रामायणम्/अयोध्याकाण्डम्/सर्गः ९२
< रामायणम् | अयोध्याकाण्डम्
← सर्गः ९१ | रामायणम्/अयोध्याकाण्डम् अयोध्याकाण्डम् वाल्मीकिः |
सर्गः ९३ → |
रामायणम्/अयोध्याकाण्डम् |
---|
ततस्तां रजनीं व्युष्य भरत: सपरिच्छद: । कृतातिथ्यो भरद्वाजं कामादभिजगाम ऺह ।। २.९२.१ ।। तमृषि: पुरुषव्याघ्रं प्राञ्जलिं प्रेक्ष्य चागतम् । हुताग्निहोत्रो भरतं भरद्वाजो ऽभ्यभाषत ।। २.९२.२ ।। कच्चिदत्र सुखा रात्रिस्तवास्मद्विषये गता । समग्रस्ते जन: कच्चिदातिथ्ये शंस मे ऽनघ ।। २.९२.३ ।। तमुवाचाञ्जलिं कृत्वा भरतो ऽभिप्रणम्य च । आश्रमादभिनिष्क्रान्तमृषिमुत्तमतेजसम् ।। २.९२.४ ।। सुखोषितो ऽस्मि भगवन् समग्रबलवाहन: । तर्पित: सर्वकामैश्च सामात्यो बलवत्त्वया ।। २.९२.५ ।। अपेतक्लमसन्तापा: सुभिक्षा: सुप्रतिश्रया: । अपि प्रेष्यानुपादाय सर्वे स्म सुसुखोषिता: ।। २.९२.६ ।। आमन्त्रये ऽहं भगवन् कामं त्वामृषिसत्तम । समीपं प्रस्थितं भ्रातुर्मैत्रेणेक्षस्व चक्षुषा ।। २.९२.७ ।। आश्रमं तस्य धर्मज्ञ धार्मिकस्य महात्मन: । आचक्ष्व कतमो मार्ग: कियानिति च शंस मे ।। २.९२.८ ।। इति पृष्टस्तु भरतं भ्रातृदर्शनलालसम् । प्रत्युवाच महातेजा भरद्वाजो महातपा: ।। २.९२.९ ।। भरतार्द्धतृतीयेषु योजनेष्वजने वने । चित्रकूटो गिरिस्तत्र रम्यनिर्दरकानन: ।। २.९२.१० ।। उत्तरं पार्श्वमासाद्य तस्य मन्दाकिनी नदी । पुष्ऺिपतद्रुमसञ्छन्ना रम्यपुष्पितकानना ।। २.९२.११ ।। अनन्तरं तत्सरितश्चित्रकूटश्च पर्वत: । तयो: पर्णकुटी तात तत्र तौ वसतो ध्रुवम् ।। २.९२.१२ ।। दक्षिणेनैव मार्गेण सव्यदक्षिणमेव वा । गजवाजिरथाकीर्णां वाहिनीं वाहिनीपते । वाहयस्व महाभाग ततो द्रक्ष्यसि राघवम् ।। २.९२.१३ ।। प्रयाणमिति तच्छ्रुत्वा राजराजस्य योषित: । हित्वा यानानि यानार्हा ब्राह्मणं पर्य्यवारयन् ।। २.९२.१४ ।। वेपमाना कृशा ऺदीना सह देव्या सुमित्रया । कौसल्या तत्र जग्राह कराभ्यां चरणौ मुने: ।। २.९२.१५ ।। असमृद्धेन कामेन सर्वलोकस्य गर्हिता । कैकेयी तस्य जग्राह चरणौ सव्यपत्रपा ।। २.९२.१६ ।। तं प्रदक्षिणमागम्य भगवन्तं महामुनिम् । अदूराद्भरतस्यैव तस्थौ दीनमनास्तदा ।। २.९२.१७ ।। तत: पप्रच्छ भरतं भरद्वाजो दृढव्रत: । विशेषं ज्ञातुमिच्छामि मातऽणां तव राघव ।। २.९२.१८ ।। एवमुक्तस्तु भरतो भरद्वाजेन धार्मिक: । उवाच प्राञ्जलिर्भूत्वा वाक्यं वचनकोविद: ।। २.९२.१९ ।। यामिमां भगवन् दीनां शोकानशनकर्शिताम् । पितुर्हि महिषीं देवीं देवतामिव पश्यसि ।। २.९२.२० ।। एषा तं पुरुषव्याघ्रं सिंहविक्रान्तगामिनम् । कौसल्या सुषुवे रामं धातारमदितिर्यथा ।। २.९२.२१ ।। अस्यावामभुजं श्लिष्टा यैषा तिष्ठति दुर्मना: । कर्णिकारस्य शाखेव शीर्णपुष्पा वनान्तरे ।। २.९२.२२ ।। एतस्यास्तु सुतौ देव्या: कुमारौ देववर्णिनौ । उभौ लक्ष्मणशत्रुघ्नौ वीरौ सत्यपराक्रमौ ।। २.९२.२३ ।। यस्या: कृते नरव्याघ्रौ जीवनाशमितो गतौ । राजपुत्रविहीनश्च स्वर्गं दशरथो गत: ।। २.९२.२४ ।। क्रोधनामकृतप्रज्ञां दृप्तां सुभगमानिनीम् । ऐश्वर्यकामां कैकेयीमनार्य्यामार्यरूपिणीम् ।। २.९२.२५ ।। ममैतां मातरं विद्धि नृशंसां पापनिश्चयाम् । यतो मूलं हि पश्यामि व्यसनं महदात्मन: ।। २.९२.२६ ।। इत्युक्त्वा नरशार्दूलो बाष्पगद्गदया गिरा । स निशश्वास ताम्राक्षो नाग: क्रुद्ध इव श्वसन् ।। २.९२.२७ ।। भरद्वाजो महर्षिस्तं ब्रुवन्तं भरतं तथा । प्रत्युवाच महाबुद्धिरिदं वचनमर्थवत् ।। २.९२.२८ ।। न दोषेणावगन्तव्या कैकेयी भरत त्वया । रामप्रव्राजनं ह्येतत् सुखोदर्कं भविष्यति ।। २.९२.२९ ।। देवानां दानवानां च ऋषीणां भावितात्मनाम् । हितमेव भविष्यद्धि रामप्रव्राजनादिह ।। २.९२.३० ।। अभिवाद्य तु संसिद्ध: कृत्वा चैनं प्रदक्षिणम् । आमन्त्र्य भरत: सेन्यं युज्यतामित्यचोदयत् ।। २.९२.३१ ।। ततो वाजिरथान् युक्त्वा दिव्यान् हेमपरिष्कृतान् । अध्यारोहत् प्रयाणार्थी बहून् बहुविधो जन: ।। २.९२.३२ ।। गजकन्या गजाश्चैव हेमकक्ष्या: पताकिन: । जीमूता इव घर्मान्ते सघोषा: सम्प्रतस्थिरे ।। २.९२.३३ ।। विविधान्यपि यानानि महान्ति च लघूनि च । प्रययु: सुमहार्हाणि पादैरेव पदातय: ।। २.९२.३४ ।। अथ यानप्रवेकैस्तु कौसल्याप्रमुखा: स्त्रिय: । रामदर्शनकांक्षिण्य: प्रययुर्मुदितास्तदा ।। २.९२.३५ ।। चन्द्रार्कतरुणाभासां नियुक्तां शिबिकां शुभाम् । आस्थाय प्रययौ श्रीमान् भरत: सपरिच्छद: ।। २.९२.३६ ।। सा प्रयाता महासेना गजवाजिरथाकुला । दक्षिणां दिशमावृत्य महामेघ इवोत्थित: ।। २.९२.३७ ।। वनानि तु व्यतिक्रम्य जुष्टानि मृगपक्षिभि: । गङ्गाया: परवेलायां गिरिष्वपि नदीषु च ।। २.९२.३८ ।। सा सम्प्रहृष्टद्विजवाजियोधा वित्रासयन्ती मृगपक्षिसङ्घान् । महद्वनं तत्प्रतिगाहमाना रराज सेना भरतस्य तत्र ।। २.९२.३९ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे द्विनवतितम: सर्ग: ।। ९२ ।।पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र </poem>स्रोतः
सम्पाद्यताम्