रामायणम्/अयोध्याकाण्डम्/सर्गः ८८
< रामायणम् | अयोध्याकाण्डम्
← सर्गः ८७ | रामायणम्/अयोध्याकाण्डम् अयोध्याकाण्डम् वाल्मीकिः |
सर्गः ८९ → |
रामायणम्/अयोध्याकाण्डम् |
---|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अष्टाशीतितमः सर्गः ॥२-८८॥ तत् श्रुत्वा निपुणम् सर्वम् भरतः सह मन्त्रिभिः । इन्गुदी मूलम् आगम्य राम शय्याम् अवेक्ष्य ताम् ॥२-८८-१॥ अब्रवीद् जननीः सर्वा इह तेन महात्मना । शर्वरी शयिता भूमाउ इदम् अस्य विमर्दितम् ॥२-८८-२॥ महा भाग कुलीनेन महा भागेन धीमता । जातो दशरथेन ऊर्व्याम् न रामः स्वप्तुम् अर्हति ॥२-८८-३॥ अजिन उत्तर सम्स्तीर्णे वर आस्तरण सम्चये । शयित्वा पुरुष व्याघ्रः कथम् शेते मही तले ॥२-८८-४॥ प्रासाद अग्र विमानेषु वलभीषु च सर्वदा । हैम राजत भौमेषु वर आस्त्ररण शालिषु ॥२-८८-५॥ पुष्प सम्चय चित्रेषु चन्दन अगरु गन्धिषु । पाण्डुर अभ्र प्रकाशेषु शुक सम्घ रुतेषु च ॥२-८८-६॥ प्रासादवरवर्येषु शीतवत्सु सुगन्धिषु । उषित्वा मेरुकल्पेषु कृतकाम्चनभित्तिषु ॥२-८८-७॥ गीत वादित्र निर्घोषैर् वर आभरण निह्स्वनैः । मृदन्ग वर शब्दैः च सततम् प्रतिबोधितः ॥२-८८-८॥ बन्दिभिर् वन्दितः काले बहुभिः सूत मागधैः । गाथाभिर् अनुरूपाभिः स्तुतिभिः च परम्तपः ॥२-८८-९॥ अश्रद्धेयम् इदम् लोके न सत्यम् प्रतिभाति मा । मुह्यते खलु मे भावः स्वप्नो अयम् इति मे मतिः ॥२-८८-१०॥ न नूनम् दैवतम् किम्चित् कालेन बलवत्तरम् । यत्र दाशरथी रामो भूमाउ एवम् शयीत सः ॥२-८८-११॥ विदेह राजस्य सुता सीता च प्रिय दर्शना । दयिता शयिता भूमौ स्नुषा दशरथस्य च ॥२-८८-१२॥ इयम् शय्या मम भ्रातुर् इदम् हि परिवर्तितम् । स्थण्डिले कठिने सर्वम् गात्रैर् विमृदितम् तृणम् ॥२-८८-१३॥ मन्ये साभरणा सुप्ता सीता अस्मिन् शयने तदा । तत्र तत्र हि दृश्यन्ते सक्ताः कनक बिन्दवः ॥२-८८-१४॥ उत्तरीयम् इह आसक्तम् सुव्यक्तम् सीतया तदा । तथा ह्य् एते प्रकाशन्ते सक्ताः कौशेय तन्तवः ॥२-८८-१५॥ मन्ये भर्तुः सुखा शय्या येन बाला तपस्विनी । सुकुमारी सती दुह्खम् न विजानाति मैथिली ॥२-८८-१६॥ हा हन्तास्मि नृशम्सोऽहम् यत्सभार्यः कृतेमम । ईदृशीं राघवः शय्यामधिशेते ह्यानाथवत् ॥२-८८-१७॥ सार्वभौम कुले जातः सर्व लोक सुख आवहः । सर्व लोक प्रियः त्यक्त्वा राज्यम् प्रियम् अनुत्तमम् ॥२-८८-१८॥ कथम् इन्दीवर श्यामो रक्त अक्षः प्रिय दर्शनः । सुख भागी च दुह्ख अर्हः शयितो भुवि राघवः ॥२-८८-१९॥ धन्यः खलु महाभागो लक्ष्मणः शुभलक्षमणः । भ्रातरम् विषमे काले यो राममनुवर्तते ॥२-८८-२०॥ सिद्ध अर्था खलु वैदेही पतिम् या अनुगता वनम् । वयम् सम्शयिताः सर्वे हीनाः तेन महात्मना ॥२-८८-२१॥ अकर्ण धारा पृथिवी शून्या इव प्रतिभाति मा । गते दशरथे स्वर्गे रामे च अरण्यम् आश्रिते ॥२-८८-२२॥ न च प्रार्थयते कश्चिन् मनसा अपि वसुम्धराम् । वने अपि वसतः तस्य बाहु वीर्य अभिरक्षिताम् ॥२-८८-२३॥ शून्य सम्वरणा रक्षाम् अयन्त्रित हय द्विपाम् । अपावृत पुर द्वाराम् राज धानीम् अरक्षिताम् ॥२-८८-२४॥ अप्रहृष्ट बलाम् न्यूनाम् विषमस्थाम् अनावृताम् । शत्रवो न अभिमन्यन्ते भक्ष्यान् विष कृतान् इव ॥२-८८-२५॥ अद्य प्रभृति भूमौ तु शयिष्ये अहम् तृणेषु वा । फल मूल अशनो नित्यम् जटा चीराणि धारयन् ॥२-८८-२६॥ तस्य अर्थम् उत्तरम् कालम् निवत्स्यामि सुखम् वने । तम् प्रतिश्रवम् आमुच्य न अस्य मिथ्या भविष्यति ॥२-८८-२७॥ वसन्तम् भ्रातुर् अर्थाय शत्रुघ्नो मा अनुवत्स्यति । लक्ष्मणेन सह तु आर्यो अयोध्याम् पालयिष्यति ॥२-८८-२८॥ अभिषेक्ष्यन्ति काकुत्स्थम् अयोध्यायाम् द्विजातयः । अपि मे देवताः कुर्युर् इमम् सत्यम् मनो रथम् । प्रसाद्यमानः शिरसा मया स्वयम् । बहु प्रकारम् यदि न प्रपत्स्यते ॥२-८८-२९॥ ततोन्रुवत्सयामि चिराय राघवम् । वनेचरम् नह्रुति माम्रुपेक्षित्रुम् ॥२-८८-३०॥ इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे अष्टाशीतितमः सर्गः ॥२-८८॥पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्रस्रोतः
सम्पाद्यताम्पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्रस्रोतः
सम्पाद्यताम्*रामायण **रामायण बालकाण्ड **रामायण अयोध्याकाण्ड **रामायण अरण्यकाण्ड **रामायण किष्किन्धाकाण्ड **रामायण सुन्दरकाण्ड **रामायण युद्धकाण्ड **रामायण उत्तरकाण्डसंबंधित कड़ियाँ
सम्पाद्यताम्बाहरी कडियाँ
सम्पाद्यताम्