ऋग्वेदः सूक्तं ३.२५

(ऋग्वेद: सूक्तं ३.२५ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ३.२४ ऋग्वेदः - मण्डल ३
सूक्तं ३.२५
गाथिनो विश्वामित्रः
सूक्तं ३.२६ →
दे. अग्निः, ४ अग्नीन्द्रौ। त्रिष्टुप्


अग्ने दिवः सूनुरसि प्रचेतास्तना पृथिव्या उत विश्ववेदाः ।
ऋधग्देवाँ इह यजा चिकित्वः ॥१॥
अग्निः सनोति वीर्याणि विद्वान्सनोति वाजममृताय भूषन् ।
स नो देवाँ एह वहा पुरुक्षो ॥२॥
अग्निर्द्यावापृथिवी विश्वजन्ये आ भाति देवी अमृते अमूरः ।
क्षयन्वाजैः पुरुश्चन्द्रो नमोभिः ॥३॥
अग्न इन्द्रश्च दाशुषो दुरोणे सुतावतो यज्ञमिहोप यातम् ।
अमर्धन्ता सोमपेयाय देवा ॥४॥
अग्ने अपां समिध्यसे दुरोणे नित्यः सूनो सहसो जातवेदः ।
सधस्थानि महयमान ऊती ॥५॥


सायणभाष्यम्

‘ अग्ने दिवः' इति पञ्चर्चं त्रयोदशं सूक्तं वैश्वामित्रम् । अत्रेयमनुक्रमणिका-- ' अग्ने दिवो वैराजमुपान्त्याग्नेन्द्री' इति । विराट् छन्दः । ‘ अग्न इन्द्रश्च ' इत्येषा इन्द्राग्नीदेवताका । शिष्टाः आग्नेय्यः । अग्निष्टोमे आज्यशस्त्रे ‘ अग्न इन्द्रश्च ' इति याज्या । ‘ अग्न इन्द्रश्च दाशुषो दुरोण इति याज्या ' ( आश्व. श्रौ. ५. ९) इति सूत्रितत्वात् ॥


अग्ने॑ दि॒वः सू॒नुर॑सि॒ प्रचे॑ता॒स्तना॑ पृथि॒व्या उ॒त वि॒श्ववे॑दाः ।

ऋध॑ग्दे॒वाँ इ॒ह य॑जा चिकित्वः ॥१

अग्ने॑ । दि॒वः । सू॒नुः । अ॒सि॒ । प्रऽचे॑ताः । तना॑ । पृ॒थि॒व्याः । उ॒त । वि॒श्वऽवे॑दाः ।

ऋध॑क् । दे॒वान् । इ॒ह । य॒ज॒ । चि॒कि॒त्वः॒ ॥१

अग्ने । दिवः । सूनुः । असि । प्रऽचेताः । तना । पृथिव्याः । उत । विश्वऽवेदाः ।

ऋधक् । देवान् । इह । यज । चिकित्वः ॥१

विश्वामित्रः स्तौति । हे "अग्ने "विश्ववेदाः सर्वविषयज्ञानवान् "प्रचेताः कर्मविषयज्ञानवांस्त्वं “दिवः द्युलोकाभिमानिदेवतायाः "सूनुरसि पुत्रो भवसि। “उत अपि च "पृथिव्याः पृथिव्यभिमानिदेवतायाः “तना तनयोऽसि । किंच “चिकित्वः चेतनावन् हे अग्ने "इह अस्माभिः क्रियमाणेऽस्मिन् कर्मणि "देवान् यजनीयानिन्द्रादिदेवान् "ऋधक् पृथक् क्रमेण "यज हविष्प्रदानेन पूजय ॥ असि । ‘ अस भुवि ' इत्यस्य लटि तासस्त्योर्लोपः' इति सलोपः । निघातः । विश्ववेदाः । ‘ बहुव्रीहौ विश्वं संज्ञायाम् ' इति विश्वस्यान्तोदात्तत्वम् ॥


अ॒ग्निः स॑नोति वी॒र्या॑णि वि॒द्वान्स॒नोति॒ वाज॑म॒मृता॑य॒ भूष॑न् ।

स नो॑ दे॒वाँ एह व॑हा पुरुक्षो ॥२

अ॒ग्निः । स॒नो॒ति॒ । वी॒र्या॑णि । वि॒द्वान् । स॒नोति॑ । वाज॑म् । अ॒मृता॑य । भूष॑न् ।

सः । नः॒ । दे॒वान् । आ । इ॒ह । व॒ह॒ । पु॒रु॒क्षो॒ इति॑ पुरुऽक्षो ॥२

अग्निः । सनोति । वीर्याणि । विद्वान् । सनोति । वाजम् । अमृताय । भूषन् ।

सः । नः । देवान् । आ । इह । वह । पुरुक्षो इति पुरुऽक्षो ॥२

“विद्वान् कर्माभिज्ञो यः "अग्निः "वीर्याणि पशुपुत्रादिसंपद्रूपाणि सामर्थ्यानि “सनोति यजमानाय ददाति । यश्चाग्निः "भूषन् स्वतेजसा सर्वं जगत् भूषयन् अलंकुर्वन् "अमृताय मरणधर्मरहितायेन्द्रादिदेवाय "वाजं हविर्लक्षणमन्नं "सनोति प्रयच्छति "पुरुक्षो पुरोडाशादिबहुविधान्नोपेत हे अग्ने "सः तादृशस्त्वं "नः अस्माकं संबन्धिनि “इह अस्मिन्यज्ञे "देवान् यजनीयान्देवान् “आ “वह आह्वय ।। सनोति । ‘ षणु दाने '। तनादित्वादुप्रत्ययः । प्रत्ययस्वरः । पादादित्वादनिघातः । भूषन् । ‘ भूष अलंकारे । अन्तर्भावितण्यर्थः । शतुर्लसार्वधातुकस्वरेणानुदात्तत्वे धातुस्वरः शिष्यते । वह । वहेर्लोटि रूपम् । पुरुक्षो । पुरवः क्षुधोऽन्नानि यस्येति पुरुक्षुः । अन्त्यलोपश्छान्दसः । ‘संबुद्धौ च' इति गुणः ॥


अ॒ग्निर्द्यावा॑पृथि॒वी वि॒श्वज॑न्ये॒ आ भा॑ति दे॒वी अ॒मृते॒ अमू॑रः ।

क्षय॒न्वाजै॑ः पुरुश्च॒न्द्रो नमो॑भिः ॥३

अ॒ग्निः । द्यावा॑पृथि॒वी इति॑ । वि॒श्वज॑न्ये॒ इति॑ वि॒श्वऽज॑न्ये । आ । भा॒ति॒ । दे॒वी इति॑ । अ॒मृते॒ इति॑ । अमू॑रः ।

क्षय॑न् । वाजैः॑ । पु॒रु॒ऽच॒न्द्रः । नमः॑ऽभिः ॥३

अग्निः । द्यावापृथिवी इति । विश्वजन्ये इति विश्वऽजन्ये । आ । भाति । देवी इति । अमृते इति । अमूरः ।

क्षयन् । वाजैः । पुरुऽचन्द्रः । नमःऽभिः ॥३

"अमूरः अमूढः सर्वज्ञः "क्षयन ईशानः सर्वस्य जगतः अत एव "पुरुश्चन्द्रः पुरुचन्द्रो बहुहिरण्योपेतः । यद्वा बहुदीप्तिस्वरूपः । “वाजैः बलैः "नमोभिः अन्नैश्च सहित: सः "अग्निः "विश्वजन्ये विश्वस्य जनयित्र्यौ । यद्वा विश्वं जन्यमुत्पाद्यं याभ्यां ते । “देवी द्योतमाने "अमृते मरणधर्मरहिते “द्यावापृथिवी द्यावापृथिव्यौ “आ “भाति आ समन्तात् प्रकाशयति ॥ द्यावापृथिवी । दिवःशब्दस्य ' दिवो द्यावा' इति द्यावादेश आद्युदात्तः । पृथिवीशब्दो डीषन्तत्वेनान्तोदात्तः। ‘देवता द्वन्द्वे च' इत्युभयोः प्रकृतिस्वरत्वम् । विश्वजन्ये । 'बहुव्रीहौ विश्वं संज्ञायाम्' इति पूर्वपदान्तोदात्तः । तत्पुरुषे तु स्वरश्चिन्तनीयः । आ भाति । ' भा दीप्तौ'। अन्तर्भावितण्यर्थः । क्षयन् ।' क्षि ऐश्वर्ये । शतुर्लसार्वधातुकस्वरेणानुदात्तत्वे धातुस्वरः । पुरुश्चन्द्रः । ‘ह्रस्वाच्चन्द्रोत्तरपदे मन्त्रे' इति सुडागमः । श्चुत्वेन शकारः । उत्तरपदान्तोदात्तप्रकरणे ‘ त्रिचक्रादीनां छन्दस्युपसंख्यानम्' इति उत्तरपदान्तोदात्तत्वम् । यद्वा • समासस्य ' इत्यन्तोदात्तत्वम् ॥


अग्न॒ इन्द्र॑श्च दा॒शुषो॑ दुरो॒णे सु॒ताव॑तो य॒ज्ञमि॒होप॑ यातम् ।

अम॑र्धन्ता सोम॒पेया॑य देवा ॥४

अग्ने॑ । इन्द्रः॑ । च॒ । दा॒शुषः॑ । दु॒रो॒णे । सु॒तऽव॑तः । य॒ज्ञम् । इ॒ह । उप॑ । या॒त॒म् ।

अम॑र्धन्ता । सो॒म॒ऽपेया॑य । दे॒वा॒ ॥४

अग्ने । इन्द्रः । च । दाशुषः । दुरोणे । सुतऽवतः । यज्ञम् । इह । उप । यातम् ।

अमर्धन्ता । सोमऽपेयाय । देवा ॥४

हे "अग्ने त्वम् "इन्द्रश्च उभौ "देवा देवौ युवाम् "अमर्धन्ता अनागमनेन यज्ञहिंसामकुर्वन्तौ सन्तौ "सुतवतः सोमाभिषवं कुर्वतः "दाशुषः हविर्दत्तवतो यजमानस्य “इह "दुरोणे गृहे क्रियमाणमिमं “यज्ञम् अभिलक्ष्य "सोमपेयाय सोमपानार्थम् “उप “यातम् उप समीपम् आगच्छतम् ॥ यातम् । ‘ या प्रापणे ' इत्यस्य लोटि रूपम् । निघातः । अमर्धन्ता । ‘मृधु हिंसायाम्' इत्यस्य शतरि रूपम् । नञा समासः । सुपो डादेशः । तत्पुरुषे नञ्स्वरः । सोमपेयाय । ‘पा पाने'। ' अचो यत्' इति यत् ।' ईद्यति' इतीकारादेशः । आर्धधातुकलक्षणो गुणः । कृदुत्तरपदप्रकृतिस्वरः ॥


अग्ने॑ अ॒पां समि॑ध्यसे दुरो॒णे नित्य॑ः सूनो सहसो जातवेदः ।

स॒धस्था॑नि म॒हय॑मान ऊ॒ती ॥५

अग्ने॑ । अ॒पाम् । सम् । इ॒ध्य॒से॒ । दु॒रो॒णे । नित्यः॑ । सू॒नो॒ इति॑ । स॒ह॒सः॒ । जा॒त॒ऽवे॒दः॒ ।

स॒धऽस्था॑नि । म॒हय॑मानः । ऊ॒ती ॥५

अग्ने । अपाम् । सम् । इध्यसे । दुरोणे । नित्यः । सूनो इति । सहसः । जातऽवेदः ।

सधऽस्थानि । महयमानः । ऊती ॥५

"सहसः "सूनो बलस्य पुत्र "जातवेदः जातप्रज्ञ हे "अग्ने “नित्यः अविनाशी “ऊती ऊत्या रक्षणेन 'सधस्थानि प्राणिनां निवासभूतान् लोकान् "महयमानः परिचरंस्त्वम् "अपां "दुरोणे अपां स्थानेऽन्तरिक्षे "समिध्यसे सम्यक् दीप्यसे ॥ दुरोणे । 'अव रक्षणे' इत्यस्मादौणादिको नक्प्रत्ययः । ‘ ज्वरत्वर' इत्यादिना ऊठ् । गुणः । ‘ दुरोण इति गृहनाम, दुरवा भवन्ति ' (निरु, ४. ५) इति यास्कः । प्रत्ययस्वरः । महयमानः । ‘ मह पूजायाम् ' । व्यत्ययेन शानच् । शानचो लसार्वधातुकस्वरेणानुदात्तत्वे णिच्स्वरः । ऊती । अव रक्षणादिषु ।' उतियूतिजूति' इत्यादिना निपातनादन्तोदात्तः । ‘ सुपां सुलुक् ' इति तृतीयायाः सवर्णदीर्घः ॥ ॥ २५ ।।

मण्डल ३

सूक्तं ३.१

सूक्तं ३.२

सूक्तं ३.३

सूक्तं ३.४

सूक्तं ३.५

सूक्तं ३.६

सूक्तं ३.७

सूक्तं ३.८

सूक्तं ३.९

सूक्तं ३.१०

सूक्तं ३.११

सूक्तं ३.१२

सूक्तं ३.१३

सूक्तं ३.१४

सूक्तं ३.१५

सूक्तं ३.१६

सूक्तं ३.१७

सूक्तं ३.१८

सूक्तं ३.१९

सूक्तं ३.२०

सूक्तं ३.२१

सूक्तं ३.२२

सूक्तं ३.२३

सूक्तं ३.२४

सूक्तं ३.२५

सूक्तं ३.२६

सूक्तं ३.२७

सूक्तं ३.२८

सूक्तं ३.२९

सूक्तं ३.३०

सूक्तं ३.३१

सूक्तं ३.३२

सूक्तं ३.३३

सूक्तं ३.३४

सूक्तं ३.३५

सूक्तं ३.३६

सूक्तं ३.३७

सूक्तं ३.३८

सूक्तं ३.३९

सूक्तं ३.४०

सूक्तं ३.४१

सूक्तं ३.४२

सूक्तं ३.४३

सूक्तं ३.४४

सूक्तं ३.४५

सूक्तं ३.४६

सूक्तं ३.४७

सूक्तं ३.४८

सूक्तं ३.४९

सूक्तं ३.५०

सूक्तं ३.५१

सूक्तं ३.५२

सूक्तं ३.५३

सूक्तं ३.५४

सूक्तं ३.५५

सूक्तं ३.५६

सूक्तं ३.५७

सूक्तं ३.५८

सूक्तं ३.५९

सूक्तं ३.६०

सूक्तं ३.६१

सूक्तं ३.६२

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.२५&oldid=197162" इत्यस्माद् प्रतिप्राप्तम्