← सूक्तं ३.२० ऋग्वेदः - मण्डल ३
सूक्तं ३.२१
गाथी कौशिकः
सूक्तं ३.२२ →
दे. अग्निः। १ त्रिष्टुप्, २-३ अनुष्टुप्, ४ विराड्रूपा, ५ सतोबृहती


इमं नो यज्ञममृतेषु धेहीमा हव्या जातवेदो जुषस्व ।
स्तोकानामग्ने मेदसो घृतस्य होतः प्राशान प्रथमो निषद्य ॥१॥
घृतवन्तः पावक ते स्तोका श्चोतन्ति मेदसः ।
स्वधर्मन्देववीतये श्रेष्ठं नो धेहि वार्यम् ॥२॥
तुभ्यं स्तोका घृतश्चुतोऽग्ने विप्राय सन्त्य ।
ऋषिः श्रेष्ठः समिध्यसे यज्ञस्य प्राविता भव ॥३॥
तुभ्यं श्चोतन्त्यध्रिगो शचीव स्तोकासो अग्ने मेदसो घृतस्य ।
कविशस्तो बृहता भानुनागा हव्या जुषस्व मेधिर ॥४॥
ओजिष्ठं ते मध्यतो मेद उद्भृतं प्र ते वयं ददामहे ।
श्चोतन्ति ते वसो स्तोका अधि त्वचि प्रति तान्देवशो विहि ॥५॥


सायणभाष्यम्

‘ इमं नः' इति पञ्चर्चं नवमं सूक्तम् । अत्रेयमनुक्रमणिका - ‘ इमं न उपाद्ये अनुष्टुभौ विराड्रूपा सतोबृहती चान्त्या' इति । द्वितीयातृतीये अनुष्टुभौ पञ्चमी विराड्रूपा सतोबृहती च । अनुक्तत्वात्प्रथमाचतुर्थ्यौ त्रिष्टुभौ । अस्यापि गाथी ऋषिः । पशौ स्तोकानुवचने इदं सूक्तम् । सूत्रितं च -- जुषस्व सप्रथस्तममिमं नो यज्ञम् ' ( आश्व. श्रौ. ३. ४ ) इति ।।


इ॒मं नो॑ य॒ज्ञम॒मृते॑षु धेही॒मा ह॒व्या जा॑तवेदो जुषस्व ।

स्तो॒काना॑मग्ने॒ मेद॑सो घृ॒तस्य॒ होत॒ः प्राशा॑न प्रथ॒मो नि॒षद्य॑ ॥१

इ॒मम् । नः॒ । य॒ज्ञम् । अ॒मृते॑षु । धे॒हि॒ । इ॒मा । ह॒व्या । जा॒त॒ऽवे॒दः॒ । जु॒ष॒स्व॒ ।

स्तो॒काना॑म् । अ॒ग्ने॒ । मेद॑सः । घृ॒तस्य॑ । होत॒रिति॑ । प्र । अ॒शा॒न॒ । प्र॒थ॒मः । नि॒ऽसद्य॑ ॥१

इमम् । नः । यज्ञम् । अमृतेषु । धेहि । इमा । हव्या । जातऽवेदः । जुषस्व ।

स्तोकानाम् । अग्ने । मेदसः । घृतस्य । होतरिति । प्र । अशान । प्रथमः । निऽसद्य ॥१

गाथी प्रार्थयते । हे “जातवेदः जातप्रज्ञ अग्ने “नः अस्माकं संबन्धिनम् “इमं “यज्ञं पशुयागम् “अमृतेषु मरणधर्मरहितेषु यष्टव्यदेवेषु “धेहि तदधीनतया समर्पय । त्वं च “इमा इमान्यस्माभिर्दीयमानानि “हव्या हव्यानि हवींषि "जुषस्व सेवस्व । किंच “होतः देवानामाह्वातः । ‘ अग्निर्वै देवानां होता ' ( ऐ. ब्रा. ३. १४ ) इत्याम्नानात् । तादृश हे “अग्ने “निषद्य वेद्यामुपविश्य "प्रथमः सर्वेषामृत्विजामादिमः सन् “मेदसः वपाख्यस्य हविषः “घृतस्य आज्यस्यं च “स्तोकानाम् । द्वितीयार्थे षष्ठी । मेदोघृतयोर्ये स्तोका बिन्दवो विद्यन्ते तान्प्रकर्षेण “अशान भक्षय। पिबेत्यर्थः ॥ धेहि । दधातेर्लोटि रूपम् । जुषस्व । जुषी प्रीतिसेवनयोः' इत्यस्य लोटि आत्मनेपदिनो रूपम् । अशान । ‘ अश भोजने ' इत्यस्य लोटि ‘हलः श्नः शानज्झौ ' ( पा. सू. ३. १.८३) इति शानजादेशः । पश्चात् ‘ अतो हेः' इति हेर्लुक्। निघातः। प्रथमः। प्रथ प्रख्याने' । प्रथमः प्रथन्तेऽस्मात् द्वितीयादयः इति । ‘प्रथेरमच्' ( उ. सू. ५. ७४६ ) इत्यमच् । चित्त्वादन्तोदात्तः । निषद्य । ‘षद्लृ विशरणगत्यवसादनेषु ' इत्यस्य ल्यपि रूपम् । “सदिरप्रतेः' इति षत्वम् । ‘लिति' इति प्रत्ययात्पूर्वस्योदात्तत्वम् ॥


घृ॒तव॑न्तः पावक ते स्तो॒काः श्चो॑तन्ति॒ मेद॑सः ।

स्वध॑र्मन्दे॒ववी॑तये॒ श्रेष्ठं॑ नो धेहि॒ वार्य॑म् ॥२

घृ॒तऽव॑न्तः । पा॒व॒क॒ । ते॒ । स्तो॒काः । श्चो॒त॒न्ति॒ । मेद॑सः ।

स्वऽध॑र्मन् । दे॒वऽवी॑तये । श्रेष्ठ॑म् । नः॒ । धे॒हि॒ । वार्य॑म् ॥२

घृतऽवन्तः । पावक । ते । स्तोकाः । श्चोतन्ति । मेदसः ।

स्वऽधर्मन् । देवऽवीतये । श्रेष्ठम् । नः । धेहि । वार्यम् ॥२

“पावक पापशोधक हे अग्ने “स्वधर्मन् स्वायत्तधर्मके साङ्गेऽस्मिन् यज्ञे "ते तव भक्षणार्थं “देववीतये यजनीयदेवानां भक्षणार्थं च “घृतवन्तः घृतोपेताः “मेदसः मेदोरूपस्य हविषः “स्तोकाः बिन्दवः “श्चोतन्ति क्षरन्ति । अथवा देववीतये देवस्य तव वीतये इति योजनीयम् । तस्मात् “वार्यं वरणीयं संभजनीयं “श्रेष्ठम् उत्तमं धनं “नः अस्मभ्यं “धेहि प्रयच्छ ॥ श्चोतन्ति । ‘ श्चुतिर् क्षरणे' इत्यस्य लटि रूपम् । स्वधर्मन् । स्वेऽङ्गभूताः धर्माणो यस्येति बहुव्रीहौ पूर्वपदप्रकृतिस्वरः । ‘ सुपां सुलुक् ' इति सप्तम्या लुक् । देववीतये । देवानां वीतिः प्रीतिर्यस्यां भक्षणक्रियायां सा देववीतिः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः । श्रेष्ठम् । प्रशस्यशब्दादतिशायने इष्टन् । प्रशस्यस्य श्रः' इति श्रादेशः। गुणः । एकादेशस्वरः । धेहि । दधातेर्लोट् । वार्यम् । ‘ वृङ् संभक्तौ '। ऋहलोर्ण्यत्' इति ण्यत् । ‘ ईडवन्द ' इत्यादिनाद्युदात्तत्वम् । एतिस्तुशास्' इत्यादिना क्यप् वृणोतेरेव न वृङः ॥


तुभ्यं॑ स्तो॒का घृ॑त॒श्चुतोऽग्ने॒ विप्रा॑य सन्त्य ।

ऋषि॒ः श्रेष्ठ॒ः समि॑ध्यसे य॒ज्ञस्य॑ प्रावि॒ता भ॑व ॥३

तुभ्य॑म् । स्तो॒काः । घृ॒त॒ऽश्चुतः॑ । अग्ने॑ । विप्रा॑य । स॒न्त्य॒ ।

ऋषिः॑ । श्रेष्ठः॑ । सम् । इ॒ध्य॒से॒ । य॒ज्ञस्य॑ । प्र॒ऽअ॒वि॒ता । भ॒व॒ ॥३

तुभ्यम् । स्तोकाः । घृतऽश्चुतः । अग्ने । विप्राय । सन्त्य ।

ऋषिः । श्रेष्ठः । सम् । इध्यसे । यज्ञस्य । प्रऽअविता । भव ॥३

“सन्त्य यष्टृभिः संभजनीय यद्वा यष्टृभ्यः फलप्रद हे अग्ने “विप्राय मेधाविने “तुभ्यं त्वदर्थं “घृतश्रुतः घृतक्षरणयुक्ताः स्तोकाः सन्ति । “ऋषिः अतीन्द्रियार्थदर्शी अत एव “श्रेष्ठः सर्वातिशायी त्वं समिध्यसे घृतयुक्तमेदोबिन्दुभिः सम्यक् प्रज्वल्यसे । स त्वं “यज्ञस्य अस्माभिः क्रियमाणस्य पशुयागस्य “प्राविता प्रकर्षेण पालकः “भव ॥ तुभ्यम् । युष्मच्छब्दस्य ङयि ' तुभ्यमह्यौ ङयि ' (पा. सू. ७. २. ९५ ) इति तुभ्यादेशः । ‘ ङेप्रथमयोरम्' इति ङेरमादेशः । ‘ ङयि च ' इति आद्युदात्तत्वम् । सन्त्य । ‘षण संभक्तौ'; ‘षणु दाने' वा । क्तिच्क्तौ च संज्ञायाम्' इति क्तिच् । न क्तिचि दीर्घश्च' इति दीर्घनलोपाभावः । सन्तौ भवः भवे छन्दसि' इति तत्र साधुः' इति वा यत्प्रत्ययः । यस्येति लोपः। आमन्त्रितत्वान्निघातः। इध्यसे । 'ञिइन्धी दीप्तौ' । कर्मणि यक् । कित्त्वादनुनासिकलोपः । निघातः। प्राविता । अव रक्षणादिषु । तृचि रूपम् । समासस्वरः । भव । निघातः॥


तुभ्यं॑ श्चोतन्त्यध्रिगो शचीवः स्तो॒कासो॑ अग्ने॒ मेद॑सो घृ॒तस्य॑ ।

क॒वि॒श॒स्तो बृ॑ह॒ता भा॒नुनागा॑ ह॒व्या जु॑षस्व मेधिर ॥४

तुभ्य॑म् । श्चो॒त॒न्ति॒ । अ॒ध्रि॒गो॒ इत्य॑ध्रिऽगो । श॒ची॒ऽवः॒ । स्तो॒कासः॑ । अ॒ग्ने॒ । मेद॑सः । घृ॒तस्य॑ ।

क॒वि॒ऽश॒स्तः । बृ॒ह॒ता । भा॒नुना॑ । आ । अ॒गाः॒ । ह॒व्या । जु॒ष॒स्व॒ । मे॒धि॒र॒ ॥४

तुभ्यम् । श्चोतन्ति । अध्रिगो इत्यध्रिऽगो । शचीऽवः । स्तोकासः । अग्ने । मेदसः । घृतस्य ।

कविऽशस्तः । बृहता । भानुना । आ । अगाः । हव्या । जुषस्व । मेधिर ॥४

“अध्रिगो अधृतगमन सततगमनस्वभाव । अत एव "शचीवः शक्तिमन् हे “अग्ने “तुभ्यं त्वदर्थं "मेदसः मेदोरूपस्य हविषः “घृतस्य “स्तोकासः बिन्दवः “श्चोतन्ति स्रवन्ति । तस्मात् “कविशस्तः कविभिः कर्माभिज्ञैर्होत्रादिभिः स्तुतस्त्वं “हता प्रभूतेन “भानुना तेजसा सहितः सन् “आगाः अस्मदीयं पशुयागमभ्यागच्छ । आगत्य च “मेधिर प्रज्ञावन्नग्ने “हव्या अस्माभिर्दीयमानानि वपादीनि हवींषि “जुषस्व सेवस्व ॥ अध्रिगो । गमनं गौरिति गम्लृ सृप्लृ गतौ ' इत्यस्य भावे ‘ गमेर्डोः' इति डोः । अधृता गौर्येन इत्यत्र ‘ गोस्त्रियोरुपसर्जनस्य ' इति गोशब्दस्य ह्रस्वत्वम् । धृतशब्दस्य" पृषोदरादित्वात् ध्रिभावः। संबोधने ‘संबुद्धौ च ' (पा. सू. ७. ३. १०६ ) इति गुणः। अपादादित्वान्निघातः । शचीवः । मतुपः मतुवसो र ० ' इति रत्वम् । कविशस्तः । ‘ शंसु स्तुतौ इत्यस्य निष्ठायामनुनासिकलोपः । ‘ यस्य विभाषा 'इतीट्प्रतिषेधः । ‘थाथघञ्क्ताजबित्रकाणाम् ' इत्यन्तोदात्तत्वम् । भानुना ।' भा दीप्तौ । “ दाभाभ्यां नुः' इति कर्तरि नुः । प्रत्ययस्वरः। अगाः। ‘ इण् गतौ ' इत्यस्य छान्दसे लुङि इणो गा' इति गादेशः । ‘ गातिस्था' इति सिचो लोपः । निघातः । मेधिर । ‘ मेधारथाभ्यामिरनिरचौ वक्तव्यौ ' इतीरन् । आमन्त्रितत्वान्निघातः ॥


ओजि॑ष्ठं ते मध्य॒तो मेद॒ उद्भृ॑तं॒ प्र ते॑ व॒यं द॑दामहे ।

श्चोत॑न्ति ते वसो स्तो॒का अधि॑ त्व॒चि प्रति॒ तान्दे॑व॒शो वि॑हि ॥५

ओजि॑ष्ठम् । ते॒ । म॒ध्य॒तः । मेदः॑ । उत्ऽभृ॑तम् । प्र । ते॒ । व॒यम् । द॒दा॒म॒हे॒ ।

श्चोत॑न्ति । ते॒ । व॒सो॒ऽइति॑ । स्तो॒काः । अधि॑ । त्व॒चि । प्रति॑ । तान् । दे॒व॒ऽशः । वि॒हि॒ ॥५

ओजिष्ठम् । ते । मध्यतः । मेदः । उत्ऽभृतम् । प्र । ते । वयम् । ददामहे ।

श्चोतन्ति । ते । वसोऽइति । स्तोकाः । अधि । त्वचि । प्रति । तान् । देवऽशः । विहि ॥५

हे अग्ने “ओजिष्ठम् अतिशयेन सारयुक्तं “मेदः वपाख्यं हविः “मध्यतः पशोर्मध्यभागात् ते त्वदर्थम् “उद्भृतम् उद्धृतम् अध्वर्य्वादयः “वयम् अस्मिन् पशौ “ते तुभ्यं “प्र “ददामहे उद्धृतं तद्वपाख्यं हविः प्रयच्छामः । “वसो सर्वस्य जगतो वासयितर्हे अग्ने “त्वचि “अधि वपायामुपरि ये “स्तोकाः घृतमिश्रा बिन्दवस्ते “ते त्वदर्थं “श्चोतन्ति स्रवन्ति । यद्वा ते तव त्वच्यधि ज्वालाख्यशरीरस्योपरि श्चोतन्ति। “तान् स्तोकान् "देवशः देवेषु “प्रति “विहि प्रत्येकं विभजस्व ॥ मध्यतः । मध्यशब्दात् ‘पञ्चम्यास्तसिः ' ( पा. सू. ५.४.४४ ) इति तसिः । प्रत्ययस्वरः । उद्भृतम् । “ हृञ् हरणे'। कर्मणि क्तः । ‘हृग्रहोर्भश्छन्दसि' इति हकारस्य भकारः । ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । ददामहे ।' दद दाने ' इत्यस्य लटि ङित्त्वादात्मनेपदम् । अतो दीर्घो यञि ' इति दीर्घः । निघातः । श्चोतन्ति । ‘श्चुतिर् क्षरणे' । पादादित्वादनिघातः । अन्तेर्लसार्वधातुकस्वरेण अनुदात्तत्वे कृते धातुस्वरः । त्वचि । तनु विस्तारे । तनोतेरनश्च वः' (उ. सू. २.२२१ ) इति कर्तरि कर्मणि वा चिक् । अकारनकारयोर्वकारादेशः । तनोति तायते वा त्वक् । ‘ सावेकाचः० इति विभक्तेरुदात्तत्वम् । विहि । वी कान्तिगत्यादिष्वित्यस्य लोटि अदादित्वाच्छपो लुक् । ह्रस्वश्छान्दसः । निघातः। खिलम् ॥ ॥ २१ ॥


३.२१.१

संशयोऽधः स्विदासीच्च कत्थना स्यादहं मनुः । इमं नो यज्ञमित्यस्यां नियोगः पाद उच्यते ।।बृहद्देवता १.५१ ।।

मण्डल ३

सूक्तं ३.१

सूक्तं ३.२

सूक्तं ३.३

सूक्तं ३.४

सूक्तं ३.५

सूक्तं ३.६

सूक्तं ३.७

सूक्तं ३.८

सूक्तं ३.९

सूक्तं ३.१०

सूक्तं ३.११

सूक्तं ३.१२

सूक्तं ३.१३

सूक्तं ३.१४

सूक्तं ३.१५

सूक्तं ३.१६

सूक्तं ३.१७

सूक्तं ३.१८

सूक्तं ३.१९

सूक्तं ३.२०

सूक्तं ३.२१

सूक्तं ३.२२

सूक्तं ३.२३

सूक्तं ३.२४

सूक्तं ३.२५

सूक्तं ३.२६

सूक्तं ३.२७

सूक्तं ३.२८

सूक्तं ३.२९

सूक्तं ३.३०

सूक्तं ३.३१

सूक्तं ३.३२

सूक्तं ३.३३

सूक्तं ३.३४

सूक्तं ३.३५

सूक्तं ३.३६

सूक्तं ३.३७

सूक्तं ३.३८

सूक्तं ३.३९

सूक्तं ३.४०

सूक्तं ३.४१

सूक्तं ३.४२

सूक्तं ३.४३

सूक्तं ३.४४

सूक्तं ३.४५

सूक्तं ३.४६

सूक्तं ३.४७

सूक्तं ३.४८

सूक्तं ३.४९

सूक्तं ३.५०

सूक्तं ३.५१

सूक्तं ३.५२

सूक्तं ३.५३

सूक्तं ३.५४

सूक्तं ३.५५

सूक्तं ३.५६

सूक्तं ३.५७

सूक्तं ३.५८

सूक्तं ३.५९

सूक्तं ३.६०

सूक्तं ३.६१

सूक्तं ३.६२

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.२१&oldid=301854" इत्यस्माद् प्रतिप्राप्तम्