रामायणम्/अयोध्याकाण्डम्/सर्गः ४२
< रामायणम् | अयोध्याकाण्डम्
← सर्गः ४१ | रामायणम्/अयोध्याकाण्डम् अयोध्याकाण्डम् वाल्मीकिः |
सर्गः ४३ → |
रामायणम्/अयोध्याकाण्डम् |
---|
यावत् तु निर्यतः तस्य रजो रूपम् अदृश्यत । न एव इक्ष्वाकु वरः तावत् सम्जहार आत्म चक्षुषी ॥२-४२-१॥ यावद् राजा प्रियम् पुत्रम् पश्यति अत्यन्त धार्मिकम् । तावद् व्यवर्धत इव अस्य धरण्याम् पुत्र दर्शने ॥२-४२-२॥ न पश्यति रजो अपि अस्य यदा रामस्य भूमिपः । तदा आर्तः च विषण्णः च पपात धरणी तले ॥२-४२-३॥ तस्य दक्षिणम् अन्वगात् कौसल्या बाहुम् अन्गना । वामम् च अस्य अन्वगात् पार्श्वम् कैकेयी भरत प्रिया ॥२-४२-४॥ ताम् नयेन च सम्पन्नो धर्मेण निवयेन च । उवाच राजा कैकेयीम् समीक्ष्य व्यथित इन्द्रियः ॥२-४२-५॥ कैकेयि मा मम अन्गानि स्प्राक्षीस् त्वम् दुष्ट चारिणी । न हि त्वाम् द्रष्टुम् इच्चामि न भार्या न च बान्धवी ॥२-४२-६॥ ये च त्वाम् उपजीवन्ति न अहम् तेषाम् न ते मम । केवल अर्थ पराम् हि त्वाम् त्यक्त धर्माम् त्यजाम्य् अहम् ॥२-४२-७॥ अगृह्णाम् यच् च ते पाणिम् अग्निम् पर्यणयम् च यत् । अनुजानामि तत् सर्वम् अस्मिम्ल् लोके परत्र च ॥२-४२-८॥ भरतः चेत् प्रतीतः स्यात् राज्यम् प्राप्य इदम् अव्ययम् । यन् मे स दद्यात् पित्र् अर्थम् मा मा तत् दत्तम् आगमत् ॥२-४२-९॥ अथ रेणु समुध्वस्तम् तम् उत्थाप्य नर अधिपम् । न्यवर्तत तदा देवी कौसल्या शोक कर्शिता ॥२-४२-१०॥ हत्वा इव ब्राह्मणम् कामात् स्पृष्ट्वा अग्निम् इव पाणिना । अन्वतप्यत धर्म आत्मा पुत्रम् सम्चिन्त्य तापसम् ॥२-४२-११॥ निवृत्य एव निवृत्य एव सीदतः रथ वर्त्मसु । राज्ञो न अतिबभौ रूपम् ग्रस्तस्य अम्शुमतः यथा ॥२-४२-१२॥ विललाप च दुह्ख आर्तः प्रियम् पुत्रम् अनुस्मरन् । नगर अन्तम् अनुप्राप्तम् बुद्ध्वा पुत्रम् अथ अब्रवीत् ॥२-४२-१३॥ वाहनानाम् च मुख्यानाम् वहताम् तम् मम आत्मजम् । पदानि पथि दृश्यन्ते स महात्मा न दृश्यते ॥२-४२-१४॥ स नूनम् क्वचित् एव अद्य वृक्ष मूलम् उपाश्रितः । काष्ठम् वा यदि वा अश्मानम् उपधाय शयिष्यते ॥२-४२-१५॥ उत्थास्यति च मेदिन्याः कृपणः पाम्शु गुण्ठितः । विनिह्श्वसन् प्रस्रवणात् करेणूनाम् इव ऋषभः ॥२-४२-१६॥ उत्थास्यति च मेदिन्याः कृपणः पाम्सुगुण्ठितः । विनिःस्वसन् प्रस्रवणात्क रेणूनामि वर्ष्भः ॥२-४२-१७॥ द्रक्ष्यन्ति नूनम् पुरुषा दीघ बाहुम् वने चराः । रामम् उत्थाय गच्चन्तम् लोक नाथम् अनाथवत् ॥२-४२-१८॥ सकामा भव कैकेयि विधवा राज्यम् आवस । कण्टकाक्रमण क्लान्तावनमद्य गमिष्यति ॥२-४२-१९॥ अनभिज्ञा वनानाम् सा नूनम् भयमुपैष्यति । श्वापदान्र्धितम् श्रुत्वा गमिभीरम् रोमहर्ष्णम् ॥२-४२-२०॥ सकामा भवकैकेयि विधवा राज्य मावस । न हि तम् पुरुष व्याघ्रम् विना जीवितुम् उत्सहे ॥२-४२-२१॥ इति एवम् विलपन् राजा जन ओघेन अभिसम्वृतः । अपस्नातैव अरिष्टम् प्रविवेश पुर उत्तमम् ॥२-४२-२२॥ शून्य चत्वर वेश्म अन्ताम् सम्वृत आपण देवताम् । क्लान्त दुर्बल दुह्ख आर्ताम् न अत्याकीर्ण महा पथाम् । ताम् अवेक्ष्य पुरीम् सर्वाम् रामम् एव अनुचिन्तयन् । विलपन् प्राविशद् राजा गृहम् सूर्यैव अम्बुदम् ॥२-४२-२३॥ महा ह्रदम् इव अक्षोभ्यम् सुपर्णेन हृत उरगम् । रामेण रहितम् वेश्म वैदेह्या लक्ष्मणेन च ॥२-४२-२४॥ अथ गद्गदशब्दस्तु विलपन्मनुजाधिपः । उवाच मृदुमन्धार्थम् वचनम् दीन मस्वरम् ॥२-४२-२५॥ कौसल्याया गृहम् शीघ्रम् राम मातुर् नयन्तु माम् । इति ब्रुवन्तम् राजानम् अनयन् द्वार दर्शितः ॥२-४२-२६॥ इति ब्रुवन्तम् राजान मनयन् द्वार्दर्शिनः । कौसल्याया गृहम् तत्र न्यवेश्यत विनीतवत् ॥२-४२-२७॥ ततः तत्र प्रविष्टस्य कौसल्याया निवेशनम् । अधिरुह्य अपि शयनम् बभूव लुलितम् मनः ॥२-४२-२८॥ पुत्रद्वयविहीनम् च स्नुषयापि विवर्जितम् । अपश्यद्भवनम् राजा नष्टचन्ध्रमिवाम्बरम् ॥२-४२-२९॥ तच् च दृष्ट्वा महा राजो भुजम् उद्यम्य वीर्यवान् । उच्चैः स्वरेण चुक्रोश हा राघव जहासि माम् ॥२-४२-३०॥ सुखिता बत तम् कालम् जीविष्यन्ति नर उत्तमाः । परिष्वजन्तः ये रामम् द्रक्ष्यन्ति पुनर् आगतम् ॥२-४२-३१॥ अथ रात्र्याम् प्रपन्नायाम् कालरात्र्यामिआत्मनः । अर्धरात्रे दशरथह् कौसल्यामिदमब्रवीत् ॥२-४२-३२॥ रामम् मेऽनुगता दृष्टिरद्यापि न निवर्तते । न त्वाम् पश्यामि कौसल्ये साधु माम् पाणिना स्पृश ॥२-४२-३३॥ तम् रामम् एव अनुविचिन्तयन्तम् । समीक्ष्य देवी शयने नर इन्द्रम् । उप उपविश्य अधिकम् आर्त रूपाउप । विनिह्श्वसन्ती विललाप कृच्च्रम् ॥२-४२-३४॥ इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे द्विचत्वारिंशः सर्गः ॥२-४२॥