रामायणम्/अयोध्याकाण्डम्/सर्गः २१
< रामायणम् | अयोध्याकाण्डम्
← सर्गः २० | रामायणम्/अयोध्याकाण्डम् अयोध्याकाण्डम् वाल्मीकिः |
सर्गः २२ → |
रामायणम्/अयोध्याकाण्डम् |
---|
तथा तु विलपन्तीम् ताम् कौसल्याम् राम मातरम् । उवाच लक्ष्मणो दीनः तत् काल सदृशम् वचः ॥२-२१-१॥ न रोचते मम अपि एतत् आर्ये यद् राघवो वनम् । त्यक्त्वा राज्य श्रियम् गच्चेत् स्त्रिया वाक्य वशम् गतः ॥२-२१-२॥ विपरीतः च वृद्धः च विषयैः च प्रधर्षितः । नृपः किम् इव न ब्रूयाच् चोद्यमानः समन्मथः ॥२-२१-३॥ न अस्य अपराधम् पश्यामि न अपि दोषम् तथा विधम् । येन निर्वास्यते राष्ट्रात् वन वासाय राघवः ॥२-२१-४॥ न तम् पश्याम्य् अहम् लोके परोक्षम् अपि यो नरः । स्वमित्रोऽपि निरस्तोऽपि योऽस्यदोषमुदाहरेत् ॥२-२१-५॥ देव कल्पम् ऋजुम् दान्तम् रिपूणाम् अपि वत्सलम् । अवेक्षमाणः को धर्मम् त्यजेत् पुत्रम् अकारणात् ॥२-२१-६॥ तत् इदम् वचनम् राज्ञः पुनर् बाल्यम् उपेयुषः । पुत्रः को हृदये कुर्यात् राज व्Rत्तम् अनुस्मरन् ॥२-२१-७॥ यावद् एव न जानाति कश्चित् अर्थम् इमम् नरः । तावद् एव मया साधम् आत्मस्थम् कुरु शासनम् ॥२-२१-८॥ मया पार्श्वे सधनुषा तव गुप्तस्य राघव । कः समर्थो अधिकम् कर्तुम् कृत अन्तस्य इव तिष्ठतः ॥२-२१-९॥ निर्मनुष्याम् इमाम् सर्वाम् अयोध्याम् मनुज ऋषभ । करिष्यामि शरैअः तीक्ष्णैः यदि स्थास्यति विप्रिये ॥२-२१-१०॥ भरतस्य अथ पक्ष्यो वा यो वा अस्य हितम् इच्चति । सर्वान् एतान् वधिष्यामि मृदुर् हि परिभूयते ॥२-२१-११॥ प्रोत्साहितोऽयम् कैकेय्या स दुष्टो यदिः पिता । अमित्रभूतो निस्सङ्गम् वध्यताम् बध्यतामपि ॥२-२१-१२॥ गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः । उत्फथम् प्रतिपन्नस्य कार्यम् भवति शासन्म् ॥२-२१-१३॥ बलमेष किमाश्रित्य हेतुम् वा पुरुषर्षभ । दातुमिच्छति कैकेय्य राज्यम् स्थितमिदम् तव ॥२-२१-१४॥ त्वया चैव मया चैव कृत्वा वैरम् अनुत्तमम् । कस्य शक्तिः श्रियम् दातुम् भरताय अरि शासन ॥२-२१-१५॥ अनुरक्तः अस्मि भावेन भ्रातरम् देवि तत्त्वतः । सत्येन धनुषा चैव दत्तेन इष्टेन ते शपे ॥२-२१-१६॥ दीप्तम् अग्निम् अरण्यम् वा यदि रामः प्रवेक्ष्यते । प्रविष्टम् तत्र माम् देवि त्वम् पूर्वम् अवधारय ॥२-२१-१७॥ हरामि वीर्यात् दुह्खम् ते तमः सूर्यैव उदितः । देवी पश्यतु मे वीर्यम् राघवः चैव पश्यतु ॥२-२१-१८॥ एतत् तु वचनम् श्रुत्वा लक्ष्मणस्य महात्मनः । उवाच रामम् कौसल्या रुदन्ती शोक लालसा ॥२-२१-१९॥ भ्रातुस् ते वदतः पुत्र लक्ष्मणस्य श्रुतम् त्वया । यद् अत्र अनन्तरम् तत् त्वम् कुरुष्व यदि रोचते ॥२-२१-२०॥ न च अधर्म्यम् वचः श्रुत्वा सपत्न्या मम भाषितम् । विहाय शोक सम्तप्ताम् गन्तुम् अर्हसि माम् इतः ॥२-२१-२१॥ धर्मज्ञ यदि धर्मिष्ठो धर्मम् चरितुम् इच्चसि । शुश्रूष माम् इहस्थः त्वम् चर धर्मम् अनुत्तमम् ॥२-२१-२२॥ शुश्रूषुर् जननीम् पुत्र स्व गृहे नियतः वसन् । परेण तपसा युक्तः काश्यपः त्रिदिवम् गतः ॥२-२१-२३॥ यथा एव राजा पूज्यः ते गौरवेण तथा हि अहम् । त्वाम् न अहम् अनुजानामि न गन्तव्यम् इतः वनम् ॥२-२१-२४॥ त्वद् वियोगान् न मे कार्यम् जीवितेन सुखेन वा । त्वया सह मम श्रेयः तृणानाम् अपि भक्षणम् ॥२-२१-२५॥ यदि त्वम् यास्यसि वनम् त्यक्त्वा माम् शोक लालसाम् । अहम् प्रायम् इह आसिष्ये न हि शक्ष्यामि जीवितुम् ॥२-२१-२६॥ ततः स्त्वम् प्राप्स्यसे पुत्र निरयम् लोक विश्रुतम् । ब्रह्म हत्याम् इव अधर्मात् समुद्रः सरिताम् पतिः ॥२-२१-२७॥ विलपन्तीम् तथा दीनाम् कौसल्याम् जननीम् ततः । उवाच रामः धर्म अत्मा वचनम् धर्म सम्हितम् ॥२-२१-२८॥ न अस्ति शक्तिः पितुर् वाक्यम् समतिक्रमितुम् मम । प्रसादये त्वाम् शिरसा गन्तुम् इच्चाम्य् अहम् वनम् ॥२-२१-२९॥ ऋषिणा च पितुर् वाक्यम् कुर्वता व्रत चारिणा । गौर् हता जानता धर्मम् कण्डुना अपि विपश्चिता ॥२-२१-३०॥ अस्माकम् च कुले पूर्वम् सगरस्य आज्ञया पितुः । खनद्भिः सागरैः भूतिम् अवाप्तः सुमहान् वधः ॥२-२१-३१॥ जामदग्न्येन रामेण रेणुका जननी स्वयम् । कृत्ता परशुना अरण्ये पितुर् वचन कारिणा ॥२-२१-३२॥ एतैरन्यैश्च बहुभिर्देवि देवसमैः कृतम् । पितुर्वचनमक्लीबम् करिष्यामि पितुर्शितम् ॥२-२१-३३॥ न खल्व् एतन् मया एकेन क्रियते पितृ शासनम् । एतैरपि कृतम् देवि ये मया तव कीर्तिताः ॥२-२१-३४॥ नाहम् धर्ममपूर्वम् ते प्रतिकूलम् प्रवर्तये । पूर्वैः अयम् अभिप्रेतः गतः मार्गो अनुगम्यते ॥२-२१-३५॥ तत् एतत् तु मया कार्यम् क्रियते भुवि न अन्यथा । पितुर् हि वचनम् कुर्वन् न कश्चिन् नाम हीयते ॥२-२१-३६॥ ताम् एवम् उक्त्वा जननीम् लक्ष्मणम् पुनर् अब्रवीत् । तव लक्ष्मण जानामि मयि स्नेहम् अनुत्तमम् ॥२-२१-३७॥ तव लक्ष्मण जानामि मयि स्नेहमनुत्तमम् । विक्रमम् चैव सत्यम् च तेजश्च सुदुरासदम् ॥२-२१-३८॥ मम मातुर्महद्दुःखमतुलम् शुभलक्षम्ण । अभिप्रायम् अविज्ञाय सत्यस्य च शमस्य च ॥२-२१-३९॥ धर्मः हि परमः लोके धर्मे सत्यम् प्रतिष्ठितम् । धर्म सम्श्रितम् एतच् च पितुर् वचनम् उत्तमम् ॥२-२१-४०॥ सम्श्रुत्य च पितुर् वाक्यम् मातुर् वा ब्राह्मणस्य वा । न कर्तव्यम् वृथा वीर धर्मम् आश्रित्य तिष्ठता ॥२-२१-४१॥ सो अहम् न शक्ष्यामि पितुर् नियोगम् अतिवर्तितुम् । पितुर् हि वचनात् वीर कैकेय्या अहम् प्रचोदितः ॥२-२१-४२॥ तत् एनाम् विसृज अनार्याम् क्षत्र धर्म आश्रिताम् मतिम् । धर्मम् आश्रय मा तैक्ष्ण्यम् मद् बुद्धिर् अनुगम्यताम् ॥२-२१-४३॥ तम् एवम् उक्त्वा सौहार्दात् भ्रातरम् लक्ष्मण अग्रजः । उवाच भूयः कौसल्याम् प्रान्जलिः शिरसा आनतः ॥२-२१-४४॥ अनुमन्यस्व माम् देवि गमिष्यन्तम् इतः वनम् । शापिता असि मम प्राणैः कुरु स्वस्त्ययनानि मे ॥२-२१-४५॥ तीर्ण प्रतिज्ञः च वनात् पुनर् एष्याम्य् अहम् पुरीम् । ययातिरिव राजर्षिः पुरा हित्वा पुनर्धिवम् ॥२-२१-४६॥ शोकस्सम्धार्यताम् मातर्हृदये साधु मा शुचः । वनवासादिहैष्यामि पुनः कृत्वा पितुर्वचः ॥२-२१-४७॥ त्वया मया च वैदेह्या लक्ष्मणेन सुमित्रया । पितुर्नियोगे स्थातव्यमेष धर्मः सनाअनः ॥२-२१-४८॥ अम्ब सम्हृत्य सम्भारान् दुःखम् हृदि निगृह्य च । वनवासकृता बुद्धिर्मम धर्म्यानुवर्त्यताम् ॥२-२१-४९॥ एतद्वच स्तस्य निशम्य माता । सुधर्म्यमव्यग्रमविक्लबम् च । मृतेव सम्ज्ञाम् प्रतिलभ्य देवी । समीक्ष्य रामम् पुनरित्युवाच ॥२-२१-५०॥ यथैव ते पुत्र पिता तथाहम् । गुरुः स्वधर्मेण सुहृत्तया च । न त्वानुजानामि न मांविहाय । सुदुःखितामर्हसि गन्तुमेवम् ॥२-२१-५१॥ किम् जीवितेनेह विना त्वया मे । लोकेन वा किम् स्वधयाऽमृतेन । श्रेयो मुहूर्तम् तव सन्निधानम् । ममेह कृत्स्नादपि जीवलोकात् ॥२-२१-५२॥ नरैरिवोल्काभिरपोह्यमानो । महागजोऽध्वानमनुप्रविष्टः । भूयः प्रजज्वाल विलापमेवम् । निशम्य रामः करुणम् जनन्या ॥२-२१-५३॥ स मातरम् चैव विसम्ज्ञकल्पा । मार्तम् च सौमित्रि मभिप्रतप्तम् । धर्मे स्थितो धर्म्यमुवाच वाक्यम् । यथा स एवार्हति तत्र वक्तुम् ॥२-२१-५४॥ अहम् हि ते लक्ष्मण नित्यमेव । जानामि भक्तिम् च पराक्रमम् च । मम त्वभिप्राय मसन्निरीक्ष्य । मात्रा सहाभ्यर्दसि मा सुदुःखम् ॥२-२१-५५॥ धर्मार्थकामाः खलु तात लोके । समीक्षिता धर्मफलोदयेषु । ते तत्र सर्वे स्युरसम्शयम् मे । भार्येव वश्याभिमता सुपुत्रा ॥२-२१-५६॥ यस्मिम्स्तु सर्वे स्युरसन्निविष्टा । धर्मो यतः स्यात् तदुपक्रमेत । द्वेष्यो भवत्यर्थपरो हि लोके । कामात्मता खल्वपि न प्रशस्ता ॥२-२१-५७॥ गुरुश्च राजा च पिता च वृद्धः । क्रोधात्प्रहर्ष द्यदि वापि कामात् । यद्व्यादिशेत् कार्यमवेक्ष्य धर्मम् । कस्तन्न कुर्यादनृदनृशम्सवृत्तिः ॥२-२१-५८॥ सवै न शक्नोमि पितुः प्रतिज्ञा । मिमामकर्तुम् सकलम् यथावत् । स ह्यवयोस्तत गुरुर्नियोगे । देवाश्च भर्ता स गतिस्स धर्मः ॥२-२१-५९॥ तस्मिन् पुनर्जीवति धर्मराजे । विशेषतः स्वे पथि वर्तमाने । देवी मया सार्थमितोऽपगच्छेत् । कथम् स्विदन्या विधवेव नारी ॥२-२१-६०॥ सा मानुमन्यस्व वनम् व्रजन्तम् । कुरुष्व नः स्वस्त्ययनानि देवि । यथा समाप्ते पुनराव्रजेयम् । यथा हि स्त्येन पुनर्ययातिः ॥२-२१-६१॥ यशो ह्यहम् केवलराज्यकारणात् । न पृष्ठतः कर्तुमलम् महोदयम् । अदीर्घकाले न तु देवि जीविते । वृणेऽवरामद्य महीमधर्मतः ॥२-२१-६२॥ प्रसादयन् नर वृषभः स मातरम् । पराक्रमाज्जिगमिषुरेव दोम्डकान् । अथ अनुजम् भ्Rशम् अनुशास्य दर्शनम् । चकार ताम् ह्Rदि जननीम् प्रदक्षिणम् ॥२-२१-६३॥ ॥ इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डे एकविम्शः सर्गः ॥ इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे एकविंशः सर्गः ॥२-२१॥