← सर्गः १०२ रामायणम्/अयोध्याकाण्डम्
अयोध्याकाण्डम्
वाल्मीकिः
सर्गः १०४ →
त्र्यधिकशततमः सर्गः श्रूयताम्
रामायणम्/अयोध्याकाण्डम्
वसिष्ठ: पुरत: कृत्वा दारान् दशरथस्य च । 
अभिचक्राम तं देशं रामदर्शनतर्षित: ।। २.१०३.१ ।। 

राजपत्न्यश्च गच्छन्त्यो मन्दं मन्दाकिनीं प्रति । 
ददृशुस्तत्र तत्तीर्थं रामलक्ष्मणसेवितम् ।। २.१०३.२ ।। 

कौसल्या बाष्पपूर्णेन मुखेन परिशुष्यता । 
सुमित्रामब्रवीद्दीना याश्ऺचान्या राजयोषित: ।। २.१०३.३ ।। 

इदं तेषामनाथानां क्लिष्टमक्लिष्टकर्मणाम् । 
वने प्राक्केवलं तीर्थं ये ते निर्विषयीकृता: ।। २.१०३.४ ।। 

इत: सुमित्रे पुत्रस्ते सदा जलमतन्द्रित: । 
स्वयं हरति सौमित्रिर्मम पुत्रस्य कारणात् ।। २.१०३.५ ।। 

जघन्यमपि ते पुत्र: कृतवान्न तु गर्हित: । 
भ्रातुर्यदर्थसहितं सर्वं तद्विहितं गुणै: ।। २.१०३.६ ।। 

अद्यायमपि ते पुत्र: क्लेशानामतथोचित: । 
नीचानर्थसमाचारं सज्जं कर्म प्रमुञ्चतु ।। २.१०३.७ ।। 

दक्षिणाग्रेषु दर्भेषु सा ददर्श महीतले । 
पितुरिङ्गुदिपिण्याकं न्यस्तमायतलोचना ।। २.१०३.८ ।। 

तं भूमौ पितुरार्तेन न्यस्तं रामेण वीक्ष्य सा । 
उवाच देवी कौसल्या सर्वा दशरथस्त्रिय: ।। २.१०३.९ ।। 

इदमिक्ष्वाकुनाथस्य राघवस्य महात्मन: । 
राघवेण पितुर्दत्तं पश्यतैतद्यथाविधि ।। २.१०३.१० ।। 

तस्य देवसमानस्य पार्थिवस्य महात्मन: । 
नैतदौपयिकं मन्ये भुक्तभोगस्य भोजनम् ।। २.१०३.११ ।। 

चतुरन्तां महीं भुक्त्वा महेन्द्रसदृशो विभु: । 
कथमिङ्गुदिपिण्याकं स भुङ्क्ते वसुधाधिप: ।। २.१०३.१२ ।। 

अतो दु:खतरं लोके न किञ्चित् प्रतिभाति मा । 
यत्र राम: पितुर्दद्यादिङ्गुदीक्षोदमृद्धिमान् ।। २.१०३.१३ ।। 

रामेणेङ्गुदिपिण्याकं पितुर्दत्तं समीक्ष्य मे । 
कथं दु:खेन हृदयं न स्फोटति सहस्रधा ।। २.१०३.१४ ।। 

श्रुतिस्तु खल्वियं सत्या लौकिकी प्रतिभाति मा । 
यदन्न: पुरुषो भवति तदन्नास्तस्य देवता: ।। २.१०३.१५ ।। 

एवमार्त्तां सपत्न्यस्ता जग्मुराश्वास्य तां तदा । 
ददृशुश्चाश्रमे रामं स्वर्गच्युतमिवामरम् ।। २.१०३.१६ ।। 

सर्वभोगै: परित्यक्तं रामं सम्प्रेक्ष्य मातर: । 
आर्त्ता मुमुचुरश्रूणि सस्वरं शोककर्शिता: ।। २.१०३.१७ ।। 

तासां राम: समुत्थाय जग्राह चरणान् शुभान् । 
मातऽणां मनुजव्याघ्र: सर्वासां सत्यसङ्गर: ।। २.१०३.१८ ।। 

ता: पाणिभि: सुखस्पर्शैर्मृद्वङ्गुलितलै: शुभै: । 
प्रममार्जू रज: पृष्ठाद्रामस्यायतलोचना: ।। २.१०३.१९ ।। 

सौमित्रिरपि ता: सर्वा: मातऽ: सम्प्रेक्ष्य दु:खित: । 
अभ्यवादयतासक्तं शनै रामादनन्तरम् ।। २.१०३.२० ।। 

यथा रामे तथा तस्मिन् सर्वा ववृतिरे स्त्रिय: । 
वृत्तिं दशरथाज्जाते लक्ष्मणे शुभलक्षणे ।। २.१०३.२१ ।। 

सीतापि चरणांस्तासामुपसंगृह्य दु:खिता । 
श्वश्रूणामश्रुपूर्णाक्षी सा बभूवाग्रत: स्थिता ।। २.१०३.२२ ।। 

तां परिष्वज्य दु:खार्त्तां माता दुहितरं यथा । 
वनवासकृशां दीनां कौसल्या वाक्यमब्रवीत् ।। २.१०३.२३ ।। 

विदेहराजस्य सुता स्नुषा दशरथस्य च । 
रामपत्नी कथं दु:खं सम्प्राप्ता निर्जने वने ।। २.१०३.२४ ।। 

पद्ममातपसन्तप्तं परिक्लिष्टमिवोत्पलम् । 
काञ्चनं रजसा ध्वस्तं क्लिष्टं चन्द्रमिवाम्बुदै: ।। २.१०३.२५ ।। 

मुखं ते प्रेक्ष्य मां शोको दहत्यग्निरिवाश्रयम् 
भृशं मनसि वैदेहि व्यसनारणिसम्भव: ।। २.१०३.२६ ।। 

ब्रुवन्त्यामेवमार्त्तायां जनन्यां भरताग्रज: । 
पादावासाद्य जग्राह वसिष्ठस्य च राघव: ।। २.१०३.२७ ।। 

पुरोहितस्याग्निसमस्य वै तदा बृहस्पतेरिन्द्र इवामराधिप: । 
प्रगृह्य पादौ सुसमृद्धतेजस: सहैव तेनोपविवेश राघव: ।। २.१०३.२८ ।। 

ततो जघन्यं सहितै: समन्त्रिभि: पुरप्रधानैश्च सहैव सैनिकै: । 
जनेन धर्मज्ञतमेन धर्मवानुपोपविष्टो भरतस्तदाग्रजम् ।। २.१०३.२९ ।। 

उपोपविष्टस्तु तथा स वीर्यवांस्तपस्विवेषेण समीक्ष्य राघवम् । 
श्रिया ज्वलन्तं भरत: कृताञ्जलिर्यथा महेन्द्र: प्रयत: प्रजापतिम् ।। २.१०३.३० ।। 

किमेष वाक्यं भरतो ऽद्य राघवं प्रणम्य सत्कृत्य च साधु वक्ष्यति । 
इतीव तस्यार्यजनस्य तत्त्वतो बभूव कौतूहलमुत्तमं तदा ।। २.१०३.३१ ।। 

स राघव: सत्यधृतिश्च लक्ष्मणो महानुभवो भरतश्च धार्मिक: । 
वृता: सुहृद्भिश्च विरेजुरध्वरे यथा सदस्यै: सहितास्त्रयो ऽग्नय: ।। २.१०३.३२ ।। 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे त्र्युत्तरशततम: सर्ग: ।। १०३ ।।


पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र