ऋग्वेदः सूक्तं ३.४२
← सूक्तं ३.४१ | ऋग्वेदः - मण्डल ३ सूक्तं ३.४२ गाथिनो विश्वामित्रः |
सूक्तं ३.४३ → |
दे. इन्द्रः। गायत्री |
उप नः सुतमा गहि सोममिन्द्र गवाशिरम् ।
हरिभ्यां यस्ते अस्मयुः ॥१॥
तमिन्द्र मदमा गहि बर्हिष्ठां ग्रावभिः सुतम् ।
कुविन्न्वस्य तृप्णवः ॥२॥
इन्द्रमित्था गिरो ममाच्छागुरिषिता इतः ।
आवृते सोमपीतये ॥३॥
इन्द्रं सोमस्य पीतये स्तोमैरिह हवामहे ।
उक्थेभिः कुविदागमत् ॥४॥
इन्द्र सोमाः सुता इमे तान्दधिष्व शतक्रतो ।
जठरे वाजिनीवसो ॥५॥
विद्मा हि त्वा धनंजयं वाजेषु दधृषं कवे ।
अधा ते सुम्नमीमहे ॥६॥
इममिन्द्र गवाशिरं यवाशिरं च नः पिब ।
आगत्या वृषभिः सुतम् ॥७॥
तुभ्येदिन्द्र स्व ओक्ये सोमं चोदामि पीतये ।
एष रारन्तु ते हृदि ॥८॥
त्वां सुतस्य पीतये प्रत्नमिन्द्र हवामहे ।
कुशिकासो अवस्यवः ॥९॥
सायणभाष्यम्
‘ उप नः सुतम्' इति नवर्चं चतुर्थं सूक्तं वैश्वामित्रं गायत्रमैन्द्रम् ।' उप नः' इत्यनुक्रमणिका । पूर्वसूक्तेन सहोक्तो विनियोगः ॥
उप॑ नः सु॒तमा ग॑हि॒ सोम॑मिंद्र॒ गवा॑शिरं ।
हरि॑भ्यां॒ यस्ते॑ अस्म॒युः ॥१
उप॑ । नः॒ । सु॒तम् । आ । ग॒हि॒ । सोम॑म् । इ॒न्द्र॒ । गोऽआ॑शिरम् ।
हरि॑ऽभ्याम् । यः । ते॒ । अ॒स्म॒ऽयुः ॥१
उप । नः । सुतम् । आ । गहि । सोमम् । इन्द्र । गोऽआशिरम् ।
हरिऽभ्याम् । यः । ते । अस्मऽयुः ॥१
हे “इन्द्र “नः अस्मदीयं “सुतम् अभिषुतं “गवाशिरं पयसा मिश्रितं “सोमं प्रति "उप “आ “गहि समीप आगच्छ । यतः “हरिभ्याम् अश्वाभ्यां युक्तः “ते तव रथः “अस्मयुः अस्मान् कामयमानो वर्तते ॥ गवाशिरम् । आङ्पूर्वस्य श्रीणातेः क्विपि ‘ अपस्पृधेथामानृचुः° ' ( पा. सू. ६. १, ३६ ) इत्यादिनाशिर इत्यादेशः । बहुव्रीहौ पूर्वपदस्वरः ॥
तमिं॑द्र॒ मद॒मा ग॑हि बर्हिः॒ष्ठां ग्राव॑भिः सु॒तं ।
कु॒विन्न्व॑स्य तृ॒प्णवः॑ ॥२
तम् । इ॒न्द्र॒ । मद॑म् । आ । ग॒हि॒ । ब॒र्हिः॒ऽस्थाम् । ग्राव॑ऽभिः । सु॒तम् ।
कु॒वित् । नु । अ॒स्य॒ । तृ॒प्णवः॑ ॥२
तम् । इन्द्र । मदम् । आ । गहि । बर्हिःऽस्थाम् । ग्रावऽभिः । सुतम् ।
कुवित् । नु । अस्य । तृप्णवः ॥२
हे “इन्द्र “ग्रावभिः “सुतम् अभिषुतं “बर्हिःष्ठां बर्हिषि स्थितं "मदम् । माद्यते अनेनेति मदः सोमः। “तम् इमं सोमम् “आ “गहि आगच्छ । “कुवित् प्रभूतं यथा भवति तथा “अस्य सोमस्य पानेन “नु क्षिप्रं “तृप्णवः तृप्तो भव ।। मदम् । ‘मदी हर्षे ' । ‘ मदोऽनुपसर्गे ' इत्यप्प्रत्ययः । तस्य पित्त्वादनुदात्तत्वे धातुस्वरः । बर्हिः ष्ठाम् । ष्ठा गतिनिवृत्तौ ' । क्विप् । संहितायां पूर्वपद सकारस्य ‘ आदेशप्रत्यययोः' इति षत्वम् । ष्टुत्वम् । कृदुत्तरपदस्वरः । तृप्णवः । ‘ तृप प्रीणने । इत्यस्य लेट्यडागमः । कुविद्योगादनिघातः । क्षुभ्नादिषु ‘नृनमन तृप्नोति' इति पठितम् । तथापि सर्वविधीनां छन्दसि विकल्पितत्वादत्र णत्वप्रतिषेधो न भवति । प्रत्ययस्वरः ॥
इंद्र॑मि॒त्था गिरो॒ ममाच्छा॑गुरिषि॒ता इ॒तः ।
आ॒वृते॒ सोम॑पीतये ॥३
इन्द्र॑म् । इ॒त्था । गिरः॑ । मम॑ । अच्छ॑ । अ॒गुः॒ । इ॒षि॒ताः । इ॒तः ।
आ॒ऽवृते॑ । सोम॑ऽपीतये ॥३
इन्द्रम् । इत्था । गिरः । मम । अच्छ । अगुः । इषिताः । इतः ।
आऽवृते । सोमऽपीतये ॥३
हे इन्द्र “इषिताः त्वदर्थं प्रेरिताः “इत्था इत्थमनेन प्रकारेण उच्यमानाः “मम “गिरः स्तुतिलक्षणा वाचः “इन्द्रं त्वाम् “इतः अस्माद्देवयजनदेशात् “अच्छागुः आभिमुख्येन गच्छन्तु । किमर्थम् । “सोमपीतये सोमपानार्थम् “आवृते त्वामावर्तयितुम् ।। इत्था । इदंशब्दात् “ था हेतौ च छन्दसि ' इति व्यत्ययेन थाप्रत्ययः । इदमः ‘एतेतौ रथोः' इति इदित्यादेशः । प्रत्ययस्वरः । अच्छ। ‘अच्छ गत्यर्थवदेषु ' इति गतिसंज्ञा । अगुः । ‘ इण् गतौ ' इत्यस्य लुङि रूपम् । निघातः ॥
इंद्रं॒ सोम॑स्य पी॒तये॒ स्तोमै॑रि॒ह ह॑वामहे ।
उ॒क्थेभिः॑ कु॒विदा॒गम॑त् ॥४
इन्द्र॑म् । सोम॑स्य । पी॒तये॑ । स्तोमैः॑ । इ॒ह । ह॒वा॒म॒हे॒ ।
उ॒क्थेभिः॑ । कु॒वित् । आ॒ऽगम॑त् ॥४
इन्द्रम् । सोमस्य । पीतये । स्तोमैः । इह । हवामहे ।
उक्थेभिः । कुवित् । आऽगमत् ॥४
“स्तोमैः त्रिवृत्पञ्चदशादिस्तोमसाध्यैः स्तोत्रैः “उक्थेभिः उक्थैः शस्त्रैश्च “इह कर्मणि “सोमस्य “पीतये सोमपानार्थम् “इन्द्रं “हवामहे वयमाह्वयामः । “कुवित् बहु बारमाहूतः स इन्द्रः “आगमत् यज्ञं प्रत्यागच्छतु । आगमत् । गमेर्लेट्यडागमः । ‘ आगमा अनुदात्ताः' इत्यटोऽनुदात्तत्वात् धातुस्वरः । ‘ तिङि चोदात्तवति' इति गतेर्निघातः । कुविद्योगादनिघातः ॥
इंद्र॒ सोमाः॑ सु॒ता इ॒मे तांद॑धिष्व शतक्रतो ।
ज॒ठरे॑ वाजिनीवसो ॥५
इन्द्र॑ । सोमाः॑ । सु॒ताः । इ॒मे । तान् । द॒धि॒ष्व॒ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।
ज॒ठरे॑ । वा॒जि॒नी॒व॒सो॒ इति॑ वाजिनीऽवसो ॥५
इन्द्र । सोमाः । सुताः । इमे । तान् । दधिष्व । शतक्रतो इति शतऽक्रतो ।
जठरे । वाजिनीवसो इति वाजिनीऽवसो ॥५
हे शतक्रतो "इन्द्र “इमे “सोमा: “सुता: ग्रावभिस्त्वदर्थमभिषुताः। हे “वाजिनीवसो अन्नधन। यद्वा । वाजोऽन्नमासु फलत्वेनास्तीति वाजिन्यः क्रिया: । तासां वासक हे इन्द्र “तान् सोमरसान् “जठरे “दधिष्व धारय ।। वाजिनीवसो । वाजशब्दात् मत्वर्थे ' अत इनिठनौ' इति इनिप्रत्ययः । ‘ ऋन्नेभ्यो ङीप्' इति ङीप् । तासां वसो । ' संबुद्धौ च ' इति गुणः । आमन्त्रितत्वादाष्टमिकमनुदात्तत्वम् ॥ ॥ ५ ॥
वि॒द्मा हि त्वा॑ धनंज॒यं वाजे॑षु दधृ॒षं क॑वे ।
अधा॑ ते सु॒म्नमी॑महे ॥६
वि॒द्म । हि । त्वा॒ । ध॒न॒म्ऽज॒यम् । वाजे॑षु । द॒धृ॒षम् । क॒वे॒ ।
अध॑ । ते॒ । सु॒म्नम् । ई॒म॒हे॒ ॥६
विद्म । हि । त्वा । धनम्ऽजयम् । वाजेषु । दधृषम् । कवे ।
अध । ते । सुम्नम् । ईमहे ॥६
हे “कवे क्रान्तदर्शिन्निन्द्र “वाजेषु युद्धेषु दधृषं शत्रूणामभिभवितारम् अत एव “धनंजयम् । धनं जयतीति धनंजयः । तादृशं “त्वा त्वां “विद्म “हि जानीमः खलु । “अध अनन्तरं “ते तव सुम्नं धनम् “ईमहे याचामहे ॥ विद्म । विदेर्लटि ‘ विदो लटो वा ' इति मसो मादेशः । पादादित्वात् अनिघातः । धनंजयम् । ‘ जि जये' इत्यस्मात् धने उपपदे संज्ञायां भृतॄवृजिधारिसहितपिदमः । इति खच्प्रत्ययः । ‘ अरुर्द्विषदजन्तस्य मुम्' इति पूर्वपदस्य मुमागमः । चित्त्वादन्तोदात्तः । दधृषम् । ‘ ञिधृषा प्रागल्भ्ये' इत्यस्य यङ्लुकि अभ्यासस्य रीगभावश्छान्दसः । तदन्तात् पचाद्यचि ‘यङोऽचि च' इति यङो लुक् । लघूपधगुणे प्राप्ते ‘न धातुलोपे° ' इति तस्य प्रतिषेधः । चित्त्वादन्तोदात्तः ॥
इ॒ममिं॑द्र॒ गवा॑शिरं॒ यवा॑शिरं च नः पिब ।
आ॒गत्या॒ वृष॑भिः सु॒तं ॥७
इ॒मम् । इ॒न्द्र॒ । गोऽआ॑शिरम् । यव॑ऽआशिरम् । च॒ । नः॒ । पि॒ब॒ ।
आ॒ऽगत्य॑ । वृष॑ऽभिः । सु॒तम् ॥७
इमम् । इन्द्र । गोऽआशिरम् । यवऽआशिरम् । च । नः । पिब ।
आऽगत्य । वृषऽभिः । सुतम् ॥७
हे “इन्द्र “गवाशिरं गव्यमिश्रणोपेतं तथा “यवाशिरं यवमिश्रणोपेतं “वृषभिः ग्रावभिः “सुतम् अभिषुतं “नः अस्मदीयम् “इमं सोमं देवयजनम् “आगत्य “पिब ॥ गवाशिरं यवाशिरमित्यत्र आङ्पूर्वस्य श्रीणातेः क्विपि ‘ अपस्पृधेथामानृचुः' इत्यादिनाशिर इत्यादेशः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः ॥
तुभ्येदिंन्द्र॒ स्व ओ॒क्ये॒३॒॑ सोमं॑ चोदामि पी॒तये॑ ।
ए॒ष रा॑रन्तु ते हृ॒दि ॥८
तुभ्य॑ । इत् । इ॒न्द्र॒ । स्वे । ओ॒क्ये॑ । सोम॑म् । चो॒दा॒मि॒ । पी॒तये॑ ।
ए॒षः । र॒र॒न्तु॒ । ते॒ । हृ॒दि ॥८
तुभ्य । इत् । इन्द्र । स्वे । ओक्ये । सोमम् । चोदामि । पीतये ।
एषः । ररन्तु । ते । हृदि ॥८
हे “इन्द्र “तुभ्येत् तुभ्यमेव “पीतये पानार्थं "स्वे स्वकीये “ओक्ये स्थाने जठरेऽभिषुतमिमं “सोमं चोदामि प्रेरयामि । “एषः पीतः सोमः “ते तव “हृदि हृदये “ररन्तु अत्यर्थं रमताम् ।। तुभ्य । युष्मच्छब्दस्य चतुर्थ्येकवचने ' तुभ्यमह्यौ ' इति तुभ्यादेशः । ‘सुपां सुलुक्° ' इति सुपो लुक्। ' ङयि च ' इत्याद्युदात्तः । ओक्ये । वस्वादित्वात् स्वार्थको यत्प्रत्ययः । तित्स्वरितः । चोदामि ।' चुद प्रेरणे । ण्यन्तस्य लटि रूपम् । ‘ बहुलमन्यत्रापि ' इति णेर्लुक् । निघातः । ररन्तु। रमु क्रीडायाम्' इत्यस्य यङ्लुकि लोटि सर्वविधीनां छन्दसि विकल्पितत्वात् अत्राभ्यासस्य नुमभावः । संहितायाम् ' अन्येषामपि ' इत्यभ्यासस्य दीर्घः । निघातः । हृदि । हृदयशब्दस्य पद्दन्नोमास्हृत् ' इत्यादिना हृदादेशः । ऊडिदम्' इति विभक्तेरुदात्तत्वम् ॥
त्वां सु॒तस्य॑ पी॒तये॑ प्र॒त्नमि॑न्द्र हवामहे ।
कु॒शि॒कासो॑ अव॒स्यवः॑ ॥९
त्वाम् । सु॒तस्य॑ । पी॒तये॑ । प्र॒त्नम् । इ॒न्द्र॒ । ह॒वा॒म॒हे॒ ।
कु॒शि॒कासः॑ । अ॒व॒स्यवः॑ ॥९
त्वाम् । सुतस्य । पीतये । प्रत्नम् । इन्द्र । हवामहे ।
कुशिकासः । अवस्यवः ॥९
हे “इन्द्र “अवस्यवः त्वत्तो रक्षणमिच्छन्तः “कुशिकासः कुशिकगोत्रोत्पन्ना वयं “सुतस्य ग्रावभिषुतस्य सोमस्य “पीतये पानार्थं “प्रत्नं पुरातनं “त्वां “हवामहे स्तुतिलक्षणाभिर्गीभिः आह्वयामः ।। पीतये । 'स्थागापापचो भावे ' इति क्तिन् । ' हिष्ठवत्सरतिशत्थान्तानाम् ' (फि. सू. ७ ) इत्यन्तोदात्तत्वम् । हवामहे । ह्वयतेर्लटि ‘ बहुलं छन्दसि ' इति संप्रसारणे रूपम् । अवस्यवः । अव इच्छन्तीत्यर्थे सुपः क्यच् । ‘ क्याच्छन्दसि ' इत्युप्रत्ययः । कुशिकासो अवस्यवः इत्यत्र संहितायाम् ' अव्यादवद्यात् ' (पा. सू. ६. १. ११६) इत्यादिना एङः प्रकृतिभावः ॥ ॥ ६ ॥
मण्डल ३ | |||
---|---|---|---|