रामायणम्/अयोध्याकाण्डम्/सर्गः २७
< रामायणम् | अयोध्याकाण्डम्
← सर्गः २६ | रामायणम्/अयोध्याकाण्डम् अयोध्याकाण्डम् वाल्मीकिः |
सर्गः २८ → |
रामायणम्/अयोध्याकाण्डम् |
---|
एवम् उक्ता तु वैदेही प्रिय अर्हा प्रिय वादिनी । प्रणयात् एव सम्क्रुद्धा भर्तारम् इदम् अब्रवीत् ॥२-२७-१॥ किमिदम् भाषसे राम वाक्यम् लघुतया ध्रुवम् । त्वया यदपहास्यम् मे श्रुत्वा नरवरात्मज ॥२-२७-२॥ आर्य पुत्र पिता माता भ्राता पुत्रः तथा स्नुषा । स्वानि पुण्यानि भुन्जानाः स्वम् स्वम् भाग्यम् उपासते ॥२-२७-३॥ भर्तुर् भाग्यम् तु भार्या एका प्राप्नोति पुरुष ऋषभ । अतः चैव अहम् आदिष्टा वने वस्तव्यम् इति अपि ॥२-२७-४॥ न पिता न आत्मजो न आत्मा न माता न सखी जनः । इह प्रेत्य च नारीणाम् पतिर् एको गतिः सदा ॥२-२७-५॥ यदि त्वम् प्रस्थितः दुर्गम् वनम् अद्य एव राघव । अग्रतः ते गमिष्यामि मृद्नन्ती कुश कण्टकान् ॥२-२७-६॥ ईर्ष्या रोषौ बहिष् कृत्य भुक्त शेषम् इव उदकम् । नय माम् वीर विश्रब्धः पापम् मयि न विद्यते ॥२-२७-७॥ प्रासाद अग्रैः विमानैः वा वैहायस गतेन वा । सर्व अवस्था गता भर्तुः पादच् चाया विशिष्यते ॥२-२७-८॥ अनुशिष्टा अस्मि मात्रा च पित्रा च विविध आश्रयम् । न अस्मि सम्प्रति वक्तव्या वर्तितव्यम् यथा मया ॥२-२७-९॥ अहम् दुर्गम् गमिष्यामि वनम् पुरुषवर्जितम् । नानामृगगणाकीर्णम् शार्दूलवृकसेवितम् ॥२-२७-१०॥ सुखम् वने निवत्स्यामि यथा एव भवने पितुः । अचिन्तयन्ती त्रीम्ल् लोकामः चिन्तयन्ती पति व्रतम् ॥२-२७-११॥ शुश्रूषमाणा ते नित्यम् नियता ब्रह्म चारिणी । सह रम्स्ये त्वया वीर वनेषु मधु गन्धिषु ॥२-२७-१२॥ त्वम् हि कर्तुम् वने शक्तः राम सम्परिपालनम् । अन्यस्य पै जनस्य इह किम् पुनर् मम मानद ॥२-२७-१३॥ सह त्वया गमिश्यामि वसमद्य न सम्शयः । नाहम् शक्या महाभाग निवर्तयितु मुद्यता ॥२-२७-१४॥ फल मूल अशना नित्यम् भविष्यामि न सम्शयः । न ते दुह्खम् करिष्यामि निवसन्ती सह त्वया ॥२-२७-१५॥ इच्चामि सरितः शैलान् पल्वलानि वनानि च । द्रष्टुम् सर्वत्र निर्भीता त्वया नाथेन धीमता ॥२-२७-१६॥ हम्स कारण्डव आकीर्णाः पद्मिनीः साधु पुष्पिताः । इच्चेयम् सुखिनी द्रष्टुम् त्वया वीरेण सम्गता ॥२-२७-१७॥ अभिषेकम् करिष्यामि तासु नित्यम् यतव्रता । सह त्वया विशाल अक्ष रम्स्ये परम नन्दिनी ॥२-२७-१८॥ एवम् वर्ष सहस्राणाम् शतम् वा अहम् त्वया सह । व्यतिक्रमम् न वेत्स्यामि स्वर्गोऽपि हि न मे मतः ॥२-२७-१९॥ स्वर्गे अपि च विना वासो भविता यदि राघव । त्वया मम नर व्याघ्र न अहम् तम् अपि रोचये ॥२-२७-२०॥ अहम् गमिष्यामि वनम् सुदुर्गमम् । मृग आयुतम् वानर वारणैः युतम् । वने निवत्स्यामि यथा पितुर् गृहे । तव एव पादाव् उपगृह्य सम्मता ॥२-२७-२१॥ अनन्य भावाम् अनुरक्त चेतसम् । त्वया वियुक्ताम् मरणाय निश्चिताम् । नयस्व माम् साधु कुरुष्व याचनाम् । न ते मया अतः गुरुता भविष्यति ॥२-२७-२२॥ तथा ब्रुवाणाम् अपि धर्म वत्सलो । न च स्म सीताम् नृ वरः निनीषति । उवाच च एनाम् बहु सम्निवर्तने । वने निवासस्य च दुह्खिताम् प्रति ॥२-२७-२३॥ ॥ इति श्रिमद् रामयने अयोध्य कान्दे षत्विम्सः सर्गः ॥ इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे सप्तविंशः सर्गः ॥२-२७॥