ऋग्वेदः सूक्तं ३.६१

(ऋग्वेद: सूक्तं ३.६१ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ३.६० ऋग्वेदः - मण्डल ३
सूक्तं ३.६१
गाथिनो विश्वामित्रः
सूक्तं ३.६२ →
दे. उषाः। त्रिष्टुप्


उषो वाजेन वाजिनि प्रचेता स्तोमं जुषस्व गृणतो मघोनि ।
पुराणी देवि युवतिः पुरंधिरनु व्रतं चरसि विश्ववारे ॥१॥
उषो देव्यमर्त्या वि भाहि चन्द्ररथा सूनृता ईरयन्ती ।
आ त्वा वहन्तु सुयमासो अश्वा हिरण्यवर्णां पृथुपाजसो ये ॥२॥
उषः प्रतीची भुवनानि विश्वोर्ध्वा तिष्ठस्यमृतस्य केतुः ।
समानमर्थं चरणीयमाना चक्रमिव नव्यस्या ववृत्स्व ॥३॥
अव स्यूमेव चिन्वती मघोन्युषा याति स्वसरस्य पत्नी ।
स्वर्जनन्ती सुभगा सुदंसा आन्ताद्दिवः पप्रथ आ पृथिव्याः ॥४॥
अच्छा वो देवीमुषसं विभातीं प्र वो भरध्वं नमसा सुवृक्तिम् ।
ऊर्ध्वं मधुधा दिवि पाजो अश्रेत्प्र रोचना रुरुचे रण्वसंदृक् ॥५॥
ऋतावरी दिवो अर्कैरबोध्या रेवती रोदसी चित्रमस्थात् ।
आयतीमग्न उषसं विभातीं वाममेषि द्रविणं भिक्षमाणः ॥६॥
ऋतस्य बुध्न उषसामिषण्यन्वृषा मही रोदसी आ विवेश ।
मही मित्रस्य वरुणस्य माया चन्द्रेव भानुं वि दधे पुरुत्रा ॥७॥

सायणभाष्यम्

‘ उषो वाजेन' इति सप्तर्चमष्टमं सूक्तं वैश्वामित्रमुषोदेवताकम् । तथा चानुक्रान्तम्- उष उषस्यम्' इति । प्रातरनुवाके उषस्ये क्रतावाश्विनशस्त्रे च त्रैष्टुभे छन्दस्येतस्य सूक्तस्य विनियोगः । सूत्रितं च- ‘उषो वाजेनेदमु त्यत्' ( आश्व. श्रौ. ४. १४ ) इति ॥


उषो॒ वाजे॑न वाजिनि॒ प्रचे॑ता॒ः स्तोमं॑ जुषस्व गृण॒तो म॑घोनि ।

पु॒रा॒णी दे॑वि युव॒तिः पुरं॑धि॒रनु॑ व्र॒तं च॑रसि विश्ववारे ॥१

उषः॑ । वाजे॑न । वा॒जि॒नि॒ । प्रऽचे॑ताः । स्तोम॑म् । जु॒ष॒स्व॒ । गृ॒ण॒तः । म॒घो॒नि॒ ।

पु॒रा॒णी । दे॒वि॒ । यु॒व॒तिः । पुर॑म्ऽधिः । अनु॑ । व्र॒तम् । च॒र॒सि॒ । वि॒श्व॒ऽवा॒रे॒ ॥१

उषः । वाजेन । वाजिनि । प्रऽचेताः । स्तोमम् । जुषस्व । गृणतः । मघोनि ।

पुराणी । देवि । युवतिः । पुरम्ऽधिः । अनु । व्रतम् । चरसि । विश्वऽवारे ॥१

“वाजेन “वाजिनि अन्नेनान्नवति । तथा च मन्त्रः - 'सं वाजैर्वाजिनीवति' ( ऋ. सं. १. ४८. १६ ) इति । “मघोनि धनवति हे “उषः “प्रचेताः प्रकृष्टज्ञानवती सती त्वं “गृणतः तव स्तोत्रं कुर्वतः स्तोतुः “स्तोमं स्तोत्रं जुषस्व सेवरव। यद्वा । वाजेन हविर्लक्षणेनान्नेन सह स्तोमं जुषस्वेति संबन्धः । “विश्ववारे विश्वैः सर्वैर्वरणीये हे उषः “देवि “पुराणी पुरातनी । "युवतिः इत्युपमा । तद्वच्छोभमाना । ‘ सुसंकाशा मातृमृष्टेव योषा' (ऋ. सं. १. १२३. ११ ) इतिवत् । “पुरंधिः । पुरु बहु धीः स्तोत्रलक्षणं कर्म यस्याः सा । बहुस्तोत्रवती। ' पुरंधिर्बहुधीः' इति यास्कः । पुरंधिः शोभमाना वा । एवंविधगुणोपेता त्वम् “अनु “व्रतं यज्ञकर्माभिलक्ष्य “चरसि यष्टव्यतया वर्तसे ॥ मघोनि। मघशब्दात् मतुबर्थे ' छन्दसीवनिपौ' इति वनिप् । स्त्रियाम् ‘ऋन्नेभ्यो ङीप्' । ‘श्वयुवमघोनामतद्धिते' इति संप्रसारणे कृते गुणः । संबुद्धौ ‘अम्बार्थनद्योर्ह्रस्वः'। निघातः । पुराणी । पुराणशब्दः ‘पुराणप्रोक्तेषु°' इत्यन्तोदात्तत्वेन निपातितः । ‘ टिड्ढाणञ्° ' इति ङीप् ।' अनुदात्तस्य च यत्रोदात्तलोपः' इत्यन्तोदात्तत्वम् । पुरंधिः । पृषोदरादित्वात् उकारस्य अमादेश ईकारस्य ह्रस्वश्च । ‘ आद्युदात्तप्रकरणे दिवोदासादीनां छन्दस्युपसंख्यानम् ' इत्याद्युदात्तत्वम् ।।


उषो॑ दे॒व्यम॑र्त्या॒ वि भा॑हि च॒न्द्रर॑था सू॒नृता॑ ई॒रय॑न्ती ।

आ त्वा॑ वहन्तु सु॒यमा॑सो॒ अश्वा॒ हिर॑ण्यवर्णां पृथु॒पाज॑सो॒ ये ॥२

उषः॑ । दे॒वि॒ । अम॑र्त्या । वि । भा॒हि॒ । च॒न्द्रऽर॑था । सू॒नृताः॑ । ई॒रय॑न्ती ।

आ । त्वा॒ । व॒ह॒न्तु॒ । सु॒ऽयमा॑सः । अश्वाः॑ । हिर॑ण्यऽवर्णाम् । पृ॒थु॒ऽपाज॑सः । ये ॥२

उषः । देवि । अमर्त्या । वि । भाहि । चन्द्रऽरथा । सूनृताः । ईरयन्ती ।

आ । त्वा । वहन्तु । सुऽयमासः । अश्वाः । हिरण्यऽवर्णाम् । पृथुऽपाजसः । ये ॥२

हे "उषो देवि "अमर्त्या मरणधर्मरहिता "चन्द्ररथा सुवर्णमयरथोपेता "सूनृताः प्रियसत्यरूपा वाचः “ईरयन्ती उच्चारयन्ती । तथा च मन्त्रवर्णः - सुम्नावरी सूनृता ईरयन्ती' (ऋ. सं. १. ११३. १२) इति । तादृशी त्वं “वि “भाहि सूर्यकिरणसंबन्धात् विशेषेण दीप्यस्व' । "पृथुपाजसः प्रभूतबलयुक्ता अरुणवर्णाः "ये "अश्वाः विद्यन्ते "सुयमासः सुष्ठु नियन्तुं शक्या रथे योजितास्तेऽश्वाः "हिरण्यवर्णा “त्वा त्वाम् "आ "वहन्तु ॥ सुयमासः । यमेरकृच्छ्रार्थे खल् । लित्स्वरः ॥


उष॑ः प्रती॒ची भुव॑नानि॒ विश्वो॒र्ध्वा ति॑ष्ठस्य॒मृत॑स्य के॒तुः ।

स॒मा॒नमर्थं॑ चरणी॒यमा॑ना च॒क्रमि॑व नव्य॒स्या व॑वृत्स्व ॥३

उषः॑ । प्र॒ती॒ची । भुव॑नानि । विश्वा॑ । ऊ॒र्ध्वा । ति॒ष्ठ॒सि॒ । अ॒मृत॑स्य । के॒तुः ।

स॒मा॒नम् । अर्थ॑म् । च॒र॒णी॒यमा॑ना । च॒क्रम्ऽइ॑व । न॒व्य॒सि॒ । आ । व॒वृ॒त्स्व॒ ॥३

उषः । प्रतीची । भुवनानि । विश्वा । ऊर्ध्वा । तिष्ठसि । अमृतस्य । केतुः ।

समानम् । अर्थम् । चरणीयमाना । चक्रम्ऽइव । नव्यसि । आ । ववृत्स्व ॥३

हे "उषः देवि “विश्वा सर्वाणि "भुवनानि "प्रतीची । प्रति आभिमुख्येनाञ्चति प्राप्नोतीति प्रतीची । “अमृतस्य मरणधर्मरहितस्य सूर्यस्य "केतुः प्रज्ञापयित्री त्वम् "ऊर्ध्वा नभस्युन्नता “तिष्ठसि । "नव्यसि पुनःपुनर्जायमानतया नवतरे हे उषो देवि "अर्थम्। अर्यते गम्यतेऽस्मिन्नित्यर्थो मार्गः । "समानम् एकं मार्गमुदयात् प्राचीनकाललक्षणं "चरणीयमाना चरितुमिच्छन्ती त्वम् "आ “ववृत्स्व पुनस्तस्मिन् मार्गे आवृत्ता भव । तत्र दृष्टान्तः । "चक्रमिव । यथा नभसि चरितुः सूर्यस्य रथाङ्गं पुनःपुनरावर्तते तद्वत् ॥ प्रतीची । प्रतिपूर्वादञ्चतेः क्विन् । 'अञ्चतेश्चोपसंख्यानम् ' इति ङीप् । ' अचः' इत्यकारलोपे ‘चौ इति दीर्घः । उदात्तनिवृत्तिस्वरेणान्तोदात्तः । केतुः । ‘ चायृ पूजानिशामनयोः' इत्यस्मात् ‘चायः की च ' इति तुः । की इत्यादेशः । आर्धधातुकलक्षणो गुणः । अर्थम् । अर्तेस्थन्प्रत्ययः । नव्यसि । नवशब्दात् ईयसुनि ङीपि रूपम् । ईकारलोपश्छान्दसः । ववृत्स्व ।' वृतु वर्तने' । 'बहुलं छन्दसि ' इति विकरणस्य श्लुः ॥


अव॒ स्यूमे॑व चिन्व॒ती म॒घोन्यु॒षा या॑ति॒ स्वस॑रस्य॒ पत्नी॑ ।

स्व१॒॑र्जन॑न्ती सु॒भगा॑ सु॒दंसा॒ आन्ता॑द्दि॒वः प॑प्रथ॒ आ पृ॑थि॒व्याः ॥४

अव॑ । स्यूम॑ऽइव । चि॒न्व॒ती । म॒घोनी॑ । उ॒षाः । या॒ति॒ । स्वस॑रस्य । पत्नी॑ ।

स्वः॑ । जन॑न्ती । सु॒ऽभगा॑ । सु॒ऽदंसाः॑ । आ । अन्ता॑त् । दि॒वः । प॒प्र॒थे॒ । आ । पृ॒थि॒व्याः ॥४

अव । स्यूमऽइव । चिन्वती । मघोनी । उषाः । याति । स्वसरस्य । पत्नी ।

स्वः । जनन्ती । सुऽभगा । सुऽदंसाः । आ । अन्तात् । दिवः । पप्रथे । आ । पृथिव्याः ॥४

येयम् "उषाः "स्यूमेव वस्त्रमिव विस्तृतं तमः "अव "चिन्वती अवचयमपक्षयं प्रापयन्ती “मघोनी धनवती "स्वसरस्य । सुष्ठ्वस्यति क्षिपति तम इति स्वसरः सूर्यो वासरो वा । तस्य "पत्नी सती "याति गच्छति । स्वः स्वकीयं तेजः "जनन्ती जनयन्ती “सुभगा सुधना सौभाग्ययुक्ता वा "सुदंसाः शोभनाग्निहोत्रकर्मा सेयमुषाः “दिवः द्युलोकस्य "आ "अन्तात् "पृथिव्याः च “आ अन्तात् आवसानात् "पप्रथे प्रथते प्रकाशते इत्यर्थः ॥ स्यूमेव । ‘ षिवु तन्तुसंताने ' । ' अविषिविशुषिभ्यः कित्' इति मन्प्रत्ययः । ‘छ्वोः शूडनुनासिके च' इति ऊठ् । यणादेशः । ‘ सुपां सुलुक्' इति सोर्लुक् । नित्त्वादाद्युदात्तः । चिन्वती । ‘शतुरनुमः' इति ङीप उदात्तत्वम् । जनन्ती । “जन जनने ' इत्यस्य ण्यन्तस्य शतरि रूपम् । 'छन्दस्युभयथा' इति शप आर्धधातुकत्वेन णिलोपः ॥


अच्छा॑ वो दे॒वीमु॒षसं॑ विभा॒तीं प्र वो॑ भरध्वं॒ नम॑सा सुवृ॒क्तिम् ।

ऊ॒र्ध्वं म॑धु॒धा दि॒वि पाजो॑ अश्रे॒त्प्र रो॑च॒ना रु॑रुचे र॒ण्वसं॑दृक् ॥५

अच्छ॑ । वः॒ । दे॒वीम् । उ॒षस॑म् । वि॒ऽभा॒तीम् । प्र । वः॒ । भ॒र॒ध्व॒म् । नम॑सा । सु॒ऽवृ॒क्तिम् ।

ऊ॒र्ध्वम् । म॒धु॒धा । दि॒वि । पाजः॑ । अ॒श्रे॒त् । प्र । रो॒च॒ना । रु॒रु॒चे॒ । र॒ण्वऽस॑न्दृक् ॥५

अच्छ । वः । देवीम् । उषसम् । विऽभातीम् । प्र । वः । भरध्वम् । नमसा । सुऽवृक्तिम् ।

ऊर्ध्वम् । मधुधा । दिवि । पाजः । अश्रेत् । प्र । रोचना । रुरुचे । रण्वऽसन्दृक् ॥५

हे स्तोतारः "वः युष्मान् "अच्छ अभिलक्ष्य "विभातीं शोभमानाम् "उषसं “देवीं प्रति "वः युष्माकं संबन्धिना "नमसा नमस्कारेण सह "सुवृक्तिं शोभनां स्तुतिं “प्र “भरध्वं यूयं कुरुत । “मधुधा । मधुराणि स्तुतिलक्षणानि वाक्यानि दधातीति । मधु सोमः। तं धारयतीति वा । यद्वा । मधुधादित्यधात्री । यद्वा । अवग्रहाभावादव्युत्पन्नावयवम् अखण्डमिदं पदम् उषोनाम । सेयमुषाः “दिवि नभसि “ऊर्ध्वं “पाजः ऊर्ध्वाभिमुखं पाजस्तेजः "अश्रेत् श्रयति । तथा "रोचना रोचनशीला “रण्वसंदृक् रमणीयदर्शनोषाः “प्र “रुरुचे प्रकर्षेण दीप्यते । यद्वा । रोचना लोकान् प्र रुरुचे प्रकर्षेण स्वतेजसा दीपयति । तथा च मन्त्रवर्णः -- ‘ व्युच्छन्ती हि रश्मिभिर्विश्वमाभासि रोचनम् ' ( ऋ. सं. १. ४९. ४ ) इति ॥ रण्वसंदृक् । रवेर्गत्यर्थस्य अच्प्रत्ययः । इदित्वाच त् नुमागमः । संपूर्वात् दृशेः क्विन् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः ॥


ऋ॒ताव॑री दि॒वो अ॒र्कैर॑बो॒ध्या रे॒वती॒ रोद॑सी चि॒त्रम॑स्थात् ।

आ॒य॒तीम॑ग्न उ॒षसं॑ विभा॒तीं वा॒ममे॑षि॒ द्रवि॑णं॒ भिक्ष॑माणः ॥६

ऋ॒तऽव॑री । दि॒वः । अ॒र्कैः । अ॒बो॒धि॒ । आ । रे॒वती॑ । रोद॑सी॒ इति॑ । चि॒त्रम् । अ॒स्था॒त् ।

आ॒ऽय॒तीम् । अ॒ग्ने॒ । उ॒षस॑म् । वि॒ऽभा॒तीम् । वा॒मम् । ए॒षि॒ । द्रवि॑णम् । भिक्ष॑माणः ॥६

ऋतऽवरी । दिवः । अर्कैः । अबोधि । आ । रेवती । रोदसी इति । चित्रम् । अस्थात् ।

आऽयतीम् । अग्ने । उषसम् । विऽभातीम् । वामम् । एषि । द्रविणम् । भिक्षमाणः ॥६

“ऋतावरी सत्यवती येयमुषाः "दिवः द्युलोकात् "अर्केः तेजोभिः "अबोधि सर्वैर्ज्ञायते । ततः “रेवती धनवती येयं "रोदसी द्यावापृथिव्यौ “चित्रं नानाविधरूपयुक्तं यथा भवति तथा “आ “अस्थात् सर्वतो व्याप्य तिष्ठति हे "अग्ने "आयतीं त्वदभिमुखमागच्छन्तीं “विभातीं भासमानाम् “उषसम् उषोदेवीं “भिक्षमाणः हवींषि याचमानस्त्वं “वामं वननीयं "द्रविणम् अग्निहोत्रादिलक्षणं धनम् “एषि प्राप्नोषि ॥ अबोधि । ‘ बुध अवगमने'। कर्मणि लुङि ‘ चिण् भावकर्मणोः' इति चिण् । ‘ चिणो लुक्' । रेवती । रयिशब्दात् मतुप् । छन्दसीरः' इति वत्वम् । ‘ रयेर्मतौ बहुलम्' इति संप्रसारणपरपूर्वत्वे । गुणः । ‘ उगितश्च ' इति ङीप् । ' रेशब्दाच्चोपसंख्यानम् ' इति मतुप उदात्तत्वम् ॥


ऋ॒तस्य॑ बु॒ध्न उ॒षसा॑मिष॒ण्यन्वृषा॑ म॒ही रोद॑सी॒ आ वि॑वेश ।

म॒ही मि॒त्रस्य॒ वरु॑णस्य मा॒या च॒न्द्रेव॑ भा॒नुं वि द॑धे पुरु॒त्रा ॥७

ऋ॒तस्य॑ । बु॒ध्ने । उ॒षसा॑म् । इ॒ष॒ण्यन् । वृषा॑ । म॒ही इति॑ । रोद॑सी॒ इति॑ । आ । वि॒वे॒श॒ ।

म॒ही । मि॒त्रस्य॑ । वरु॑णस्य । मा॒या । च॒न्द्राऽइ॑व । भा॒नुम् । वि । द॒धे॒ । पु॒रु॒ऽत्रा ॥७

ऋतस्य । बुध्ने । उषसाम् । इषण्यन् । वृषा । मही इति । रोदसी इति । आ । विवेश ।

मही । मित्रस्य । वरुणस्य । माया । चन्द्राऽइव । भानुम् । वि । दधे । पुरुऽत्रा ॥७

"वृषा वृष्टिद्वारा अपां प्रेरक आदित्यः “ऋतस्य अग्निहोत्रादिकर्मकरणे सत्यभूतस्याह्नः "बुध्ने मूले “उषसामिषण्यन् प्रेरणं कुर्वन् "मही महत्यौ "रोदसी द्यावापृथिव्यौ “आ "विवेश स्वतेजोभिः सर्वतः प्रविष्टवान् । यद्वा । वृषा वर्षितेषण्यन् सर्वतो गच्छन्नुषसां संबन्धी रश्मिसमूहो रोदसी द्यावापृथिव्यौ विष्टवानिति योजनीयम् । तत उषाः “मही महती “मित्रस्य "वरुणस्य मित्रावरुणयोः "माया प्रभारूपा सती "चन्द्रेव सुवर्णानीव "भानुं स्वप्रभां “पुरुत्रा बहुषु देशेषु वि “दधे विदधाति सर्वत्र प्रसारयति ॥ मही। अल्लोपश्छान्दसः । पुरुत्रा ।' देवमनुष्य° ' इत्यादिना अधिकरणे त्राप्रत्ययः ॥ ॥ ८ ॥

मण्डल ३

सूक्तं ३.१

सूक्तं ३.२

सूक्तं ३.३

सूक्तं ३.४

सूक्तं ३.५

सूक्तं ३.६

सूक्तं ३.७

सूक्तं ३.८

सूक्तं ३.९

सूक्तं ३.१०

सूक्तं ३.११

सूक्तं ३.१२

सूक्तं ३.१३

सूक्तं ३.१४

सूक्तं ३.१५

सूक्तं ३.१६

सूक्तं ३.१७

सूक्तं ३.१८

सूक्तं ३.१९

सूक्तं ३.२०

सूक्तं ३.२१

सूक्तं ३.२२

सूक्तं ३.२३

सूक्तं ३.२४

सूक्तं ३.२५

सूक्तं ३.२६

सूक्तं ३.२७

सूक्तं ३.२८

सूक्तं ३.२९

सूक्तं ३.३०

सूक्तं ३.३१

सूक्तं ३.३२

सूक्तं ३.३३

सूक्तं ३.३४

सूक्तं ३.३५

सूक्तं ३.३६

सूक्तं ३.३७

सूक्तं ३.३८

सूक्तं ३.३९

सूक्तं ३.४०

सूक्तं ३.४१

सूक्तं ३.४२

सूक्तं ३.४३

सूक्तं ३.४४

सूक्तं ३.४५

सूक्तं ३.४६

सूक्तं ३.४७

सूक्तं ३.४८

सूक्तं ३.४९

सूक्तं ३.५०

सूक्तं ३.५१

सूक्तं ३.५२

सूक्तं ३.५३

सूक्तं ३.५४

सूक्तं ३.५५

सूक्तं ३.५६

सूक्तं ३.५७

सूक्तं ३.५८

सूक्तं ३.५९

सूक्तं ३.६०

सूक्तं ३.६१

सूक्तं ३.६२

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.६१&oldid=198208" इत्यस्माद् प्रतिप्राप्तम्