रामायणम्/अयोध्याकाण्डम्/सर्गः ४४
< रामायणम् | अयोध्याकाण्डम्
← सर्गः ४३ | रामायणम्/अयोध्याकाण्डम् अयोध्याकाण्डम् वाल्मीकिः |
सर्गः ४५ → |
रामायणम्/अयोध्याकाण्डम् |
---|
विलपन्तीम् तथा ताम् तु कौसल्याम् प्रमद उत्तमाम् । इदम् धर्मे स्थिता धर्म्यम् सुमित्रा वाक्यम् अब्रवीत् ॥२-४४-१॥ तव आर्ये सद् गुणैः युक्तः पुत्रः स पुरुष उत्तमः । किम् ते विलपितेन एवम् कृपणम् रुदितेन वा ॥२-४४-२॥ यः तव आर्ये गतः पुत्रः त्यक्त्वा राज्यम् महा बलः । साधु कुर्वन् महात्मानम् पितरम् सत्य वादिनाम् ॥२-४४-३॥ शिष्टैः आचरिते सम्यक् शश्वत् प्रेत्य फल उदये । रामः धर्मे स्थितः श्रेष्ठो न स शोच्यः कदाचन ॥२-४४-४॥ वर्तते च उत्तमाम् वृत्तिम् लक्ष्मणो अस्मिन् सदा अनघः । दयावान् सर्व भूतेषु लाभः तस्य महात्मनः ॥२-४४-५॥ अरण्य वासे यद् दुह्खम् जानती वै सुख उचिता । अनुगच्चति वैदेही धर्म आत्मानम् तव आत्मजम् ॥२-४४-६॥ कीर्ति भूताम् पताकाम् यो लोके भ्रामयति प्रभुः । दम सत्य व्रत परः किम् न प्राप्तः तव आत्मजः ॥२-४४-७॥ व्यक्तम् रामस्य विज्ञाय शौचम् माहात्म्यम् उत्तमम् । न गात्रम् अम्शुभिः सूर्यः सम्तापयितुम् अर्हति ॥२-४४-८॥ शिवः सर्वेषु कालेषु काननेभ्यो विनिह्सृतः । राघवम् युक्त शीत उष्णः सेविष्यति सुखो अनिलः ॥२-४४-९॥ शयानम् अनघम् रात्रौ पिता इव अभिपरिष्वजन् । रश्मिभिः सम्स्पृशन् शीतैः चन्द्रमा ह्लादयिष्यति ॥२-४४-१०॥ ददौ च अस्त्राणि दिव्यानि यस्मै ब्रह्मा महा ओजसे । दानव इन्द्रम् हतम् दृष्ट्वा तिमि ध्वज सुतम् रणे ॥२-४४-११॥ स शूरः पुरुषव्याघ्रः स्वबाहुबलमाश्रितः । असन्त्रस्तोऽ प्यरण्यस्थो वेश्मनीव निवत्स्यति ॥२-४४-१२॥ यस्येषुपदमासाद्य विनाशम् यान्ति शत्रवः । कथम् न प्R^थिवी तस्य शासने स्थातुमर्हति ॥२-४४-१३॥ या श्रीःशौर्यम् च रामस्य या च कल्याणसत्वता । निवृत्तारण्यवासः स्वं क्षिप्रम् राज्यमवाप्स्यति ॥२-४४-१४॥ सूर्यस्यापि भवेत्सूर्योह्यग्नेरग्निः प्रभोः प्रभोः । श्रियश्च श्रीर्भवेदग्र्या कीर्त्याः क्षमाक्षमा ॥२-४४-१५॥ दैवतम् दैवतानाम् च भूतानाम् भूतसत्तमः । तस्य केह्यगुणा देवि वने वा प्यथवा पुरे ॥२-४४-१६॥ पृथिव्या सह वैदेह्या श्रिया च पुरुष ऋषभः । क्षिप्रम् तिसृभिर् एताभिः सह रामः अभिषेक्ष्यते ॥२-४४-१७॥ दुह्खजम् विसृजन्ति अस्रम् निष्क्रामन्तम् उदीक्ष्य यम् । समुत्स्रक्ष्यसि नेत्राभ्याम् क्षिप्रम् आनन्दजम् पयः ॥२-४४-१८॥ कुशचीरधरम् देवम् गच्छन्तमपराजितम् । सीतेवानुगता लक्ष्मीस्तस्य किम् नाम दुर्लभम् ॥२-४४-१९॥ धनुर्ग्रहवरो यस्य बाणखड्गास्त्रभृत्स्वयम् । लक्ष्मणोव्रजति ह्यग्रे तस्य किम् नाम दुर्लभम् ॥२-४४-२०॥ निवृत्तवनवासम् तम् द्रष्टासि पुनरागतम् । जहिशोकम् च मोहम् च देवि सत्यम् ब्रवीमि ते ॥२-४४-२१॥ शिरसा चरणावेतौ वन्दमानमनिन्दिते । पुनर्द्रक्ष्यसि कल्याणि! पुत्रं चन्द्रमिवोदितम् ॥२-४४-२२॥ पुनः प्रविष्टम् द्R^ष्ट्वा तमभिषिक्तम् महाश्रियम् । समुत्स्रक्ष्यसि नेत्राभ्याम् क्षिप्रमान्न्दजम् पयः ॥२-४४-२३॥ मा शोको देवि दुःखम् वा न राअमे दृअह्य्RWऽशिवम् । क्षिप्रम् द्रक्ष्यसि पुत्रम् त्वम् ससीतम् सह लक्ष्मणम् ॥२-४४-२४॥ त्वया शेषोओ जनश्चैव समाश्वास्यो यदाऽनघे । किमिदानीमिदम् देवि करोषि हृदि विक्लबम् ॥२-४४-२५॥ नार्हा त्वम् शोचितुम् देवि यस्यास्ते राघवस्सुतः । न हि रामात्परो लोके विद्यते सत्पथे स्थितः ॥२-४४-२६॥ अभिवादयमानम् तम् दृष्ट्वा ससुहृदम् सुतम् । मुदा अश्रु मोक्ष्यसे क्षिप्रम् मेघ लेका इव वार्षिकी ॥२-४४-२७॥ पुत्रः ते वरदः क्षिप्रम् अयोध्याम् पुनर् आगतः । पाणिभ्याम् मृदुपीनाभ्याम् चरणौ पीडयिष्यति ॥२-४४-२८॥ अभिवाद्य नमस्यन्तम् शूरम् ससुहृदम् सुतम् । मुदास्रैः प्रोक्ष्यसि पुनर्मेघराजि रिवाचलम् ॥२-४४-२९॥ आश्वासयन्ती विविधैश्च वाक्यै । र्वाक्योपचारे कुशलानाद्या । रामस्य ताम् मातरमेवमुक्त्वा । देवी सुमित्राविरराम रामा ॥२-४४-३०॥ निशम्य तल् लक्ष्मण मातृ वाक्यम् । रामस्य मातुर् नर देव पत्न्याः । सद्यः शरीरे विननाश शोकः । शरद् गतः मेघैव अल्प तोयः ॥२-४४-३१॥ इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे चतुश्चत्वारिंशः सर्गः ॥२-४४॥