रामायणम्/अयोध्याकाण्डम्/सर्गः १४
< रामायणम् | अयोध्याकाण्डम्
← सर्गः १३ | रामायणम्/अयोध्याकाण्डम् अयोध्याकाण्डम् वाल्मीकिः |
सर्गः १५ → |
रामायणम्/अयोध्याकाण्डम् |
---|
पुत्र शोक अर्दितम् पापा विसम्ज्ञम् पतितम् भुवि । विवेष्टमानम् उदीक्ष्य सा ऐक्ष्वाकम् इदम् अब्रवीत् ॥२-१४-१॥ पापम् क्Rत्वा इव किम् इदम् मम सम्श्रुत्य सम्श्रवम् । शेषे क्षिति तले सन्नः स्थित्याम् स्थातुम् त्वम् अर्हसि ॥२-१४-२॥ आहुः सत्यम् हि परमम् धर्मम् धर्मविदो जनाः । सत्यम् आश्रित्य हि मया त्वम् च धर्मम् प्रचोदितः ॥२-१४-३॥ सम्श्रुत्य शैब्यः श्येनाय स्वाम् तनुम् जगती पतिः । प्रदाय पक्षिणो राजन् जगाम गतिम् उत्तमाम् ॥२-१४-४॥ तथ हि अलर्कः तेजस्वी ब्राह्मणे वेद पारगे । याचमाने स्वके नेत्रेउद्ध्Rत्य अविमना ददौ ॥२-१४-५॥ सरिताम् तु पतिः स्वल्पाम् मर्यादाम् सत्यम् अन्वितः । सत्य अनुरोधात् समये वेलाम् खाम् न अतिवर्तते ॥२-१४-६॥ स्त्यमेकपदं ब्रह्मे सत्ये धर्मः प्रतिष्ठतः। सत्यमेवाक्षया वेदाः सत्येनै वाप्यते परम् ॥२-१४-७॥ सत्यं समनुवर्त्स्व यदि धर्मे धृता मतिः । सफलः स वरो मेऽस्तु वरदो ह्यसि सत्तम ॥२-१४-८॥ धर्मस्येहाभिकामार्थं मम चैवाचिचोदनात् । प्रव्राजय सुतं रामम् त्रिः खलु त्वां ब्रवीम्यहम् ॥२-१४-९॥ समयम् च मम आर्य इमम् यदि त्वम् न करिष्यसि । अग्रतः ते परित्यक्ता परित्यक्ष्यामि जीवितम् ॥२-१४-१०॥ एवम् प्रचोदितः राजा कैकेय्या निर्विशन्कया । न अशकत् पाशम् उन्मोक्तुम् बलिर् इन्द्र क्Rतम् यथा ॥२-१४-११॥ उद्भ्रान्त ह्Rदयः च अपि विवर्ण वनदो अभवत् । स धुर्यो वै परिस्पन्दन् युग चक्र अन्तरम् यथा॥२-१४-१२॥ विह्वलाभ्याम् च नेत्राभ्याम् अपश्यन्न् इव भूमिपः । क्Rच्च्रात् धैर्येण सम्स्तभ्य कैकेयीम् इदम् अब्रवीत् ॥२-१४-१३॥ यः ते मन्त्र क्Rतः पाणिर् अग्नौ पापे मया ध्Rतः । तम् त्यजामि स्वजम् चैव तव पुत्रम् सह त्वया ॥२-१४-१४॥ प्रयाता रजनी देवि सूर्यस्योदयनं प्रति । अभिषेकं गुरुजन्स्त्वरयीष्यति मां ध्रुवम् ॥२-१४-१५॥ रामाभिषेकसम्भारैस्तदर्थमुपकल्पितैः । रामः कारयितव्यो मे मृतस्य सलिलक्रियाम् ॥२-१४-१६॥ त्वया सपुत्त्रया नैव कर्तव्या सलिलक्रिया । व्याहन्तास्यशुभाचारे यदि रामाभिषेचन्म् ॥२-१४-१७॥ न च शक्नोम्यहं द्रषुं पूर्वं तथा सुखम् । हतहर्षं निरानन्दं पुनर्जनमवाङ्मुखम् ॥२-१४-१८॥ तां तथा ब्रुवत्स्तस्य भूमिपन्य महात्मनः । प्रभाता शर्वरी पुण्या चन्द्रनक्षत्रश्रालिनी ॥२-१४-१९॥ ततः पाप समाचारा कैकेयी पार्थिवम् पुनः । उवाच परुषम् वाक्यम् वाक्यज्ञा रोष मूर्चिता ॥२-१४-२०॥ किम् इदम् भाषसे राजन् वाक्यम् गर रुज उपमम् । आनाययितुम् अक्लिष्टम् पुत्रम् रामम् इह अर्हसि ॥२-१४-२१॥ स्थाप्य राज्ये मम सुतम् क्Rत्वा रामम् वने चरम् । निह्सपत्नाम् च माम् क्Rत्वा क्Rत क्Rत्यो भविष्यसि ॥२-१४-२२॥ स नुन्नैव तीक्षेन प्रतोदेन हय उत्तमः । राजा प्रदोचितः अभीक्ष्णम् कैकेयीम् इदम् अब्रवीत् ॥२-१४-२३॥ धर्म बन्धेन बद्धो अस्मि नष्टा च मम चेतना । ज्येष्ठम् पुत्रम् प्रियम् रामम् द्रष्टुम् इच्चामि धार्मिकम् ॥२-१४-२४॥ ततः प्रभातां र्जनीमुदिते च दिवाकरे । पुण्ये नक्षत्रयोगे चे मुहूर्ते च समाहिते ॥२-१४-२५॥ वसिष्ठो गुणसंपन्नः शिष्येः परिवृतस्तदा । उपगृह्याशु संभारान् [रविवेश पुरोत्तमम् ॥२-१४-२६॥ सिक्तसंमार्जितपथां पताकोत्तमभूषिताम् । विचित्रकुसुमाकीर्णां नानास्रग्भिर्विराजिताम् ॥२-१४-२७॥ संहृष्टमनुजोपेतां समृद्धविपणापणाम् । महोत्सवसमाकीर्णां राघवार्थे समुस्त्सुकाम् ॥२-१४-२८॥ चन्दनागुरुधूपैश्च सर्वतः प्रतिधूपिताम् । तां पुरीम् समतिक्रम्य पुरन्दरपुरोपमाम् ॥२-१४-२९॥ ददर्शान्तः पुरश्रेष्ठं नानाद्विजगणायुतम् । पौरजानपदाकिर्र्र्णं ब्राह्मणैरुपशोभितम् ॥२-१४-३०॥ तदन्तः पुरमासाद्य व्यतिचक्राम तम् जनम् ॥२-१४-३१॥ वसिष्ठः परमप्रीतः परमर्षिर्विवेश च । स त्वपश्यद्विनिष्क्रान्तं सुमन्त्रं नाम सारथिम् । द्वारे मनुजसिंहस्य सचिवं प्रियदर्शन्म् ॥२-१४-३२॥ तमुवाच महातेजाः सूतपुत्रं विशारदम् ॥२-१४-३३॥ वसिष्ठः क्षिप्रमाचक्ष्व नृपते र्मामिहागतम् । इमे गङ्गोदकघटाः सागरेभ्यश्च काञ्चनाः ॥२-१४-३४॥ औदुम्बरं भद्रपीठमभिषेकार्थमागतम् । सर्वबीजानि गन्धाश्च रत्नानि विविधानि च ॥२-१४-३५॥ क्षौद्रम् दधि घृतं लाजा दर्भाः सुमनसः पयः । अष्टौ च कन्या रुचिरा मत्तश्छ वरवारणः ॥२-१४-३६॥ चतुरश्वो रथः श्रीमान् निस्त्रिंशो धनुरुत्तमम् । वाहनं नरसंयुक्तं चत्रं च शशिपन्निभम् ॥२-१४-३७॥ श्वेते च वालव्यजने भृङ्गारुश्छ हिरण्मयः । हेमदामपिनद्धश्च किकुद्मान् पाण्डुरो वृषः ॥२-१४-३८॥ केसरी च चतुर्दंष्ट्रो हि श्रेष्ठो महाबलः । सिंहानस्नं व्याघ्रतनुः समिद्धश्छ हुताशनः ॥२-१४-३९॥ सर्ववादित्रसंघाश्च वेश्याश्छालंकृताः स्त्रियः । आचार्या ब्राह्मणा गावः पुण्यश्च मृगपक्षिणः ॥२-१४-४०॥ पौरजानपदश्रेष्ठा नैगमाश्च गणैः सह । एते चान्ये च बहवो नीयमानाः प्रियम्वदाः ॥२-१४-४१॥ अभिषेकाय रामस्य सह तिष्ठन्ति पार्थिवैः । त्वरयस्व महाराजं यथा समुदितेऽहनि ॥२-१४-४२॥ पुण्ये नक्षत्रयोगे च रामो राज्यमवाप्नुयात् । इति तस्य वचः श्रुत्वा सूतपुत्रो महात्मनः ॥२-१४-४३॥ स्तुवन्नृपतिशार्धूलं प्रविवेश निवेशनम् । तं तु पूर्वोदितं वृद्धं द्वारस्था राजसम्मतम् ॥२-१४-४४॥ न शेकुरभिसंरोद्धुं राज्ञः प्रयचिकीर्ष्वः । स सवीपस्थितो राज्ञ्स्तामवस्थामजज्ञीवान् ॥२-१४-४५॥ वाग्भिः परमतुष्टाभिरभिष्टोतुं प्रचक्रमे । ततः सूतो यथाकालं पार्थिवस्य निवेशने ॥२-१४-४६॥ सुमन्त्रः प्राञ्जलिर्भूत्वा तुष्टाव जगतीपतिम् । यथा नन्दति तेजस्वी सागरो भास्करोदये । प्रीतह् प्रीतेन मनसा तथानन्दघनः स्वतः ॥२-१४-४७॥ इन्द्रमस्यां तु वेLआयामभितुष्टाव मातलिः ॥२-१४-४८॥ सोऽजयद्धानवान्सर्वांस्तथा त्वां बोधयाम्यहम् । वेदाः सहाङ्गविद्याश्छ यथाह्यात्मभुवम् विभुम् ॥२-१४-४९॥ ब्रह्माणम् बोधयन्त्यद्य तथा त्वां बोधयाम्यहम् । आदित्यः सह चन्द्रेण यथा भूतधरां शुभाम् ॥२-१४-५०॥ बोधयत्यद्य पृथिवीं तथा त्वाम् बोधयाम्यहम् । उत्तिष्ठाशु महाराज कृतकौतुकमङ्गLअः ॥२-१४-५१॥ विराजमानो वपुषा मेरोरिव दिवाकरः । सोमसूर्यौ च काकुत्थ्स शिववैश्रवणावपि ॥२-१४-५२॥ वरुणाश्छग्निरिन्द्रश्च विजयं प्रदिश्न्तु ते । गता भगवती रात्रिः कृतकृत्य मिदं तव ॥२-१४-५३॥ बुद्ध्यस्व सृपशार्दूल कुरु कार्यमनन्तरम् । उदतिष्ठत रामस्य समग्रमभिषेचन्म् ॥२-१४-५४॥ पौरजानपदैश्चापि नैगमैश्च कृताञ्जलिः । स्वयं वसिष्ठो भगवान् ब्राह्मणैः सह तिष्ठति ॥२-१४-५५॥ क्षिप्रमाज्ञ्प्यतां राजन् राघवस्याभिषेचन्म् । यथा ह्यपालाः पशवो यथा सेना ह्यानायका ॥२-१४-५६॥ यथा च्न्द्रं विना रात्रिर्यथा गावो विना वृषम् । एवं हि भविता राष्ट्रं यत्र राजा न दृश्यते ॥२-१४-५७॥ इति तस्य वचः श्रुत्वा सान्त्वपूर्वमिवार्थवत् । अभ्यकीर्यत शोकेन भूय एव महीपतिः ॥२-१४-५८॥ ततः स राजा तम् सूतम् सन्न हर्षः सुतम् प्रति । शोक आरक्त ईक्षणः श्रीमान् उद्वीक्ष्य उवाच धार्मिकः ॥२-१४-५९॥ वाक्यैस्तु खलु मर्माणि मम भूयो निकृन्तसि । सुमन्त्रः करुणम् श्रुत्वा द्Rष्ट्वा दीनम् च पार्थिवम् ॥२-१४-६०॥ प्रग्Rहीत अन्जलिः किम्चित् तस्मात् देशात् अपाक्रमन् । यदा वक्तुम् स्वयम् दैन्यान् न शशाक मही पतिः ॥२-१४-६१॥ तदा सुमन्त्रम् मन्त्रज्ञा कैकेयी प्रत्युवाच ह । सुमन्त्र राजा रजनीं रामहर्षसमुत्सुकः ॥२-१४-६२॥ प्रजागरपरिश्रान्तो निद्रावशमुपेयुवान् । तद्गच्छ त्वरितं सूत राजपुत्रं यशस्विनम् ॥२-१४-६३॥ राममानय भद्रं ते नात्र कार्या विचारणा । स मन्यमानः कल्याणम् हृदयेन नन्नन्ध च ॥२-१४-६४॥ निर्जगाम च संप्रीत्या त्वरितो राजशासनात् । सुमन्त्रश्चिन्तयामास त्वरितं चोदितस्तया ॥२-१४-६५॥ व्यक्तं रामोऽभिषेकार्थमिहायास्यति धर्मवित् । इति सूतो मतिं कृत्वा हर्षेण महता वृतः ॥२-१४-६६॥ निर्जगाम महाबाहो राघवस्य दिदृक्षया । सागरह्रदसंकाशात्सुमन्त्रोऽन्तःपुराच्छुभात् ॥२-१४-६७॥ निष्क्रम्य जनसंबाधं ददर्श द्वारमग्रतः । ततः पुरस्तत्सासा विनिर्गतो । महीपतीन् द्वारगतो विलोकयन् । ददर्श पौरान् विविधान्महाधना । नुपस्थितान् द्वारमुपेत्य विष्ठतान् ॥२-१४-६८॥ ॥ इत्यार्शे स्रीमद्रामायने आदिकाव्ये अयोध्यकान्दे चतुर्दशः सर्गः ॥ इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे चतुर्दशः सर्गः ॥२-१४॥स्रोतःसंपादित करें
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।