रामायणम्/अयोध्याकाण्डम्/सर्गः ३३
< रामायणम् | अयोध्याकाण्डम्
← सर्गः ३२ | रामायणम्/अयोध्याकाण्डम् अयोध्याकाण्डम् वाल्मीकिः |
सर्गः ३४ → |
रामायणम्/अयोध्याकाण्डम् |
---|
दत्त्वा तु सह वैदेह्या ब्राह्मणेभ्यो धनम् बहु । जग्मतुः पितरम् द्रष्टुम् सीतया सह राघवौ ॥२-३३-१॥ ततो गृहीते दुष्प्रेक्ष्येअशोभेताम् तदा आयुधे । माला दामभिर् आसक्ते सीतया समलम्कृते ॥२-३३-२॥ ततः प्रासाद हर्म्याणि विमान शिखराणि च । अधिरुह्य जनः श्रीमान् उदासीनो व्यलोकयत् ॥२-३३-३॥ न हि रथ्याः स्म शक्यन्ते गन्तुम् बहु जन आकुलाः । आरुह्य तस्मात् प्रासादान् दीनाः पश्यन्ति राघवम् ॥२-३३-४॥ पदातिम् वर्जितच् चत्रम् रामम् दृष्ट्वा तदा जनाः । ऊचुर् बहु विधा वाचः शोक उपहत चेतसः ॥२-३३-५॥ यम् यान्तम् अनुयाति स्म चतुर् अन्ग बलम् महत् । तम् एकम् सीतया सार्धम् अनुयाति स्म लक्ष्मणः ॥२-३३-६॥ ऐश्वर्यस्य रसज्ञः सन् कामिनाम् चैव कामदः । न इच्चति एव अनृतम् कर्तुम् पितरम् धर्म गौरवात् ॥२-३३-७॥ या न शक्या पुरा द्रष्टुम् भूतैः आकाशगैः अपि । ताम् अद्य सीताम् पश्यन्ति राज मार्ग गता जनाः ॥२-३३-८॥ अङ्ग राग उचिताम् सीताम् रक्त चन्दन सेविनीम् । वर्षम् उष्णम् च शीतम् च नेष्यति आशु विवर्णताम् ॥२-३३-९॥ अद्य नूनम् दशरथः सत्त्वम् आविश्य भाषते । न हि राजा प्रियम् पुत्रम् विवासयितुम् अर्हति ॥२-३३-१०॥ निर्गुणस्य अपि पुत्रस्या काथम् स्यात् विप्रवासनम् । किम् पुनर् यस्य लोको अयम् जितः वृत्तेन केवलम् ॥२-३३-११॥ आनृशम्स्यम् अनुक्रोशः श्रुतम् शीलम् दमः शमः । राघवम् शोभयन्ति एते षड् गुणाः पुरुष उत्तमम् ॥२-३३-१२॥ तस्मात् तस्य उपघातेन प्रजाः परम पीडिताः । औदकानि इव सत्त्वानि ग्रीष्मे सलिल सम्क्षयात् ॥२-३३-१३॥ पीडया पीडितम् सर्वम् जगद् अस्य जगत् पतेः । मूलस्य इव उपघातेन वृक्षः पुष्प फल उपगः ॥२-३३-१४॥ मूलं ह्येष मनुष्याणाम् धर्मसारो महाद्युतिः । पुष्पम् फलम् च पत्रम् च शाखाश्चा स्येतरे जनाः ॥२-३३-१५॥ ते लक्ष्मणैव क्षिप्रम् सपत्न्यः सह बान्धवाः । गच्चन्तम् अनुगच्चामः येन गच्चति राघवः ॥२-३३-१६॥ उद्यानानि परित्यज्य क्षेत्राणि च गृहाणि च । एक दुह्ख सुखा रामम् अनुगच्चाम धार्मिकम् ॥२-३३-१७॥ समुद्धृत निधानानि परिध्वस्त अजिराणि च । उपात्त धन धान्यानि हृत साराणि सर्वशः ॥२-३३-१८॥ रजसा अभ्यवकीर्णानि परित्यक्तानि दैवतैः । मूषकैः परिधावद्भिरुद्बिलैरावृतानि च ॥२-३३-१९॥ अपेतोदकधूमानि हीनसम्मार्जनानि च । प्रनष्टबलिकर्मेज्यमन्त्रहोमजपानि च ॥२-३३-२०॥ दुष्कालेनेव भग्नानि भिभाजनवन्ति च । अस्मत् त्यक्तानि वेश्मानि कैकेयी प्रतिपद्यताम् ॥२-३३-२१॥ वनम् नगरम् एव अस्तु येन गच्चति राघवः । अस्माभिः च परित्यक्तम् पुरम् सम्पद्यताम् वनम् ॥२-३३-२२॥ बिलानि दम्ष्ट्रिणः सर्वे सानूनि मृग पक्षिणः । अस्मत् त्यक्तम् प्रपद्यन्ताम् सेव्यमानम् त्यजन्तु च ॥२-३३-२३॥ इति एवम् विविधा वाचो नाना जन समीरिताः । तृणमाम्सफलादानाम् देशम् व्यालमृगद्विजम् ॥२-३३-२४॥ प्रपद्यताम् हि कैकेयी सपुत्रा सहबान्धवैः । राघावेण वने सर्वे सह वत्स्याम निर्वृताः ॥२-३३-२५॥ इत्येवम् विविधा वाचो नानाजनसमीरिताः। शुश्राव रामः श्रुत्वा च न विचक्रे अस्य मानसम् ॥२-३३-२६॥ स तु वेश्म पितुर्दूरा त्कैलासशिखरप्रभम् । अभिचक्राम धर्मात्मा मत्तमातङ्गविक्रमः ॥२-३३-२७॥ विनीतवीरपुरुषं प्रविश्य तु नृपालयम् । ददर्शवस्थितम् दीनम् सुमन्त्रमविदूरतः ॥२-३३-२८॥ प्रतीक्षमाणो अभिजनम् तदा आर्तम् । अनार्त रूपः प्रहसन्न् इव अथ। जगाम रामः पितरम् दिदृक्षुः । पितुर् निदेशम् विधिवच् चिकीर्षुः ॥२-३३-२९॥ तत् पूर्वम् ऐक्ष्वाक सुतः महात्मा । रामः गमिष्यन् वनम् आर्त रूपम् । व्यतिष्ठत प्रेक्ष्य तदा सुमन्त्रम् । पितुर् महात्मा प्रतिहारण अर्थम् ॥२-३३-३०॥ पितुर्निदेशेन तु धर्मवत्सलो । वन प्रवेशे कृत बुद्धि निश्चयः । स राघवः प्रेक्ष्य सुमन्त्रम् अब्रवीन् । निवेदयस्व आगमनम् नृपाय मे ॥२-३३-३१॥ इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे त्रयस्त्रिंशः सर्गः ॥२-३३॥