प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← सूक्तं ३.३३ ऋग्वेदः - मण्डल ३
सूक्तं ३.३४
गाथिनो विश्वामित्रः
सूक्तं ३.३५ →
दे. इन्द्रः । त्रिष्टुप्


इन्द्रः पूर्भिदातिरद्दासमर्कैर्विदद्वसुर्दयमानो वि शत्रून् ।
ब्रह्मजूतस्तन्वा वावृधानो भूरिदात्र आपृणद्रोदसी उभे ॥१॥
मखस्य ते तविषस्य प्र जूतिमियर्मि वाचममृताय भूषन् ।
इन्द्र क्षितीनामसि मानुषीणां विशां दैवीनामुत पूर्वयावा ॥२॥
इन्द्रो वृत्रमवृणोच्छर्धनीतिः प्र मायिनाममिनाद्वर्पणीतिः ।
अहन्व्यंसमुशधग्वनेष्वाविर्धेना अकृणोद्राम्याणाम् ॥३॥
इन्द्रः स्वर्षा जनयन्नहानि जिगायोशिग्भिः पृतना अभिष्टिः ।
प्रारोचयन्मनवे केतुमह्नामविन्दज्ज्योतिर्बृहते रणाय ॥४॥
इन्द्रस्तुजो बर्हणा आ विवेश नृवद्दधानो नर्या पुरूणि ।
अचेतयद्धिय इमा जरित्रे प्रेमं वर्णमतिरच्छुक्रमासाम् ॥५॥
महो महानि पनयन्त्यस्येन्द्रस्य कर्म सुकृता पुरूणि ।
वृजनेन वृजिनान्सं पिपेष मायाभिर्दस्यूँरभिभूत्योजाः ॥६॥
युधेन्द्रो मह्ना वरिवश्चकार देवेभ्यः सत्पतिश्चर्षणिप्राः ।
विवस्वतः सदने अस्य तानि विप्रा उक्थेभिः कवयो गृणन्ति ॥७॥
सत्रासाहं वरेण्यं सहोदां ससवांसं स्वरपश्च देवीः ।
ससान यः पृथिवीं द्यामुतेमामिन्द्रं मदन्त्यनु धीरणासः ॥८॥
ससानात्याँ उत सूर्यं ससानेन्द्रः ससान पुरुभोजसं गाम् ।
हिरण्ययमुत भोगं ससान हत्वी दस्यून्प्रार्यं वर्णमावत् ॥९॥
इन्द्र ओषधीरसनोदहानि वनस्पतीँरसनोदन्तरिक्षम् ।
बिभेद वलं नुनुदे विवाचोऽथाभवद्दमिताभिक्रतूनाम् ॥१०॥
शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ ।
शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥११॥

सायणभाष्यम्

इंद्रः पूर्भिदित्येकादशर्चं पंचमं सूक्तं वैश्वामित्रं त्रैष्टुभमैंद्रं । अत्रानुक्रमणिका । इंद्रः पूर्भिदेकादशेति ॥ अग्निष्टोमे माध्यंदिनसवने ब्राह्मणाच्छंसिशस्त्र इंद्रः पूर्भिदिति सूक्तं । होत्रकाणामिति खंडे सूत्रितं । इंद्रः। पूर्भिदुदु ब्रह्माणि । आ° ५. १६.। इति ॥ पृष्ठ्याभिप्लवषडहयोः प्रथमेऽहनि माध्यंदिनसवने ब्राह्मणाच्छंसिशस्त्रे चातुर्विंशिकातिदिष्टस्याहीनसूक्तस्य स्थाने त्रीणि संपातसूक्तानि। तत्रेदं प्रथमं । इंद्रः पूर्भिद्य एक इद्यस्तिग्मगशृंगः । आ० ७.५.। इति ॥ उद्भिद्वलभिदोर्निष्केवल्य एतत्सूक्तं निविद्धानीयं । सूत्रितं च । इंद्र सोममिंद्रः पूर्भिदिति मध्यंदिनः । आ° ९.८.। इति ॥


इन्द्रः॑ पू॒र्भिदाति॑र॒द्दास॑म॒र्कैर्वि॒दद्व॑सु॒र्दय॑मानो॒ वि शत्रू॑न् ।

ब्रह्म॑जूतस्त॒न्वा॑ वावृधा॒नो भूरि॑दात्र॒ आपृ॑ण॒द्रोद॑सी उ॒भे ॥१

इन्द्रः॑ । पूः॒ऽभित् । आ । अ॒ति॒र॒त् । दास॑म् । अ॒र्कैः । वि॒दत्ऽव॑सुः । दय॑मानः । वि । शत्रू॑न् ।

ब्रह्म॑ऽजूतः । त॒न्वा॑ । व॒वृ॒धा॒नः । भूरि॑ऽदात्रः । आ । अ॒पृ॒ण॒त् । रोद॑सी॒ इति॑ । उ॒भे इति॑ ॥१

इन्द्रः । पूःऽभित् । आ । अतिरत् । दासम् । अर्कैः । विदत्ऽवसुः । दयमानः । वि । शत्रून् ।

ब्रह्मऽजूतः । तन्वा । ववृधानः । भूरिऽदात्रः । आ । अपृणत् । रोदसी इति । उभे इति ॥१


इंद्रः । पूःऽभित्। आ। अतिरत्। दासं। अर्कैः। विदत्ऽवसुः । दयमानः।वि। शत्रून्। ब्रह्मऽजूतः। तन्वा।ववृधानः।भूरिऽदात्रः।आ।अपृणत्।रोदसी इति। उभे इति ॥१॥ विश्वामित्रः स्तौति । पूर्भिदसुरपुरां भेत्ता अत एव विदद्वसुर्वेदयद्भिः स्वमहिमप्रख्यापकैर्वसुभिर्युक्तः शत्रूनसुरान्वि दयमानो विशेषेण हिंसन् । तथा च यास्कः । विदद्वसुर्दयमानो वि शत्रूनिति हिंसाकर्मा । नि० ४.१७.। इति । तादृश इंद्रो दासं । दस्यतेऽनेन तम इति दासो वासरः । तमर्कैरर्चनीयैः स्वतेजोभिरातिरत् । समंतादवर्धयत् इंद्रस्य सूर्यात्मकत्वात्। तथा च स्मृतिः। चैत्रमासे तपेदिंद्र इति । किंच। ब्रह्मजूतो ब्रह्मणा स्तोत्रेणाकृष्टः । यद्वा ब्रह्मणा जगत्स्रष्ट्रा प्रेरितस्तन्वा स्वशरीरेण वावृधानो वर्धमानो भूरिदात्रः । दायते लूयतेऽनेन शत्रुशिर इति दात्रमायुधं । बहुविधायुधोपेतः । तादृश इंद्र उभे रोदसी द्यावापृथिव्यावापृणत् । सर्वतोऽतर्पयत् ॥ पूर्भित् । भिदिर् विदारणे । क्विप् । अतिरत् । तरतेर्व्यत्ययेन शः । ऋत इद्धातोरितीत्वं । निघातः । दासं । करणे घञ्। ञित्स्वरः । विदद्वसुः । विदेरंतर्भावितण्यर्थस्य शतर्यदादित्वाच्छपो लुकि सति प्रत्ययस्वरेण शतुरुदात्तत्वं । बहुव्रीहौ पूर्वपदस्वरः। दयमानः । दय दानगतिरक्षणहिंसाग्रहणेषु । आत्मनेपदी । लटः शानच् । न लोकाव्ययेति षष्ठीप्रतिषेधः । ववृधानः । वृधु वर्धने । कानचि रूपं । संहितायामभ्यासस्य तुजादित्वाद्दीर्घः । भूरिदात्रः । दाप् लवने । करणे दाम्नीत्यादिना ष्ट्रन्प्रत्ययः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः । अपृणत । पृण प्रीणन इत्यस्य लङि तुदादित्वाच्छः । निघातः । रोदसी । रुदेरसुनि रूपं । नित्स्वरः ॥


म॒खस्य॑ ते तवि॒षस्य॒ प्र जू॒तिमिय॑र्मि॒ वाच॑म॒मृता॑य॒ भूष॑न् ।

इन्द्र॑ क्षिती॒नाम॑सि॒ मानु॑षीणां वि॒शां दैवी॑नामु॒त पू॑र्व॒यावा॑ ॥२

म॒खस्य॑ । ते॒ । त॒वि॒षस्य॑ । प्र । जू॒तिम् । इय॑र्मि । वाच॑म् । अ॒मृता॑य । भूष॑न् ।

इन्द्र॑ । क्षि॒ती॒नाम् । अ॒सि॒ । मानु॑षीणाम् । वि॒शाम् । दैवी॑नाम् । उ॒त । पू॒र्व॒ऽयावा॑ ॥२

मखस्य । ते । तविषस्य । प्र। जूतिं । इयर्मि । वाचं । अमृताय । भूषन् ।

इंद्र । क्षितीनां । असि । मानुषीणां । विशां । दैवीनां । उत। पूर्वऽयावा ॥२॥

हे इंद्र भूषन् त्वामलंकुर्वन्नहं मखस्य महनीयस्य स्तुत्यस्य तविषस्य बलवतस्ते तव जूतिं मनसा प्रेरितां वाचं स्तुतिलक्षणाममृतायान्नार्थं प्रेयर्मि । प्रकर्षेणोच्चारयामि । मानुषीणां क्षितीनां मनोर्जातानां मनुष्याणां उत अपि च दैवीनां देवसंबंधिनीनां विशां प्रजानां पूर्वधावाग्रतो गंता त्वमसि ॥ मखस्य । मह पूजायां । नहेर्हलोपश्च । उ० ५. २३. । इति हलोप इत्यनुवृत्तौ महेश्रेति खप्रत्ययो हलोपश्च। मह्यते पूज्यते सर्वैरिति मखः । खांतस्याश्मादेः । कि°१.६.। इत्यंतोदात्तत्वं । यद्यपि मकारादिर्भवति तथापि वचनसामर्थ्याद्भवति । तविषस्य। तवतेष्टिषच्प्रत्ययः । चित्स्वरः। जूतिं । ऊतियूतीत्यादिना क्तिन उदात्तत्वं । इयर्मि। अर्तिर्जुहोत्यादिः । अर्तिपिपर्त्योश्चेत्यभ्यासस्येत्वं । अभ्यासस्येतीयङादेशः । पादादित्वान्न निघातः । अभ्यस्तस्वरः । भूषन् । भूष अलंकार इत्यस्य शतरि रूपं । शतुर्लसार्वधातुकस्वरे धातुस्वरः । असि । अस्तेर्लटि रूपं । निघातः । मानुषीणां । मनोर्जातावित्यञ् । षुगागमः । टिड्ढाणञिति ङीप् ।ञित्स्वरः । दैवीनां । देवाद्यञञावित्यञ् । अत्रापि पूर्ववत् ङीप् । ञित्स्वरः । पूर्वयावा । या प्रापण इत्यस्मादातो मनिन्क्वनिब्वनिपश्चेति वनिप्। कृदुत्तरपदस्वरः ॥


इन्द्रो॑ वृ॒त्रम॑वृणो॒च्छर्ध॑नीति॒ः प्र मा॒यिना॑ममिना॒द्वर्प॑णीतिः ।

अह॒न्व्यं॑समु॒शध॒ग्वने॑ष्वा॒विर्धेना॑ अकृणोद्रा॒म्याणा॑म् ॥३

इन्द्रः॑ । वृ॒त्रम् । अ॒वृ॒णो॒त् । शर्ध॑ऽनीतिः । प्र । मा॒यिना॑म् । अ॒मि॒ना॒त् । वर्प॑ऽनीतिः ।

अह॑न् । विऽअं॑सम् । उ॒शध॑क् । वने॑षु । आ॒विः । धेनाः॑ । अ॒कृ॒णो॒त् । रा॒म्याणा॑म् ॥३

इंद्रः । वृत्रं । अवृणोत्। शर्धऽनीतिः। प्र। मायिनां। अमिनात्। वर्पऽनीतिः।

अहन् । विऽअंसं । उशधक् । वनेषु । आविः । धेनाः । अकृणोत् । राम्याणां ॥३॥

शर्धनीतिः । नयनं नीतिः कर्म । शर्धं प्रवृद्धं नीतिः कर्म यस्य स तथोक्तः । स इंद्रो वृत्रमसुरमवृणोत् । बलेनारुंधत् । तथा वर्पणीतिर्युद्धे परप्रहाराणां निवारककर्मेंद्रो मायिनां । द्वितीयार्थे षष्ठी । मायिनो ऽसुरान् प्रामिनात् । प्रकर्षणावधीत्। उशधक् शत्रुवधं कामयमान इंद्रो वनेषु गूढचारिणमसुरं व्यंसं विगतांसं यथा भवति तथाहन् । जघान । अथ तस्मिन् रात्रिचरे गवामपहर्तरि हते सति राम्याणां । रमणं स्त्रीभिः सह क्रीडा रामः । तमर्हंतीति राम्या रात्रयः । तासां रात्रीणामंतःस्थिता धेना गा आविरकृणोत् ।। प्रकटा अकरोत् । रात्रीणामसुराक्रांतत्वे तैत्तिरीयकं । अहर्देवानामासीद्रात्रिरसुराणां तेऽसुरा यद्देवानां वित्तं वेद्यमासीत्तेन सह रात्रिं प्राविशन्निति ये दिवा स्तोतारो राम्यास्तेषां वाचो धेना इति ॥ अवृणोत् । वृञ् वरण इत्यस्य लङि रूपं । निघातः । शर्धनीतिः । शर्धतिरुत्साहार्थः । अस्मात्कर्मणि घञ् । बहुव्रीहौ पूर्वपदस्वरः । अमिनात् । मीञ् हिंसायामित्यस्य लङि मीनातेर्निगम इति ह्रस्वः । निघातः। अहन् । हंतेर्लङि रूपं । उशधक्। वश कांतौ । पृषोदरादित्वाद्रूपसिद्धिः । आविः । स्वरादिष्वंतोदात्तत्वेन पठितत्वादंतोदात्तः । धेनाः । धेट् पाने । धेट ई च । उ० ३.११.। इति नप्रत्यय ईकारश्चांतादेशः । गुणः । धयंति तामिति धेना वाक् । धेना जिगाति । ऋग्वे°१. २. ३.। इत्यत्र प्रत्ययस्वरेणांतोदात्तः । अत्र व्यत्ययेनाद्युदात्तत्वं । अकृणोत् । कृवि हिंसाकरणयोः । निघातः । राम्याणां । रमु क्रीडायां । राममर्हतीत्यर्थे छंदसि चेति यप्रत्ययः । तस्य स्वरः । यद्वा रमेरंतर्णीतण्यर्थादघ्न्यादयश्चेति यक्प्रत्ययः । प्ररमयति भूतानि नक्तंचारीण्युपरमयतीतराणीति यास्कः । नि°२.१८.। वर्णव्यत्ययः


इन्द्रः॑ स्व॒र्षा ज॒नय॒न्नहा॑नि जि॒गायो॒शिग्भि॒ः पृत॑ना अभि॒ष्टिः ।

प्रारो॑चय॒न्मन॑वे के॒तुमह्ना॒मवि॑न्द॒ज्ज्योति॑र्बृह॒ते रणा॑य ॥४

इन्द्रः॑ । स्वः॒ऽसाः । ज॒नय॑न् । अहा॑नि । जि॒गाय॑ । उ॒शिक्ऽभिः॑ । पृत॑नाः । अ॒भि॒ष्टिः ।

प्र । अ॒रो॒च॒य॒त् । मन॑वे । के॒तुम् । अह्ना॑म् । अवि॑न्दत् । ज्योतिः॑ । बृ॒ह॒ते । रणा॑य ॥४

इंद्रः । स्वःऽसाः । जनयन्। अहानि।जिगाय । उशिक्ऽभिः। पृतनाः। अभिष्टिः।

प्र । अरोचयत् । मनवे । केतुं । अह्नां । अविंदत् । ज्योतिः । बृहते । रणाय ॥४॥

स्वर्षाः स्वर्गप्रद इंद्रोऽहानि स्वतेजोभिर्जनयन्नुशिग्भिर्युद्धं कामयमानैरंगिरोभिः सह पृतनाः परकीयाः सेना अभिष्टिरभिभावुकः सन् जिगाय । शत्रूनजैषीत् । शत्रुवधानंतरं मनवे मनुष्याय कर्मकर्त्रे यजमानाय अह्ना केतुं प्रज्ञापकं सूर्यं प्रारोचयत् तथा च तमोरूपासुरवधात्प्रकर्षणादीपयत् । ततो बृहते रणाय युद्धप्रकाशनाय ज्योतिः प्रकाशमविंदत्। अलभत् ॥ स्वर्षाः। षणु दाने । क्विप्। जनसनखनां सन्झलोरित्यात्वं । सनोतेरन इति षत्वं । अहरादीनां पत्यादिषूपसंख्यानमिति विसर्जनीयस्य रुत्वं । जिगाय। जि जय इत्यस्य लिटि सन्लिटोर्जेरित्यभ्यासादुत्तरस्य कवर्गादेशः । लित्स्वरः । पृतनाः । पृङ् व्यायामे । कृपृभ्यां किदिति तनन्प्रत्ययः ।। व्याप्रियतेऽत्र योद्धार इति पृतनाः सेनाः । नित्त्वादाद्युदात्तः । अभिष्टिः । अभिगंता । इष गतौ । मंत्रे वृषेत्यादिना क्तिन्नुदात्तः । स हि भावपरोऽपि भवितारं लक्षयति । तितुत्रतथेत्यादिनेट्प्रतिषेधः । शकंद्वादित्वात्पररूपत्वं । कृदुत्तरस्वरः । अरोचयत् । रुच दीप्तावित्यस्य लङि रूपं । मनवे । मन ज्ञाने। शॄस्वृस्निहीत्यादिना उप्रत्ययः । निदनुवृत्तेरायुदात्तः । अविंदत् । विद्लृ लाभ इत्यस्य शे मुचादीनामिति नुम् । पादादित्वादनिघातः । रणाय । क्रियाग्रहणं कर्तव्यं । म°१.४.३२.। इति संप्रदानसंज्ञा । रणतिः शब्दार्थः । वशिरण्योरुपसंख्यानमित्यप्प्रत्ययः । रणंति शब्दं कुर्वंति परस्परं योद्धारोऽत्रेति रणः संग्रामः । प्रत्ययस्य पित्वादनुदात्तत्वे धातुस्वरः ॥


इन्द्र॒स्तुजो॑ ब॒र्हणा॒ आ वि॑वेश नृ॒वद्दधा॑नो॒ नर्या॑ पु॒रूणि॑ ।

अचे॑तय॒द्धिय॑ इ॒मा ज॑रि॒त्रे प्रेमं वर्ण॑मतिरच्छु॒क्रमा॑साम् ॥५

इन्द्रः॑ । तुजः॑ । ब॒र्हणाः॑ । आ । वि॒वे॒श॒ । नृ॒ऽवत् । दधा॑नः । नर्या॑ । पु॒रूणि॑ ।

अचे॑तयत् । धियः॑ । इ॒माः । ज॒रि॒त्रे । प्र । इ॒मम् । वर्ण॑म् । अ॒ति॒र॒त् । शु॒क्रम् । आ॒सा॒म् ॥५

इंद्रः । तुजः । बर्हणाः । आ । विवेश । नृऽवत् । दधानः । नर्या । पुरूणि।

अचेतयत्। धियः । इमाः । जरित्रे। प्र। इमं । वर्णं । अतिरत्। शुक्रं । आसां ॥५॥

स तादृश इंद्रस्तुजो बाधिका बर्हणा युद्धोत्साहेन वर्धमानाः परकीयाः सेना नृवन्मनुष्यवदा विवेश। प्रकाशं लब्ध्वा प्राविशत् । किं कुर्वन् । पुरूणि बहूनि नर्या युद्धनयनकारिणां योग्यानि धनानि दधानः प्रयच्छन्नाविवेश । स इंद्रो जरित्रे स्तोत्र इमा दृश्यमाना धिय उषसः । ध्यायंत्यासु मनुष्या इति । ता धियो ऽचेतयत् । अज्ञापयत् । अथासामुषसामिमं शुक्रं वर्णं प्रकाशेन युक्तं प्रातिरत् । स्वतेजसा प्रकर्षेण वर्धयति । धीशब्दस्योषःपरत्वे मंत्रवर्णः । शुक्रवर्णामुदु नो यंसते धियं । ऋग्वे० १.१४३.७.। इति ॥ तुजः । तुज हिंसायां । क्विप्। धातुस्वरः । बर्हणाः । वृहि वृद्धौ । अस्माद्युच् बहुलमिति कर्तरि युच् । व्यत्ययेनाद्युदात्तत्वं । विवेश । विशतेर्लिटि रूपं । निघातः । नृवत् । नृशब्दात्तेन तुल्यमिति वतिप्रत्ययः । तस्य स्वरः । दधानः । दधातेः शानचि रूपं । अभ्यस्तानामादिरित्याद्युदात्तत्वं । नर्या । नरेषु साधूनीत्यर्थे तत्र साधुरिति यत् । यतोऽनाव इत्याद्युदात्तत्वं । अचेतयत् । चिती संज्ञान इत्यस्य ण्यंतस्य लङि रूपं । अडागमस्वरः । धियः । ध्यै चिंतायां । अन्येभ्योऽपि दृश्यत इति क्विप् । दृशिग्रहणात्संप्रसारणं । धातुस्वरः । इमाः । दश्च । पा० ७.२.१०९.। इति दकारस्य मकारः। एकादेशस्वरः। अतिरत् । तरतेर्व्यत्ययेन शः । निघातः । आसां । इदमोऽन्वादेशेऽशित्यशादेशोऽनुदात्तश्च । प्रत्ययः सुप्त्वादनुदात्तः । अतः सर्वानुदात्तः ॥ ॥१५॥


म॒हो म॒हानि॑ पनयन्त्य॒स्येन्द्र॑स्य॒ कर्म॒ सुकृ॑ता पु॒रूणि॑ ।

वृ॒जने॑न वृजि॒नान्सं पि॑पेष मा॒याभि॒र्दस्यूँ॑र॒भिभू॑त्योजाः ॥६

म॒हः । म॒हानि॑ । प॒न॒य॒न्ति॒ । अ॒स्य॒ । इन्द्र॑स्य । कर्म॑ । सुऽकृ॑ता । पु॒रूणि॑ ।

वृ॒जने॑न । वृ॒जि॒नान् । सम् । पि॒पे॒ष॒ । मा॒याभिः॑ । दस्यू॑न् । अ॒भिभू॑तिऽओजाः ॥६

महः । महानि । पनयंति । अस्य । इंद्रस्य । कर्म । सुऽकृता । पुरूणि ।।

वृजनेन। वृजिनान्। सं। पिपेष। मायाभिः। दस्यून् । अभिभूतिऽओजाः ॥६॥

महो महतोऽस्यैतादृशसामर्थ्यस्येंद्रस्य महानि महनीयानि पुरूणि बहूनि सुकृता सुष्ठु कृतानि कर्म वृत्रहननादीनि कर्माणि पनयंति । स्तुवंति । इंद्रस्य कर्म सुकृता पुरूणीत्येतत्पदकदंबकमत्रार्थभेदात्पदकाले नोत्सृज्यते । तादृश इंद्रो वृजनेन । वर्ज्यंते शत्रवोऽनेनेति वृजनं बलं । तेन बलेन वृजिनान्पापरूपानसुरान् सं पिपेष । सम्यक् चूर्णीचकार । तथाभिभूत्योजाः । अभिभूतिः शत्रुविषयोऽभिभवः । तत्रौजो बलमस्येत्यभिभूत्योजाः शत्रूणां पराभवे समर्थः । तादृश इंद्रो दस्यूनुपक्षपयितॄनसुरान्मायाभिः कपटैः सं पिपेष ॥ पनयंति । पनतेः स्तुत्यर्थस्य गुपूधूपविच्छिपणिपनिभ्य इत्यायप्रत्ययः । ह्रस्वश्छांदसः । निघातः । वृजनेन । वृजी वर्जने। कॄपॄवृजिमंदिनिधाञ्भ्यः क्युरिति क्युप्रत्ययः । कित्त्वादगुणः । प्रत्ययस्वरः। वृजिनान् । वृजी वर्जने । वृजेः किच्च । उ० २. ४७.। इतीनच्प्रत्ययः । वृजिनं पापं । तद्वंतः। अर्शआदिवादच् । एकादेशस्वरः । पिपेष । पिष्लृ संचूर्णन इत्यस्य लिटि णलि रूपं । निघातः । अभिभूत्योजाः । भूतिर्भवनं । भावे क्तिन् । तादौ च नितीत्यभेः प्रकृतिस्वरत्वं । अभिभूतावोजो यस्येति सप्तम्युपमानपूर्वपदस्य बहुव्रीहिरिति समासः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः ॥


यु॒धेन्द्रो॑ म॒ह्ना वरि॑वश्चकार दे॒वेभ्य॒ः सत्प॑तिश्चर्षणि॒प्राः ।

वि॒वस्व॑त॒ः सद॑ने अस्य॒ तानि॒ विप्रा॑ उ॒क्थेभिः॑ क॒वयो॑ गृणन्ति ॥७

यु॒धा । इन्द्रः॑ । म॒ह्ना । वरि॑वः । च॒का॒र॒ । दे॒वेभ्यः॑ । सत्ऽप॑तिः । च॒र्ष॒णि॒ऽप्राः ।

वि॒वस्व॑तः । सद॑ने । अ॒स्य॒ । तानि॑ । विप्राः॑ । उ॒क्थेभिः॑ । क॒वयः॑ । गृ॒ण॒न्ति॒ ॥७

युधा। इंद्रः । मह्ना। वरिवः । चकार । देवेभ्यः । सत्ऽप॑तिः । चर्षणिऽप्राः ।

विवस्वतः । सदने। अस्य । तानि। विप्राः । उक्थेभिः । कवयः । गृणंति ॥७॥

सत्पतिः सतां देवानां पतिश्चर्षणिप्राश्चर्षणीनां मनुष्याणामपेक्षितफलप्रदानेन कामपूरकः स इंद्रो मह्ना महता युधा युद्धेन वरिवः । भृशं व्रियतेऽर्थिभिरिति वरिवो धनं । तादृशं धनं युद्देन लब्ध्वा देवेभ्यो देवनशीलेभ्यः स्तोतृभ्यश्चकार । दत्तवान् । विप्रा मेधाविनः कवयः स्तोतारो विवस्वतो विशेषेणाग्निहोत्रादिकर्मार्थे वसतो यजमानस्य सदने गृहेऽस्येंद्रस्य तानि वृत्रहननबहुप्रदानानि कर्माण्युक्थेभिः स्तोत्रैर्गृणंति । स्तुवंति ॥ युधा । युध संप्रहारे । भावे संपदादिलक्षणः क्विप् । सावेकाच इति विभक्तेरुदात्तता । वरिवः । वृञ् वरण इत्यस्य यङ्लुकि ऋतश्चेत्यभ्यासस्य रिगागमः । तदंतादसुन्। बाहुलकाट्टिलोपः । नित्स्वरः । चकार । करोतेर्लिटि रूपं । निघातः । सत्पतिः । अस्तेः शतरि रूपं सदिति । पत्यावैश्वर्य इति पूर्वपदप्रकृतिस्वरत्वं । चर्षणिप्राः । प्रा पूरणे । विच् । विवस्वतः । विपूर्वाद्वस निवास इत्यस्मात्संपदादिलक्षणो भावे क्विप् ।। तदस्यास्त्यस्मिन्निति मतुप् । मादुपधाया इति तस्य वत्वं । प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः । गृणंति । गॄ शब्द इत्यस्य लटि रूपं । निघातः ॥


स॒त्रा॒साहं॒ वरे॑ण्यं सहो॒दां स॑स॒वांसं॒ स्व॑र॒पश्च॑ दे॒वीः ।

स॒सान॒ यः पृ॑थि॒वीं द्यामु॒तेमामिन्द्रं॑ मद॒न्त्यनु॒ धीर॑णासः ॥८

स॒त्रा॒ऽसह॑म् । वरे॑ण्यम् । स॒हः॒ऽदाम् । स॒स॒वांस॑म् । स्वः॑ । अ॒पः । च॒ । दे॒वीः ।

स॒सान॑ । यः । पृ॒थि॒वीम् । द्याम् । उ॒त । इ॒माम् । इन्द्र॑म् । म॒द॒न्ति॒ । अनु॑ । धीऽर॑णासः ॥८

सत्राऽसहं। वरेण्यं । सहःऽदां । ससऽवांसं । स्वः । अपः। च । देवीः ।

ससान। यः । पृथिवीं। द्यां । उत । इमां। इंद्रं । मदंति। अनु। धीऽरणासः ॥८॥

धीरणासो धिया स्तुत्या रणयंतः स्तोतारः सत्रासाहं महतो वृत्रादेरभिभवितारमत एव वरेण्यं सर्वैव रणीयं सहोदां दुर्बलस्यार्थिनो बलप्रदं देवीर्देवनशीला अपः स्वश्च स्वर्लोकं च ससवांसं भजमानमिंद्रमनु मदंति । हृष्यंति । हर्षमनु स्वयं हृष्यंतीत्यर्थः । य इंद्रः पृथिवीमुत अपि च द्यां द्युलोकमिमामिममंतरिक्षलोकं चैतांस्त्रीँल्लोकान् ससान तत्तल्लोकवासिभ्यो ददौ । तमनुमदंतीत्यन्वयः ॥ सत्रासाहं । षह मर्षणे । छंदसि सह इति ण्विः । णित्त्वादुपधावृद्धिः । ससवांसं । षण संभक्तावित्यस्य क्वसाविडभावे नकारलोपे रूपं । प्रत्ययस्वरः। ससान । षणु दान इत्यस्य लिटि रूपं । लित्स्वरः । मदंति । मदि स्तुत्यादिष्वित्यस्य व्यत्ययेन परस्मैपदं । निघातः । धीरणासः । रणतीति रणा वाक् । धिया स्तुत्या रणा येषां ते धीरणाः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः ॥


स॒सानात्याँ॑ उ॒त सूर्यं॑ ससा॒नेन्द्रः॑ ससान पुरु॒भोज॑सं॒ गाम् ।

हि॒र॒ण्यय॑मु॒त भोगं॑ ससान ह॒त्वी दस्यू॒न्प्रार्यं॒ वर्ण॑मावत् ॥९

स॒सान॑ । अत्या॑न् । उ॒त । सूर्य॑म् । स॒सा॒न॒ । इन्द्रः॑ । स॒सा॒न॒ । पु॒रु॒ऽभोज॑सम् । गाम् ।

हि॒र॒ण्यय॑म् । उ॒त । भोग॑म् । स॒सा॒न॒ । ह॒त्वी । दस्यू॑न् । प्र । आर्य॑म् । वर्ण॑म् । आ॒व॒त् ॥९

ससान। अत्यान्। उत । सूर्यं । ससान। इंद्रः । ससान। पुरुऽभोजसं । गां।

हिरण्ययं। उत । भोगं । ससान। हत्वी । दस्यून। प्र। आर्यं । वर्णं । आवत् ॥९॥

पूर्वमंत्रे प्रतिपादितः स इंद्रोऽत्यानश्वान् ससान। युद्धार्थं मरुद्भ्यो ददौ । उत अपि च सूर्यं जगत्प्रकाशकमादित्यं ससान। प्राणिनां व्यवहारनिर्वाहाय तेभ्यो ददौ । तथा पुरुभोजसं । पुरुभिः सर्वैर्जनैः क्षीरादिद्वारेणोपभुज्यत इति पुरुभोजाः । क्षीरादिरूपबहुविधान्नोपेतां गामग्निहोत्रादिसिद्ध्यर्थं संसान । तेभ्यो ददौ । उत अपि च हिरण्ययं सुवर्णमयं भोगं धनं । भुज्यतेऽस्मिन्निति भोगो गृहं वा । ससान। अर्थिभ्यो ददौ । ततो दस्यून् बाधकानसुरान् हत्वी हत्वार्यमुत्तमं वर्णं त्रैवर्णिकं प्रावत् । यथा कर्मविघ्नो न भवेत्तथापालयत् ॥ ससान । षणु दान इत्यस्य लिटि णलि रूपं । लित्स्वरः । हिरण्ययं । हिरण्यशब्दाद्विकारार्थे मयड्वैतयोः । पा°४. ३.१४३.। इति विहितस्य छंदसि विषय ऋत्व्यवास्त्व्यवास्त्वमाध्वीहिरण्ययानि छंदसीति निपातनान्मयटो मकारलोपः । प्रत्ययस्वरः । हत्वी। हंतेः क्त्वार्थे स्नात्व्यादयश्चेति निपातितः । प्रत्ययस्वरः । आवत् । अवतेर्लङि रूपं ॥


इन्द्र॒ ओष॑धीरसनो॒दहा॑नि॒ वन॒स्पतीँ॑रसनोद॒न्तरि॑क्षम् ।

बि॒भेद॑ व॒लं नु॑नु॒दे विवा॒चोऽथा॑भवद्दमि॒ताभिक्र॑तूनाम् ॥१०

इन्द्रः॑ । ओष॑धीः । अ॒स॒नो॒त् । अहा॑नि । वन॒स्पती॑न् । अ॒स॒नो॒त् । अ॒न्तरि॑क्षम् ।

बि॒भेद॑ । व॒लम् । नु॒नु॒दे । विऽवा॑चः । अथ॑ । अ॒भ॒व॒त् । द॒मि॒ता । अ॒भिऽक्र॑तूनाम् ॥१०

इंद्रः। ओषधीः । असनोत् । अहानि। वनस्पतीन् । असनोत् । अंतरिक्षं ।

बिभेद। वलं। नुनुदे । विऽवाचः । अथ। अभवत्। दमिता। अभिऽक्रतूनां ॥१०॥

तादृश इंद्र औषधीः पक्कफलसंयुक्तास्तृणगुल्मादिका असनोत् । प्राणिनामुपभोगार्थं प्रादात् । तथाहानि दिवसांश्चायुष्परिक्लृप्त्यर्थं प्रायच्छत् । किंच वनस्पतीन्यज्ञार्थं खदिरपलाशादिलक्षणान् वृक्षानसनोत् । तथांतरिक्षं संचारार्थं प्रादात्। तथा वलं । संव्रियतेऽनेनाकाशमिति वलो मेघः । तं मेघं बिभेद । उदकप्रेरणार्थमभिंदत्। विवाचो विरुद्धवाचः प्रतिकूलानसुरान् नुनुदे । प्राणिनां रक्षार्थं तान् बबाधे। अथानंतरमभिक्रतूनां । क्रतुः कर्म । अभि आभिमुख्येन युद्धार्थं कर्म येषां तेऽभिक्रतवो बलीयांसः शत्रवः । तेषामपि दमितोपशमयिताभवत् । एवं हितकरणाहितपरिहाराभ्यां सर्वाः प्रजाः पालयति स्मेति भावः ॥ असनोत् । षणु दान इत्यस्य लङि रूपं । वनस्पतीन् । पारस्करप्रभृतित्वात् सुडागमः । वनशब्दो नञ्विषयस्येत्याद्युदात्तः । पतिशब्दः प्रत्ययस्वरेणाद्युदात्तः । उभे वनस्पत्यादिषु युगपदित्युभयपदप्रकृतिस्वरत्वं । बिभेद । भिदिर् विदारण इत्यस्य लिटि रूपं । लित्स्वरः । नुनुदे । नुद प्रेरण इत्यस्य लिटि रूपं । वाक्यभेदादनिघातः । प्रत्ययस्वरः । दमिता । दमु उपशम इत्यस्य तृचि रूपं । चित्स्वरः । अभिक्रतूनां । बहुव्रीहौ पूर्वपदस्वरः ॥


शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।

शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ॥११

शु॒नम् । हु॒वे॒म॒ । म॒घऽवा॑नम् । इन्द्र॑म् । अ॒स्मिन् । भरे॑ । नृऽत॑मम् । वाज॑ऽसातौ ।

शृ॒ण्वन्त॑म् । उ॒ग्रम् । ऊ॒तये॑ । स॒मत्ऽसु॑ । घ्नन्त॑म् । वृ॒त्राणि॑ । स॒म्ऽजित॑म् । धना॑नाम् ॥११

शुनम् । हुवेम । मघऽवानम् । इन्द्रम् । अस्मिन् । भरे । नृऽतमम् । वाजऽसातौ ।

शृण्वन्तम् । उग्रम् । ऊतये । समत्ऽसु । घ्नन्तम् । वृत्राणि । सम्ऽजितम् । धनानाम् ॥११

मण्डल ३

सूक्तं ३.१

सूक्तं ३.२

सूक्तं ३.३

सूक्तं ३.४

सूक्तं ३.५

सूक्तं ३.६

सूक्तं ३.७

सूक्तं ३.८

सूक्तं ३.९

सूक्तं ३.१०

सूक्तं ३.११

सूक्तं ३.१२

सूक्तं ३.१३

सूक्तं ३.१४

सूक्तं ३.१५

सूक्तं ३.१६

सूक्तं ३.१७

सूक्तं ३.१८

सूक्तं ३.१९

सूक्तं ३.२०

सूक्तं ३.२१

सूक्तं ३.२२

सूक्तं ३.२३

सूक्तं ३.२४

सूक्तं ३.२५

सूक्तं ३.२६

सूक्तं ३.२७

सूक्तं ३.२८

सूक्तं ३.२९

सूक्तं ३.३०

सूक्तं ३.३१

सूक्तं ३.३२

सूक्तं ३.३३

सूक्तं ३.३४

सूक्तं ३.३५

सूक्तं ३.३६

सूक्तं ३.३७

सूक्तं ३.३८

सूक्तं ३.३९

सूक्तं ३.४०

सूक्तं ३.४१

सूक्तं ३.४२

सूक्तं ३.४३

सूक्तं ३.४४

सूक्तं ३.४५

सूक्तं ३.४६

सूक्तं ३.४७

सूक्तं ३.४८

सूक्तं ३.४९

सूक्तं ३.५०

सूक्तं ३.५१

सूक्तं ३.५२

सूक्तं ३.५३

सूक्तं ३.५४

सूक्तं ३.५५

सूक्तं ३.५६

सूक्तं ३.५७

सूक्तं ३.५८

सूक्तं ३.५९

सूक्तं ३.६०

सूक्तं ३.६१

सूक्तं ३.६२

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.३४&oldid=209111" इत्यस्माद् पुनः प्राप्तिः