रामायणम्/अयोध्याकाण्डम्/सर्गः ८३
← सर्गः ८२ | रामायणम्/अयोध्याकाण्डम् अयोध्याकाण्डम् वाल्मीकिः |
सर्गः ८४ → |
रामायणम्/अयोध्याकाण्डम् |
---|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे त्र्यशीतितमः सर्गः ॥२-८३॥ ततः समुत्थितः काल्यम् आस्थाय स्यन्दन उत्तमम् । प्रययौ भरतः शीघ्रम् राम दर्शन कान्क्षया ॥२-८३-१॥ अग्रतः प्रययुस् तस्य सर्वे मन्त्रि पुरोधसः । अधिरुह्य हयैः युक्तान् रथान् सूर्य रथ उपमान् ॥२-८३-२॥ नव नाग सहस्राणि कल्पितानि यथा विधि । अन्वयुर् भरतम् यान्तम् इक्ष्वाकु कुल नन्दनम् ॥२-८३-३॥ षष्ठी रथ सहस्राणि धन्विनो विविध आयुधाः । अन्वयुर् भरतम् यान्तम् राज पुत्रम् यशस्विनम् ॥२-८३-४॥ शतम् सहस्राणि अश्वानाम् समारूढानि राघवम् । अन्वयुर् भरतम् यान्तम् राज पुत्रम् यशस्विनम् ॥२-८३-५॥ कैकेयी च सुमित्रा च कौसल्या च यशस्विनी । राम आनयन सम्हृष्टा ययुर् यानेन भास्वता ॥२-८३-६॥ प्रयाताः च आर्य सम्घाता रामम् द्रष्टुम् सलक्ष्मणम् । तस्य एव च कथाः चित्राः कुर्वाणा हृष्ट मानसाः ॥२-८३-७॥ मेघ श्यामम् महा बाहुम् स्थिर सत्त्वम् दृढ व्रतम् । कदा द्रक्ष्यामहे रामम् जगतः शोक नाशनम् ॥२-८३-८॥ दृष्टएव हि नः शोकम् अपनेष्यति राघवः । तमः सर्वस्य लोकस्य समुद्यन्न् इव भास्करः ॥२-८३-९॥ इति एवम् कथयन्तः ते सम्प्रहृष्टाः कथाः शुभाः । परिष्वजानाः च अन्योन्यम् ययुर् नागरिकाः तदा ॥२-८३-१०॥ ये च तत्र अपरे सर्वे सम्मता ये च नैगमाः । रामम् प्रति ययुर् हृष्टाः सर्वाः प्रकृतयः तदा ॥२-८३-११॥ मणि काराः च ये केचित् कुम्भ काराः च शोभनाः । सूत्र कर्म कृतः चैव ये च शस्त्र उपजीविनः ॥२-८३-१२॥ मायूरकाः क्राकचिका रोचका वेधकाः तथा । दन्त काराः सुधा काराः तथा गन्ध उपजीविनः ॥२-८३-१३॥ सुवर्ण काराः प्रख्याताः तथा कम्बल धावकाः । स्नापक आच्चादका वैद्या धूपकाः शौण्डिकाः तथा ॥२-८३-१४॥ रजकाः तुन्न वायाः च ग्राम घोष महत्तराः । शैलूषाः च सह स्त्रीभिर् यान्ति कैवर्तकाः तथा ॥२-८३-१५॥ समाहिता वेदविदो ब्राह्मणा वृत्त सम्मताः । गो रथैः भरतम् यान्तम् अनुजग्मुः सहस्रशः ॥२-८३-१६॥ सुवेषाः शुद्ध वसनाः ताम्र मृष्ट अनुलेपनाः । सर्वे ते विविधैः यानैः शनैः भरतम् अन्वयुः ॥२-८३-१७॥ प्रहृष्ट मुदिता सेना सान्वयात् कैकयी सुतम् । भ्रातुरानयने यान्तम् भरतम् भ्रातृवत्सलम् ॥२-८३-१८॥ ते गत्वा दूरमध्वानम् रथम् यानाश्वकुञ्जरैः । समासेदुस्ततो गङ्गाम् शृङ्गिबेरपुरम् प्रति ॥२-८३-१९॥ यत्र रामसखो वीरो गुहो ज्ञातिगणैर्वृतः । निवसत्यप्रमादेन देशम् तम् परिपालयन् ॥२-८३-२०॥ उपेत्य तीरम् गङ्गायाश्चक्रमाकैरलङ्कतम् । व्यवतिष्ठत सा सेना भरतस्य अनुयायिनी ॥२-८३-२१॥ निरीक्ष्य अनुगताम् सेनाम् ताम् च गन्गाम् शिव उदकाम् । भरतः सचिवान् सर्वान् अब्रवीद् वाक्य कोविदः ॥२-८३-२२॥ निवेशयत मे सैन्यम् अभिप्रायेण सर्वशः । विश्रान्तः प्रतरिष्यामः श्वैदानीम् महा नदीम् ॥२-८३-२३॥ दातुम् च तावद् इच्चामि स्वर् गतस्य मही पतेः । और्ध्वदेह निमित्त अर्थम् अवतीर्य उदकम् नदीम् ॥२-८३-२४॥ तस्य एवम् ब्रुवतः अमात्याः तथा इति उक्त्वा समाहिताः । न्यवेशयम्स् तामः चन्देन स्वेन स्वेन पृथक् पृथक् ॥२-८३-२५॥ निवेश्य गन्गाम् अनु ताम् महा नदीम् । चमूम् विधानैः परिबर्ह शोभिनीम् । उवास रामस्य तदा महात्मनो । विचिन्तयानो भरतः निवर्तनम् ॥२-८३-२६॥ इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे त्र्यशीतितमः सर्गः ॥२-८३॥पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।स्रोतः
सम्पाद्यताम्