रामायणम्/अयोध्याकाण्डम्/सर्गः ११८
< रामायणम् | अयोध्याकाण्डम्
← सर्गः ११७ | रामायणम्/अयोध्याकाण्डम् अयोध्याकाण्डम् वाल्मीकिः |
सर्गः ११९ → |
रामायणम्/अयोध्याकाण्डम् |
---|
सा त्वेवमुक्ता वैदेही त्वनसूया ऽनसूयया । प्रतिपूज्य वचो मन्दं प्रवक्तुमुपचक्रमे ।। २.११८.१ ।। नैतदाश्चर्य्यमार्याया यन्मां त्वमनुभाषसे । विदितं तु ममाप्येतद्यथा नार्य्या: पतिर्गुरु: ।। २.११८.२ ।। यद्यप्येष भवेद्भर्ता ममार्ये वृत्तवर्जित: । अद्वैधमुपचर्तव्यस्तथाप्येष मया भवेत् ।। २.११८.३ ।। किं पुनर्यो गुण: श्लाघ्य: सानुक्रोशो जितेन्द्रिय: । स्थिरानुरागो धर्मात्मा मातृवत्पितृवत्प्रिय: ।। २.११८.४ ।। यां वृत्तिं वर्त्तते राम: कौसल्यायां महाबल: । तामेव नृपनारीणामन्यासामपि वर्त्तते ।। २.११८.५ ।। सकृद्दृष्टास्वपि स्त्रीषु नृपेण नृपवत्सल: । मातृवद्वर्त्तते वीरो मानमुत्सृज्य धर्मवित् ।। २.११८.६ ।। आगच्छन्त्याश्च विजनं वनमेवं भयावहम् । समाहितं मे श्वश्र्वा च हृदये तद्धृतं महत् ।। २.११८.७ ।। पाणिप्रदानकाले च यत्पुरा त्वग्निसन्निधौ । अनुशिष्टा जनन्या ऽस्मि वाक्यं तदपि मे धृतम् ।। २.११८.८ ।। नवीकृतं च तत्सर्वं वाक्यैस्ते धर्मचारिणि । पतिशुश्रूषणान्नार्य्यास्तपो नान्यद्विधीयते ।। २.११८.९ ।। सावित्री पतिशुश्रूषां कृत्वा स्वर्गे महीयते । तथावृत्तिश्च याता त्वं पतिशुश्रूषया दिवम् ।। २.११८.१० ।। वरिष्ठा सर्वनारीणामेषा च दिवि देवता । रोहिणी न विना चन्द्रं मुहूर्त्तमपि दृश्यते ।। २.११८.११ ।। एवंविधाश्च प्रवरा: स्त्रियो भर्तृदृढव्रता: । देवलोके महीयन्ते पुण्येन स्वेन कर्मणा ।। २.११८.१२ ।। ततो ऽनसूया संहृष्टा श्रुत्वोक्तं सीतया वच: । शिरस्याघ्राय चोवाच मैथिलीं हर्षयन्त्युत ।। २.११८.१३ ।। नियमैर्विविधैराप्तं तपो हि महदस्ति मे । तत्संश्रित्य बलं सीते छन्दये त्वां शुचिस्मिते ।। २.११८.१४ ।। उपपन्नं मनोज्ञं च वचनं तव मैथिलि । प्रीता चास्म्युचितं किं ते करवाणि ब्रवीहि मे ।। २.११८.१५ ।। तस्यास्तद्वचनं श्रुत्वा विस्मिता मन्दविस्मया कृतमित्यब्रवीत्सीता तपोबलसमन्विताम् ।। २.११८.१६ ।। सा त्वेवमुक्ता धर्मज्ञा तया प्रीततरा ऽभवत् । सफलं च प्रहर्षं ते हन्त सीते करोम्यहम् ।। २.११८.१७ ।। इदं दिव्यं वरं माल्यं वस्त्रमाभरणानि च । अङ्गरागं च वैदेहि महार्हं चानुलेपनम् ।। २.११८.१८ ।। मया दत्तमिदं सीते तव गात्राणि शोभयेत् । अनुरूपमसंक्लिष्टं नित्यमेव भविष्यति ।। २.११८.१९ ।। अङ्गरागेण दिव्येन लिप्ताङ्गी जनकात्मजे । शोभयिष्यसि भर्त्तारं यथा श्रीविष्णुमव्ययम् ।। २.११८.२० ।। सा वस्त्रमङ्गरागं च भूषणानि स्रजस्तथा । मैथिली प्रतिजग्राह प्रीतिदानमनुत्तमम् ।। २.११८.२१ ।। प्रतिगृह्य च तत् सीता प्रीतिदानं यशस्विनी । श्लिष्टाञ्जलिपुटा तत्र समुपास्त तपोधनाम् ।। २.११८.२२ ।। तथा सीतासुपासीनामनसूया दृढव्रता । वचनं प्रष्टुमारेभे काञ्चित् प्रियकथामनु ।। २.११८.२३ ।। स्वयंवरे किल प्राप्ता त्वमनेन यशस्विना । राघवेणेति मे सीते कथा श्रुतिमुपागता ।। २.११८.२४ ।। तां कथां श्रोतुमिच्छामि विस्तरेण च मैथिलि । यथानुभूतं कार्त्स्न्येन तन्मे त्वं वक्तुमर्हसि ।। २.११८.२५ ।। एवमुक्ता तु सा सीता तां ततो धर्मचारिणीम् । श्रूयतामिति चोक्त्वा वै कथयामास तां कथाम् ।। २.११८.२६ ।। मिथिलाधिपतिर्वीरो जनको नाम धर्मवित् । क्षत्रधर्मे ह्यभिरतो न्यायत: शास्ति मेदिनीम् ।। २.११८.२७ ।। तस्य लाङ्गलहस्तस्य कर्षत: क्षेत्रमण्डलम् । अहं किलोत्थिता भित्त्वा जगतीं नृपते: सुता ।। २.११८.२८ ।। स मां दृष्ट्वा नरपतिर्मुष्टिविक्षेपतत्पर: । पांसुकुण्ठितसर्वाङ्गीं जनको विस्मितो ऽभवत् ।। २.११८.२९ ।। अनपत्येन च स्नेहादङ्कमारोप्य च स्वयम् । ममेयं तनयेत्युक्त्वा स्नेहो मयि निपातित: ।। २.११८.३० ।। अन्तरिक्षे च वागुक्ता प्रति मा ऽमानुषी किल । एवमेतन्नरपते धर्मेण तनया तव ।। २.११८.३१ ।। तत: प्रहृष्टो धर्मात्मा पिता मे मिथिलाधिप: । अवाप्तो विपुलामृद्धिं मामवाप्य नराधिप: ।। २.११८.३२ ।। दत्ता चास्मीष्टवद्देव्यै ज्येष्ठायै पुण्यकर्मणा । तया सम्भाविता चास्मि स्निग्धया मातृसौहृदात् ।। २.११८.३३ ।। पतिसंयोगसुलभं वयो दृष्ट्वा तु मे पिता । चिन्तामभ्यगमद्दीनो वित्तनाशादिवाधन: ।। २.११८.३४ ।। सदृशाच्चापकृष्टाच्च लोके कन्यापिता जनात् । प्रधर्षणमवाप्नोति शक्रेणापि समो भुवि ।। २.११८.३५ ।। तां धर्षणामदूरस्थां दृष्ट्वा चात्मनि पार्थिव: । चिन्तार्णवगत: पारं नाससादाप्लवो यथा ।। २.११८.३६ ।। अयोनिजां हि मां ज्ञात्वा नाध्यगच्छद्विचिन्तयन् । सदृशं चानुरूपं च महीपाल: पतिं मम ।। २.११८.३७ ।। तस्य बुद्धिरियं जाता चिन्तयानस्य सन्ततम् । स्वयं वरं तनूजाया: करिष्यामीति धीमत: ।। २.११८.३८ ।। महायज्ञे तदा तस्य वरुणेन महात्मना । दत्तं धनुर्वरं प्रीत्या तूणी चाक्षयसायकौ ।। २.११८.३९ ।। असञ्चाल्यं मनुष्यैश्च यत्नेनापि च गौरवात् । तन्न शक्ता नमयितुं स्वप्नेष्वपि नराधिपा: ।। २.११८.४० ।। तद्धनु: प्राप्य मे पित्रा व्याहृतं सत्यवादिना । समवाये नरेन्द्राणां पूर्वमामन्त्र्य पार्थिवान् ।। २.११८.४१ ।। इदं च धनुरुद्यम्य सज्यं य: कुरुते नर: । तस्य मे दुहिता भार्या भविष्यति न संशय: ।। २.११८.४२ ।। तच्च दृष्ट्वा धनु: श्रेष्ठं गौरवाद्गिरिसन्निभम् । अभिवाद्य नृपा जग्मुरशक्तास्तस्य तोलने ।। २.११८.४३ ।। सुदीर्घस्य तु कालस्य राघवो ऽयं महाद्युति: । विश्वामित्रेण सहितो यज्ञं द्रष्टुं समागत: । लक्ष्मणेन सह भ्रात्रा राम: सत्यपराक्रम: ।। २.११८.४४ ।। विश्वामित्रस्तु धर्मात्मा मम पित्रा सुपूजित: । प्रोवाच पितरं तत्र भ्रातरौ रामलक्ष्मणौ ।। २.११८.४५ ।। सुतौ दशरथस्येमौ धनुर्दर्शनकांक्षिणौ । धनुर्दर्शय रामाय राजपुत्राय दैविकम् ।। २.११८.४६ ।। इत्युक्तस्तेन विप्रेण तद्धनु: समुपानयत् । निमेषान्तरमात्रेण तदानम्य स वीर्य्यवान् ।। २.११८.४७ ।। ज्यां समारोप्य झटिति पूरयामास वीर्यवत् ।। २.११८.४८ ।। तेन पूरयता वेगान्मध्ये भग्नं द्विधा धनु: । तस्य शब्दो ऽभवद्भीम: पतितस्याशनेरिव ।। २.११८.४९ ।। ततो ऽहं तत्र रामाय पित्रा सत्याभिसन्धिना । निश्चिता दातुमुद्यम्य जलभाजनमुत्तमम् ।। २.११८.५० ।। दीयमानां न तु तदा प्रतिजग्राह राघव: । अविज्ञाय पितुश्छन्दमयोध्याधिपते: प्रभो: ।। २.११८.५१ ।। तत: श्वशुरमामन्त्र्य वृद्धं दशरथं नृपम् । मम पित्रा त्वहं दत्ता रामाय विदितात्मने ।। २.११८.५२ ।। मम चैवानुजा साध्वी ऊर्मिला प्रियदर्शना । भार्य्यार्थे लक्ष्मणस्यापि दत्ता पित्रा मम स्वयम् ।। २.११८.५३ ।। एवं दत्तास्मि रामाय तदा तस्मिन् स्वयम्वरे । अनुरक्तास्मि धर्मेण पतिं वीर्यवतां वरम् ।। २.११८.५४ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टादशोत्तरशततम: सर्ग: ।। ११८ ।।पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्रस्रोतः
सम्पाद्यताम्