रामायणम्/अयोध्याकाण्डम्/सर्गः १०२
← सर्गः १०१ | रामायणम्/अयोध्याकाण्डम् अयोध्याकाण्डम् वाल्मीकिः |
सर्गः १०३ → |
रामायणम्/अयोध्याकाण्डम् |
---|
तां श्रुत्वा करुणां वाचं पितुर्मरणसंहिताम् । राघवो भरतेनोक्तां बभूव गतचेतन: ।। २.१०२.१ ।। तं तु वज्रमिवोत्सृष्टमाहवे दानवारिणा । वाग्वज्रं भरतेनोक्तममनोज्ञं परन्तप: ।। २.१०२.२ ।। प्रगृह्य बाहू रामो वै पुष्पिताग्रो यथा द्रुम: । वने परशुना कृत्तस्तथा भुवि पपात ह ।। २.१०२.३ ।। तथा निपतितं रामं जगत्यां जगतीपतिम् । कूलघातपरिश्रान्तं प्रसुप्तमिव कुञ्जरम् ।। २.१०२.४ ।। भ्रातरस्ते महेष्वासं सर्वत: शोककर्शितम् । रुदन्त: सह वैदेह्या सिषिचु: सलिलेन वै ।। २.१०२.५ ।। स तु संज्ञां पुनर्लब्ध्वा नेत्राभ्यामास्रमुत्सृजन् । उपाक्रामत काकुत्स्थ: कृपणं बहु भाषितुम् ।। २.१०२.६ ।। स राम: स्वर्गतं श्रुत्वा पितरं पृथिवीपतिम् । उवाच भरतं वाक्यं धर्मात्मा धर्मसंहितम् ।। २.१०२.७ ।। किं करिष्याम्ययोध्यायां ताते दिष्टां गतिं गते । कस्तां राजवराद्धीनामयोध्यां पालयिष्यति ।। २.१०२.८ ।। किं नु तस्य मया कार्य्यं दुर्जातेन महात्मन: । यो मृतो मम शोकेन मया चापि न संस्कृत: ।। २.१०२.९ ।। अहो भरत सिद्धार्थो येन राजा त्वया ऽनघ । शत्रुघ्नेन च सर्वेषु प्रेतकृत्येषु सत्कृत: ।। २.१०२.१० ।। निष्प्रधानामनेकाग्रां नरेन्द्रेण विना कृताम् । निवृत्तवनवासोपि नायोध्यां गन्तुमुत्सहे ।। २.१०२.११ ।। समाप्तवनवासं मामयोध्यायां परन्तप । को नु शासिष्यति पुनस्ताते लोकान्तरं गते ।। २.१०२.१२ ।। पुरा प्रेक्ष्य सुवृत्तं मां पिता यान्याह सान्त्वयन् । वाक्यानि तानि श्रोष्यामि कुत: कर्णसुखान्यहम् ।। २.१०२.१३ ।। एवमुक्त्वा स भरतं भार्यामभ्येत्य राघव: । उवाच शोकसन्तप्त: पूर्णचन्द्रनिभाननाम् ।। २.१०२.१४ ।। सीते मृतस्ते श्वशुर: पित्रा हीनो ऽसि लक्ष्मण । भरतो दु:खमाचष्टे स्वर्गतं पृथिवीपतिम् ।। २.१०२.१५ ।। ततो बहुगुणं तेषां बाष्पं नेत्रेष्वजायत । तथा ब्रुवति काकुत्स्थे कुमाराणां यशस्विनाम् ।। २.१०२.१६ ।। ततस्ते भ्रातर: सर्वे भृशमाश्वास्य राघवम् । अब्रुवन् जगतीभर्त्तु: क्रियतामुदकं पितु: ।। २.१०२.१७ ।। सा सीता श्वशुरं श्रुत्वा स्वर्गलोकगतं नृपम् । नेत्राभ्यामश्रुपूर्णाभ्यामशकन्नेक्षितुं पतिम् ।। २.१०२.१८ ।। सान्त्वयित्वा तु तां रामो रुदन्तीं जनकात्मजाम् । उवाच लक्ष्मणं तत्र दु:खितो दु:खितं वच: ।। २.१०२.१९ ।। आनयेङ्गुदिपिण्याकं चीरमाहर चोत्तरम् । जलक्रियार्थं तातस्य गमिष्यामि महात्मन: ।। २.१०२.२० ।। सीता पुरस्ताद्व्रजतुत्वमेनामभितो व्रज । अहं पश्चाद्गमिष्यामि गतिर्ह्येषा सुदारुणा ।। २.१०२.२१ ।। ततो नित्यानुगस्तेषां विदितात्मा महामति: । मृदुर्दान्तश्च शान्तश्च रामे च दृढभक्तिमान् ।। २.१०२.२२ ।। सुमन्त्रस्तैर्नृपसुतै: सार्द्धमाश्वास्य राघवम् । अवातारयदालम्ब्य नदीं मन्दाकिनीं शिवाम् ।। २.१०२.२३ ।। ते सुतीर्थां तत: कृच्छ्रादुपागम्य यशस्विन: । नदीं मन्दाकिनीं रम्यां सदा पुष्पितकाननाम् ।। २.१०२.२४ ।। शीघ्रस्रोतसमासाद्य तीर्थं शिवमकर्द्दमम् । सिषिचुस्तूदकं राज्ञे तत्रैतत्ते भवत्विति ।। २.१०२.२५ ।। प्रगृह्य च महीपालो जलपूरितमञ्जलिम् । दिशं याम्यामभिमुखो रुदन् वचनमब्रवीत् ।। २.१०२.२६ ।। एतत्ते राजशार्दूल विमलं तोयमक्षयम् । पितृलोकगतस्याद्य मद्दत्तमुपतिष्ठतु ।। २.१०२.२७ ।। ततो मन्दाकिनीतीरात् प्रत्युत्तीर्य्य स राघव: । पितुश्चकार तेजस्वी निवापं भ्रातृभि: सह ।। २.१०२.२८ ।। ऐङ्गुदं बदरीमिश्रं पिण्याकं दर्भसंस्तरे । न्यस्य राम: सुदु:खार्त्तो रुदन् वचनमब्रवीत् ।। २.१०२.२९ ।। इदं भुङ्क्ष्व महाराज प्रीतो यदशना वयम् । यदन्न: पुरुषो भवति तदन्नास्तस्य देवता: ।। २.१०२.३० ।। ततस्तेनैव मार्गेण प्रत्युत्तीर्य्य नदीतटात् । आरुरोह नरव्याघ्रो रम्यसानुं महीधरम् ।। २.१०२.३१ ।। तत: पर्णकुटीद्वारमासाद्य जगतीपति: । परिजग्राह बाहुभ्यामुभौ भरतलक्ष्मणौ ।। २.१०२.३२ ।। तेषां तु रुदतां शब्दात् प्रतिश्रुत्को ऽभवद्गिरौ । भ्रातऽणां सह वैदेह्या: सिंहानामिव नर्दताम् ।। २.१०२.३३ ।। महाबलानां रुदतां कुर्वतामुदकं पितु: । विज्ञाय तुमुलं शब्दं त्रस्ता भरतसैनिका: ।। २.१०२.३४ ।। अब्रुवंश्चापि रामेण भरत: सङ्गतो ध्रुवम् । तेषामेव महाञ्छब्द: शोचतां पितरं मृतम् ।। २.१०२.३५ ।। अथ वासान् परित्यज्य तं सर्वे ऽभिमुखा: स्वनम् । अप्येकमनसो जग्मुर्यथास्थानं प्रधाविता: ।। २.१०२.३६ ।। हयैरन्ये गजैरन्ये रथैरन्ये स्वलङ्कृतै: । सुकुमारास्तथैवान्ये पद्भिरेव नरा ययु: ।। २.१०२.३७ ।। अचिरप्रोषितं रामं चिरविप्रोषितं यथा । द्रष्टुकामो जन: सर्वो जगाम सहसाश्रमम् ।। २.१०२.३८ ।। भ्रातऽणां त्वरितास्तत्र द्रष्टुकामा: समागमम् । ययुर्बहुविधैर्यानै: खुरनेमिस्वनाकुलै: ।। २.१०२.३९ ।। सा भूमिर्बहुभिर्यानै: खुरनेमिसमाहता । मुमोच तुमुलं शब्दं द्यौरिवाभ्रसमागमे ।। २.१०२.४० ।। तेन वित्रासिता नागा: करेणुपरिवारिता: । आवासयन्तो गन्धेन जग्मुरन्यद्वनं तत: ।। २.१०२.४१ ।। वराहवृकसङ्घाश्च महिषा: सर्प्पवानरा: । व्याघ्रगोकर्णगवया: वित्रेसु: पृषतैः सह ।। २.१०२.४२ ।। रथाङ्गसाह्वा नत्यूहा: हंसा: कारण्डवा: प्लवा: । तथा पुंस्कोकिला: क्रौञ्चा विसंज्ञा भेजिरे दिश: ।। २.१०२.४३ ।। तेन शब्देन वित्रस्तैराकाशं पक्षिभिर्वृतम् । मनुष्यैरावृता भूमिरुभयं प्रबभौ तदा ।। २.१०२.४४ ।। ततस्तं पुरुषव्याघ्रं यशस्विनमरिन्दमम् । आसीनं स्थण्डिले रामं ददर्श सहसा जन: ।। २.१०२.४५ ।। विगर्हमाण: कैकेयीं सहितो मन्थरामपि । अभिगम्य जनो रामं बाष्पपूर्णमुखो ऽभवत् ।। २.१०२.४६ ।। तान्नरान् बाष्पपूर्णाक्षान् समीक्ष्याथ सुदु:खितान् । पर्य्यष्वजत धर्मज्ञ: पितृवन्मातृवच्च स: ।। २.१०२.४७ ।। स तत्र कांच्चित् परिषस्वजे नरान्नराश्च केचित्तु तमभ्यवादयन् । चकार सर्वान् सवयस्य बान्धवान् यथार्हमासाद्य तदा नृपात्मज: ।। २.१०२.४८ ।। स तत्र तेषां रुदतां महात्मनां भुवं च खं चानुनिनादयन् स्वन: । गुहा गिरीणां च दिशश्च सन्ततं मृदङ्गघोषप्रतिम: प्रशुश्रुवे ।। २.१०२.४९ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे द्व्युत्तरशततम:सर्ग: ।। १०२ ।।पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र </poem>स्रोतः
सम्पाद्यताम्