ऋग्वेदः सूक्तं ३.४५

(ऋग्वेद: सूक्तं ३.४५ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ३.४४ ऋग्वेदः - मण्डल ३
सूक्तं ३.४५
गाथिनो विश्वामित्रः
सूक्तं ३.४६ →
दे. इन्द्रः। बृहती


आ मन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः ।
मा त्वा के चिन्नि यमन्विं न पाशिनोऽति धन्वेव ताँ इहि ॥१॥
वृत्रखादो वलंरुजः पुरां दर्मो अपामजः ।
स्थाता रथस्य हर्योरभिस्वर इन्द्रो दृळ्हा चिदारुजः ॥२॥
गम्भीराँ उदधीँरिव क्रतुं पुष्यसि गा इव ।
प्र सुगोपा यवसं धेनवो यथा ह्रदं कुल्या इवाशत ॥३॥
आ नस्तुजं रयिं भरांशं न प्रतिजानते ।
वृक्षं पक्वं फलमङ्कीव धूनुहीन्द्र सम्पारणं वसु ॥४॥
स्वयुरिन्द्र स्वराळसि स्मद्दिष्टिः स्वयशस्तरः ।
स वावृधान ओजसा पुरुष्टुत भवा नः सुश्रवस्तमः ॥५॥


सायणभाष्यम्

'आ मन्द्रैः' इति पञ्चर्चं सप्तमं सूक्तं वैश्वामित्रं बार्हतमैन्द्रम् । ‘आ मन्द्रैः' इत्यनुक्रमणिका । पूर्वसूक्ते ‘बार्हतं तु ' इत्युक्तत्वादस्यापि बार्हतत्वम् । “ विशेष विनियोगस्तु यत्र श्रुत्या न सूत्रितः । स्मार्तं तत्र विजानीयादृग्विधानादिशास्त्रतः ' ॥


आ मं॒द्रैरिं॑द्र॒ हरि॑भिर्या॒हि म॒यूर॑रोमभिः ।

मा त्वा॒ के चि॒न्नि य॑म॒न्विं न पा॒शिनोऽति॒ धन्वे॑व॒ ताँ इ॑हि ॥१

आ । म॒न्द्रैः । इ॒न्द्र॒ । हरि॑ऽभिः । या॒हि । म॒यूर॑रोमऽभिः ।

मा । त्वा॒ । के । चि॒त् । नि । य॒म॒न् । विम् । न । पा॒शिनः॑ । अति॑ । धन्व॑ऽइव । तान् । इ॒हि॒ ॥१

आ । मन्द्रैः । इन्द्र । हरिऽभिः । याहि । मयूररोमऽभिः ।

मा । त्वा । के । चित् । नि । यमन् । विम् । न । पाशिनः । अति । धन्वऽइव । तान् । इहि ॥१

हे "इन्द्र "मन्द्रैः मादयितृभिः "मयूररोमभिः मयूररोमसदृशरोमयुक्तैः "हरिभिः अश्वैरुपेतस्त्वम् “आ "याहि यज्ञं प्रत्यागच्छ । "के “चित् अपि जनाः “त्वा त्वां “मा "नि "यमन् मा नियच्छन्तु । गमनप्रतिबन्धं मा कुर्वन्तु इत्यभिप्रायः । प्रतिबन्धे दृष्टान्तः । "विं “न । यथा “पाशिनः पाशहस्ता व्याधाः विं गच्छन्तं पक्षिणं नियच्छन्ति तद्वत् मा नियच्छन्तु । किंच “धन्वेव । यथा पान्था धन्व मरुदेशं शीघ्रम् "अति गच्छन्ति तद्वद्गमनप्रतिबन्धकानतीत्य शीघ्रम् "इहि आगच्छ॥ मन्द्रैः । मदि स्तुत्यादिषु इत्यस्य ‘स्फायितञ्चि° ' इत्यादिना रक्प्रत्ययः । इदित्त्वान्नुम् । प्रत्ययस्वरः । मयूररोमभिः । मयूररोमवद्रोमाणि येषामिति ‘ सप्तम्युपमानपूर्वपदस्य बहुव्रीहिरुत्तरपदलोपश्च' (पा.सू. २. २. २४. १२) इति समासः उत्तरपदलोपश्च । मयूरशब्दः ‘मीनातेरूरन्' (उ. सू. १. ६७) इत्यूरन्प्रत्ययान्तः । मीनाति सर्पानिति मयूरो बर्ही । नित्त्वादाद्युदात्तत्वे प्राप्ते ‘ मादीनाम् । (फि. सू. ५३ ) इति सूत्रेण मध्योदात्तः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः । यमन् । ‘यम उपरमे इत्यस्य लेट्यडागमे रूपम् । इहि । इण् गतौ ' इत्यस्य लोटि रूपम् ॥


वृ॒त्र॒खा॒दो व॑लंरु॒जः पु॒रां द॒र्मो अ॒पाम॒जः ।

स्थाता॒ रथ॑स्य॒ हर्यो॑रभिस्व॒र इंद्रो॑ दृ॒ळ्हा चि॑दारु॒जः ॥२

वृ॒त्र॒ऽखा॒दः । व॒ल॒म्ऽरु॒जः । पु॒राम् । द॒र्मः । अ॒पाम् । अ॒जः ।

स्थाता॑ । रथ॑स्य । हर्योः॑ । अ॒भि॒ऽस्व॒रे । इन्द्रः॑ । दृ॒ळ्हा । चि॒त् । आ॒ऽरु॒जः ॥२

वृत्रऽखादः । वलम्ऽरुजः । पुराम् । दर्मः । अपाम् । अजः ।

स्थाता । रथस्य । हर्योः । अभिऽस्वरे । इन्द्रः । दृळ्हा । चित् । आऽरुजः ॥२

सोयम् "इन्द्रः “वृत्रखादः । वृत्रं खादति हिनस्तीति वृत्रखादः । "वलंरुजः । वृणोत्याकाशम् इति वलो मेघः । तस्य भञ्जकः । तथा च मन्त्रवर्णः---’ बिभेद वलम् ' ( ऋ. सं. ३. ३४. १०) इति । ततः "अपामजः मेघभेदनद्वारा अपां प्रेरकः “पुरां शत्रुसंबन्धिनां पुराणां "दर्मः दारकः । तथा “हर्योः अश्वयोः “अभिस्वरे अस्मदाभिमुख्येन प्रेरणे निमित्तभूते सति “रथस्य “स्थाता रथमधिष्ठाता । तथा “दृळ्हा “चित् दृढानामतिबलवतां शत्रूणामपि "आरुजः समन्ताद्भञ्जको भवति । वृत्रखादः । ‘ खाद्द भक्षणे ' इत्यस्मात् कर्मण्यण् । कृदुत्तरपदस्वरः । वलंरुजः । ‘ रुजो भङ्गे'। कर्मण्युपपदे मूलविभुजादित्वात् कप्रत्ययः । ' तत्पुरुषे कृति बहुलम्' इति द्वितीयाया अलुक् । थाथादिस्वरः । आरुजः । ‘ रुजो भङ्गे' इत्यस्मादिगुपधलक्षणः कः । समासे थथादिस्वरः ॥


गं॒भी॒राँ उ॑द॒धीँरि॑व॒ क्रतुं॑ पुष्यसि॒ गा इ॑व ।

प्र सु॑गो॒पा यव॑सं धे॒नवो॑ यथा ह्र॒दं कु॒ल्या इ॑वाशत ॥३

ग॒म्भी॒रान् । उ॒द॒धीन्ऽइ॑व । क्रतु॑म् । पु॒ष्य॒सि॒ । गाःऽइ॑व ।

प्र । सु॒ऽगो॒पाः । यव॑सम् । धे॒नवः॑ । य॒था॒ । ह्र॒दम् । कु॒ल्याःऽइ॑व । आ॒श॒त॒ ॥३

गम्भीरान् । उदधीन्ऽइव । क्रतुम् । पुष्यसि । गाःऽइव ।

प्र । सुऽगोपाः । यवसम् । धेनवः । यथा । ह्रदम् । कुल्याःऽइव । आशत ॥३

हे इन्द्र त्वं "गम्भीरान् महावकाशान् "उदधीन् समुद्रान्” उदकैर्यथा पोषयसि तद्वत् "क्रतुं यज्ञस्य कर्तारमिमं यजमानमभिमतफलप्रदानेन “पुष्यसि पोषयसि । अत्र दृष्टान्तः। यथा "सुगोपाः समीचीनो गोपालः यवसेन “गाः पोषयति तद्वत् । "यथा “धेनवः "यवसं तृणादिकं प्राप्नुवन्ति तद्वत् त्वं सोमान् प्राप्नोषि । ते च सोमाः “कुल्याइव कृत्रिमसरितः "ह्रदं महाजलाशयं यथा प्राप्नुवन्ति तद्वत् त्वाम् “प्र “आशत व्याप्नुवन्ति ॥ गम्भीरान् । 'गाधृ प्रतिष्ठालिप्सयोर्ग्रन्थे च इत्यस्मात् ' गभीरगम्भीरौ ' (उ. सू. ४. ४७५ ) इत्यनेन सूत्रेण इरच्प्रत्ययः । नुमागमोपधाह्रस्वभकाराः सर्वे निपात्यन्ते । चित्त्वादन्तोदात्तः । उदधीनिव। उदकशब्दे उपपदे दधातेरधिकरणेऽर्थे ‘ कर्मण्यधिकरणे च ' इति किप्रत्ययः । उदकशब्दस्य ‘ पेषंवासवाहनधिषु च ' (पा. सू. ६.३.५८) इत्युदभावः । कृत्स्वरः । इवेन विभक्त्यलोपः । पुष्यसि ।' पुष पुष्टी ' इत्यस्यान्तर्णीतण्यर्थस्य लटि रूपम् । निघातः । सुगोपाः । गोपायतेः क्विपि रूपम् । यथा । ‘ यथेति पादान्ते' (फि. सू. ८५ ) इति निघातः । आशत । अशू व्याप्तौ ' इत्यस्माल्लङि • बहुलं छन्दसि ' इति विकरणस्य लुक् । निघातः


आ न॒स्तुजं॑ र॒यिं भ॒रांशं॒ न प्र॑तिजान॒ते ।

वृ॒क्षं प॒क्वं फल॑मं॒कीव॑ धूनु॒हींद्र॑ सं॒पार॑णं॒ वसु॑ ॥४

आ । नः॒ । तुज॑म् । र॒यिम् । भ॒र॒ । अंश॑म् । न । प्र॒ति॒ऽजा॒न॒ते ।

वृ॒क्षम् । प॒क्वम् । फल॑म् । अ॒ङ्कीऽइ॑व । धू॒नु॒हि॒ । इन्द्र॑ । स॒म्ऽपार॑णम् । वसु॑ ॥४

आ । नः । तुजम् । रयिम् । भर । अंशम् । न । प्रतिऽजानते ।

वृक्षम् । पक्वम् । फलम् । अङ्कीऽइव । धूनुहि । इन्द्र । सम्ऽपारणम् । वसु ॥४

हे "इन्द्र "नः अस्माकं "तुजं शत्रूणां बाधकं "रयिं धनेनोपलक्षितं पुत्रम् "आ "भर संपादय । तत्र दृष्टान्तः। "अंशं "न । यथा पिता “प्रतिजानते व्यवहारज्ञाय पुत्राय स्वकीयस्य धनस्य भागं ददाति तद्वत् । किंच "पक्वं "फलं प्रति "वृक्षम् "अङ्कीव अङ्कुशी यथा धूनोति तथा त्वं "संपारणम् अस्मदिच्छायाः सम्यक् पूरकं “वसु धनं “धूनुहि चालय । प्रयच्छेत्यर्थः ॥ प्रतिजानते । ‘ज्ञा अवबोधने ' इत्यस्य शतरि रूपम् । प्रादिसमासः । ‘ शतुरनुमः' इति विभक्तेरुदात्तत्वम् । धूनुहि । ‘धूञ् कम्पने' इत्यस्य लोटि रूपम्। संपारणम् ।' पॄ पालनपूरणयोः' इत्यस्य ण्यन्तस्य करणे ल्युट् । समासे कृत्स्वरः ॥


स्व॒युरिं॑द्र स्व॒राळ॑सि॒ स्मद्दि॑ष्टिः॒ स्वय॑शस्तरः ।

स वा॑वृधा॒न ओज॑सा पुरुष्टुत॒ भवा॑ नः सु॒श्रव॑स्तमः ॥५

स्व॒ऽयुः । इ॒न्द्र॒ । स्व॒ऽराट् । अ॒सि॒ । स्मत्ऽदि॑ष्टिः । स्वय॑शःऽतरः ।

सः । व॒वृ॒धा॒नः । ओज॑सा । पु॒रु॒ऽस्तु॒त॒ । भव॑ । नः॒ । सु॒श्रवः॑ऽतमः ॥५

स्वऽयुः । इन्द्र । स्वऽराट् । असि । स्मत्ऽदिष्टिः । स्वयशःऽतरः ।

सः । ववृधानः । ओजसा । पुरुऽस्तुत । भव । नः । सुश्रवःऽतमः ॥५

हे “इन्द्र "स्वयुः धनवानसि । तथा “स्वराट् स्वर्गस्य राजा "असि । "स्मद्दिष्टिः भद्रवाक्यः “स्वयशस्तरः अतिशयेन प्रभूतकीर्तिरसि । हे "पुरुष्टुत बहुभिराहूतेन्द्र "सः त्वम् "ओजसा बलेन “वावृधानः वर्धमानः सन् "नः अस्मदर्थं "सुश्रवस्तमः अतिशयेन शोभनान्नोपेतः “भव ॥ स्वयुः । स्वशब्दात् मत्वर्थीयो युः । स्वराट् ।' राजृ दीप्तौ ' । क्विप् । व्रश्चादिना षत्वम् । स्मद्दिष्टिः । स्मत् सुमदित्यर्थे। उकालोपश्छान्दसः। बहुव्रीहौ पूर्वपदस्वरः । पुरुष्टुत । संहितायां स्तुतस्तोमयोश्छन्दसि इति षत्वम् । भव । भवतेर्लोटि रूपम् । ‘ द्व्यचोऽतस्तिङः ' इति संहितायां दीर्घः । सुश्रवस्तमः । श्रवःशब्दोऽसुन्नन्तः । बहुव्रीहौ ' आद्युदात्तं द्व्यच्छन्दसि' इत्युत्तरपदाद्युदात्तत्वम् । तदन्तादतिशायने तमप् । तस्य पित्त्वादनुदात्तत्वे बहुव्रीहिस्वरः ॥ ॥ ९ ॥


मण्डल ३

सूक्तं ३.१

सूक्तं ३.२

सूक्तं ३.३

सूक्तं ३.४

सूक्तं ३.५

सूक्तं ३.६

सूक्तं ३.७

सूक्तं ३.८

सूक्तं ३.९

सूक्तं ३.१०

सूक्तं ३.११

सूक्तं ३.१२

सूक्तं ३.१३

सूक्तं ३.१४

सूक्तं ३.१५

सूक्तं ३.१६

सूक्तं ३.१७

सूक्तं ३.१८

सूक्तं ३.१९

सूक्तं ३.२०

सूक्तं ३.२१

सूक्तं ३.२२

सूक्तं ३.२३

सूक्तं ३.२४

सूक्तं ३.२५

सूक्तं ३.२६

सूक्तं ३.२७

सूक्तं ३.२८

सूक्तं ३.२९

सूक्तं ३.३०

सूक्तं ३.३१

सूक्तं ३.३२

सूक्तं ३.३३

सूक्तं ३.३४

सूक्तं ३.३५

सूक्तं ३.३६

सूक्तं ३.३७

सूक्तं ३.३८

सूक्तं ३.३९

सूक्तं ३.४०

सूक्तं ३.४१

सूक्तं ३.४२

सूक्तं ३.४३

सूक्तं ३.४४

सूक्तं ३.४५

सूक्तं ३.४६

सूक्तं ३.४७

सूक्तं ३.४८

सूक्तं ३.४९

सूक्तं ३.५०

सूक्तं ३.५१

सूक्तं ३.५२

सूक्तं ३.५३

सूक्तं ३.५४

सूक्तं ३.५५

सूक्तं ३.५६

सूक्तं ३.५७

सूक्तं ३.५८

सूक्तं ३.५९

सूक्तं ३.६०

सूक्तं ३.६१

सूक्तं ३.६२

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.४५&oldid=183688" इत्यस्माद् प्रतिप्राप्तम्