रामायणम्/अयोध्याकाण्डम्/सर्गः ८०
← सर्गः ७९ | रामायणम्/अयोध्याकाण्डम् अयोध्याकाण्डम् वाल्मीकिः |
सर्गः ८१ → |
रामायणम्/अयोध्याकाण्डम् |
---|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अशीतितमः सर्गः ॥२-८०॥ अथ भूमि प्रदेशज्ञाः सूत्र कर्म विशारदाः । स्व कर्म अभिरताः शूराः खनका यन्त्रकाः तथा ॥२-८०-१॥ कर्म अन्तिकाः स्थपतयः पुरुषा यन्त्र कोविदाः । तथा वर्धकयः चैव मार्गिणो वृक्ष तक्षकाः ॥२-८०-२॥ कूप काराः सुधा कारा वम्श कर्म कृतः तथा । समर्था ये च द्रष्टारः पुरतः ते प्रतस्थिरे ॥२-८०-३॥ स तु हर्षात् तम् उद्देशम् जन ओघो विपुलः प्रयान् । अशोभत महा वेगः सागरस्य इव पर्वणि ॥२-८०-४॥ ते स्व वारम् समास्थाय वर्त्म कर्माणि कोविदाः । करणैः विविध उपेतैः पुरस्तात् सम्प्रतस्थिरे ॥२-८०-५॥ लता वल्लीः च गुल्मामः च स्थाणून् अश्मनएव च । जनाः ते चक्रिरे मार्गम् चिन्दन्तः विविधान् द्रुमान् ॥२-८०-६॥ अवृक्षेषु च देशेषु केचित् वृक्षान् अरोपयन् । केचित् कुठारैअः टन्कैः च दात्रैः चिन्दन् क्वचित् क्वचित् ॥२-८०-७॥ अपरे वीरण स्तम्बान् बलिनो बलवत्तराः । विधमन्ति स्म दुर्गाणि स्थलानि च ततः ततः ॥२-८०-८॥ अपरे अपूरयन् कूपान् पाम्सुभिः श्वभ्रम् आयतम् । निम्न भागाम्स् तथा केचित् समामः चक्रुः समन्ततः ॥२-८०-९॥ बबन्धुर् बन्धनीयामः च क्षोद्यान् सम्चुक्षुदुस् तदा । बिभिदुर् भेदनीयामः च ताम्स् तान् देशान् नराः तदा ॥२-८०-१०॥ अचिरेण एव कालेन परिवाहान् बहु उदकान् । चक्रुर् बहु विध आकारान् सागर प्रतिमान् बहून् ॥२-८०-११॥ निर्जलेषु च देशेषु खानयामासुरुत्तमान् । उदपानान् बहुविधान् वेदिका परिमण्डितान् ॥२-८०-१२॥ ससुधा कुट्टिम तलः प्रपुष्पित मही रुहः । मत्त उद्घुष्ट द्विज गणः पताकाभिर् अलम्कृतः ॥२-८०-१३॥ चन्दन उदक सम्सिक्तः नाना कुसुम भूषितः । बह्व् अशोभत सेनायाः पन्थाः स्वर्ग पथ उपमः ॥२-८०-१४॥ आज्ञाप्य अथ यथा आज्ञप्ति युक्ताः ते अधिकृता नराः । रमणीयेषु देशेषु बहु स्वादु फलेषु च ॥२-८०-१५॥ यो निवेशः तु अभिप्रेतः भरतस्य महात्मनः । भूयः तम् शोभयाम् आसुर् भूषाभिर् भूषण उपमम् ॥२-८०-१६॥ नक्षत्रेषु प्रशस्तेषु मुहूर्तेषु च तद्विदः । निवेशम् स्थापयाम् आसुर् भरतस्य महात्मनः ॥२-८०-१७॥ बहु पाम्सु चयाः च अपि परिखा परिवारिताः । तन्त्र इन्द्र कील प्रतिमाः प्रतोली वर शोभिताः ॥२-८०-१८॥ प्रासाद माला सम्युक्ताः सौध प्राकार सम्वृताः । पताका शोभिताः सर्वे सुनिर्मित महा पथाः ॥२-८०-१९॥ विसर्पत्भिर् इव आकाशे विटन्क अग्र विमानकैः । समुच्च्रितैः निवेशाः ते बभुः शक्र पुर उपमाः ॥२-८०-२०॥ जाह्नवीम् तु समासाद्य विविध द्रुम काननाम् । शीतल अमल पानीयाम् महा मीन समाकुलाम् ॥२-८०-२१॥ सचन्द्र तारा गण मण्डितम् यथा । नभः क्षपायाम् अमलम् विराजते । नर इन्द्र मार्गः स तथा व्यराजत । क्रमेण रम्यः शुभ शिल्पि निर्मितः ॥२-८०-२२॥ इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे अशीतितमः सर्गः ॥२-८०॥पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।स्रोतः
सम्पाद्यताम्