रामायणम्/अयोध्याकाण्डम्/सर्गः ११६
< रामायणम् | अयोध्याकाण्डम्
← सर्गः ११५ | रामायणम्/अयोध्याकाण्डम् अयोध्याकाण्डम् वाल्मीकिः |
सर्गः ११७ → |
रामायणम्/अयोध्याकाण्डम् |
---|
प्रतिप्रयाते भरते वसन् रामस्तपोवने । लक्षयामास सोद्वेगमथौत्सुक्यं तपस्विनाम् ।। २.११६.१ ।। ये तत्र चित्रकूटस्य पुरस्तात्तापसाश्रमे । राममाश्रित्य निरतास्तानलक्षयदुत्सुकान् ।। २.११६.२ ।। नयनैर्भुकुटीभिश्च रामं निर्दिश्य शङ्किता: । अन्योन्यमुपजल्पन्त: शनैश्चक्रुर्मिथ: कथा: ।। २.११६.३ ।। तेषामौत्सुक्यमालक्ष्य रामस्त्वात्मनि शङ्कित: । कृताञ्जलिरुवाचेदमृषिं कुलपतिं तत: ।। २.११६.४ ।। न कच्चिद्भगवन् किञ्चित्पूर्ववृत्तमिदं मयि । दृश्यते विकृतं येन विक्रियन्ते तपस्विन: ।। २.११६.५ ।। प्रमादाच्चरितं कच्चित्किञ्चिन्नावरजस्य मे । लक्ष्मणस्यर्षिभिर्दृष्टं नानुरूपमिवात्मन: ।। २.११६.६ ।। कच्चिच्छुश्रूषमाणा व: शुश्रूषणपरा मयि । प्र(म)मादाभ्युचितां वृत्तिं सीता युक्तं न वर्तते ।। २.११६.७ ।। अथर्षिर्जरया वृद्धस्तपसा च जरां गत: । वेपमान इवोवाच रामं भूतदयापरम् ।। २.११६.८ ।। कुत: कल्याणसत्त्वाया: कल्याणाभिरतेस्तथा । चलनं तात वैदेह्यास्तपस्विषु विशेषत: ।। २.११६.९ ।। त्वन्निमित्तमिदं तावत्तापसान् प्रति वर्तते । रक्षोभ्यस्तेन संविग्ना: कथयन्ति मिथ: कथा: ।। २.११६.१० ।। रावणावरज: कश्चित् खरो नामेह राक्षस: । उत्पाट्य तापसान् सर्वान् जनस्थाननिकेतनान् ।। २.११६.११ ।। धृष्टश्च जितकाशीं च नृशंस: पुरुषादक: । अवलिप्तश्च पापश्च त्वां च तात न मृष्यते ।। २.११६.१२ ।। त्वं यदाप्रभृति ह्यस्मिन्नाश्रमे तात वर्तसे । तदाप्रभृति रक्षांसि विप्रकुर्वन्ति तापसान् ।। २.११६.१३ ।। दर्शयन्ति हि बीभत्सै: क्रूरैर्भीषणकैरपि । नानारूपैर्विरूपैश्च रूपैर्विकृतदर्शनै: ।। २.११६.१४ ।। अप्रशस्तैरशुचिभि: सम्प्रयोज्य च तापसान् । प्रतिघ्नन्त्यपरान् क्षिप्रमनार्य्या: पुरत: स्थिता: ।। २.११६.१५ ।। तेषु तेष्वाश्रमस्थानेष्वबुद्धमवलीय च । रमन्ते तापसांस्तत्र नाशयन्तो ऽल्पयेतस: ।। २.११६.१६ ।। अपक्षिपन्ति स्रुग्भाण्डानग्नीन् सिञ्चन्ति वारिणा । कलशांश्च प्रमृद्नन्ति हवने समुपस्थिते ।। २.११६.१७ ।। तैर्दुरात्मभिरामृष्टानाश्रमान् प्रजिहासव: । गमनायान्यदेशस्य चोदयन्त्यृषयो ऽद्य माम् ।। २.११६.१८ ।। तत्पुरा राम शारीरीमुपहिंसां तपस्विषु । दर्शयन्ति हि दुष्टास्ते त्यक्ष्याम इममाश्रमम् ।। २.११६.१९ ।। बहुमूलफलं चित्रमविदूरादितो वनम् । पुराणाश्रममेवाहं श्रयिष्ये सगण: पुन: ।। २.११६.२० ।। खरस्त्वय्यपि चायुक्तं पुरा तात प्रवर्त्तते । सहास्माभिरितो गच्छ यदि बुद्धि: प्रवर्त्तते ।। २.११६.२१ ।। सकलत्रस्य सन्देहो नित्यं यत्तस्य राघव । समर्थस्यापि वसतो वासो दु:खमिहाद्य ते ।। २.११६.२२ ।। इत्युक्तवन्तं रामस्तं राजपुत्रस्तपस्विनम् । न शशाकोत्तरैर्वाक्यैरवरोद्धुं समुत्सुक: ।। २.११६.२३ ।। अभिनन्द्य समापृच्छ्य समाधाय च राघवम् । स जगामाश्रमं त्यक्त्वा कुलै: कुलपति: सह ।। २.११६.२४ ।। राम: संसाध्य त्वृषिगणमनुगमनाद्देशात्तस्मात् कुलपतिमभिवाद्य ऋषिम् । सम्यक्प्रीतैस्तैरनुमत उपदिष्टार्थ: पुण्यं वासाय स्वनिलयमुपसम्पेदे ।। २.११६.२५ ।। आश्रमं त्वृषिविरहितं प्रभु: क्षणमपि न विजहौ स राघव: । राघवं हि सततमनुगतास्तापसाश्चार्षचरितधृतगुणा: ।। २.११६.२६ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे षोडशोत्तरशततम: सर्ग: ।। ११६ ।।पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्रस्रोतः
सम्पाद्यताम्