ऋग्वेदः सूक्तं ३.३८
← सूक्तं ३.३७ | ऋग्वेदः - मण्डल ३ सूक्तं ३.३८ प्रजापतिर्वैश्वामित्रः, प्रजापतिर्वाच्यो वा, तावुभावपि वा गाथिनो विश्वामित्रो वा। |
सूक्तं ३.३९ → |
दे. इन्द्रः । त्रिष्टुप् । |
अभि तष्टेव दीधया मनीषामत्यो न वाजी सुधुरो जिहानः ।
अभि प्रियाणि मर्मृशत्पराणि कवीँरिच्छामि संदृशे सुमेधाः ॥१॥
इनोत पृच्छ जनिमा कवीनां मनोधृतः सुकृतस्तक्षत द्याम् ।
इमा उ ते प्रण्यो वर्धमाना मनोवाता अध नु धर्मणि ग्मन् ॥२॥
नि षीमिदत्र गुह्या दधाना उत क्षत्राय रोदसी समञ्जन् ।
सं मात्राभिर्ममिरे येमुरुर्वी अन्तर्मही समृते धायसे धुः ॥३॥
आतिष्ठन्तं परि विश्वे अभूषञ्छ्रियो वसानश्चरति स्वरोचिः ।
महत्तद्वृष्णो असुरस्य नामा विश्वरूपो अमृतानि तस्थौ ॥४॥
असूत पूर्वो वृषभो ज्यायानिमा अस्य शुरुधः सन्ति पूर्वीः ।
दिवो नपाता विदथस्य धीभिः क्षत्रं राजाना प्रदिवो दधाथे ॥५॥
त्रीणि राजाना विदथे पुरूणि परि विश्वानि भूषथः सदांसि ।
अपश्यमत्र मनसा जगन्वान्व्रते गन्धर्वाँ अपि वायुकेशान् ॥६॥
तदिन्न्वस्य वृषभस्य धेनोरा नामभिर्ममिरे सक्म्यं गोः ।
अन्यदन्यदसुर्यं वसाना नि मायिनो ममिरे रूपमस्मिन् ॥७॥
तदिन्न्वस्य सवितुर्नकिर्मे हिरण्ययीममतिं यामशिश्रेत् ।
आ सुष्टुती रोदसी विश्वमिन्वे अपीव योषा जनिमानि वव्रे ॥८॥
युवं प्रत्नस्य साधथो महो यद्दैवी स्वस्तिः परि णः स्यातम् ।
गोपाजिह्वस्य तस्थुषो विरूपा विश्वे पश्यन्ति मायिनः कृतानि ॥९॥
शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ ।
शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥१०॥
सायणभाष्यम्
' अभि तष्टेव' इति दशर्चं नवमं सूक्तम् । अत्रानुक्रमणिका -- अभि तष्टेव दश प्रजापतिः स वैश्वामित्रो वाच्यो वा द्वौ वा तौ न वैकोऽपि ' इति । विश्वामित्रगोत्रः प्रजापतिर्वाचः पुत्रः प्रजापतिर्वा ऋषिः । तावुभावपि समुच्चितावस्य सूक्तस्य ऋषी' इति द्वितीयः पक्षः । अथवा नोभावपि किंतु विश्वामित्र एवेति तृतीयः पक्षः । त्रिष्टुप् छन्दः । इन्द्रो देवता ॥
चातुर्विंशिकेऽहनि माध्यंदिने सवनेऽच्छावाकशस्त्रे अभि तष्टेव ' इत्यहरहःशस्यनामकं सूक्तम् । सूत्रितं च-' उदु ब्रह्माण्यभि तष्टेवेतीतरावहरहःशस्ये ' ( आश्व. श्रौ. ७. ४ ) इति । एवं सर्वत्राहर्गणेषु द्वितीयादिष्वहःसु माध्यंदिने सवनेऽच्छावाकशस्त्र एतत्सूक्तम् ।।।
अ॒भि तष्टे॑व दीधया मनी॒षामत्यो॒ न वा॒जी सु॒धुरो॒ जिहा॑नः ।
अ॒भि प्रि॒याणि॒ मर्मृ॑श॒त्परा॑णि क॒वीँरि॑च्छामि सं॒दृशे॑ सुमे॒धाः ॥१
अ॒भि । तष्टा॑ऽइव । दी॒ध॒य॒ । म॒नी॒षाम् । अत्यः॑ । न । वा॒जी । सु॒ऽधुरः॑ । जिहा॑नः ।
अ॒भि । प्रि॒याणि॑ । मर्मृ॑शत् । परा॑णि । क॒वीन् । इ॒च्छा॒मि॒ । स॒म्ऽदृशे॑ । सु॒ऽमे॒धाः ॥१
अभि । तष्टाऽइव । दीधय । मनीषाम् । अत्यः । न । वाजी । सुऽधुरः । जिहानः ।
अभि । प्रियाणि । मर्मृशत् । पराणि । कवीन् । इच्छामि । सम्ऽदृशे । सुऽमेधाः ॥१
यजमानः स्तोतारं प्रति ब्रूते । हे स्तोतः "मनीषाम् इन्द्रविषयां स्तुतिम् "अभि “दीधय सर्वतो दीप्तां कुरु । तत्र दृष्टान्तः । “तष्टेव । यथा तष्टा तक्षणेन काष्ठं संस्करोति तद्वत् । "सुधुरः शोभनया धुरान्वितः “वाजी वेगवान् “अत्यो “न अश्व इव “जिहानः कर्मणि प्रवर्तमानः “पराणि उत्तमानि “प्रियाणि इन्द्रस्य प्रियतमानि । यद्वा । पराणि उत्तरेष्वहःसु क्रियमाणानि कर्माणि “अभि “मर्मृशत् अत्यर्थमभिमृशन् 'सुमेधाः शोभनमेधावानहं “कवीन् । ये पूर्वम् अनुष्ठितयज्ञाः 'देवभूयमगमन् ते कवयः । तान् “संदृशे संद्रष्टुम् “इच्छामि । उक्तार्थे ब्राह्मणम् -’ अभि तष्टेव दीधया मनीषामित्यच्छावाकोऽहरहः शंसत्यभिवत्तत्यै रूपमभि प्रियाणि मर्मृशत्पराणीति यान्येव पराण्यहानि तानि प्रियाणि तान्येव तदभिमर्मृशतो यन्त्यभ्यारभमाणाः परो वा अस्माल्लोकात्स्वर्गो लोकस्तमेव तदभिवदति कवीँरिच्छामि संदृशे सुमेधा इति ये वै ते न ऋषयः पूर्वे प्रेतास्ते वै कवयस्तानेव तदभ्यतिवदति' (ऐ. ब्रा. ६. २० ) इति । तष्टेव । ‘तक्षू त्वक्षू तनूकरणे' इत्यस्य तृनि रूपम् । नित्स्वरः । दीधय । दीधीङ् दीप्तिदेवनयोः' इत्यस्यान्तर्भावितण्यर्थस्य लोटि शपो ' बहुलं छन्दसि । इति लुगभावः । व्यत्ययेन परस्मैपदम् । सुधुरः । ‘ आद्युदात्तं द्व्यच्छन्दसि' इत्युत्तर पदाद्युदात्तत्वम् । जिहानः । ‘ ओहाङ् गतौ ' इत्यस्य शानचि' भृञामित्' इत्यभ्यासस्येत्वम् । चित्त्वादन्तोदात्तत्वे प्राप्ते ‘ अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । मर्मृशत् ।' मृश आमर्शने' इत्यस्य यङ्लुकि ‘ रुग्रिकौ च लुकि ' इत्यभ्यासस्य रुगागमः । तदन्ताच्छतरि रूपम् । नाभ्यस्ताच्छतुः' इति नुमभावः । अभ्यस्तस्वरः । संदृशे । ‘ दृशिर् प्रेक्षणे ' इत्यस्मात् तुमर्थे ' दृशे विख्ये च' इति केन्प्रत्ययान्तत्वेन निपातनादाद्युदात्तः । समासे कृदुत्तरपदस्वरः। सुमेधाः । ‘ नित्यमसिच् प्रजामेधयोः' इत्यसिच्प्रत्ययः । चित्स्वरः ॥
इ॒नोत पृ॑च्छ॒ जनि॑मा कवी॒नां म॑नो॒धृतः॑ सु॒कृत॑स्तक्षत॒ द्यां ।
इ॒मा उ॑ ते प्र॒ण्यो॒३॒॑ वर्ध॑माना॒ मनो॑वाता॒ अध॒ नु धर्म॑णि ग्मन् ॥२
इ॒ना । उ॒त । पृ॒च्छ॒ । जनि॑म । क॒वी॒नाम् । म॒नः॒ऽधृतः॑ । सु॒ऽकृतः॑ । त॒क्ष॒त॒ । द्याम् ।
इ॒माः । ऊं॒ इति॑ । ते॒ । प्र॒ऽन्यः॑ । वर्ध॑मानाः । मनः॑ऽवाताः । अध॑ । नु । धर्म॑णि । ग्म॒न् ॥२
इना । उत । पृच्छ । जनिम । कवीनाम् । मनःऽधृतः । सुऽकृतः । तक्षत । द्याम् ।
इमाः । ऊं इति । ते । प्रऽन्यः । वर्धमानाः । मनःऽवाताः । अध । नु । धर्मणि । ग्मन् ॥२
“उत इत्यामन्त्रणे । हे इन्द्र “कवीनां सुकृतकर्मणां देवभूयं गतानां “जनिम जन्म । केन कर्मणा दिवं गताः कुतो वा तेषामुत्पत्तिः इत्येतमर्थम् “इना ईश्वरान् गुरून् “पृच्छ । ते कवयः “मनोधृतः संयतमनस्का अतः एव “सुकृतः शोभनकर्माणः सन्तः “द्यां दिवं “तक्षत अकुर्वन् । “अध अथेदानीं “धर्मणि अस्मिन् यज्ञे “ते त्वदर्थं "प्रण्यः प्रणीयमानाः “मनोवाताः मनोवेगाः “वर्धमानाः त्वां वर्धयन्त्यः “इमाः अस्माभिः क्रियमाणाः स्तुतयः “नु क्षिप्रं “ग्मन् त्वां गच्छन्तु । “उ सर्वत्र प्रसिद्ध्यर्थः ॥ पृच्छ ।' प्रच्छ ज्ञीप्सायाम्' इत्यस्य लोटि तुदादित्वात् शः । तस्य ङित्त्वात् ग्रहिज्यादिना संप्रसारणम् । निघातः । प्रण्यः । ‘ णीञ् प्रापणे ' इत्यस्मात् औणादिकः कर्मणि क्विप् । सर्वविधीनां छन्दसि विकल्पितत्वादियङादेशं बाधित्वा यणादेशः । ‘ उदात्तस्वरितयोः । इति स्वरितत्वम् । ग्मन् । गमेर्लङि ‘ बहुलं छन्दसि ' इति शपो लुक् । झेर्ङित्वात् ‘गमहन° ' इत्यादिना उपधालोपः । निघातः ॥
नि षी॒मिदत्र॒ गुह्या॒ दधा॑ना उ॒त क्ष॒त्राय॒ रोद॑सी॒ समं॑जन् ।
सं मात्रा॑भिर्ममि॒रे ये॒मुरु॒र्वी अं॒तर्म॒ही समृ॑ते॒ धाय॑से धुः ॥३
नि । सी॒म् । इत् । अत्र॑ । गुह्या॑ । दधा॑नाः । उ॒त । क्ष॒त्राय॑ । रोद॑सी॒ इति॑ । सम् । अ॒ञ्ज॒न् ।
सम् । मात्रा॑भिः । म॒मि॒रे । ये॒मुः । उ॒र्वी इति॑ । अ॒न्तः । म॒ही इति॑ । समृ॑ते॒ इति॒ सम्ऽऋ॑ते । धाय॑से । धु॒रिति॑ धुः ॥३
नि । सीम् । इत् । अत्र । गुह्या । दधानाः । उत । क्षत्राय । रोदसी इति । सम् । अञ्जन् ।
सम् । मात्राभिः । ममिरे । येमुः । उर्वी इति । अन्तः । मही इति । समृते इति सम्ऽऋते । धायसे । धुरिति धुः ॥३
“अत्र भूलोके “गुह्या गुह्यानि कर्माणि "सीमित् सर्वत एव “नि “दधानाः कुर्वाणा एते कवयः “उत अपि च “क्षत्राय बलाय धनाय वा “रोदसी द्यावापृथिव्यौ “समञ्जन् । ओषधीभिः पृथिवीं देवैश्च दिवं संगतामकार्षुः। किंच ते “मात्राभिः । मीयन्ते मान्तीति वा मात्राः शिलोच्चयाः। ताभिर्मात्राभिः “सं “ममिरे । ते रोदस्यावियत्तया परिच्छिन्ने चक्रुश्च । “समृते परस्परं संगते “उर्वी विस्तीर्णे “मही महत्यौ ते द्यावापृथिव्यौ "येमुः नियमितवन्तः । विष्टम्भकेनान्तरिक्षेण “अन्तः उदयच्छन् । तथा “धायसे तयोर्धारणार्थमन्तरिक्षं “धुः व्यधुः ॥ इदवधारणार्थे । गुह्या । गुहायां भवानि । भवार्थे यत् ।' यतोऽनावः' इत्याद्युदात्तः । दधानाः । दधातेः शानचि रूपम् । अभ्यस्तस्वरः । अञ्जन् । ‘ अञ्जू व्यक्तिम्रक्षणगतिषु' इत्यस्य लङि श्नसोरल्लोपः । निघातः । मात्राभिः ।' मा माने ' ‘माङ् माने' वा । ‘हुयाम इत्यादिना त्रन्प्रत्ययः । नित्स्वरः । ममिरे । 'माङ् माने' इत्यस्य लिटि रूपम् । ‘चादिलोपे विभाषा ' इति न निघातः । येमुः । ‘ यम उपरमे ' इत्यस्य लिट्युसि रूपम् । तिङुत्तरत्वादनिघातः । धायसे । ‘ वहिहाधाञ्भ्यश्छन्दसि इत्यसुन् । नित्स्वरः । धुः । दधातेः लुङि रूपम् ॥ २॥
आ॒तिष्ठं॑तं॒ परि॒ विश्वे॑ अभूषं॒छ्रियो॒ वसा॑नश्चरति॒ स्वरो॑चिः ।
म॒हत्तद्वृष्णो॒ असु॑रस्य॒ नामा वि॒श्वरू॑पो अ॒मृता॑नि तस्थौ ॥४
आ॒ऽतिष्ठ॑न्तम् । परि॑ । विश्वे॑ । अ॒भू॒ष॒न् । श्रियः॑ । वसा॑नः । च॒र॒ति॒ । स्वऽरो॑चिः ।
म॒हत् । तत् । वृष्णः॑ । असु॑रस्य । नाम॑ । आ । वि॒श्वऽरू॑पः । अ॒मृता॑नि । त॒स्थौ॒ ॥४
आऽतिष्ठन्तम् । परि । विश्वे । अभूषन् । श्रियः । वसानः । चरति । स्वऽरोचिः ।
महत् । तत् । वृष्णः । असुरस्य । नाम । आ । विश्वऽरूपः । अमृतानि । तस्थौ ॥४
“विश्वे सर्वे कवयो रथम् “आतिष्ठन्तम् इन्द्रं “परि “अभूषन् । परितोऽलमकुर्वन् । “स्वरोचिः । स्वमेव रोचिर्यस्यासौ स्वरोचिः । स्वप्रभयैव दीप्यमान इत्यर्थः । अत एव “श्रियः दीप्तीः "वसानः आच्छादयन् सोऽयमिन्द्रः “चरति सर्वत्र वर्तते । “वृष्णः कामानां वर्षितुः "असुरस्य । अस्यति प्रेरयति सर्वानन्तर्यामितयेत्यसुरः । तस्येन्द्रस्य “तत् तादृशमनुभूतपूर्वं “नाम । नमयति सर्वान् अनेन शत्रूनिति नाम कर्म । यद्वा नम्यते सर्वैर्नमस्क्रियते इति नाम इन्द्रस्य शरीरं कर्म वा। “महत् आश्चर्योपेतं वर्तते । तथा “विश्वरूपः नानाविधरूपतां भजमानः स इन्द्रो वरुणात्मना “अमृतानि जलानि “आ “तस्थौ अधितिष्ठति ॥ विश्वे । जसः शी। अभूषन् । ‘ भूष अलंकारे' ' इत्यस्य लङि रूपम् । वसानः । वस आच्छादने ' इत्यस्य शानचि रूपम्। तस्य लसार्वधातुकस्वरे थातुस्वरः। नाम। ‘ णमु प्रह्वत्वे 'इत्यस्मात् 'नामन्सीमन” ' इत्यादिना मनिन्प्रत्ययान्तत्वेन निपातनादाद्युदात्तः । विश्वरूप इति तस्य संज्ञा । ‘ बहुव्रीहौ विश्वं संज्ञायाम्' इति पूर्वपदान्तोदात्तत्वम् । अमृतानि । ‘ कालाध्वनोरत्यन्तसंयोगे' इति द्वितीया । तस्थौ । तिष्ठतेर्लिटि णलि रूपम् ।।
असू॑त॒ पूर्वो॑ वृष॒भो ज्याया॑नि॒मा अ॑स्य शु॒रुधः॑ संति पू॒र्वीः ।
दिवो॑ नपाता वि॒दथ॑स्य धी॒भिः क्ष॒त्रं रा॑जाना प्र॒दिवो॑ दधाथे ॥५
असू॑त । पूर्वः॑ । वृ॒ष॒भः । ज्याया॑न् । इ॒माः । अ॒स्य॒ । शु॒रुधः॑ । स॒न्ति॒ । पू॒र्वीः ।
दिवः॑ । न॒पा॒ता॒ । वि॒दथ॑स्य । धी॒भिः । क्ष॒त्रम् । रा॒जा॒ना॒ । प्र॒ऽदिवः॑ । द॒धा॒थे॒ इति॑ ॥५
असूत । पूर्वः । वृषभः । ज्यायान् । इमाः । अस्य । शुरुधः । सन्ति । पूर्वीः ।
दिवः । नपाता । विदथस्य । धीभिः । क्षत्रम् । राजाना । प्रऽदिवः । दधाथे इति ॥५
“वृषभः कामानां वर्षकः “पूर्वः चिरन्तनोऽत एव “ज्यायान् इन्द्रः “असूत । अपः ससर्ज । “पूर्वीः बह्व्यः “इमाः अनेन सृष्टा आपः “अस्य “शुरुधः । शुचः पिपासाया रोधयित्र्यः “सन्ति भवन्ति । “दिवो “नपाता दिवो न पातयितारौ हे राजानौ इन्द्रावरुणौ “प्रदिवः प्रकर्षेण द्योतमानस्य “विदथस्य यज्ञकारिणः स्तोतुः “धीभिः स्तुतिभिः “क्षत्रं धनं “दधाथे अस्मभ्यं दातुं धारयेथे ॥ असूत । पूङ् प्राणिगर्भविमोचने ' इत्यस्य लङि रूपम् । अडागमस्वरः । ज्यायान् । प्रशस्यशब्दात् ईयसुनि ‘ज्य च ' ( पा. सू. ५. ३. ६१ ) इति ज्यादेशः । ‘ ज्यादादीयसः' ( पा. सू. ६. ४. १६० ) इति ईयसः आदेः ईकारस्य' आकारादेशः । नित्त्वादाद्युदात्तः । शुरुधः । पृषोदरादिः । नपाता । ‘ नभ्राण्नपात्' इति निपातनात् नञः प्रकृतिभावः । आमन्त्रितत्वात निघातः । धीभिः । ‘ सावेकाचः° ' इति विभक्तेरुदात्तत्वम् । राजाना । आमन्त्रितत्वात निघातः । दधाथे । दधातेर्लटि रूपम् । निघातः ॥ ॥ २३ ॥
त्रीणि॑ राजाना वि॒दथे॑ पु॒रूणि॒ परि॒ विश्वा॑नि भूषथः॒ सदां॑सि ।
अप॑श्य॒मत्र॒ मन॑सा जग॒न्वान्व्र॒ते गं॑ध॒र्वाँ अपि॑ वा॒युके॑शान् ॥६
त्रीणि॑ । रा॒जा॒ना॒ । वि॒दथे॑ । पु॒रूणि॑ । परि॑ । विश्वा॑नि । भू॒ष॒थः॒ । सदां॑सि ।
अप॑श्यम् । अत्र॑ । मन॑सा । ज॒ग॒न्वान् । व्र॒ते । ग॒न्ध॒र्वान् । अपि॑ । वा॒युऽके॑शान् ॥६
त्रीणि । राजाना । विदथे । पुरूणि । परि । विश्वानि । भूषथः । सदांसि ।
अपश्यम् । अत्र । मनसा । जगन्वान् । व्रते । गन्धर्वान् । अपि । वायुऽकेशान् ॥६
हे राजानौ इन्द्रावरुणौ “विदथे अस्मिन् यज्ञे “विश्वानि व्याप्तानि “पुरूणि यजनीयैः सोमादिभिः पूर्णानि “त्रीणि "सदांसि सवनानि “परि "भूषथः सर्वतोऽलंकुरुथः । हे इन्द्र त्वं “जगन्वान् यज्ञे प्रति गतवानसि । “अपि संभावनायाम् । यतोऽहम् “अत्र “व्रते यज्ञे “वायुकेशान् वायुवत् चञ्चलरश्मीन् “गन्धर्वान् सोमरक्षकान् स्वानभ्राजादीन् “मनसा “अपश्यम् । ते च स्वानभ्राजादयः तैत्तिरीयके स्पष्टमभिहिताः-’ स्वान भ्राजाङ्घारे बम्भारे हस्त सुहस्त कृशानवेते वः सोमक्रयणास्तान् रक्षध्वं मा वो दभन्' ( तै. सं. १. २. ७) इति ॥ भूषथः । ‘ भूष अलंकारे' इत्यस्य लटि रूपम् । अपश्यम् ।' दृशिर् प्रेक्षणे ' इत्यस्य लङि रूपम् । पादादित्वादनिघातः । जगन्वान् । गमेः क्वसौ ' विभाषा गमहनविदविशाम्' इति इटो विकल्पितत्वादत्र इडभावः । ‘ मो नो धातोः ' ‘ म्वोश्च' इति मकारस्य नकारः । प्रत्ययस्वरः । गन्धर्वान् । ‘ धृञ् धारणे' इत्यस्य गोशब्दे उपपदे ‘ गवि गन् धृञो वः' इति वप्रत्ययः । तत्संनियोगेन गोशब्दस्य गनादेशः । प्रत्ययस्वरः ॥
तदिन्न्व॑स्य वृष॒भस्य॑ धे॒नोरा नाम॑भिर्ममिरे॒ सक्म्यं॒ गोः ।
अ॒न्यद॑न्यदसु॒र्यं१॒॑ वसा॑ना॒ नि मा॒यिनो॑ ममिरे रू॒पम॑स्मिन् ॥७
तत् । इत् । नु । अ॒स्य॒ । वृ॒ष॒भस्य॑ । धे॒नोः । आ । नाम॑ऽभिः । म॒मि॒रे॒ । सक्म्य॑म् । गोः ।
अ॒न्यत्ऽअ॑न्यत् । अ॒सु॒र्य॑म् । वसा॑नाः । नि । मा॒यिनः॑ । म॒मि॒रे॒ । रू॒पम् । अ॒स्मि॒न् ॥७
तत् । इत् । नु । अस्य । वृषभस्य । धेनोः । आ । नामऽभिः । ममिरे । सक्म्यम् । गोः ।
अन्यत्ऽअन्यत् । असुर्यम् । वसानाः । नि । मायिनः । ममिरे । रूपम् । अस्मिन् ॥७
ये यजमानाः “वृषभस्य अभिमतफलप्रदस्य “अस्य इन्द्रस्यार्थं “धेनोः “गोः नामभिः विश्वायुर्विश्वव्यचा इत्यादिभिरुपलक्षितां गां “सक्म्यं संभजनार्हं तत्क्षीरादिकं हविः “नु क्षिप्रम् “आ “ममिरे आदुहन्ति । धातूनामनेकार्थत्वात् । तेन च हविषा यज्ञमनुष्ठाय देवभूयं प्राप्तास्ते कवयः “अन्यदन्यत् नूतनम् "असुर्यम् असुराणां बलं “वसानाः आच्छादयन्तः अत एव “मायिनः मायया स्वीकृतकामरूपाः । यद्वा मायिनः प्रज्ञावन्तः सन्तः “अस्मिन् इन्द्रे “रूपं स्वं स्वं रूपं “नि “ममिरे इयत्तया परिच्छिद्य निदधुः ॥ इत् पूरण:। ममिरे । माङ् माने ' । लिटि रूपम् । निघातः । सक्म्यम् । ‘ युजिरुचितिजां कुश्च ' ( उ. सू. १. १४३ ) इत्यत्र चकारस्यानुक्तसमुच्चयार्थत्वात् सचतेः मक्प्रत्ययः कुत्वं च । सचनं सक्मः । तत्र भवः इत्यर्थे ' भवे छन्दसि ' इति यत् ।' यतोऽनावः ' इत्याद्युदात्तः । गोः । एकादेशस्वरः । असुर्यम् । असुरस्य स्वमित्यर्थे ' असुरस्य स्वम् ' ( पा. सू.. ४. ४. १२३ ) इति यत् । तित्स्वरितः । रूपम् । ‘ रूप रूपक्रियायाम् । ण्यन्तः । खष्पशिल्पशष्पबाष्परूपपर्पतल्पाः ' ( उ. सू.३. ३०८ ) इति पप्रत्ययान्तत्वेन निपातनात् पकारलोपोऽगुणत्वं च। रूपयति रूप्यते वेति रूपम् । प्रत्ययस्वरः ॥
तदिन्न्व॑स्य सवि॒तुर्नकि॑र्मे हिर॒ण्ययी॑म॒मतिं॒ यामशि॑श्रेत् ।
आ सु॑ष्टु॒ती रोद॑सी विश्वमि॒न्वे अपी॑व॒ योषा॒ जनि॑मानि वव्रे ॥८
तत् । इत् । नु । अ॒स्य॒ । स॒वि॒तुः । नकिः॑ । मे॒ । हि॒र॒ण्ययी॑म् । अ॒मति॑म् । याम् । अशि॑श्रेत् ।
आ । सु॒ऽस्तु॒ती । रोद॑सी॒ इति॑ । वि॒श्व॒मि॒न्वे इति॑ वि॒श्व॒म्ऽइ॒न्वे । अपि॑ऽइव । योषा॑ । जनि॑मानि । व॒व्रे॒ ॥८
तत् । इत् । नु । अस्य । सवितुः । नकिः । मे । हिरण्ययीम् । अमतिम् । याम् । अशिश्रेत् ।
आ । सुऽस्तुती । रोदसी इति । विश्वमिन्वे इति विश्वम्ऽइन्वे । अपिऽइव । योषा । जनिमानि । वव्रे ॥८
“तत् तस्मात् “सवितुः सर्वस्य जगतोऽन्तर्यामितया प्रेरयितुः “अस्य इन्द्रस्य “मे मम "हिरण्ययीं सुवर्णमयीम् "अमतिं दीप्तिं “नकिः को वा परिच्छिनत्ति खलु । “यां मदीयां दीप्तिम् “अशिश्रेत् य आश्रयति सः “सुष्टुती शोभनया स्तुत्या स्तुतः सन् “विश्वमिन्वे सर्वस्य संतर्पयित्र्यौ “रोदसी द्यावापृथिव्यौ “आ “वव्रे स्वकीयतया सर्वतो वृणुते । तत्र दृष्टान्तः । “अपीव “योषा “जनिमानि । यथा योषा स्त्री जनिमानि जातानि अपत्यानि वृणोति तद्वत् । नुः पूरणः॥ नकिः । निपातः । हिरण्ययीम् । हिरण्यस्य विकारार्थे ' मयड्वैतयोः । ( पा. सू. ४. ३. १४३ ) इति मयट्। ऋत्व्यवास्त्व्यवास्त्वमाध्वीहिरण्ययानि छन्दसि ' इति निपातनात् मयटो मकारलोपः । टित्त्वात् ' टिड्ढाणञ्° ' इति ङीप् । प्रत्ययस्वरः । अमतिम् । अम गत्यादिषु । अमेरतिः इति अतिप्रत्ययः । प्रत्ययस्वरः । अशिश्रेत् । श्रयतेर्लङि ‘ बहुलं छन्दसि' इति शपः श्लुः । यद्वृत्तयोगादनिघातः । सुष्टुती । ‘ सुपां सुलुक्' इति तृतीयायाः सवर्णदीर्घः । विश्वमिन्वे । ‘ इवि व्याप्तिप्रीणनयोः' इत्यस्मात् कर्मणि अण् । इदित्वात् नुम् । ‘ तत्पुरुषे कृति बहुलम् ' इति द्वितीयाया अलुक्। कृदुत्तरपदस्वरः । योषा । यौतेर्मिश्रीभावकर्मणः । वृतॄवदिहनिकमिकषियुमुचिभ्यः सः' इति सप्रत्ययः । ग्रामादित्वात् आद्युदात्तः । जनिमानि ।' जनी प्रादुर्भावे । हृजनिभ्यामिमनिन् ' इति इमनिन्प्रत्ययो भूतकाले । नित्त्वादाद्युदात्तः । वव्रे । ‘वृञ् वरणे' इत्यस्य लिटि रूपम् ॥
यु॒वं प्र॒त्नस्य॑ साधथो म॒हो यद्दैवी॑ स्व॒स्तिः परि॑ णः स्यातं ।
गो॒पाजि॑ह्वस्य त॒स्थुषो॒ विरू॑पा॒ विश्वे॑ पश्यंति मा॒यिनः॑ कृ॒तानि॑ ॥९
यु॒वम् । प्र॒त्नस्य॑ । सा॒ध॒थः॒ । म॒हः । यत् । दैवी॑ । स्व॒स्तिः । परि॑ । नः॒ । स्या॒त॒म् ।
गो॒पाजि॑ह्वस्य । त॒स्थुषः॑ । विऽरू॑पा । विश्वे॑ । प॒श्य॒न्ति॒ । मा॒यिनः॑ । कृ॒तानि॑ ॥९
युवम् । प्रत्नस्य । साधथः । महः । यत् । दैवी । स्वस्तिः । परि । नः । स्यातम् ।
गोपाजिह्वस्य । तस्थुषः । विऽरूपा । विश्वे । पश्यन्ति । मायिनः । कृतानि ॥९
हे इन्द्रावरुणौ “युवं युवां “प्रत्नस्य स्तोतुः “महः तादृशं श्रेयः “साधथः साधयथः । कीदृशं तदित्यत आह । “यद्दैवी “स्वस्तिः यदिदं देवसंबन्धि श्रेयः स्वराज्यलक्षणम् । किंच युवां “नः अस्मान् “परि परितः “स्यातं रक्षको भवेतम् । “विश्वे सर्वे “मायिनः देवाः “गोपाजिह्वस्य । गोप्त्री जिह्वा मा बिभीतेत्येतादृशी वाग्यस्य स तथोक्तः । “तस्थुषः स्थिरतरस्येन्द्रस्य “विरूपा नानाविधानि वृत्रहननादीनि “कृतानि कर्माणि “पश्यन्ति । एवमिन्द्रस्य विश्वरूपत्वमुक्तम् ॥ युवम् । युष्मच्छब्दस्य द्विवचने ‘युवावौ द्विवचने' ( पा. सू. ७. २. ९२ ) इति युवादेशः । ‘ ङेप्रथमयोरम्' (पा. सू. ७. १. २८) इति सुपः अमादेशः । साधथः । ‘ साध संसिद्धौ ' इत्यस्य ण्यन्तस्य लटि रूपम् । ‘ बहुलमन्यत्रापि°' इति णेर्लुक् । निघातः । दैवी । ' देवाद्यञञौ ' इति अञ्प्रत्ययः । ञित्स्वरः ॥ स्यातम् । अस्तेर्लिङि रूपम् । गोपजिह्वस्य । ‘गुपू रक्षणे' इत्यस्य आयप्रत्ययान्तस्य क्विपि अतोलोपयलोपयोः कृतयो रूपं गोपा इति । बहुव्रीहौ पूर्वपदस्वरः । तस्थुषः । “ष्ठा गतिनिवृत्तौ ' इत्यस्य क्वसौ ‘वस्वेकाजाद्धसाम्' इति प्राप्तस्य इटः ‘ संप्रसारणं संप्रसारणाश्रयं च बलीयः' इति संप्रसारणस्य बलीयस्त्वान्निवृत्तिः । ‘ वसोः संप्रसारणम्' । प्रत्ययस्वरः । पश्यन्ति । ' दृशिर् प्रेक्षणे ' । निघातः ॥
शु॒नं हु॑वेम म॒घवा॑न॒मिंद्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
शृ॒ण्वंत॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नंतं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नां ॥१०
शु॒नम् । हु॒वे॒म॒ । म॒घऽवा॑नम् । इन्द्र॑म् । अ॒स्मिन् । भरे॑ । नृऽत॑मम् । वाज॑ऽसातौ ।
शृ॒ण्वन्त॑म् । उ॒ग्रम् । ऊ॒तये॑ । स॒मत्ऽसु॑ । घ्नन्त॑म् । वृ॒त्राणि॑ । स॒म्ऽजित॑म् । धना॑नाम् ॥१०
शुनम् । हुवेम । मघऽवानम् । इन्द्रम् । अस्मिन् । भरे । नृऽतमम् । वाजऽसातौ ।
शृण्वन्तम् । उग्रम् । ऊतये । समत्ऽसु । घ्नन्तम् । वृत्राणि । सम्ऽजितम् । धनानाम् ॥१०
व्याख्यातेयम् ॥ ॥ ३४ ॥ ॥ ३ ॥
टिप्पणी
मण्डल ३ | |||
---|---|---|---|