथः सहसस्पुत्रो अग्निः शोचिष्केशः पृथिव्यां पाजो अश्रेत् ॥१॥
अयामि ते नमउक्तिं जुषस्व ऋतावस्तुभ्यं चेतते सहस्वः ।
विद्वाँ आ वक्षि विदुषो नि षत्सि मध्य आ बर्हिरूतये यजत्र ॥२॥
द्रवतां त उषसा वाजयन्ती अग्ने वातस्य पथ्याभिरच्छ ।
यत्सीमञ्जन्ति पूर्व्यं हविर्भिरा वन्धुरेव तस्थतुर्दुरोणे ॥३॥
मित्रश्च तुभ्यं वरुणः सहस्वोऽग्ने विश्वे मरुतः सुम्नमर्चन् ।
यच्छोचिषा सहसस्पुत्र तिष्ठा अभि क्षितीः प्रथयन्सूर्यो नॄन् ॥४॥
वयं ते अद्य ररिमा हि काममुत्तानहस्ता नमसोपसद्य ।
यजिष्ठेन मनसा यक्षि देवानस्रेधता मन्मना विप्रो अग्ने ॥५॥
त्वद्धि पुत्र सहसो वि पूर्वीर्देवस्य यन्त्यूतयो वि वाजाः ।
त्वं देहि सहस्रिणं रयिं नोऽद्रोघेण वचसा सत्यमग्ने ॥६॥
तुभ्यं दक्ष कविक्रतो यानीमा देव मर्तासो अध्वरे अकर्म ।
त्वं विश्वस्य सुरथस्य बोधि सर्वं तदग्ने अमृत स्वदेह ॥७॥


सायणभाष्यम्

' आ होता ' इति सप्तर्चं द्वितीयं सूक्तम् । ' आ होता ' इत्यनुक्रमणिका । ' ऋषभस्तु ' इति तुशब्दप्रयोगादस्यापि सूक्तस्य ऋषभ ऋषिः । अनुक्तत्वात् त्रिष्टुप् । अग्निर्देवता । एतदादीनि दश सूक्तानि तृतीयाष्टमवर्जितानि प्रातरनुवाके आश्विनशस्त्रे त्रैष्टुभे छन्दसि विनियुक्तानि । 'अथैतस्याः इति खण्डे सूत्रितम्-- आ होतेति दशानां तृतीयाष्टमे उद्धरेदिति त्रैष्टुभम् ' ( आश्व. श्रौ. ४. १३) इति । ।


आ होता॑ म॒न्द्रो वि॒दथा॑न्यस्थात्स॒त्यो यज्वा॑ क॒वित॑म॒ः स वे॒धाः ।

वि॒द्युद्र॑थ॒ः सह॑सस्पु॒त्रो अ॒ग्निः शो॒चिष्के॑शः पृथि॒व्यां पाजो॑ अश्रेत् ॥१

आ । होता॑ । म॒न्द्रः । वि॒दथा॑नि । अ॒स्था॒त् । स॒त्यः । यज्वा॑ । क॒विऽत॑मः । सः । वे॒धाः ।

वि॒द्युत्ऽर॑थः । सह॑सः । पु॒त्रः । अ॒ग्निः । शो॒चिःऽके॑शः । पृ॒थि॒व्याम् । पाजः॑ । अ॒श्रे॒त् ॥१

आ । होता । मन्द्रः । विदथानि । अस्थात् । सत्यः । यज्वा । कविऽतमः । सः । वेधाः ।

विद्युत्ऽरथः । सहसः । पुत्रः । अग्निः । शोचिःऽकेशः । पृथिव्याम् । पाजः । अश्रेत् ॥१

ऋषभोऽग्निं स्तौति । "होता देवानामाह्वाता "मन्द्रः स्तोतुः मादयिता “सत्यः सत्यकर्मा "कवितमः अतिशयेन मेधावी “यज्वा देवानां यष्टा "वेधाः सर्वस्य जगतो विधाता । एवंविधमहिमोपेतः “सः अग्निः “विदथानि अस्माभिः क्रियमाणान् यज्ञान् “आ “अस्थात् आतिष्ठति प्राप्नोति । किंच “विद्युद्रथः विद्योतमानयानोपेतः “शोचिष्केशः । शोचींषि ज्वालाः केशा यस्य सः । ज्वालामयकेशोपेतः सहसस्पुत्रः बलस्य सूनुः एवंभूतः सः “अग्निः “पृथिव्यां विस्तीर्णेऽन्तरिक्षे “पाजः तेजः स्वकीयां प्रभाम् "अश्रेत् श्रयते प्रापयति । यद्वा पृथिव्यां भूमौ वर्तमानः पाजो बलं सेवते ॥ मन्द्रः । ‘मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु' । अस्मात् ‘स्फायितञ्चि°' इत्यादिना रक् । इदित्वात् नुम् । अस्थात् । ष्ठा गतिनिवृत्तौ । छन्दसि लुङ्लङ्लिटः' इति वर्तमाने लुङ्। • गातिस्था' इति सिचो लोपः । निघातः । यज्वा । ‘ यज देवपूजासंगतिकरणदानेषु' । ' सुयजोर्ङ्वनिप्' इति ङ्वनिप् । तस्य पित्त्वादनुदात्तस्वरे धातुस्वरः। कवितमः । ‘कु शब्दे'। कौति कूयते वा । अच इः ' इति कर्तरि भावे वा इप्रत्ययः । तमपः पित्त्वादनुदात्तत्वे प्रत्ययस्वरः । शोचिष्केशः । ‘ शुच दीप्तौ । ‘ अर्चिशुचिहुसृपिच्छदिच्छर्दिभ्य इसिः' इति इसिः । प्रत्ययस्वरेणान्तोदात्तः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः । अश्रेत् । श्रिञ् सेवायाम्' इत्यस्य छन्दसि वर्तमाने लङ्। बहुलं छन्दसि ' इति शपो लुक् । सार्वधातुकगुणः । निघातः ।।


अया॑मि ते॒ नम॑उक्तिं जुषस्व॒ ऋता॑व॒स्तुभ्यं॒ चेत॑ते सहस्वः ।

वि॒द्वाँ आ व॑क्षि वि॒दुषो॒ नि ष॑त्सि॒ मध्य॒ आ ब॒र्हिरू॒तये॑ यजत्र ॥२

अया॑मि । ते॒ । नमः॑ऽउक्तिम् । जु॒ष॒स्व॒ । ऋत॑ऽवः । तुभ्य॑म् । चेत॑ते । स॒ह॒स्वः॒ ।

वि॒द्वान् । आ । व॒क्षि॒ । वि॒दुषः॑ । नि । स॒त्सि॒ । मध्ये॑ । आ । ब॒र्हिः । ऊ॒तये॑ । य॒ज॒त्र॒ ॥२

अयामि । ते । नमःऽउक्तिम् । जुषस्व । ऋतऽवः । तुभ्यम् । चेतते । सहस्वः ।

विद्वान् । आ । वक्षि । विदुषः । नि । सत्सि । मध्ये । आ । बर्हिः । ऊतये । यजत्र ॥२

“ऋतावः । ऋतं सत्यभूतो यज्ञः । तद्वन् हे अग्ने “ते त्वद्विषयां “नमउक्तिं नमस्कारवाक्यम् अहम् “अयामि प्रेरयामि उच्चारयामि । हे “सहस्वः । सहो बलम् । तद्वन्नग्ने “चेतते चेतयित्रे कर्मणः प्रज्ञापकाय “तुभ्यं नमउक्तिः क्रियते । तां “जुषस्व । अस्माभिः क्रियमाणां नमस्कारोक्तिं सेवस्व । किंच "विद्वान् आनुपूर्व्येण देवाह्वानाभिज्ञः “विदुषः कर्माभिज्ञान् “आ “वक्षि आवह। किंच "यजत्र यष्टव्य हे अग्ने “ऊतये अस्माकं रक्षणाय “मध्ये “बर्हिः स्तीर्णस्य बर्हिषो मध्ये “आ “नि “षत्सि आ समन्तान्निषीद ॥ अयामि । इण् गतौ ' भौवादिकः । पादादित्वादनिघातः । जुषस्व । जुषी प्रीतिसेवनयोः '। तुदादिः । लोटि रूपम् । निघातः । चेतते । ‘ चिती संज्ञाने' । शतुर्लसार्वधातुकस्वरेणानुदात्तत्वे ततः अन्तोदात्तताभावात् ‘शतुरनुमः' इति विभक्तेरुदात्तताभावः । धातुस्वरः । सहस्वः । सहोऽस्त्यस्येति मतुप् । सकारस्य ‘तसौ मत्वर्थे ' इति भसंज्ञकत्वात् रुर्न भवति । मादुपधायाः' इति मतुपो वत्वम् ।' उगिदचाम्' इति नुम् । हल्ङ्यादिलोपे नकारस्य ' मतुवसो रुः इति रुत्वम्। आमन्त्रितनिघातः । विदुषः। विद ज्ञाने' इत्येतस्मात् उत्तरस्य शतुः ‘विदेः शतुर्वसुः' इति वस्वादेशः । भसंज्ञायां वसोः संप्रसारणम् । प्रत्ययस्वरः । सत्सि । षद्लृ विशरणादिषु । लटि ‘ बहुलं छन्दसि ' इति शपो लुक् । शित्प्रत्ययपरत्वाभावात् सीदादेशाभावः । ‘ सदिरप्रतेः ' इति षत्वम्। यजत्र । यज देवपूजादिषु । ' अमिनक्षियजि इत्यादिना अत्रन्प्रत्ययः । आमन्त्रितनिघातः ॥


द्रव॑तां त उ॒षसा॑ वा॒जय॑न्ती॒ अग्ने॒ वात॑स्य प॒थ्या॑भि॒रच्छ॑ ।

यत्सी॑म॒ञ्जन्ति॑ पू॒र्व्यं ह॒विर्भि॒रा व॒न्धुरे॑व तस्थतुर्दुरो॒णे ॥३

द्रव॑ताम् । ते॒ । उ॒षसा॑ । वा॒जय॑न्ती॒ इति॑ । अ॒ग्ने॒ । वात॑स्य । प॒थ्या॑भिः । अच्छ॑ ।

यत् । सी॒म् । अ॒ञ्जन्ति॑ । पू॒र्व्यम् । ह॒विःऽभिः॑ । आ । व॒न्धुरा॑ऽइव । त॒स्थ॒तुः॒ । दु॒रो॒णे ॥३

द्रवताम् । ते । उषसा । वाजयन्ती इति । अग्ने । वातस्य । पथ्याभिः । अच्छ ।

यत् । सीम् । अञ्जन्ति । पूर्व्यम् । हविःऽभिः । आ । वन्धुराऽइव । तस्थतुः । दुरोणे ॥३

हे “अग्ने “वाजयन्ती वाजमन्नं कुर्वाणे “उषसा उषासानक्ते अहोरात्रौ “ते त्वां “द्रवताम् अभिगच्छताम् । त्वमपि “वातस्य वायोः “पथ्याभिः मार्गैः "अच्छ तावहोरात्रौ शीघ्रमभिगच्छ । "यत यस्मात्कारणात् अहोरात्राग्न्योः परस्पराभिगमनेनान्योन्यसंबन्धस्तस्मादहोरात्रयोः सायंप्रातःकालयोः “पूर्व्यं पुरातनं त्वामृत्विजः "हविर्भिः आज्यादिभिः “सीं सर्वतः “अञ्जन्ति सिञ्चन्ति । किंच “वन्धुरेव । यथा कूवरस्थान परस्परसंसक्तेषाद्वयोपेतं तद्वत्संसक्तौ तावहोरात्रौ “दुरोणे अस्माकं गृहे अग्निहोत्रादिकर्मसिद्ध्यर्थम् “आ आवृत्य पुनः पुनरावर्तमानौ सन्तौ “तस्थतुः तिष्ठताम् ॥ द्रवताम् । ‘ द्रु गतौ ' इत्यस्य लोटि रूपम् । पथ्याभिः । पथिषु साधव इत्यर्थे ' तत्र साधुः ' ( पा. सू. ४. ४. ९८ ) इति यत् । नस्तद्धिते ' इति टिलोपः । ‘ तित्स्वरितम्' इति स्वरितः । तस्थतुः । तिष्ठतेर्लिट्यतुसि रूपम् । निघातः ॥


मि॒त्रश्च॒ तुभ्यं॒ वरु॑णः सह॒स्वोऽग्ने॒ विश्वे॑ म॒रुतः॑ सु॒म्नम॑र्चन् ।

यच्छो॒चिषा॑ सहसस्पुत्र॒ तिष्ठा॑ अ॒भि क्षि॒तीः प्र॒थय॒न्सूर्यो॒ नॄन् ॥४

मि॒त्रः । च॒ । तुभ्य॑म् । वरु॑णः । स॒ह॒स्वः॒ । अग्ने॑ । विश्वे॑ । म॒रुतः॑ । सु॒म्नम् । अ॒र्च॒न् ।

यत् । शो॒चिषा॑ । स॒ह॒सः॒ । पु॒त्र॒ । तिष्ठाः॑ । अ॒भि । क्षि॒तीः । प्र॒थय॑न् । सूर्यः॑ । नॄन् ॥४

मित्रः । च । तुभ्यम् । वरुणः । सहस्वः । अग्ने । विश्वे । मरुतः । सुम्नम् । अर्चन् ।

यत् । शोचिषा । सहसः । पुत्र । तिष्ठाः । अभि । क्षितीः । प्रथयन् । सूर्यः । नॄन् ॥४

“सहस्वः बलवन् हे “अग्ने “मित्रश्च “वरुणः च मित्रावरुणौ "विश्वे "मरुतः सर्वे देवाश्च "तुभ्यं त्वदर्थं “सुम्नं स्तोत्रम् "अर्चन् वहन्ति । यद्वा सर्वे देवास्तुभ्यं त्वां सुम्नं सुखेनार्चन् पूजयन्ति । “यत् यस्मात् कारणात् "सहसस्पुत्र हे अग्ने “सूर्यः । सुष्ठु अर्यः स्वामी । यद्वा सर्वान्तर्यामितया सुष्ठु प्रेरकः । यद्वा सूर्यः शोभनवीर्यः । “अभि “क्षितीः । क्षितिशब्दो मनुष्यवाची ‘विशः क्षितयः' (नि. २.३.६) इति तन्नामसु पाठात् । मनुष्यानभिलक्ष्य “नॄन् मार्गप्रदर्शकत्वेन नेतॄन् आत्मनो रश्मीन् “प्रथयन् सर्वतो विस्तारयंस्त्वं “शोचिषा दीप्त्या समानः सन् "तिष्ठाः तिष्ठसि । तस्मादेते देवाः पूजयन्तीति ॥ अर्चन् ।' अर्च पूजयाम्' इत्यस्य लङि रूपम् । अडभावश्छान्दसः । तिष्ठाः । ‘ ष्ठा गतिनिवृत्तौ' इत्यस्य लेटि रूपम् । यद्योगात् अनिघातः । ‘ पाघ्रा ' इत्यादिना तिष्ठादेशस्याद्युदात्तत्वेन निपातनादाद्युदात्तः । सूर्यः । ‘राजसूयसूर्य° ' इति क्यबन्तत्वेन निपातनात् सर्वार्थाः सिद्धा भवन्ति ॥


व॒यं ते॑ अ॒द्य र॑रि॒मा हि काम॑मुत्ता॒नह॑स्ता॒ नम॑सोप॒सद्य॑ ।

यजि॑ष्ठेन॒ मन॑सा यक्षि दे॒वानस्रे॑धता॒ मन्म॑ना॒ विप्रो॑ अग्ने ॥५

व॒यम् । ते॒ । अ॒द्य । र॒रि॒म । हि । काम॑म् । उ॒त्ता॒नऽह॑स्ताः । नम॑सा । उ॒प॒ऽसद्य॑ ।

यजि॑ष्ठेन । मन॑सा । य॒क्षि॒ । दे॒वान् । अस्रे॑धता । मन्म॑ना । विप्रः॑ । अ॒ग्ने॒ ॥५

वयम् । ते । अद्य । ररिम । हि । कामम् । उत्तानऽहस्ताः । नमसा । उपऽसद्य ।

यजिष्ठेन । मनसा । यक्षि । देवान् । अस्रेधता । मन्मना । विप्रः । अग्ने ॥५

हे “अग्ने “उत्तानहस्ताः हविःस्वीकरणादुत्तानपाणयः “वयं “कामं कमनीयं पुरोडाशादिहविः "ते तुभ्यम् “अद्य इदानीमस्मिन् कर्मणि "ररिम दद्मः । “नमसा नमस्कारेण “उपसद्य प्रसन्नो भूत्वा “यजिष्ठेन यष्टृतमेन यागेच्छावता “मनसा अन्तःकरणेन "देवान् “यक्षि यजनीयान् देवान् यज पूजय। किंच “विप्रः मेधावी कर्माभिज्ञः त्वम् “अस्रेधता अक्षीणेन प्रभूतेन “मन्मना मन्तव्येन स्तोत्रेण देवान् पूजय' ।। अद्य । ‘ सद्यः परुत्परार्यैषमः' इत्यादिना निपातितः । अन्तोदात्तश्च । ररिम । ‘रा दाने ' इत्यस्य वर्तमाने लिटि ‘ परस्मैपदानां णलतुः ' ( पा. सू. ३. ४. ८२ ) इत्यादिना मसो मादेशः ।। क्रादिनियमादिडागमः । अतो लोप इटि च ' इत्याकारलोपः । हियोगादनिघातः । ‘ आगमा अनुदात्ताः' इतीटोऽनुदात्तत्वात् प्रत्ययस्वरः । उपसद्य। ' षद्लृ विशरणगत्यवसादनेषु'। अस्य क्त्वा । ‘ समासेऽनञ्पूर्वे क्त्वो ल्यप् ' इति ल्यप् । लित्स्वरः। यक्षि । ‘ यज देवपूजासंगतिकरणदानेषु'। लोटि ‘ बहुलं छन्दसि ' इति शपो लुक् । पत्वकत्वे । सिपो ह्यादेशाभावश्छान्दसः ।। अस्रेधंता । स्रिधिः क्षयार्थः । तत्पुरुषे ' इति नञ्स्वरः ।।


त्वद्धि पु॑त्र सहसो॒ वि पू॒र्वीर्दे॒वस्य॒ यन्त्यू॒तयो॒ वि वाजाः॑ ।

त्वं दे॑हि सह॒स्रिणं॑ र॒यिं नो॑ऽद्रो॒घेण॒ वच॑सा स॒त्यम॑ग्ने ॥६

त्वत् । हि । पु॒त्र॒ । स॒ह॒सः॒ । वि । पू॒र्वीः । दे॒वस्य॑ । यन्ति॑ । ऊ॒तयः॑ । वि । वाजाः॑ ।

त्वम् । दे॒हि॒ । स॒ह॒स्रिण॑म् । र॒यिम् । नः॒ । अ॒द्रो॒घेण॑ । वच॑सा । स॒त्यम् । अ॒ग्ने॒ ॥६

त्वत् । हि । पुत्र । सहसः । वि । पूर्वीः । देवस्य । यन्ति । ऊतयः । वि । वाजाः ।

त्वम् । देहि । सहस्रिणम् । रयिम् । नः । अद्रोघेण । वचसा । सत्यम् । अग्ने ॥६

“सहसः “पुत्र बलस्य पुत्र हे “अग्ने “देवस्य देवनशीलस्य कर्मकरणप्रवृत्तस्य यजमानस्य “त्वत् त्वत्तः सकाशात् "पूर्वीः प्रभूताः “ऊतयः विघ्नपरिहारेण कर्मपरिपालनादिरूपाः रक्षाः “वि “यन्ति “हि विविधं गच्छन्ति खलु। तमिमं यजमानं प्राप्नुवन्ति । तथा “वाजाः अन्नानि “वि यन्ति । एनं यजमानं प्राप्नुवन्ति । किंच हे अग्ने “त्वं “सहस्रिणं सहस्रसंख्याकं “रयिं धनं “नः अस्मभ्यं “देहि । तथा “अद्रोघेण द्रोहरहितेन पापशून्येन “वचसा वाक्येन युक्तं “सत्यं सत्यशीलं सन्मार्गे प्रवर्तमानं पुत्रं च देहि प्रयच्छ” ॥ त्वत् । युमच्छब्दस्य पञ्चम्येकवचने त्वादेशः । ङसेः ‘एकवचनस्य च (पा, सू. ७. १. ३२) इत्यदादेशः । एकादेशस्वरः । पुत्र सहसः । ‘ परमपि छन्दसि ' इति पराङ्गवद्भावात् द्वयोः सर्वानुदात्तत्वम् । देहि । डुदाञ् दाने ' इत्यस्य लोटि ध्वसोरेद्धौ°' इति धातोरेत्वम् अभ्यासलोपश्च । निघातः । अद्रोघेण । 'द्रुह जिघांसायाम् । घञ् । द्रोघः । घकारश्छान्दसः । ‘ नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् ।।


तुभ्यं॑ दक्ष कविक्रतो॒ यानी॒मा देव॒ मर्ता॑सो अध्व॒रे अक॑र्म ।

त्वं विश्व॑स्य सु॒रथ॑स्य बोधि॒ सर्वं॒ तद॑ग्ने अमृत स्वदे॒ह ॥७

तुभ्य॑म् । द॒क्ष॒ । क॒वि॒क्र॒तो॒ इति॑ कविऽक्रतो । यानि॑ । इ॒मा । देव॑ । मर्ता॑सः । अ॒ध्व॒रे । अक॑र्म ।

त्वम् । विश्व॑स्य । सु॒ऽरथ॑स्य । बो॒धि॒ । सर्व॑म् । तत् । अ॒ग्ने॒ । अ॒मृ॒त॒ । स्व॒द॒ । इ॒ह ॥७

तुभ्यम् । दक्ष । कविक्रतो इति कविऽक्रतो । यानि । इमा । देव । मर्तासः । अध्वरे । अकर्म ।

त्वम् । विश्वस्य । सुऽरथस्य । बोधि । सर्वम् । तत् । अग्ने । अमृत । स्वद । इह ॥७

“दक्ष समृद्धतया सामर्थ्योपेत “कविक्रतो अतीन्द्रियविषयप्रज्ञोपेत सर्वज्ञ “देव दीप्यमान हे अग्ने “मर्तासः यजमाना वयं “तुभ्यं त्वदर्थं “यानीमा यानि इमा इमानि हवींषि “अध्वरे यज्ञे “अकर्म हविस्त्यागमकार्ष्म । “त्वं च “सुरथस्य शोभनयानोपेतस्य “विश्वस्य सर्वस्य यजमानस्य “बोधि गोपायिता भवामीति बुध्यस्व । हे “अमृत मरणधर्मरहित “अग्ने “इह अस्मिन्कर्मणि अस्माभिः दत्तं “तत् “सर्वं हविः “स्वद आस्वादय ॥ अकर्म। डुकृञ् करणे' इत्यस्य लङि ‘छन्दस्युभयथा' इति मस आर्धधातुकत्वेन ङित्त्वाभावाद्गुणः । यद्वृत्तयोगादनिघातः । बोधि । ‘बुध अवगमने'। ‘छन्दसि लुङ' इति लोडर्थे लुङ् । ‘ तिङा तिङो भवन्ति इति सिपस्तादेशः । ‘ दीपजनबुध° । इत्यादिना कर्तरि चिण् । ' चिणो लुक् ' इति तप्रत्ययस्य लोपः । अडभावश्छान्दसः । स्वद । स्वद आस्वादने । अन्तर्भावितण्यर्थः । लोटि रूपम् । निघातः ॥ ॥ १४ ॥


मण्डल ३

सूक्तं ३.१

सूक्तं ३.२

सूक्तं ३.३

सूक्तं ३.४

सूक्तं ३.५

सूक्तं ३.६

सूक्तं ३.७

सूक्तं ३.८

सूक्तं ३.९

सूक्तं ३.१०

सूक्तं ३.११

सूक्तं ३.१२

सूक्तं ३.१३

सूक्तं ३.१४

सूक्तं ३.१५

सूक्तं ३.१६

सूक्तं ३.१७

सूक्तं ३.१८

सूक्तं ३.१९

सूक्तं ३.२०

सूक्तं ३.२१

सूक्तं ३.२२

सूक्तं ३.२३

सूक्तं ३.२४

सूक्तं ३.२५

सूक्तं ३.२६

सूक्तं ३.२७

सूक्तं ३.२८

सूक्तं ३.२९

सूक्तं ३.३०

सूक्तं ३.३१

सूक्तं ३.३२

सूक्तं ३.३३

सूक्तं ३.३४

सूक्तं ३.३५

सूक्तं ३.३६

सूक्तं ३.३७

सूक्तं ३.३८

सूक्तं ३.३९

सूक्तं ३.४०

सूक्तं ३.४१

सूक्तं ३.४२

सूक्तं ३.४३

सूक्तं ३.४४

सूक्तं ३.४५

सूक्तं ३.४६

सूक्तं ३.४७

सूक्तं ३.४८

सूक्तं ३.४९

सूक्तं ३.५०

सूक्तं ३.५१

सूक्तं ३.५२

सूक्तं ३.५३

सूक्तं ३.५४

सूक्तं ३.५५

सूक्तं ३.५६

सूक्तं ३.५७

सूक्तं ३.५८

सूक्तं ३.५९

सूक्तं ३.६०

सूक्तं ३.६१

सूक्तं ३.६२

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.१४&oldid=209088" इत्यस्माद् पुनः प्राप्तिः