रामायणम्/अयोध्याकाण्डम्/सर्गः ४७
< रामायणम् | अयोध्याकाण्डम्
← सर्गः ४६ | रामायणम्/अयोध्याकाण्डम् अयोध्याकाण्डम् वाल्मीकिः |
सर्गः ४८ → |
रामायणम्/अयोध्याकाण्डम् |
---|
प्रभातायाम् तु शर्वर्याम् पौराः ते राघवो विना । शोक उपहत निश्चेष्टा बभूवुर् हत चेतसः ॥२-४७-१॥ शोकज अश्रु परिद्यूना वीक्षमाणाः ततः ततः । आलोकम् अपि रामस्य न पश्यन्ति स्म दुह्खिताः ॥२-४७-२॥ ते विषादार्तवदना रहितास्तेन धिमता । कृपणाः करुणा वाचो वदन्ति स्म मनस्विनः ॥२-४७-३॥ धिगस्तु खलु निद्राम् ताम् ययापहृतचेतसः । नाद्य पश्यामहे रामम् पृथूरस्कम् महाभुजम् ॥२-४७-४॥ कथम् नाम महाबाहुः स तथाऽवितथक्रियः । भक्तम् जनम् परित्यज्य प्रवासम् राघवो गतः ॥२-४७-५॥ यो नः सदा पालयति पिता पुत्रानिवौरसान् । कथम् रघूणाम् स श्रेष्ठस्त्यक्त्वा नो विपिनम् गतः ॥२-४७-६॥ इहैव निधनम् यामो महाप्रस्थानमेव वा । रामेण रहितानाम् हि किमर्थम् जीवितम् हि नः ॥२-४७-७॥ सन्ति शुष्काणि काष्ठानि प्रभूतानि महान्ति च । तैः प्रज्वाल्य चिताम् सर्वे प्रविशामोऽथ पावकम् ॥२-४७-८॥ किम् व्ख्स्यामो महाबाहुरनसूयः प्रियम्वद । नीतः स राघवोऽस्माभिर्ति वक्तुम् कथम् क्षमम् ॥२-४७-९॥ सा नूनम् नगरी दीना दृष्ट्वाऽस्मान् राघवम् विना । भविष्यति निरानन्दा सस्त्रीबालवयोधिका ॥२-४७-१०॥ निर्यातास्तेन वीरेण सह नित्यम् जितात्मना । विहिनास्तेन च पुनः कथम् पश्याम ताम् पुरीम् ॥२-४७-११॥ इतीव बहुधा वाचो बाहुमुद्यम्य ते जनाः । विलपन्तिस्म दुःखर्ता विवत्सा इव धेनवः ॥२-४७-१२॥ ततः मार्ग अनुसारेण गत्वा किम्चित् क्षणम् पुनःमार्ग नाशात् विषादेन महता समभिप्लुतः ॥२-४७-१३॥ रथस्य मार्ग नाशेन न्यवर्तन्त मनस्विनः । किम् इदम् किम् करिष्यामः दैवेन उपहताइति ॥२-४७-१४॥ ततः यथा आगतेन एव मार्गेण क्लान्त चेतसः । अयोध्याम् अगमन् सर्वे पुरीम् व्यथित सज्जनाम् ॥२-४७-१५॥ आलोक्य नगरीम् ताम् च क्षयव्याकुलमानसाः । आवर्तयन्त तऽश्रूणि नयनैः शोकपीडितैः ॥२-४७-१६॥ एषा रामेण नगरी रहिता नातिशोभते । आपगा गरुडेनेव ह्रदादुद्धृतपन्नगा ॥२-४७-१७॥ चन्द्रहीनमिवाकाशम् तोयहीनमिवार्णवम् । अपश्यन्निहतानन्दम् नगरम् ते विचेतसः ॥२-४७-१८॥ ते तानि वेश्मानि महाधनानि । दुःखेन दुःखोपहता विशन्तः । नैव प्रजज्ञुः स्वजनम् जनम् वा । निरीक्षमाणाः प्रविणष्टहर्षाः ॥२-४७-१९॥ इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे सप्तचत्वारिंशः सर्गः ॥२-४७॥